📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मज्झिमनिकाये

मूलपण्णास-टीका

(पठमो भागो)

गन्थारम्भकथावण्णना

. संवण्णनारम्भे रतनत्तयवन्दना संवण्णेतब्बस्स धम्मस्स पभवनिस्सयविसुद्धिपटिवेदनत्थं, तं पन धम्मसंवण्णनासु विञ्ञूनं बहुमानुप्पादनत्थं, तं सम्मदेव तेसं उग्गहधारणादिक्कमलद्धब्बाय सम्मापटिपत्तिया सब्बहितसुखनिप्फादनत्थं. अथ वा मङ्गलभावतो, सब्बकिरियासु पुब्बकिच्चभावतो, पण्डितेहि समाचरितभावतो, आयतिं परेसं दिट्ठानुगतिआपज्जनतो च संवण्णनायं रतनत्तयपणामकिरिया. अथ वा रतनत्तयपणामकरणं पूजनीयपूजापुञ्ञविसेसनिब्बत्तनत्थं. तं अत्तनो यथालद्धसम्पत्तिनिमित्तकस्स कम्मस्स बलानुप्पदानत्थं. अन्तरा च तस्स असङ्कोचनत्थं. तदुभयं अनन्तरायेन अट्ठकथाय परिसमापनत्थं. इदमेव च पयोजनं आचरियेन इधाधिप्पेतं. तथा हि वक्खति ‘‘इति मे पसन्नमतिनो…पे… तस्सानुभावेना’’ति. वत्थुत्तयपूजाहि निरतिसयपुञ्ञक्खेत्तसंबुद्धिया अपरिमेय्यपभावो पुञ्ञातिसयोति बहुविधन्तरायेपि लोकसन्निवासे अन्तरायनिबन्धनसकलसंकिलेसविद्धंसनाय पहोति. भयादिउपद्दवञ्च निवारेति. यथाह –

‘‘पूजारहे पूजयतो. बुद्धे यदि व सावके’’तिआदि (ध. प. १९५; अप. १.१०.१), तथा

‘‘ये, भिक्खवे, बुद्धे पसन्ना, अग्गे ते पसन्ना, अग्गे खो पन पसन्नानं अग्गो विपाको होती’’तिआदि (इतिवु. ९०, ९१),

‘‘बुद्धोति कित्तयन्तस्स, काये भवति या पीति;

वरमेव हि सा पीति, कसिणेनपि जम्बुदीपस्स.

धम्मोति कित्तयन्तस्स…पे… कसिणेनपि जम्बुदीपस्स;

सङ्घोति कित्तयन्तस्स…पे… कसिणेनपि जम्बुदीपस्सा’’ति. (इतिवु. अट्ठ. ९०),

तथा –

‘‘यस्मिं महानाम समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोस…पे… न मोहपरियुट्ठितं चित्तं होती’’तिआदि (अ. नि. ६.१०; ११.११),

‘‘अरञ्ञे रुक्खमूले वा…पे…

भयं वा छम्भितत्तं वा,

लोमहंसो न हेस्सती’’ति च. (सं. नि. २.२४९);

तत्थ यस्स वत्थुत्तयस्स वन्दनं कत्तुकामो, तस्स गुणातिसययोगसन्दस्सनत्थं ‘‘करुणासीतलहदय’’न्तिआदिना गाथात्तयमाह. गुणातिसययोगेन हि वन्दनारहभावो, वन्दनारहे च कता वन्दना यथाधिप्पेतं पयोजनं साधेतीति. तत्थ यस्सा देसनाय संवण्णनं कत्तुकामो. सा न विनयदेसना विय करुणाप्पधाना, नापि अभिधम्मदेसना विय पञ्ञाप्पधाना, अथ खो करुणापञ्ञाप्पधानाति तदुभयप्पधानमेव ताव सम्मासम्बुद्धस्स थोमनं कातुं तम्मूलकत्ता सेसरतनानं ‘‘करुणासीतलहदय’’न्तिआदि वुत्तं. तत्थ किरतीति करुणा, परदुक्खं विक्खिपति अपनेतीति अत्थो. अथ वा किणातीति करुणा, परदुक्खे सति कारुणिकं हिंसति विबाधतीति अत्थो. परदुक्खे सति साधूनं कम्पनं हदयखेदं करोतीति वा करुणा. अथ वा कमिति सुखं, तं रुन्धतीति करुणा. एसा हि परदुक्खापनयनकामतालक्खणा अत्तसुखनिरपेक्खताय कारुणिकानं सुखं रुन्धति विबन्धतीति अत्थो. करुणाय सीतलं करुणासीतलं, करुणासीतलं हदयं अस्साति करुणासीतलहदयो, तं करुणासीतलहदयं.

तत्थ किञ्चापि परेसं हितोपसंहारसुखादिअपरिहानिच्छनसभावताय, ब्यापादारतीनं उजुविपच्चनीकताय च परसत्तसन्तानगतसन्तापविच्छेदनाकारप्पवत्तिया मेत्तामुदितानम्पि चित्तसीतलभावकारणता उपलब्भति, तथापि परदुक्खापनयनाकारप्पवत्तिया परूपतापासहनरसा अविहिंसाभूता करुणाव विसेसेन भगवतो चित्तस्स चित्तपस्सद्धि विय सीतिभावनिमित्तन्ति वुत्तं ‘‘करुणासीतलहदय’’न्ति. करुणामुखेन वा मेत्तामुदितानम्पि हदयसीतलभावकारणता वुत्ताति दट्ठब्बं. अथ वा असाधारणञाणविसेसनिबन्धनभूता सातिसयं निरवसेसञ्च सब्बञ्ञुतञ्ञाणं विय सविसयब्यापिताय महाकरुणाभावं उपगता करुणाव भगवतो अतिसयेन हदयसीतलभावहेतूति आह ‘‘करुणासीतलहदय’’न्ति. अथ वा सतिपि मेत्तामुदितानं सातिसये हदयसीतिभावनिबन्धनत्ते सकलबुद्धगुणविसेसकारणताय तासम्पि कारणन्ति करुणाव भगवतो ‘‘हदयसीतलभावकारण’’न्ति वुत्ता. करुणानिदाना हि सब्बेपि बुद्धगुणा. करुणानुभावनिब्बापियमानसंसारदुक्खसन्तापस्स हि भगवतो परदुक्खापनयनकामताय अनेकानिपि असङ्ख्येय्यानि कप्पानं अकिलन्तरूपस्सेव निरवसेसबुद्धकरधम्मसम्भरणनिरतस्स समधिगतधम्माधिपतेय्यस्स च सन्निहितेसुपि सत्तसङ्खारसमुपनीतहदयूपतापनिमित्तेसु न ईसकम्पि चित्तसीतिभावस्स अञ्ञथत्तमहोसीति. एतस्मिञ्च अत्थविकप्पे तीसुपि अवत्थासु भगवतो करुणा सङ्गहिताति दट्ठब्बं.

पजानातीति पञ्ञा, यथासभावं पकारेहि पटिविज्झतीति अत्थो. पञ्ञाव ञेय्यावरणप्पहानतो पकारेहि धम्मसभावजोतनट्ठेन पज्जोतोति पञ्ञापज्जोतो. सवासनप्पहानतो विसेसेन हतं समुग्घातितं विहतं, पञ्ञापज्जोतेन विहतं पञ्ञापज्जोतविहतं. मुय्हन्ति तेन, सयं वा मुय्हति, मोहनमत्तमेव वा तन्ति मोहो, अविज्जा, स्वेव विसयसभावपटिच्छादनतो अन्धकारसरिक्खताय तमो वियाति तमो, पञ्ञापज्जोतविहतो मोहतमो एतस्साति पञ्ञापज्जोतविहतमोहतमो, तं पञ्ञापज्जोतविहतमोहतमं. सब्बेसम्पि हि खीणासवानं सतिपि पञ्ञापज्जोतेन अविज्जन्धकारस्स विहतभावे सद्धाविमुत्तेहि विय दिट्ठिप्पत्तानं सावकेहि पच्चेकसम्बुद्धेहि च सवासनप्पहानेन सम्मासम्बुद्धानं किलेसप्पहानस्स विसेसो विज्जतीति सातिसयेन अविज्जापहानेन भगवन्तं थोमेन्तो आह ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति.

अथ वा अन्तरेन परोपदेसं अत्तनो सन्ताने अच्चन्तं अविज्जन्धकारविगमस्स निब्बत्तितत्ता, तथा सब्बञ्ञुताय बलेसु च वसीभावस्स समधिगतत्ता, परसन्ततियञ्च धम्मदेसनातिसयानुभावेन सम्मदेव तस्स पवत्तितत्ता भगवाव विसेसतो मोहतमविगमेन थोमेतब्बोति आह ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति. इमस्मिञ्च अत्थविकप्पे ‘‘पञ्ञापज्जोतो’’ति पदेन भगवतो पटिवेधपञ्ञा विय देसनापञ्ञापि सामञ्ञनिद्देसेन, एकसेसनयेन वा सङ्गहिताति दट्ठब्बं.

अथ वा भगवतो ञाणस्स ञेय्यपरियन्तिकत्ता सकलञेय्यधम्मसभावावबोधनसमत्थेन अनावरणञाणसङ्खातेन पञ्ञापज्जोतेन सब्बञेय्यधम्मसभावच्छादकस्स मोहन्धकारस्स विधमितत्ता अनञ्ञसाधारणो भगवतो मोहतमविनासोति कत्वा वुत्तं ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति. एत्थ च मोहतमविधमनन्ते अधिगतत्ता अनावरणञाणं कारणूपचारेन ससन्ताने मोहतमविधमनन्ति दट्ठब्बं. अभिनीहारसम्पत्तिया सवासनप्पहानमेव हि किलेसानं ञेय्यावरणप्पहानन्ति, परसन्ताने पन मोहतमविधमनस्स कारणभावतो अनावरणञाणं ‘‘मोहतमविधमन’’न्ति वुच्चतीति.

किं पन कारणं अविज्जासमुग्घातोयेवेको पहानसम्पत्तिवसेन भगवतो थोमनानिमित्तं गय्हति, न पन सातिसयं निरवसेसकिलेसप्पहानन्ति? तप्पहानवचनेनेव तदेकट्ठताय सकलसंकिलेसगणसमुग्घातस्स जोतितभावतो. न हि सो तादिसो किलेसो अत्थि, यो निरवसेसअविज्जाप्पहानेन न पहीयतीति.

अथ वा विज्जा विय सकलकुसलधम्मसमुप्पत्तिया निरवसेसाकुसलधम्मनिब्बत्तिया संसारप्पवत्तिया च अविज्जा पधानकारणन्ति तब्बिघातवचनेन सकलसंकिलेसगणसमुग्घातो वुत्तोयेव होतीति वुत्तं ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति.

नरा च अमरा च नरामरा, सह नरामरेहीति सनरामरो, सनरामरो च सो लोको चाति सनरामरलोको. तस्स गरूति सनरामरलोकगरु, तं सनरामरलोकगरुं. एतेन देवमनुस्सानं विय तदवसिट्ठसत्तानम्पि यथारहं गुणविसेसावहताय भगवतो उपकारितं दस्सेति. न चेत्थ पधानाप्पधानभावो चोदेतब्बो. अञ्ञो हि सद्दक्कमो, अञ्ञो अत्थक्कमो. एदिसेसु हि समासपदेसु पधानम्पि अप्पधानं विय निद्दिसीयति यथा ‘‘सराजिकाय परिसाया’’ति (चूळव. ३३६). कामञ्चेत्थ सत्तसङ्खारोकासवसेन तिविधो लोको, गरुभावस्स पन अधिप्पेतत्ता गरुकरणसमत्थस्सेव युज्जनतो सत्तलोकस्स वसेन अत्थो गहेतब्बो. सो हि लोकीयन्ति एत्थ पुञ्ञपापानि तब्बिपाको चाति ‘‘लोको’’ति वुच्चति. अमरग्गहणेन चेत्थ उपपत्तिदेवा अधिप्पेता.

अथ वा समूहत्थो लोकसद्दो समुदायवसेन लोकीयति पञ्ञापीयतीति. सह नरेहीति सनरा, सनरा च ते अमरा चाति सनरामरा, तेसं लोकोति सनरामरलोकोति पुरिमनयेनेव योजेतब्बं. अमरसद्देन चेत्थ विसुद्धिदेवापि सङ्गय्हन्ति. ते हि मरणाभावतो परमत्थतो अमरा. नरामरानंयेव च गहणं उक्कट्ठनिद्देसवसेन यथा ‘‘सत्था देवमनुस्सान’’न्ति (दी. नि. १.१५७). तथा हि सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्चन्तूपकारिताय अपरिमितनिरुपमप्पभावगुणविसेससमङ्गिताय च सब्बसत्तुत्तमो भगवा अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं उत्तमगारवट्ठानं. तेन वुत्तं ‘‘सनरामरलोकगरु’’न्ति.

सोभनं गतं गमनं एतस्साति सुगतो. भगवतो हि वेनेय्यजनुपसङ्कमनं एकन्तेन तेसं हितसुखनिप्फादनतो सोभनं, तथा लक्खणानुब्यञ्जनपटिमण्डितरूपकायताय दुतविलम्बित-खलितानुकड्ढन-निप्पीळनुक्कुटिक-कुटिलाकुलतादि-दोसरहित-मवहसित-राजहंस- वसभवारण-मिगराजगमनं कायगमनं ञाणगमनञ्च विपुलनिम्मलकरुणा-सतिवीरियादि-गुणविसेससहितमभिनीहारतो याव महाबोधिं अनवज्जताय सोभनमेवाति. अथ वा सयम्भुञाणेन सकलमपि लोकं परिञ्ञाभिसमयवसेन परिजानन्तो ञाणेन सम्मा गतो अवगतोति सुगतो. तथा लोकसमुदयं पहानाभिसमयवसेन पजहन्तो अनुप्पत्तिधम्मतं आपादेन्तो सम्मा गतो अतीतोति सुगतो, लोकनिरोधं निब्बानं सच्छिकिरियाभिसमयवसेन सम्मा गतो अधिगतोति सुगतो, लोकनिरोधगामिनिं पटिपदं भावनाभिसमयवसेन सम्मा गतो पटिपन्नोति सुगतो. ‘‘सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छतीति सुगतो’’तिआदिना (महानि. ३८; चूळनि. २७) नयेन अयमत्थो विभावेतब्बो. अथ वा सुन्दरं ठानं सम्मासम्बोधिं, निब्बानमेव वा गतो अधिगतोति सुगतो. यस्मा वा भूतं तच्छं अत्थसंहितं वेनेय्यानं यथारहं कालयुत्तमेव च धम्मं भासति, तस्मा सम्मा गदति वदतीति सुगतो द-कारस्स त-कारं कत्वा. इति सोभनगमनतादीहि सुगतो, तं सुगतं.

पुञ्ञपापकम्मेहि उपपज्जनवसेन गन्तब्बतो गतियो, उपपत्तिभवविसेसा. ता पन निरयादिवसेन पञ्चविधा. ताहि सकलस्सपि भवगामिकम्मस्स अरियमग्गाधिगमेन अविपाकारहभावकरणेन निवत्तितत्ता भगवा पञ्चहिपि गतीहि सुट्ठु मुत्तो विसंयुत्तोति आह ‘‘गतिविमुत्त’’न्ति. एतेन भगवतो कत्थचिपि गतिया अपरियापन्नतं दस्सेति, यतो भगवा ‘‘देवातिदेवो’’ति वुच्चति. तेनेवाह –

‘‘येन देवूपपत्यस्स, गन्धब्बो वा विहङ्गमो;

यक्खत्तं येन गच्छेय्यं, मनुस्सत्तञ्च अब्बजे;

ते मय्हं आसवा खीणा, विद्धस्ता विनळीकता’’ति. (अ. नि. ४.३६);

तंतंगतिसंवत्तनकानञ्हि कम्मकिलेसानं अग्गमग्गेन बोधिमूलेयेव सुप्पहीनत्ता नत्थि भगवतो गतिपरियापन्नताति अच्चन्तमेव भगवा सब्बभवयोनिगति-विञ्ञाणट्ठिति-सत्तावास-सत्तनिकायेहि परिमुत्तो, तं गतिविमुत्तं. वन्देति नमामि, थोमेमीति वा अत्थो.

अथ वा गतिविमुत्तन्ति अनुपादिसेसनिब्बानधातुप्पत्तिया भगवन्तं थोमेति. एत्थ हि द्वीहि आकारेहि भगवतो थोमना वेदितब्बा अत्तहितसम्पत्तितो परहितपटिपत्तितो च. तेसु अत्तहितसम्पत्ति अनावरणञाणाधिगमतो सवासनानं सब्बेसं किलेसानं अच्चन्तप्पहानतो अनुपादिसेसनिब्बानप्पत्तितो च वेदितब्बा, परहितपटिपत्ति लाभसक्कारादिनिरपेक्खचित्तस्स सब्बदुक्खनिय्यानिकधम्मदेसनतो विरुद्धेसुपि निच्चं हितज्झासयतो ञाणपरिपाककालागमनतो च. सा पनेत्थ आसयतो पयोगतो च दुविधा परहितपटिपत्ति, तिविधा च अत्तहितसम्पत्ति पकासिता होति. कथं? ‘‘करुणासीतलहदय’’न्ति एतेन आसयतो परहितपटिपत्ति, सम्मागदनत्थेन सुगतसद्देन पयोगतो परहितपटिपत्ति, ‘‘पञ्ञापज्जोतविहतमोहतमं गतिविमुत्त’’न्ति एतेहि चतुसच्चपटिवेधत्थेन च सुगतसद्देन तिविधापि अत्तहितसम्पत्ति, अवसिट्ठट्ठेन तेन ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति एतेन चापि सब्बापि अत्तहितसम्पत्तिपरहितपटिपत्ति पकासिता होतीति.

अथ वा तीहि आकारेहि भगवतो थोमना वेदितब्बा – हेतुतो फलतो उपकारतो च. तत्थ हेतु महाकरुणा, सा पठमपदेन दस्सिता. फलं चतुब्बिधं ञाणसम्पदा पहानसम्पदा आनुभावसम्पदा रूपकायसम्पदा चाति. तासु ञाणपहानसम्पदा दुतियपदेन सच्चपटिवेधत्थेन च सुगतसद्देन पकासिता होन्ति, आनुभावसम्पदा पन ततियपदेन, रूपकायसम्पदा यथावुत्तकायगमनसोभनत्थेन सुगतसद्देन लक्खणानुब्यञ्जनपारिपूरिया विना तदभावतो. उपकारो अनन्तरं अबाहिरं करित्वा तिविधयानमुखेन विमुत्तिधम्मदेसना. सो सम्मागदनत्थेन सुगतसद्देन पकासितो होतीति वेदितब्बं.

तत्थ ‘‘करुणासीतलहदय’’न्ति एतेन सम्मासम्बोधिया मूलं दस्सेति. महाकरुणासञ्चोदितमानसो हि भगवा संसारपङ्कतो सत्तानं समुद्धरणत्थं कताभिनीहारो अनुपुब्बेन पारमियो पूरेत्वा अनुत्तरं सम्मासम्बोधिं अधिगतोति करुणा सम्मासम्बोधिया मूलं. ‘‘पञ्ञापज्जोतविहतमोहतम’’न्ति एतेन सम्मासम्बोधिं दस्सेति. अनावरणञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्च अनावरणञाणं ‘‘सम्मासम्बोधी’’ति वुच्चतीति. सम्मागमनत्थेन सुगतसद्देन सम्मासम्बोधिया पटिपत्तिं दस्सेति लीनुद्धच्चपतिट्ठानायूहनकामसुखल्लिकत्तकिलमथानुयोगसस्सतुच्छेदाभिनिवेसादि अन्तद्वयरहिताय करुणापञ्ञापरिग्गहिताय मज्झिमाय पटिपत्तिया पकासनतो सुगतसद्दस्स. इतरेहि सम्मासम्बोधिया पधानाप्पधानभेदं पयोजनं दस्सेति. संसारमहोघतो सत्तसन्तारणञ्हेत्थ पधानं पयोजनं, तदञ्ञमप्पधानं. तेसु पधानेन परहितपटिपत्तिं दस्सेति, इतरेन अत्तहितसम्पत्तिं, तदुभयेन अत्तहिताय पटिपन्नादीसु चतूसु पुग्गलेसु भगवतो चतुत्थपुग्गलभावं दस्सेति. तेन च अनुत्तरदक्खिणेय्यभावं उत्तमवन्दनीयभावं अत्तनो च वन्दनकिरियाय खेत्तङ्गतभावं दस्सेति.

एत्थ च करुणागहणेन लोकियेसु महग्गतभावप्पत्तासाधारणगुणदीपनतो भगवतो सब्बलोकियगुणसम्पत्ति दस्सिता होति, पञ्ञागहणेन सब्बञ्ञुतञ्ञाणपदट्ठानमग्गञाणदीपनतो सब्बलोकुत्तरगुणसम्पत्ति. तदुभयग्गहणसिद्धो हि अत्थो ‘‘सनरामरलोकगरु’’न्तिआदिना विपञ्चीयतीति. करुणागहणेन च उपगमनं निरुपक्किलेसं दस्सेति, पञ्ञागहणेन अपगमनं. तथा करुणागहणेन लोकसमञ्ञानुरूपं भगवतो पवत्तिं दस्सेति लोकवोहारविसयत्ता करुणाय, पञ्ञागहणेन समञ्ञाय अनतिधावनं सभावानवबोधेन हि धम्मानं समञ्ञं अतिधावित्वा सत्तादिपरामसनं होतीति. तथा करुणागहणेन महाकरुणासमापत्तिविहारं दस्सेति, पञ्ञागहणेन तीसु कालेसु अप्पटिहतञाणं चतुसच्चञाणं चतुपटिसम्भिदाञाणं चतुवेसारज्जञाणं.

करुणागहणेन महाकरुणासमापत्तिञाणस्स गहितत्ता सेसासाधारणञाणानि, छ अभिञ्ञा, अट्ठसु परिसासु अकम्पनञाणानि, दस बलानि, चुद्दस बुद्धञाणानि, सोळस ञाणचरिया, अट्ठारस बुद्धधम्मा, चतुचत्तालीस ञाणवत्थूनि, सत्तसत्ततिञाणवत्थूनीति एवमादीनं अनेकेसं पञ्ञापभेदानं वसेन ञाणचारं दस्सेति. तथा करुणागहणेन चरणसम्पत्तिं, पञ्ञागहणेन विज्जासम्पत्तिं. करुणागहणेन अत्ताधिपतिता, पञ्ञागहणेन धम्माधिपतिता. करुणागहणेन लोकनाथभावो, पञ्ञागहणेन अत्तनाथभावो. तथा करुणागहणेन पुब्बकारिभावो, पञ्ञागहणेन कतञ्ञुता. तथा करुणागहणेन अपरन्तपता, पञ्ञागहणेन अनत्तन्तपता. करुणागहणेन वा बुद्धकरधम्मसिद्धि, पञ्ञागहणेन बुद्धभावसिद्धि. तथा करुणागहणेन परेसं तारणं, पञ्ञागहणेन सयं तरणं. तथा करुणागहणेन सब्बसत्तेसु अनुग्गहचित्तता, पञ्ञागहणेन सब्बधम्मेसु विरत्तचित्तता दस्सिता होति.

सब्बेसञ्च बुद्धगुणानं करुणा आदि तन्निदानभावतो, पञ्ञा परियोसानं ततो उत्तरि करणीयाभावतो. इति आदिपरियोसानदस्सनेन सब्बे बुद्धगुणा दस्सिता होन्ति. तथा करुणागहणेन सीलक्खन्धपुब्बङ्गमो समाधिक्खन्धो दस्सितो होति. करुणानिदानञ्हि सीलं ततो पाणातिपातादिविरतिप्पवत्तितो, सा च झानत्तयसम्पयोगिनीति. पञ्ञावचनेन पञ्ञाक्खन्धो. सीलञ्च सब्बबुद्धगुणानं आदि, समाधि मज्झे, पञ्ञा परियोसानन्ति एवम्पि आदिमज्झपरियोसानकल्याणदस्सनेन सब्बे बुद्धगुणा दस्सिता होन्ति नयतो दस्सितत्ता. एसो एव हि निरवसेसतो बुद्धगुणानं दस्सनुपायो, यदिदं नयग्गाहणं. अञ्ञथा को नाम समत्थो भगवतो गुणे अनुपदं निरवसेसतो दस्सेतुं. तेनेवाह –

‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं;

कप्पम्पि चे अञ्ञमभासमानो.

खीयेथ कप्पो चिरदीघमन्तरे;

वण्णो न खीयेथ तथागतस्सा’’ति. (दी. नि. अट्ठ. १.३०५; ३.१४१; म. नि. अट्ठ. २.४२५; उदा. अट्ठ. ५३; अप. अट्ठ. २.७.२०; बु. वं. अट्ठ. ४.४; चरिया. अट्ठ. ३.१२२ पकिण्णककथा);

तेनेव च आयस्मता सारिपुत्तत्थेरेनपि बुद्धगुणपरिच्छेदनं पति अनुयुत्तेन ‘‘नो हेतं, भन्ते’’ति पटिक्खिपित्वा ‘‘अपिच मे, भन्ते, धम्मन्वयो विदितो’’ति (दी. नि. २.१४६) वुत्तं.

. एवं सङ्खेपेन सकलसब्बञ्ञुगुणेहि भगवन्तं अभित्थवित्वा इदानि सद्धम्मं थोमेतुं ‘‘बुद्धोपी’’तिआदिमाह. तत्थ बुद्धोति कत्तुनिद्देसो. बुद्धभावन्ति कम्मनिद्देसो. भावेत्वा सच्छिकत्वाति च पुब्बकालकिरियानिद्देसो. न्ति अनियमतो कम्मनिद्देसो. उपगतोति अपरकालकिरियानिद्देसो. वन्देति किरियानिद्देसो. न्ति नियमनं. धम्मन्ति वन्दनकिरियाय कम्मनिद्देसो. गतमलं अनुत्तरन्ति च तब्बिसेसनं.

तत्थ बुद्धसद्दस्स ताव ‘‘बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो’’तिआदिना निद्देसनयेन (महानि. १९२; चूळनि. ९७) अत्थो वेदितब्बो. अथ वा सवासनाय अञ्ञाणनिद्दाय अच्चन्तविगमतो, बुद्धिया वा विकसितभावतो बुद्धवाति बुद्धो जागरणविकसनत्थवसेन. अथ वा कस्सचिपि ञेय्यधम्मस्स अनवबुद्धस्स अभावेन ञेय्यविसेसस्स कम्मभावेन अग्गहणतो कम्मवचनिच्छाय अभावेन अवगमनत्थवसेनेव कत्तुनिद्देसो लब्भतीति बुद्धवाति बुद्धो यथा ‘‘दिक्खितो न ददाती’’ति. अत्थतो पन पारमितापरिभावितो सयम्भुञाणेन सह वासनाय विहतविद्धस्तनिरवसेसकिलेसो महाकरुणासब्बञ्ञुतञ्ञाणादिअपरिमेय्यगुणगणाधारो खन्धसन्तानो बुद्धो. यथाह –

‘‘बुद्धोति यो सो भगवा सयम्भू. अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो बलेसु च वसीभाव’’न्ति (महानि. १९२; चूळनि. ९७; पटि. म. ३.१६१).

अपि-सद्दो सम्भावने. तेन ‘‘एवं गुणविसेसयुत्तो सोपि नाम भगवा’’ति वक्खमानगुणे धम्मे सम्भावनं दीपेति. बुद्धभावन्ति सम्मासम्बोधिं. भावेत्वाति उप्पादेत्वा वड्ढेत्वा च. सच्छिकत्वाति पच्चक्खं कत्वा. उपगतोति पत्तो, अधिगतोति अत्थो. एतस्स ‘‘बुद्धभाव’’न्ति एतेन सम्बन्धो. गतमलन्ति विगतमलं, निद्दोसन्ति अत्थो. वन्देति पणमामि, थोमेमि वा. अनुत्तरन्ति उत्तररहितं, लोकुत्तरन्ति अत्थो. धम्मन्ति यथानुसिट्ठं पटिपज्जमाने अपायतो च संसारतो च अपतमाने कत्वा धारेतीति धम्मो. अयञ्हेत्थ सङ्खेपत्थो – एवं विविधगुणगणसमन्नागतो बुद्धोपि भगवा यं अरियमग्गसङ्खातं धम्मं भावेत्वा, फलनिब्बानसङ्खातं पन सच्छिकत्वा अनुत्तरं सम्मासम्बोधिं अधिगतो, तमेतं बुद्धानम्पि बुद्धभावहेतुभूतं सब्बदोसमलरहितं अत्तनो उत्तरितराभावेन अनुत्तरं पटिवेधसद्धम्मं नमामीति. परियत्तिसद्धम्मस्सापि तप्पकासनत्ता इध सङ्गहो दट्ठब्बो.

अथ वा ‘‘अभिधम्मनयसमुद्दं अधिगच्छि, तीणि पिटकानि सम्मसी’’ति च अट्ठकथायं वुत्तत्ता परियत्तिधम्मस्सपि सच्छिकिरियासम्मसनपरियायो लब्भतीति सोपि इध वुत्तो एवाति दट्ठब्बं. तथा ‘‘यं धम्मं भावेत्वा सच्चिकत्वा’’ति च वुत्तत्ता बुद्धकरधम्मभूताहि पारमिताहि सह पुब्बभागे अधिसीलसिक्खादयोपि इध धम्मसद्देन सङ्गहिताति वेदितब्बं. तापि हि मलपटिपक्खताय गतमला अनञ्ञसाधारणताय अनुत्तरा चाति. तथा हि सत्तानं सकलवट्टदुक्खनिस्सरणत्थाय कतमहाभिनीहारो महाकरुणाधिवासपेसलज्झासयो पञ्ञाविसेसपरिधोतनिम्मलानं दानदमसंयमादीनं उत्तमधम्मानं सतसहस्साधिकानि कप्पानं चत्तारि असङ्ख्येय्यानि सक्कच्चं निरन्तरं निरवसेसानं भावनापच्चक्खकरणेहि कम्मादीसु अधिगतवसीभावो अच्छरियाचिन्तेय्यमहानुभावो अधिसीलाधिचित्तानं परमुक्कंसपारमिप्पत्तो भगवा पच्चयाकारे चतुवीसतिकोटिसतसहस्समुखेन महावजिरञाणं पेसेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति.

एत्थ च ‘‘भावेत्वा’’ति एतेन विज्जासम्पदाय धम्मं थोमेति, ‘‘सच्छिकत्वा’’ति एतेन विमुत्तिसम्पदाय. तथा पठमेन झानसम्पदाय, दुतियेन विमोक्खसम्पदाय. पठमेन वा समाधिसम्पदाय, दुतियेन समापत्तिसम्पदाय. अथ वा पठमेन खयेञाणभावेन, दुतियेन अनुप्पादेञाणभावेन. पुरिमेन वा विज्जूपमताय, दुतियेन वजिरूपमताय. पुरिमेन वा विरागसम्पत्तिया, दुतियेन निरोधसम्पत्तिया. तथा पठमेन निय्यानभावेन, दुतियेन निस्स्सरणभावेन. पठमेन वा हेतुभावेन, दुतियेन असङ्खतभावेन. पठमेन वा दस्सनभावेन, दुतियेन विवेकभावेन. पठमेन वा अधिपतिभावेन, दुतियेन अमतभावेन धम्मं थोमेति. अथ वा ‘‘यं धम्मं भावेत्वा बुद्धभावं उपगतो’’ति एतेन स्वाक्खातताय धम्मं थोमेति. ‘‘सच्छिकत्वा’’ति एतेन सन्दिट्ठिकताय. तथा पुरिमेन अकालिकताय, पच्छिमेन एहिपस्सिकताय. पुरिमेन वा ओपनेय्यिकताय, पच्छिमेन पच्चत्तं वेदितब्बताय धम्मं थोमेति. ‘‘गतमल’’न्ति इमिना संकिलेसाभावदीपनेन धम्मस्स परिसुद्धतं दस्सेति, ‘‘अनुत्तर’’न्ति एतेन अञ्ञस्स विसिट्ठस्स अभावदीपनेन विपुलपरिपुण्णतं. पठमेन वा पहानसम्पदं धम्मस्स दस्सेति, दुतियेन सभावसम्पदं. भावेतब्बताय वा धम्मस्स गतमलभावो योजेतब्बो. भावनागुणेन हि सो दोसानं समुग्घातको होतीति. सच्छिकातब्बभावेन अनुत्तरभावो योजेतब्बो. सच्छिकिरियानिब्बत्तितो हि तदुत्तरिकरणीयाभावतो अनञ्ञसाधारणताय अनुत्तरोति. तथा ‘‘भावेत्वा’’ति एतेन सह पुब्बभागसीलादीहि सेक्खा सीलसमाधिपञ्ञाक्खन्धा दस्सिता होन्ति, ‘‘सच्छिकत्वा’’ति एतेन सह असङ्खताय धातुया असेक्खा सीलसमाधिपञ्ञाक्खन्धा दस्सिता होन्तीति.

. एवं सङ्खेपेनेव सब्बधम्मगुणेहि सद्धम्मं अभित्थवित्वा इदानि अरियसङ्घं थोमेतुं ‘‘सुगतस्सा’’तिआदिमाह. तत्थ सुगतस्साति सम्बन्धनिद्देसो, तस्स ‘‘पुत्तान’’न्ति एतेन सम्बन्धो. ओरसानन्ति पुत्तविसेसनं. मारसेनमथनानन्ति ओरसपुत्तभावे कारणनिद्देसो. तेन किलेसप्पहानमेव भगवतो ओरसपुत्तभावे कारणं अनुजानातीति दस्सेति. अट्ठन्नन्ति गणनपरिच्छेदनिद्देसो. तेन सतिपि तेसं सत्तविसेसभावेन अनेकसहस्ससङ्खाभावे इमं गणनपरिच्छेदं नातिवत्तन्तीति दस्सेति मग्गट्ठफलट्ठभावानातिवत्तनतो. समूहन्ति समुदायनिद्देसो. अरियसङ्घन्ति गुणविसिट्ठसङ्घाटभावनिद्देसो. तेन असभिपि अरियपुग्गलानं कायसामग्गियं अरियसङ्घभावं दस्सेति दिट्ठिसीलसामञ्ञेन संहतभावतो.

तत्थ उरसि भवा जाता संवद्धा च ओरसा. यथा हि सत्तानं ओरसपुत्ता अत्तजातताय पितु सन्तकस्स दायज्जस्स विसेसेन भागिनो होन्ति, एवमेव तेपि अरियपुग्गला सम्मासम्बुद्धस्स धम्मस्सवनन्ते अरियाय जातिया जातताय भगवतो सन्तकस्स विमुत्तिसुखस्स अरियधम्मरतनस्स च एकन्तभागिनोति ओरसा विय ओरसा. अथ वा भगवतो धम्मदेसनानुभावेन अरियभूमिं ओक्कममाना ओक्कन्ता च अरियसावका भगवतो उरेन वायामजनिताभिजातिताय निप्परियायेन ‘‘ओरसपुत्ता’’ति वत्तब्बतं अरहन्ति. सावकेहि पवत्तियमानापि हि धम्मदेसना ‘‘भगवतो धम्मदेसना’’इच्चेव वुच्चति तंमूलिकत्ता लक्खणादिविसेसाभावतो च.

यदिपि अरियसावकानं अरियमग्गाधिगमसमये भगवतो विय तदन्तराय करणत्थं देवपुत्तमारो, मारवाहिनी वा न एकन्तेन अपसादेति, तेहि पन अपसादेतब्बताय कारणे विमथिते तेपि विमथिता एव नाम होन्तीति आह – ‘‘मारसेनमथनान’’न्ति. इमस्मिं पनत्थे ‘‘मारमारसेनमथनान’’न्ति वत्तब्बे ‘‘मारसेनमथनान’’न्ति एकदेससरूपेकसेसो कतोति दट्ठब्बं. अथ वा खन्धाभिसङ्खारमारानं विय देवपुत्तमारस्सपि गुणमारणे सहायभावूपगमनतो किलेसबलकायो ‘‘सेना’’ति वुच्चति. यथाह ‘‘कामा ते पठमा सेना’’तिआदि (सु. नि. ४३८; महानि. २८, ६८, १४९). सा च तेहि दियड्ढसहस्सभेदा अनन्तभेदा वा किलेसवाहिनी सतिधम्मविचयवीरियसमथादिगुणपहरणेहि ओधिसो विमथिता विहता विद्धस्ता चाति मारसेनमथना, अरियसावका. एतेन तेसं भगवतो अनुजातपुत्ततं दस्सेति.

आरकत्ता किलेसेहि, अनये न इरियनतो, अये च इरियनतो अरिया निरुत्तिनयेन. अथ वा सदेवकेन लोकेन ‘‘सरण’’न्ति अरणीयतो उपगन्तब्बतो उपगतानञ्च तदत्थसिद्धितो अरिया, अरियानं सङ्घोति अरियसङ्घो, अरियो च सो सङ्घो चाति वा अरियसङ्घो, तं अरियसङ्घं. भगवतो अपरभागे बुद्धधम्मरतनानम्पि समधिगमो सङ्घरतनाधीनोति अरियसङ्घस्स बहूपकारतं दस्सेतुं इधेव ‘‘सिरसा वन्दे’’ति वुत्तन्ति दट्ठब्बं.

एत्थ च ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति एतेन अरियसङ्घस्स पभवसम्पदं दस्सेति, ‘‘मारसेनमथनान’’न्ति एतेन पहानसम्पदं सकलसंकिलेसप्पहानदीपनतो. ‘‘अट्ठन्नम्पि समूह’’न्ति एतेन ञाणसम्पदं मग्गट्ठफलट्ठभावदीपनतो. ‘‘अरियसङ्घ’’न्ति एतेन पभावसम्पदं दस्सेति सब्बसङ्घानं अग्गभावदीपनतो. अथ वा ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति अरियसङ्घस्स विसुद्धनिस्सयभावदीपनं, ‘‘मारसेनमथनान’’न्ति सम्माउजुञायसामीचिप्पटिपन्नभावदीपनं, ‘‘अट्ठन्नम्पि समूह’’न्ति आहुनेय्यादिभावदीपनं, ‘‘अरियसङ्घ’’न्ति अनुत्तरपुञ्ञक्खेत्तभावदीपनं. तथा ‘‘सुगतस्स ओरसानं पुत्तान’’न्ति एतेन अरियसङ्घस्स लोकुत्तरसरणगमनसब्भावं दीपेति. लोकुत्तरसरणगमनेन हि ते भगवतो ओरसपुत्ता जाता. ‘‘मारसेनमथनान’’न्ति एतेन अभिनीहारसम्पदासिद्धं पुब्बभागे सम्मापटिपत्तिं दस्सेति. कताभिनीहारा हि सम्मापटिपन्ना मारं मारपरिसं वा अभिविजिनन्ति. ‘‘अट्ठन्नम्पि समूह’’न्ति एतेन पटिविद्धस्तविपक्खे सेक्खासेक्खधम्मे दस्सेति पुग्गलाधिट्ठानेन मग्गफलधम्मानं पकासितत्ता. ‘‘अरियसङ्घ’’न्ति अग्गदक्खिणेय्यभावं दस्सेति. सरणगमनञ्च सावकानं सब्बगुणानं आदि, सपुब्बभागपटिपदा सेक्खा सीलक्खन्धादयो मज्झे, असेक्खा सीलक्खन्धादयो परियोसानन्ति आदिमज्झपरियोसानकल्याणा सङ्खेपतो सब्बे अरियसङ्घगुणा पकासिता होन्ति.

. एवं गाथात्तयेन सङ्खेपतो सकलगुणसंकित्तनमुखेन रतनत्तयस्स पणामं कत्वा इदानि तंनिपच्चकारं यथाधिप्पेते पयोजने परिणामेन्तो ‘‘इति मे’’तिआदिमाह. तत्थ रतिजननट्ठेन रतनं, बुद्धधम्मसङ्घा. तेसञ्हि ‘‘इतिपि सो भगवा’’तिआदिना यथाभूतगुणे आवज्जेन्तस्स अमताधिगमहेतुभूतं अनप्पकं पीतिपामोज्जं उप्पज्जति. यथाह –

‘‘यस्मिं महानाम, समये अरियसावको तथागतं अनुस्सरति, नेवस्स तस्मिं समये रागपरियुट्ठितं चित्तं होति, न दोस…पे… न मोहपरियुट्ठितं चित्तं होति…पे… उजुगतचित्तो खो महानाम, अरियसावको लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं, पमुदितस्स पीति जायती’’तिआदि (अ. नि. ६.१०; ११.११).

चित्तीकतादिभावो वा रतनट्ठो. वुत्तञ्हेतं –

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति. (दी. नि. अट्ठ. २.३३; सं. नि. अट्ठ. ३.५.२२३; खु. पा. अट्ठ. ६.३; सु. नि. अट्ठ. १.२२६; महानि. अट्ठ. ५०);

चित्तिकतभावादयो च अनञ्ञसाधारणा बुद्धादीसु एव लब्भन्तीति.

वन्दनाव वन्दनामयं यथा ‘‘दानमयं सीलमय’’न्ति (दी. नि. ३.३०५; इतिवु. ६०). वन्दना चेत्थ कायवाचाचित्तेहि तिण्णं रतनानं गुणनिन्नता, थोमना वा. पुज्जभवफलनिब्बत्तनतो पुञ्ञं, अत्तनो सन्तानं पुनातीति वा. सुविहतन्तरायोति सुट्ठु विहतन्तरायो. एतेन अत्तनो पसादसम्पत्तिया रतनत्तयस्स च खेत्तभावसम्पत्तिया तं पुञ्ञं अत्थप्पकासनस्स उपघातकउपद्दवानं विहनने समत्थन्ति दस्सेति. हुत्वाति पुब्बकालकिरिया. तस्स ‘‘अत्थं पकासयिस्सामी’’ति एतेन सम्बन्धो. तस्साति यं रतनत्तयवन्दनामयं पुञ्ञं, तस्स. आनुभावेनाति बलेन.

. एवं रतनत्तयस्स निपच्चकारे पयोजनं दस्सेत्वा इदानि यस्सा धम्मदेसनाय अत्थं संवण्णेतुकामो, तस्सा ताव गुणाभित्थवनवसेन उपञ्ञापनत्थं ‘‘मज्झिमपमाणसुत्तङ्कितस्सा’’तिआदि वुत्तं. तत्थ मज्झिमपमाणसुत्तङ्कितस्साति नातिदीघनातिखुद्दकपमाणेहि सुत्तन्तेहि लक्खितस्स. यथा हि दीघागमे दीघपमाणानि सुत्तानि, यथा च संयुत्तङ्गुत्तरागमेसु द्वीसु खुद्दकपमाणानि, न एवं इध. इध पन पमाणतो मज्झिमानि सुत्तानि. तेन वुत्तं ‘‘मज्झिमपमाणसुत्तङ्कितस्साति नातिदीघनातिखुद्दकपमाणेहि सुत्तन्तेहि लक्खितस्सति अत्थो’’ति. एतेन ‘‘मज्झिमो’’ति अयं इमस्स अत्थानुगतसमञ्ञाति दस्सेति. ननु च सुत्तानि एव आगमो, कस्स पन सुत्तेहि अङ्कनन्ति? सच्चमेतं परमत्थतो, सुत्तानि पन उपादाय पञ्ञत्तो आगमो. यथेव हि अत्थब्यञ्जनसमुदाये ‘‘सुत्त’’न्ति वोहारो, एवं सुत्तसमुदाये अयं ‘‘आगमो’’ति वोहारो. इधाति इमस्मिं सासने. आगमिस्सन्ति एत्थ, एतेन एतस्मा वा अत्तत्थपरत्थादयोति आगमो, आदिकल्याणादिगुणसम्पत्तिया उत्तमट्ठेन तंतंअभिपत्थितसमिद्धिहेतुताय पण्डितेहि वरितब्बतो वरो, आगमो च सो वरो चाति आगमवरो. आगमसम्मतेहि वा वरोति आगमवरो, मज्झिमो च सो आगमवरो चाति मज्झिमागमवरो, तस्स.

बुद्धानं अनुबुद्धानं बुद्धानुबुद्धा, बुद्धानं सच्चपटिवेधं अनुगम्म पटिविद्धसच्चा अग्गसावकादयो अरिया. तेहि अत्थसंवण्णनागुणसंवण्णनानं वसेन संवण्णितस्स. अथ वा बुद्धा च अनुबुद्धा च बुद्धानुबुद्धाति योजेतब्बं. सम्मासम्बुद्धेनेव हि विनयसुत्ताभिधम्मानं पकिण्णकदेसनादिवसेन यो पठमं अत्थो विभत्तो, सो एव पच्छा तस्स तस्स संवण्णनावसेन सङ्गीतिकारेहि सङ्गहं आरोपितोति. परवादमथनस्साति अञ्ञतित्थियानं वादनिम्मथनस्स, तेसं दिट्ठिगतभञ्जनस्साति अत्थो. अयञ्हि आगमो मूलपरियायसुत्तसब्बासवसुत्तादीसु दिट्ठिगतिकानं दिट्ठिगतदोसविभावनतो सच्चकसुत्तं (म. नि. १.३५३) उपालिसुत्तादीसु (म. नि. २.५६) सच्चकादीनं मिच्छावादनिम्मथनदीपनतो विसेसतो ‘‘परवादमथनो’’ति थोमितोति. संवण्णनासु चायं आचरियस्स पकति, या तंतंसंवण्णनासु आदितो तस्स तस्स संवण्णेतब्बस्स धम्मस्स विसेसगुणकित्तनेन थोमना. तथा हि सुमङ्गलविलासिनीसारत्थपकासिनीमनोरथपूरणीसु अट्ठसालिनीआदीसु च यथाक्कमं ‘‘सद्धावहगुणस्स, ञाणप्पभेदजननस्स, धम्मकथिकपुङ्गवानं विचित्तपटिभानजननस्स, तस्स गम्भीरञाणेहि ओगाळ्हस्स अभिण्हसो नानानयविचित्तस्स अभिधम्मस्सा’’तिआदिना थोमना कता.

. अत्थो कथीयति एतायाति अत्थकथा, सा एव अट्ठकथा त्थ-कारस्स ट्ठ-कारं कत्वा यथा ‘‘दुक्खस्स पीळनट्ठो’’ति (पटि. म. १.१७; २.८) आदितोतिआदिम्हि पठमसङ्गीतियं. छळभिञ्ञताय परमेन चित्तिस्सरियभावेन समन्नागतत्ता झानादीसु पञ्चविधवसितासब्भावतो च वसिनो, थेरा महाकस्सपादयो. तेसं सतेहि पञ्चहि. याति या अट्ठकथा. सङ्गीताति अत्थं पकासेतुं युत्तट्ठाने ‘‘अयं एतस्स अत्थो, अयं एतस्स अत्थो’’ति सङ्गहेत्वा वुत्ता. अनुसङ्गीता च यसत्थेरादीहि पच्छापि दुतियततियसङ्गीतीसु. इमिना अत्तनो संवण्णनाय आगमनसुद्धिं दस्सेति.

. सीहस्स लानतो गहणतो सीहळो, सीहकुमारो. तंवंसजातताय तम्बपण्णिदीपे खत्तियानं, तेसं निवासताय तम्बपण्णिदीपस्स च सीहळभावो वेदितब्बो. आभताति जम्बुदीपतो आनीता. अथाति पच्छा. अपरभागे हि निकायन्तरलद्धीहि असङ्करत्थं सीहळभासाय अट्ठकथा ठपिताति. तेन मूलट्ठकथा सब्बसाधारणा न होतीति इदं अत्थप्पकासनं एकन्तेन करणीयन्ति दस्सेति. तेनेवाह ‘‘दीपवासीनमत्थाया’’ति. तत्थ दीपवासीनन्ति जम्बुदीपवासीनं, सीहळदीपवासीनं वा अत्थाय सीहळभासाय ठपिताति योजना.

. अपनेत्वानाति कञ्चुकसदिसं सीहळभासं अपनेत्वा. ततोति अट्ठकथातो. अहन्ति अत्तानं निद्दिसति, मनोरमं भासन्ति मागधभासं. सा हि सभावनिरुत्तिभूता पण्डितानं मनं रमयतीति. तेनेवाह ‘‘तन्तिनयानुच्छविक’’न्ति, पाळिगतिया अनुलोमिकं पाळिभासायानुविधायिनिन्ति अत्थो. विगतदोसन्ति असभावनिरुत्तिभासन्तररहितं.

. समयं अविलोमेन्तोति सिद्धन्तं अविरोधेन्तो. एतेन अत्थदोसाभावमाह. अविरुद्धत्ता एव हि थेरवादापि इध पकासीयिस्सन्ति. थेरवंसदीपानन्ति थिरेहि सीलक्खन्धादीहि समन्नागतत्ता थेरा, महाकस्सपादयो. तेहि आगता आचरियपरम्परा थेरवंसो, तप्परियापन्ना हुत्वा आगमाधिगमसम्पन्नत्ता पञ्ञापज्जोतेन तस्स समुज्जलनतो थेरवंसदीपा, महाविहारवासिनो, तेसं. विविधेहि आकारेहि निच्छीयतीति विनिच्छयो, गण्ठिट्ठानेसु खीलमद्दनाकारेन पवत्ता विमतिच्छेदनी कथा. सुट्ठु निपुणो सण्हो विनिच्छयो एतेसन्ति सुनिपुणविनिच्छया. अथ वा विनिच्छिनोतीति विनिच्छयो, यथावुत्तत्थविसयं ञाणं. सुट्ठु निपुणो छेको विनिच्छयो एतेसन्ति योजेतब्बं. एतेन महाकस्सपादिथेरपरम्पराभतो, ततो एव च अविपरीतो सण्हो सुखुमो महाविहारवासीनं विनिच्छयोति तस्स पमाणभूततं दस्सेति.

१०. सुजनस्स चाति -सद्दो सम्पिण्डनत्थो. तेन ‘‘न केवलं जम्बुदीपवासीनमेव अत्थाय, अथ खो साधुजनतोसनत्थञ्चा’’ति दस्सेति. तेन च ‘‘तम्बपण्णिदीपवासीनम्पि अत्थाया’’ति अयमत्थो सिद्धो होति उग्गहणादिसुकरताय तेसम्पि बहुकारत्ता. चिरट्ठितत्थन्ति चिरट्ठितिअत्थं, चिरकालट्ठितियाति अत्थो. इदञ्हि अत्थप्पकासनं अविपरीतपदब्यञ्जनसुनिक्खेपस्स अत्थसुनयस्स च उपायभावतो सद्धम्मस्स चिरट्ठितिया संवत्तति. वुत्तञ्हेतं भगवता ‘‘द्वेमे, भिक्खवे, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति. कतमे द्वे? सुन्निक्खित्तञ्च पदब्यञ्जनं अत्थो च सुनीतो’’ति (अ. नि. २.२०).

११. यं अत्थवण्णनं कत्तुकामो, तस्सा महत्तं परिहरितुं ‘‘सीलकथा’’तिआदि वुत्तं. तेनेवाह ‘‘न तं इध विचारयिस्सामी’’ति. अथ वा यं अट्ठकथं कत्तुकामो, तदेकदेसभावेन विसुद्धिमग्गो गहेतब्बोति कथिकानं उपदेसं करोन्तो तत्थ विचारितधम्मे उद्देसवसेन दस्सेति ‘‘सीलकथा’’तिआदिना. तत्थ सीलकथाति चारित्तवारित्तादिवसेन सीलस्स वित्थारकथा. धुतधम्माति पिण्डपातिकङ्गादयो तेरस किलेसधुननकधम्मा. कम्मट्ठानानि सब्बानीति पाळियं आगतानि अट्ठतिंस, अट्ठकथायं द्वेति निरवसेसानि योगकम्मस्स भावनाय पवत्तिट्ठानानि. चरियाविधानसहितोति रागचरितादीनं सभावादिविधानेन सहितो. झानानि चत्तारि रूपावचरज्झानानि, समापत्तियो चतस्सो अरूपसमापत्तियो. अट्ठपि वा पटिलद्धमत्तानि झानानि, समापज्जनवसीभावप्पत्तिया समापत्तियो. झानानि वा रूपारूपावचरज्झानानि, समापत्तियो फलसमापत्तिनिरोधसमापत्तियो.

१२. लोकियलोकुत्तरभेदा छ अभिञ्ञायो सब्बा अभिञ्ञायो. ञाणविभङ्गादीसु (विभ. ७५१) आगतनयेन एकविधादिना पञ्ञाय संकलेत्वा सम्पिण्डेत्वा निच्छयो पञ्ञासङ्कलननिच्छयो.

१३. पच्चयधम्मानं हेतादीनं पच्चयुप्पन्नधम्मानं हेतुपच्चयादिभावो पच्चयाकारो, तस्स देसना पच्चयाकारदेसना, पटिच्चसमुप्पादकथाति अत्थो. सा पन निकायन्तरलद्धिसङ्कररहितताय सुट्ठु परिसुद्धा, घनविनिब्भोगस्स सुदुक्करताय निपुणा सण्हसुखुमा, एकत्तनयादिसहिता च तत्थ विचारिताति आह ‘‘सुपरिसुद्धनिपुणनया’’ति. पटिसम्भिदादीसु आगतनयं अविस्सज्जेत्वाव विचारितत्ता अविमुत्ततन्तिमग्गा.

१४. इति पन सब्बन्ति इति-सद्दो परिसमापने, पन-सद्दो वचनालङ्कारे, एतं सब्बन्ति अत्थो. इधाति इमिस्सा अट्ठकथाय. न तं विचारयिस्सामि पुनरुत्तिभावतोति अधिप्पायो.

१५. इदानि तस्सेव अविचारणस्स एकन्तकारणं निद्धारेन्तो ‘‘मज्झे विसुद्धिमग्गो’’तिआदिमाह. तत्थ ‘‘मज्झे ठत्वा’’ति एतेन मज्झट्ठभावदीपनेन विसेसतो चतुन्नं आगमानं साधारणट्ठकथा विसुद्धिमग्गो, न सुमङ्गलविलासिनीआदयो विय असाधारणट्ठकथाति दस्सेति. ‘‘विसेसतो’’ति च इदं विनयाभिधम्मानम्पि विसुद्धिमग्गो यथारहं अत्थवण्णना होति एवाति कत्वा वुत्तं.

१६. इच्चेवाति इति एव. तम्पीति विसुद्धिमग्गम्पि. एतायाति पपञ्चसूदनिया. एत्थ च ‘‘सीहळदीपं आभता’’तिआदिना अट्ठकथाकरणस्स निमित्तं दस्सेति, ‘‘दीपवासीनमत्थाय, सुजनस्स च तुट्ठत्थं, चिरट्ठितत्थञ्च धम्मस्सा’’ति एतेन पयोजनं, ‘‘मज्झिमागमवरस्स अत्थं पकासयिस्सामी’’ति एतेन पिण्डत्थं, ‘‘अपनेत्वान ततोहं सीहळभास’’न्तिआदिना, ‘‘सीलकथा’’तिआदिना च करणप्पकारं. सीलकथादीनं अविचारणम्पि हि इध करणप्पकारो एवाति.

गन्थारम्भकथावण्णना निट्ठिता.

निदानकथावण्णना

. विभागवन्तानं सभावविभावनं विभागदस्सनमुखेनेव होतीति पठमं ताव पण्णासवग्गसुत्तादिवसेन मज्झिमागमस्स विभागं दस्सेतुं ‘‘तत्थ मज्झिमसङ्गीति नामा’’तिआदिमाह. तत्थ तत्थाति यं वुत्तं ‘‘मज्झिमागमवरस्स अत्थं पकासयिस्सामी’’ति, तस्मिं वचने. या मज्झिमागमपरियायेन मज्झिमसङ्गीति वुत्ता, सा पण्णासादितो एदिसाति दस्सेति ‘‘मज्झिमसङ्गीति नामा’’तिआदिना. तत्थाति वा ‘‘एताय अट्ठकथाय विजानाथ मज्झिमसङ्गीतिया अत्थ’’न्ति एत्थ यस्सा मज्झिमसङ्गीतिया अत्थं विजानाथाति वुत्तं, सा मज्झिमसङ्गीति नाम पण्णासादितो एदिसाति दस्सेति. पञ्च दसका पण्णासा, मूले आदिम्हि पण्णासा, मूलभूता वा पण्णासा मूलपण्णासा. मज्झे भवा मज्झिमा, मज्झिमा च सा पण्णासा चाति मज्झिमपण्णासा. उपरि उद्धं पण्णासा उपरिपण्णासा. पण्णासत्तयसङ्गहाति पण्णासत्तयपरिगणना.

अयं सङ्गहो नाम जातिसञ्जातिकिरियागणनवसेन चतुब्बिधो. तत्थ ‘‘या चावुसो विसाख, सम्मावाचा, यो च सम्माकम्मन्तो, यो च सम्माआजीवो, इमे धम्मा सीलक्खन्धे सङ्गहिता’’ति (म. नि. १.४६२) अयं जातिसङ्गहो. ‘‘यो चावुसो विसाख, सम्मावायामो. या च सम्मासति, यो च सम्मासमाधि, इमे धम्मा समाधिक्खन्धे सङ्गहिता’’ति अयं सञ्जातिसङ्गहो. ‘‘या चावुसो विसाख, सम्मादिट्ठि, यो च सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति अयं किरियासङ्गहो. ‘‘हञ्चि चक्खायतनं रूपक्खन्धगणनं गच्छति, तेन वत रे वत्तब्बे चक्खायतनं रूपक्खन्धेन सङ्गहित’’न्ति (कथा. ४७१) अयं गणनसङ्गहो. अयमेव च इधाधिप्पेतो. तेन वुत्तं ‘‘पण्णासत्तयसङ्गहाति पण्णासत्तयपरिगणना’’ति.

वग्गतोति समूहतो, सो पनेत्थ दसकवसेन वेदितब्बो. येभुय्येन हि सासने दसके वग्गवोहारो. तेनेवाह ‘‘एकेकाय पण्णासाय पञ्च पञ्च वग्गे कत्वा’’ति. पन्नरसवग्गसमायोगाति पन्नरसवग्गसंयोगाति अत्थो. केचि पन समायोगसद्दं समुदायत्थं वदन्ति. पदतोति एत्थ अट्ठक्खरो गाथापादो ‘‘पद’’न्ति अधिप्पेतो, तस्मा ‘‘अक्खरतो छ अक्खरसतसहस्सानि चतुरासीतुत्तरसताधिकानि चतुचत्तालीस सहस्सानि च अक्खरानी’’ति पाठेन भवितब्बन्ति वदन्ति. यस्मा पन नवक्खरो याव द्वादसक्खरो च गाथापादो संविज्जति, तस्मा तादिसानम्पि गाथानं वसेन अड्ढतेय्यगाथासतं भाणवारो होतीति कत्वा ‘‘अक्खरतो सत्त अक्खरसतसहस्सानि चत्तालीसञ्च सहस्सानि तेपञ्ञासञ्च अक्खरानी’’ति वुत्तं. एवञ्हि पदभाणवारगणनाहि अक्खरगणना संसन्दति, नेतरथा. भाणवारोति च द्वत्तिंसक्खरानं गाथानं वसेन अड्ढतेय्यगाथासतं, अयञ्च अक्खरगणना भाणवारगणना च पदगणनानुसारेन लद्धाति वेदितब्बा. इममेव हि अत्थं ञापेतुं सुत्तगणनानन्तरं भाणवारे अगणेत्वा पदानि गणितानि. तत्रिदं वुच्चति –

‘‘भाणवारा यथापि हि, मज्झिमस्स पकासिता;

उपड्ढभाणवारो च, तेवीसतिपदाधिको.

सत्त सतसहस्सानि, अक्खरानं विभावये;

चत्तालीस सहस्सानि, तेपञ्ञासञ्च अक्खर’’न्ति.

अनुसन्धितोति देसनानुसन्धितो. एकस्मिं एव हि सुत्ते पुरिमपच्छिमानं देसनाभागानं सम्बन्धो अनुसन्धानतो अनुसन्धि. एत्थ च अत्तज्झासयानुसन्धि परज्झासयानुसन्धीति दुविधो अज्झासयानुसन्धि. सो पन कत्थचि देसनाय विप्पकताय धम्मं सुणन्तानं पुच्छावसेन, कत्थचि देसेन्तस्स सत्थु सावकस्स धम्मपटिग्गाहकानञ्च अज्झासयवसेन, कत्थचि देसेतब्बस्स धम्मस्स वसेन होतीति समासतो तिप्पकारो. तेन वुत्तं ‘‘पुच्छानुसन्धिअज्झासयानुसन्धियथानुसन्धिवसेन सङ्खेपतो तिविधो अनुसन्धी’’ति. सङ्खेपेनेव च चतुब्बिधो अनुसन्धि वेदितब्बो. तत्थ ‘‘एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच ‘किं नु खो, भन्ते, ओरिमं तीरं, किं पारिमं तीरं, को मज्झे संसीदो, को थले उस्सादो, को मनुस्सग्गाहो, को अमनुस्सग्गाहो, को आवत्तग्गाहो, को अन्तोपूतिभावो’ति’’ (सं. नि. ४.२४१)? एवं पुच्छन्तानं विस्सज्जेन्तेन भगवता पवत्तितदेसनावसेन पुच्छानुसन्धी वेदितब्बो. ‘‘अथ खो अञ्ञतरस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि ‘इति किर भो रूपं अनत्ता… वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं अनत्ता, अनत्तकतानि कम्मानि कमत्तानं फुसिस्सन्ती’ति. अथ खो भगवा तस्स भिक्खुनो चेतसा चेतोपरिवितक्कमञ्ञाय भिक्खू आमन्तेसि ठानं खो पनेतं, भिक्खवे, विज्जति, यं इधेकच्चो मोघपुरिसो अविद्वा अविज्जागतो तण्हाधिपतेय्येन चेतसा सत्थुसासनं अतिधावितब्बं मञ्ञेय्य ‘इति किर भो रूपं अनत्ता…पे… फुसिस्सन्ती’ति. तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति (म. नि. ३.९०) एवं परेसं अज्झासयं विदित्वा भगवता पवत्तितदेसनावसेन परज्झासयानुसन्धि वेदितब्बो.

‘‘तस्स मय्हं ब्राह्मण एतदहोसि ‘यंनूनाहं या ता रत्तियो अभिञ्ञाता अभिलक्खिता चातुद्दसी पञ्चदसी अट्ठमी च पक्खस्स, तथारूपासु रत्तीसु यानि तानि आरामचेतियानि वनचेतियानि रुक्खचेतियानि भिंसनकानि सलोमहंसानि, तथारूपेसु सेनासनेसु विहरेय्यं अप्पेव नामाहं भयभेरवं पस्सेय्य’न्ति’’ (म. नि. १.४९) एवं भगवता, ‘‘तत्रावुसो लोभो च पापको दोसो च पापको लोभस्स च पहानाय दोसस्स च पहानाय अत्थि मज्झिमा पटिपदा, चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तती’’ति (म. नि. १.३३) एवं धम्मसेनापतिना च अत्तनो अज्झासयेनेव पवत्तितदेसनावसेन अत्तज्झासयानुसन्धि वेदितब्बो. येन पन धम्मेन आदिम्हि देसना उट्ठिता, तस्स अनुरूपधम्मवसेन वा पटिपक्खधम्मवसेन वा येसु सुत्तेसु उपरि देसना आगच्छति, तेसं वसेन यथानुसन्धि वेदितब्बो. सेय्यथिदं आकङ्खेय्यसुत्ते (म. नि. १.६५) हेट्ठा सीलेन देसना उट्ठिता, उपरि अभिञ्ञा आगता. वत्थुसुत्ते (म. नि. १.७०) हेट्ठा किलेसेन देसना उट्ठिता, उपरि ब्रह्मविहारा आगता. कोसम्बकसुत्ते (म. नि. १.४९१) हेट्ठा भण्डनेन देसना उट्ठिता, उपरि सारणीयधम्मा आगता. ककचूपमे (म. नि. १.२२२) हेट्ठा अक्खन्तिया वसेन देसना उट्ठिता, उपरि ककचूपमा आगताति.

वित्थारतो पनेत्थाति एवं सङ्खेपतो तिविधो चतुब्बिधो च अनुसन्धि एत्थ एतस्मिं मज्झिमनिकाये तस्मिं तस्मिं सुत्ते यथारहं वित्थारतो विभजित्वा विञ्ञायमाना नवसताधिकानि तीणि अनुसन्धिसहस्सानि होन्ति. यथा चेतं पण्णासादिविभागवचनं मज्झिमसङ्गीतिया सरूपदस्सनत्थं होति, एवं पक्खेपदोसपरिहरणत्थञ्च होति. एवञ्हि पण्णासादीसु ववत्थितेसु तब्बिनिमुत्तं किञ्चि सुत्तं याव एकं पदम्पि आनेत्वा इमं मज्झिमसङ्गीतियाति कस्सचि वत्तुं ओकासो न सियाति.

एवं पण्णासवग्गसुत्तभाणवारानुसन्धिब्यञ्जनतो मज्झिमसङ्गीतिं ववत्थपेत्वा इदानि नं आदितो पट्ठाय संवण्णेतुकामो अत्तनो संवण्णनाय तस्सा पठममहासङ्गीतियं निक्खित्तानुक्कमेनेव पवत्तभावं दस्सेतुं ‘‘तत्थ पण्णासासु मूलपण्णासा आदी’’तिआदिमाह. तत्थ यथापच्चयं तत्थ तत्थ देसितत्ता पञ्ञत्तत्ता च विप्पकिण्णानं धम्मविनयानं सङ्गहेत्वा गायनं कथनं सङ्गीति, महाविसयत्ता पूजनीयत्ता च महती सङ्गीतीति महासङ्गीति, पठमा महासङ्गीति पठममहासङ्गीति, तस्सा पवत्तितकालो पठममहासङ्गीतिकालो, तस्मिं पठममहासङ्गीतिकाले. निददाति देसनं देसकालादिवसेन अविदितं विदितं कत्वा निदस्सेतीति निदानं, यो लोकियेहि ‘‘उपोग्घातो’’ति वुच्चति, स्वायमेत्थ ‘‘एवं मे सुत’’न्तिआदिको गन्थो वेदितब्बो, न पन ‘‘सनिदानाहं, भिक्खवे, धम्मं देसेमी’’तिआदीसु (अ. नि. ३.१२६) विय अज्झासयादिदेसनुप्पत्तिहेतु. तेनेवाह ‘‘एवं मे सुतन्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादी’’ति. कामञ्चेत्थ यस्सं पठममहासङ्गीतियं निक्खित्तानुक्कमेन संवण्णनं कत्तुकामो, सा वित्थारतो वत्तब्बा. सुमङ्गलविलासिनियं (दी. नि. टी. १.निदानकथावण्णना) पन अत्तना वित्थारितत्ता तत्थेव गहेतब्बाति इमिस्सा संवण्णनाय महन्ततं परिहरन्तो ‘‘सा पनेसा’’तिआदिमाह.

निदानकथावण्णना निट्ठिता.

१. मूलपरियायवग्गो

१. मूलपरियायसुत्तवण्णना

अब्भन्तरनिदानवण्णना

. एवं बाहिरनिदाने वत्तब्बं अतिदिसित्वा इदानि अभन्तरनिदानं आदितो पट्ठाय संवण्णेतुं ‘‘यं पनेत’’न्तिआदि वुत्तं. तत्थ यस्मा संवण्णनं करोन्तेन संवण्णेतब्बे धम्मे पदविभागं पदत्थञ्च दस्सेत्वा ततो परं पिण्डत्तादिदस्सनवसेन संवण्णना कातब्बा, तस्मा पदानि ताव दस्सेन्तो ‘‘एवन्ति निपातपद’’न्तिआदिमाह. तत्थ पदविभागोति पदानं विसेसो, न पदविग्गहो. अथ वा पदानि च पदविभागो च पदविभागो, पदविग्गहो च पदविभागो च पदविभागोति वा एकसेसवसेन पदपदविग्गहा पदविभागसद्देन वुत्ताति वेदितब्बं. तत्थ पदविग्गहो ‘‘सुभगञ्च तं वनञ्चाति सुभगवनं, सालानं राजा, सालो च सो राजा च इतिपि सालराजा’’तिआदिवसेन समासपदेसु दट्ठब्बो.

अत्थतोति पदत्थतो. तं पन पदत्थं अत्थुद्धारक्कमेन पठमं एवंसद्दस्स दस्सेन्तो ‘‘एवं-सद्दो तावा’’तिआदिमाह. अवधारणादीति एत्थ आदि-सद्देन इदमत्थपुच्छापरिमाणादिअत्थानं सङ्गहो दट्ठब्बो. तथा हि ‘‘एवंगतानि पुथुसिप्पायतनानि (दी. नि. १.१६३), एवविधो एवमाकारो’’ति च आदीसु इदं-सद्दस्स अत्थे एवं-सद्दो. गत-सद्दो हि पकारपरियायो, तथा विधाकार-सद्दा च. तथा हि विधयुत्तगत-सद्दे लोकिया पकारत्थे वदन्ति. ‘‘एवं सु ते सुन्हाता सुविलित्ता कप्पितकेसमस्सू आमुक्कमणिकुण्डलाभरणा ओदातवत्थवसना पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेन्ति, सेय्यथापि त्वं एतरहि साचरियकोति. नो हिदं, भो गोतमा’’तिआदीसु (दी. नि. १.२८६) पुच्छायं. ‘‘एवंलहुपरिवत्तं (अ. नि. १.४८) एवमायुपरियन्तो’’ति (पारा. १२) च आदीसु परिमाणे.

ननु च ‘‘एवं सु ते सुन्हाता सुविलित्ता, एवमायुपरियन्तो’’ति एत्थ एवं-सद्देन पुच्छनाकारपरिमाणाकारानं वुत्तत्ता आकारत्थो एव एवं-सद्दोति? न, विसेससब्भावतो. आकारमत्तवाचको हि एवं-सद्दो आकारत्थोति अधिप्पेतो यथा ‘‘एवं ब्या खो’’तिआदीसु (म. नि. १.२३४, ३९६), न पन आकारविसेसवाचको. एवञ्च कत्वा ‘‘एवं जातेन मच्चेना’’तिआदीनि उपमादिउदाहरणानि उपपन्नानि होन्ति. तथा हि ‘‘यथापि…पे… बहु’’न्ति (ध. प. ५३) एत्थ पुप्फरासिट्ठानियतो मनुस्सूपपत्ति-सप्पुरिसूपनिस्सय-सद्धम्मस्सवन-योनिसोमनसिकार- भोगसम्पत्ति-आदिदानादि-पुञ्ञकिरियहेतुसमुदायतो सोभा-सुगन्धतादिगुणयोगतो मालागुणसदिसियो पहूता पुञ्ञकिरिया मरितब्बसभावताय मच्चेन सत्तेन कत्तब्बाति जोतितत्ता पुप्फरासिमालागुणाव उपमा, तेसं उपमाकारो यथा-सद्देन अनियमतो वुत्तोति ‘‘एवं-सद्दो उपमाकारनिगमनत्थो’’ति वत्तुं युत्तं. सो पन उपमाकारो नियमियमानो अत्थतो उपमाव होतीति आह ‘‘उपमायं आगतो’’ति. तथा ‘‘एवं इमिना आकारेन अभिक्कमितब्ब’’न्तिआदिना उपदिसियमानाय समणसारुप्पाय आकप्पसम्पत्तिया यो तत्थ उपदिसनाकारो, सो अत्थतो उपदेसो एवाति वुत्तं ‘‘एवं ते…पे… उपदेसे’’ति. तथा ‘‘एवमेतं भगवा, एवमेतं सुगता’’ति एत्थ च भगवता यथावुत्तमत्थं अविपरीततो जानन्तेहि कतं तत्थ संविज्जमानगुणानं पकारेहि हंसनं उदग्गताकरणं सम्पहंसनं. यो तत्थ सम्पहंसनाकारोति योजेतब्बं.

एवमेवं पनायन्ति एत्थ गरहणाकारोति योजेतब्बं, सो च गरहणाकारो ‘‘वसली’’तिआदिखुंसनसद्दसन्निधानतो इध एवं-सद्देन पकासितोति विञ्ञायति. यथा चेत्थ, एवं उपमाकारादयोपि उपमादिवसेन वुत्तानं पुप्फरासिआदिसद्दानं सन्निधानतो दट्ठब्बं. एवं, भन्तेति पन धम्मस्स साधुकं सवनमनसिकारे सन्नियोजितेहि भिक्खूहि अत्तनो तत्थ ठितभावस्स पटिजाननवसेन वुत्तत्ता एत्थ एवं-सद्दो वचनसम्पटिच्छनत्थो वुत्तो. तेन एवं, भन्ते साधु, भन्ते, सुट्ठु, भन्तेति वुत्तं होति. एवञ्च वदेहीति ‘‘यथाहं वदामि, एवं समणं आनन्दं वदेही’’ति यो एवं वदनाकारो इदानि वत्तब्बो. सो एवंसद्देन निदस्सीयतीति ‘‘निदस्सने’’ति वुत्तोति. एवं नोति एत्थापि तेसं यथावुत्तधम्मानं अहितदुक्खावहभावे सन्निट्ठानजननत्थं अनुमतिगहणवसेन ‘‘संवत्तन्ति वा नो वा, कथं वो एत्थ होती’’ति पुच्छाय कताय ‘‘एवं नो एत्थ होती’’ति वुत्तत्ता तदाकारसन्निट्ठानं एवं-सद्देन विभावितन्ति विञ्ञायति. सो पन तेसं धम्मानं अहिताय दुक्खाय संवत्तनाकारो नियमियमानो अवधारणत्थो होतीति आह ‘‘एवं नो एत्थ होतीतिआदीसु अवधारणे’’ति.

नानानयनिपुणन्ति एकत्तनानत्तअब्यापारएवंधम्मतासङ्खाता, नन्दियावत्ततिपुक्खलसीहविक्कीळितअङ्कुसदिसालोचनसङ्खाता वा आधारादिभेदवसेन नानाविधा नया नानानया, नया वा पाळिगतियो, ता च पञ्ञत्तिअनुपञ्ञत्तिआदिवसेन संकिलेसभागियादिलोकियादितदुभयवोमिस्सकादिवसेन कुसलादिवसेन खन्धादिवसेन सङ्गहादिवसेन समयविमुत्तादिवसेन ठपनादिवसेन कुसलमूलादिवसेन तिकप्पट्ठानादिवसेन च नानप्पकाराति नानानया. तेहि निपुणं सण्हं सुखुमन्ति नानानयनिपुणं. आसयोव अज्झासयो, ते च सस्सतादिभेदेन, तत्थ च अप्परजक्खतादिभेदेन अनेके, अत्तज्झासयादयो एव वा समुट्ठानं उप्पत्तिहेतु एतस्साति अनेकज्झासयसमुट्ठानं. अत्थब्यञ्जनसम्पन्नन्ति अत्थब्यञ्जनपरिपुण्णं उपनेतब्बाभावतो, सङ्कासनपकासन-विवरण-विभजन-उत्तानीकरण-पञ्ञत्तिवसेन छहि अत्थपदेहि, अक्खर-पदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतन्ति वा अत्थो दट्ठब्बो.

विविधपाटिहारियन्ति एत्थ पाटिहारियपदस्स वचनत्थं (उदा. अट्ठ. १; इतिवु. अट्ठ. निदानवण्णना; सं. नि. टी. १.१.१ देवतासंयुत्त) ‘‘पटिपक्खहरणतो, रागादिकिलेसापनयनतो च पाटिहारिय’’न्ति वदन्ति, भगवतो पन पटिपक्खा रागादयो न सन्ति, ये हरितब्बा. पुथुज्जनानम्पि विगतूपक्किलेसे अट्ठगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं पवत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्का इध ‘‘पाटिहारिय’’न्ति वत्तुं. सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो ‘‘पाटिहारिय’’न्ति वुत्तं, एवं सति युत्तमेतं. अथ वा भगवतो च सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं. ते हि दिट्ठिहरणवसेन दिट्ठिपकासने असमत्थभावेन च इद्धिआदेसनानुसासनीहि हरिता अपनीता होन्तीति. ‘‘पटी’’ति वा अयं सद्दो ‘‘पच्छा’’ति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो’’तिआदीसु (सु. नि. ९८५; चूळनि. ४) विय, तस्मा समाहिते चित्ते विगतूपक्किलेसे च कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पाटिहारियं, अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पाटिहारियं, इद्धिआदेसनानुसासनियो च विगतूपक्किलेसेन कतकिच्चेन च सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्किलेसेसु परसत्तानं उपकिलेसहरणानि होन्तीति पाटिहारियानि भवन्ति. पाटिहारियमेव पाटिहारियं, पाटिहारिये वा इद्धिआदेसनानुसासनिसमुदाये भवं एकमेकं पाटिहारियन्ति वुच्चति. पाटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो, तत्थ जातं, तस्मिं वा निमित्तभूते, ततो वा आगतन्ति पाटिहारियं. तस्स पन इद्धिआदिभेदेन विसयभेदेन च बहुविधस्स भगवतो देसनायं लब्भमानत्ता आह ‘‘विविधपाटिहारिय’’न्ति.

न अञ्ञथाति भगवतो सम्मुखा सुताकारतो न अञ्ञथाति अत्थो, न पन भगवतो देसिताकारतो. अचिन्तेय्यानुभावा हि भगवतो देसना. एवञ्च कत्वा ‘‘सब्बप्पकारेन को समत्थो विञ्ञातु’’न्ति इदं वचनं समत्थितं भवति, धारणबलदस्सनञ्च न विरुज्झति सुताकाराविरज्झनस्स अधिप्पेतत्ता. न हेत्थ अत्थन्तरतापरिहारो द्विन्नम्पि अत्थानं एकविसयत्ता. इतरथा थेरो भगवतो देसनाय सब्बथा पटिग्गहणे समत्थो असमत्थो चाति आपज्जेय्याति.

‘‘यो परो न होति, सो अत्ता’’ति एवं वुत्ताय नियकज्झत्तसङ्खाताय ससन्ततिया वत्तनतो तिविधोपि मे-सद्दो किञ्चापि एकस्मिंयेव अत्थे दिस्सति, करणसम्पदानसामिनिद्देसवसेन पन विज्जमानं भेदं सन्धायाह ‘‘मे-सद्दो तीसु अत्थेसु दिस्सती’’ति.

किञ्चापि उपसग्गो किरियं विसेसेति, जोतकभावतो पन सतिपि तस्मिं सुतसद्दो एव तं तमत्थं वदतीति अनुपसग्गस्स सुतसद्दस्स अत्थुद्धारे सउपसग्गस्स गहणं न विरुज्झतीति दस्सेन्तो ‘‘सउपसग्गो च अनुपसग्गो चा’’तिआदिमाह. अस्साति सुतसद्दस्स. कम्मभावसाधनानि इध सुतसद्दे सम्भवन्तीति वुत्तं ‘‘उपधारितन्ति वा उपधारणन्ति वा अत्थो’’ति. मयाति अत्थे सतीति यदा मे-सद्दस्स कत्तुवसेन करणनिद्देसो, तदाति अत्थो. ममाति अत्थे सतीति यदा सम्बन्धवसेन सामिनिद्देसो, तदा.

सुत-सद्दसन्निधाने पयुत्तेन एवं-सद्देन सवनकिरियाजोतकेन भवितब्बन्ति वुत्तं ‘‘एवन्ति सोतविञ्ञाणादिविञ्ञाणकिच्चनिदस्सन’’न्ति. आदि-सद्देन सम्पटिच्छनादीनं पञ्चद्वारिकविञ्ञाणानं तदभिनीहटानञ्च मनोद्वारिकविञ्ञाणानं गहणं वेदितब्बं. सब्बेसम्पि वाक्यानं एव-कारत्थसहितत्ता ‘‘सुत’’न्ति एतस्स सुतमेवाति अयमत्थो लब्भतीति आह ‘‘अस्सवनभावपटिक्खेपतो’’ति. एतेन अवधारणेन निरासङ्कतं दस्सेति. यथा च सुतं सुतमेवाति नियमेतब्बं, तं सम्मा सुतं होतीति आह ‘‘अनूनानधिकाविपरीतग्गहणनिदस्सन’’न्ति. अथ वा सद्दन्तरत्थापोहनवसेन सद्दो अत्थं वदतीति सुतन्ति असुतं न होतीति अयमेतस्स अत्थोति वुत्तं ‘‘अस्सवनभावपटिक्खेपतो’’ति. इमिना दिट्ठादिविनिवत्तनं करोति. इदं वुत्तं होति ‘‘न इदं मया दिट्ठं, न सयम्भुञाणेन सच्छिकतं, अथ खो सुतं, तञ्च खो सम्मदेवा’’ति. तेनेवाह – ‘‘अनूनानधिकाविपरीतग्गहणनिदस्सन’’न्ति. अवधारणत्थे वा एवं-सद्दे अयमत्थयोजना करीयतीति तदपेक्खस्स सुत-सद्दस्स अयमत्थो वुत्तो ‘‘अस्सवनभावपटिक्खेपतो’’ति. तेनेवाह ‘‘अनूनानधिकाविपरीतग्गहणनिदस्सन’’न्ति. सवनसद्दो चेत्थ कम्मत्थो वेदितब्बो ‘‘सुय्यती’’ति.

एवं सवनहेतुसुणन्तपुग्गलसवनविसेसवसेन पदत्तयस्स एकेन पकारेन अत्थयोजनं दस्सेत्वा इदानि पकारन्तरेहिपि तं दस्सेतुं ‘‘तथा एव’’न्तिआदि वुत्तं. तत्थ तस्साति या सा भगवतो सम्मुखा धम्मस्सवनाकारेन पवत्ता मनोद्वारविञ्ञाणवीथि, तस्सा. सा हि नानप्पकारेन आरम्मणे पवत्तितुं समत्था. तथा च वुत्तं ‘‘सोतद्वारानुसारेना’’ति. नानप्पकारेनाति वक्खमानानं अनेकविहितानं ब्यञ्जनत्थग्गहणानं नानाकारेन. एतेन इमिस्सा योजनाय आकारत्थो एवं-सद्दो गहितोति दीपेति. पवत्तिभावप्पकासनन्ति पवत्तिया अत्थिभावप्पकासनं. सुतन्ति धम्मप्पकासनन्ति यस्मिं आरम्मणे वुत्तप्पकारा विञ्ञाणवीथि नानप्पकारेन पवत्ता, तस्स धम्मत्ता वुत्तं, न सुतसद्दस्स धम्मत्थत्ता. वुत्तस्सेवत्थस्स पाकटीकरणं ‘‘अयञ्हेत्था’’तिआदि. तत्थ विञ्ञाणवीथियाति करणत्थे करणवचनं. मयाति कत्तुअत्थे.

एवन्ति निद्दिसितब्बप्पकासनन्ति निदस्सनत्थं एवं-सद्दं गहेत्वा वुत्तं निदस्सेतब्बस्स निद्दिसितब्बत्ताभावाभावतो. तेन एवं-सद्देन सकलम्पि सुत्तं पच्चामट्ठन्ति दस्सेति. सुत-सद्दस्स किरियासद्दत्ता सवनकिरियाय च साधारणविञ्ञाणपबन्धपटिबद्धत्ता तत्थ च पुग्गलवोहारोति वुत्तं ‘‘सुतन्ति पुग्गलकिच्चप्पकासन’’न्ति. न हि पुग्गलवोहाररहिते धम्मपबन्धे सवनकिरिया लब्भतीति.

यस्स चित्तसन्तानस्सातिआदिपि आकारत्थमेव एवं-सद्दं गहेत्वा पुरिमयोजनाय अञ्ञथा अत्थयोजनं दस्सेतुं वुत्तं. तत्थ आकारपञ्ञत्तीति उपादापञ्ञत्ति एव धम्मानं पवत्तिआकारूपादानवसेन तथा वुत्ता. सुतन्ति विसयनिद्देसोति सोतब्बभूतो धम्मो सवनकिरियाकत्तुपुग्गलस्स सवनकिरियावसेन पवत्तिट्ठानन्ति कत्वा वुत्तं. चित्तसन्तानविनिमुत्तस्स परमत्थतो कस्सचि कत्तु अभावेपि सद्दवोहारेन बुद्धिपरिकप्पितभेदवचनिच्छाय चित्तसन्तानतो अञ्ञं विय तंसमङ्गिं कत्वा वुत्तं ‘‘चित्तसन्तानेन तंसमङ्गिनो’’ति. सवनकिरियाविसयोपि सोतब्बधम्मो सवनकिरियावसेन पवत्तचित्तसन्तानस्स इध परमत्थतो कत्तुभावतो, सवनवसेन चित्तप्पवत्तिया एव वा सवनकिरियाभावतो तंकिरियाकत्तु च विसयो होतीति वुत्तं ‘‘तंसमङ्गिनो कत्तुविसये’’ति. सुताकारस्स च थेरस्स सम्मानिच्छितभावतो आह ‘‘गहणसन्निट्ठान’’न्ति. एतेन वा अवधारणत्थं एवं-सद्दं गहेत्वा अयमत्थयोजना कताति दट्ठब्बं.

पुब्बे सुतानं नानाविहितानं सुत्तसङ्खातानं अत्थब्यञ्जनानं उपधारितरूपस्स आकारस्स निदस्सनस्स, अवधारणस्स वा पकासनसभावो एवं-सद्दोति तदाकारादिउपधारणस्स पुग्गलपञ्ञत्तिया उपादानभूतधम्मपबन्धब्यापारताय वुत्तं – ‘‘एवन्ति पुग्गलकिच्चनिद्देसो’’ति. सवनकिरिया पन पुग्गलवादिनोपि विञ्ञाणनिरपेक्खा नत्थीति विसेसतो विञ्ञाणब्यापारोति आह ‘‘सुतन्ति विञ्ञाणकिच्चनिद्देसो’’ति. ‘‘मे’’ति सद्दप्पवत्तिया एकन्तेनेव सत्तविसयत्ता विञ्ञाणकिच्चस्स च तत्थेव समोदहितब्बतो ‘‘मेति उभयकिच्चयुत्तपुग्गलनिद्देसो’’ति वुत्तं. अविज्जमानपञ्ञत्तिविज्जमानपञ्ञत्तिसभावा यथाक्कमं एवं-सद्द – सुत-सद्दानं अत्थाति ते तथारूप-पञ्ञत्ति-उपादानभूत-धम्मपबन्धब्यापारभावेन दस्सेन्तो आह – ‘‘एवन्ति पुग्गलकिच्चनिद्देसो, सुतन्ति विञ्ञाणकिच्चनिद्देसो’’ति. एत्थ च करणकिरियाकत्तुकम्मविसेसप्पकासनवसेन पुग्गलब्यापारविसयपुग्गलब्यापारनिदस्सनवसेन गहणाकारगाहकतब्बिसयविसेसनिद्देसवसेन कत्तुकरणब्यापारकत्तुनिद्देसवसेन च दुतियादयो चतस्सो अत्थयोजना दस्सिताति दट्ठब्बं.

सब्बस्सपि सद्दाधिगमनीयस्स अत्थस्स पञ्ञत्तिमुखेनेव पटिपज्जितब्बत्ता सब्बपञ्ञत्तीनञ्च विज्जमानादिवसेन छसु पञ्ञत्तिभेदेसु अन्तोगधत्ता तेसु ‘‘एव’’न्तिआदीनं पञ्ञत्तीनं सरूपं निद्धारेन्तो आह – ‘‘एवन्ति च मेति चा’’तिआदि. तत्थ ‘‘एव’’न्ति च ‘‘मे’’ति च वुच्चमानस्सत्थस्स आकारादिनो धम्मानं असल्लक्खणभावतो अविज्जमानपञ्ञत्तिभावोति आह – ‘‘सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ती’’ति. तत्थ सच्चिकट्ठपरमत्थवसेनाति भूतत्थउत्तमत्थवसेन. इदं वुत्तं होति – यो मायामरीचिआदयो विय अभूतत्थो, अनुस्सवादीहि गहेतब्बो विय अनुत्तमत्थो च न होति, सो रूपसद्दादिसभावो, रुप्पनानुभवनादिसभावो वा अत्थो सच्चिकट्ठो परमत्थो चाति वुच्चति, न तथा ‘‘एवं मे’’ति पदानं अत्थोति. एतमेवत्थं पाकटतरं कातुं ‘‘किञ्हेत्थ त’’न्तिआदि वुत्तं. सुतन्ति पन सद्दायतनं सन्धायाह ‘‘विज्जमानपञ्ञत्ती’’ति. तेनेव हि ‘‘यञ्हि तं एत्थ सोतेन उपलद्ध’’न्ति वुत्तं, ‘‘सोतद्वारानुसारेन उपलद्ध’’न्ति पन वुत्ते अत्थब्यञ्जनादिसब्बं लब्भति.

तं तं उपादाय वत्तब्बतोति सोतपथमागते धम्मे उपादाय तेसं उपधारिताकारादिनो पच्चामसनवसेन ‘‘एव’’न्ति, ससन्ततिपरियापन्ने खन्धे उपादाय ‘‘मे’’ति वत्तब्बत्ताति अत्थो. दिट्ठादिसभावरहिते सद्दायतने पवत्तमानोपि सुतवोहारो ‘‘दुतियं ततिय’’न्तिआदिको विय पठमादीनि दिट्ठमुतविञ्ञाते अपेक्खित्वाव पवत्तोति आह ‘‘दिट्ठादीनि उपनिधाय वत्तब्बतो’’ति असुतं न होतीति हि सुतन्ति पकासितोयमत्थोति. अत्तना पटिविद्धा सुत्तस्स पकारविसेसा ‘‘एव’’न्ति थेरेन पच्चामट्ठाति आह ‘‘असम्मोहं दीपेती’’ति. नानप्पकारपटिवेधसमत्थो होतीति एतेन वक्खमानस्स सुत्तस्स नानप्पकारतं दुप्पटिविज्झतञ्च दस्सेति. सुतस्स असम्मोसं दीपेतीति सुताकारस्स याथावतो दस्सियमानत्ता वुत्तं. असम्मोहेनाति सम्मोहाभावेन, पञ्ञाय एव वा सवनकालसम्भूताय तदुत्तरकालपञ्ञासिद्धि. एवं असम्मोसेनाति एत्थापि वत्तब्बं. ब्यञ्जनानं पटिविज्झितब्बो आकारो नातिगम्भीरो, यथासुतधारणमेव तत्थ करणीयन्ति सतिया ब्यापारो अधिको, पञ्ञा तत्थ गुणीभूताति वुत्तं ‘‘पञ्ञापुब्बङ्गमाया’’तिआदि ‘‘पञ्ञाय पुब्बङ्गमा’’ति कत्वा. पुब्बङ्गमता चेत्थ पधानता ‘‘मनोपुब्बङ्गमा’’तिआदीसु (ध. प. १, २) विय. पुब्बङ्गमताय वा चक्खुविञ्ञाणादीसु आवज्जनादीनं विय अप्पधानत्ते पञ्ञा पुब्बङ्गमा एतिस्साति अयम्पि अत्थो युज्जति. एवं सतिपुब्बङ्गमायाति एत्थापि वुत्तनयानुसारेन यथासम्भवमत्थो वेदितब्बो. अत्थब्यञ्जनसम्पन्नस्साति अत्थब्यञ्जनपरिपुण्णस्स, सङ्कासनपकासनविवरणविभजनउत्तानीकरणपञ्ञत्तिवसेन छहि अत्थपदेहि, अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतस्साति वा अत्थो दट्ठब्बो.

योनिसोमनसिकारं दीपेति एवं-सद्देन वुच्चमानानं आकारनिदस्सनावधारणत्थानं अविपरीतसद्धम्मविसयत्ताति अधिप्पायो. अविक्खेपं दीपेतीति ‘‘मूलपरियायं कत्थ भासित’’न्तिआदिपुच्छावसेन पकरणप्पत्तस्स वक्खमानस्स सुत्तस्स सवनं समाधानमन्तरेन न सम्भवतीति कत्वा वुत्तं. विक्खित्तचित्तस्सातिआदि तस्सेवत्थस्स समत्थनवसेन वुत्तं. सब्बसम्पत्तियाति अत्थब्यञ्जनदेसकपयोजनादिसम्पत्तिया. अविपरीतसद्धम्मविसयेहि विय आकारनिदस्सनावधारणत्थेहि योनिसोमनसिकारस्स, सद्धम्मस्सवनेन विय च अविक्खेपस्स यथा योनिसोमनसिकारेन फलभूतेन अत्तसम्मापणिधिपुब्बेकतपुञ्ञतानं सिद्धि वुत्ता तदविनाभावतो, एवं अविक्खेपेन फलभूतेन कारणभूतानं सद्धम्मस्सवनसप्पुरिसूपनिस्सयानं सिद्धि दस्सेतब्बा सिया अस्सुतवतो सप्पुरिसूपनिस्सयरहितस्स च तदभावतो. न हि विक्खित्तचित्तोतिआदिना समत्थनवचनेन पन अविक्खेपेन कारणभूतेन सप्पुरिसूपनिस्सयेन च फलभूतस्स सद्धम्मस्सवनस्स सिद्धि दस्सिता. अयं पनेत्थ अधिप्पायो युत्तो सिया – सद्धम्मस्सवनसप्पुरिसूपनिस्सया एकन्तेन अविक्खेपस्स कारणं बाहिरङ्गत्ता, अविक्खेपो पन सप्पुरिसूपनिस्सयो विय सद्धम्मस्सवनस्स एकन्तकारणन्ति. एवम्पि अविक्खेपेन सप्पुरिसूपनिस्सयसिद्धिजोतना न समत्थिताव, नो न समत्थिता विक्खित्तचित्तानं सप्पुरिसपयिरुपासनाभावस्स अत्थसिद्धत्ता. एत्थ च पुरिमं फलेन कारणस्स सिद्धिदस्सनं नदीपूरेन विय उपरि वुट्ठिसब्भावस्स, दुतियं कारणेन फलस्स सिद्धिदस्सनं दट्ठब्बं एकन्तवस्सिना विय मेघवुट्ठानेन वुट्ठिप्पवत्तिया.

भगवतो वचनस्स अत्थब्यञ्जनपभेदपरिच्छेदवसेन सकलसासनसम्पत्तिओगाहनाकारो निरवसेसपरहितपारिपूरिकारणन्ति वुत्तं ‘‘एवं भद्दको आकारो’’ति. यस्मा न होतीति सम्बन्धो. पच्छिमचक्कद्वयसम्पत्तिन्ति अत्तसम्मापणिधिपुब्बेकतपुञ्ञतासङ्खातं गुणद्वयं. अपरापरवुत्तिया चेत्थ चक्कभावो, चरन्ति एतेहि सत्ता सम्पत्तिभवेसूति वा. ये सन्धाय वुत्तं ‘‘चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तती’’तिआदि (अ. नि. ४.३१). पुरिमपच्छिमभावो चेत्थ देसनाक्कमवसेन दट्ठब्बो. पच्छिमचक्कद्वयसिद्धियाति पच्छिमचक्कद्वयस्स अत्थिताय. सम्मापणिहितत्तो पुब्बे च कतपुञ्ञो सुद्धासयो होति तदसुद्धिहेतूनं किलेसानं दूरीभावतोति आह – ‘‘आसयसुद्धि सिद्धा होती’’ति. तथा हि वुत्तं ‘‘सम्मापणिहितं चित्तं, सेय्यसो नं ततो करे’’ति (ध. प. ४३), ‘‘कतपुञ्ञोसि त्वं आनन्द, पधानमनुयुञ्ज, खिप्पं होहिसि अनासवो’’ति (दी. नि. २.२०७) च. तेनेवाह ‘‘आसयसुद्धिया अधिगमब्यत्तिसिद्धी’’ति. पयोगसुद्धियाति योनिसोमनसिकारपुब्बङ्गमस्स धम्मस्सवनपयोगस्स विसदभावेन. तथा चाह ‘‘आगमब्यत्तिसिद्धी’’ति. सब्बस्स वा कायवचीपयोगस्स निद्दोसभावेन. परिसुद्धकायवचीपयोगो हि विप्पटिसाराभावतो अविक्खित्तचित्तो परियत्तियं विसारदो होतीति.

नानप्पकारपटिवेधदीपकेनातिआदिना अत्थब्यञ्जनेसु थेरस्स एवंसद्दसुत-सद्दानं असम्मोहासम्मोसदीपनतो चतुपटिसम्भिदावसेन अत्थयोजनं दस्सेति. तत्थ सोतब्बभेदपटिवेधदीपकेनाति एतेन अयं सुत-सद्दो एवं-सद्दसन्निधानतो, वक्खमानापेक्खाय वा सामञ्ञेनेव सोतब्बधम्मविसेसं आमसतीति दस्सेति. मनोदिट्ठिकरणा परियत्तिधम्मानं अनुपेक्खनसुप्पटिवेधा विसेसतो मनसिकारपटिबद्धाति ते वुत्तनयेन योनिसोमनसिकारदीपकेन एवंसद्देन योजेत्वा, सवनधारणवचीपरिचया परियत्तिधम्मानं विसेसेन सोतावधानपटिबद्धाति ते अविक्खेपदीपकेन सुत-सद्देन योजेत्वा दस्सेन्तो सासनसम्पत्तिया धम्मस्सवने उस्साहं जनेति. तत्थ धम्माति परियत्तिधम्मा. मनसानुपेक्खिताति ‘‘इध सीलं कथितं, इध समाधि, इध पञ्ञा, एत्तका एत्थ अनुसन्धियो’’तिआदिना नयेन मनसा अनु अनु पेक्खिता. दिट्ठिया सुप्पटिविद्धाति निज्झानक्खन्तिभूताय, ञातपरिञ्ञासङ्खाताय वा दिट्ठिया तत्थ तत्थ वुत्तरूपारूपधम्मे ‘‘इति रूपं, एत्तकं रूप’’न्तिआदिना सुट्ठु ववत्थपेत्वा पटिविद्धा.

सकलेन वचनेनाति पुब्बे तीहि पदेहि विसुं विसुं योजितत्ता वुत्तं. अत्तनो अदहन्तोति ‘‘ममेद’’न्ति अत्तनि अट्ठपेन्तो. असप्पुरिसभूमिन्ति अकतञ्ञुतं ‘‘इधेकच्चो पापभिक्खु तथागतप्पवेदितं धम्मविनयं परियापुणित्वा अत्तनो दहती’’ति (पारा. १९५) एवं वुत्तं अनरियवोहारावत्थं, सा एव अनरियवोहारावत्था असद्धम्मो. ननु च आनन्दत्थेरस्स ‘‘ममेदं वचन’’न्ति अधिमानस्स, महाकस्सपत्थेरादीनञ्च तदासङ्काय अभावतो असप्पुरिसभूमिसमतिक्कमादिवचनं निरत्थकन्ति? नयिदमेवं ‘‘एवं मे सुत’’न्ति वदन्तेन अयम्पि अत्थो विभावितोति दस्सनतो. केचि पन ‘‘देवतानं परिवितक्कापेक्खं तथावचनन्ति एदिसी चोदना अनवकासावा’’ति वदन्ति. तस्मिं किर खणे एकच्चानं देवतानं एवं चेतसो परिवितक्को उदपादि ‘‘भगवा च परिनिब्बुतो, अयञ्च आयस्मा देसनाकुसलो, इदानि धम्मं देसेति सक्यकुलप्पसुतो तथागतस्स भाता चूळपितुपुत्तो, किं नु खो सयं सच्छिकतं धम्मं देसेति, उदाहु भगवतोयेव वचनं यथासुत’’न्ति. एवं तदासङ्कितप्पकारतो असप्पुरिसभूमिसमोक्कमादितो अतिक्कमादि विभावितन्ति. अप्पेतीति निदस्सेति. दिट्ठधम्मिकसम्परायिकपरमत्थेसु यथारहं सत्ते नेतीति नेत्ति, धम्मोयेव नेत्ति धम्मनेत्ति.

दळ्हतरनिविट्ठा विचिकिच्छा कङ्खा. नातिसंसप्पना मतिभेदमत्ता विमति. अस्सद्धियं विनासेति भगवता देसितत्ता, सम्मुखावस्स पटिग्गहितत्ता, खलितदुरुत्तादिगहणदोसाभावतो च. एत्थ च पठमादयो तिस्सो अत्थयोजना आकारादिअत्थेसु अग्गहितविसेसमेव एवं-सद्दं गहेत्वा दस्सिता, ततो परा चतस्सो आकारत्थमेव एवं-सद्दं गहेत्वा विभाविता, पच्छिमा पन तिस्सो यथाक्कमं आकारत्थं निदस्सनत्थं अवधारणत्थञ्च एवं-सद्दं गहेत्वा योजिताति दट्ठब्बं.

एक-सद्दो अञ्ञसेट्ठासहायसङ्ख्यादीसु दिस्सति. तथा हेस ‘‘सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञन्ति इत्थेके अभिवदन्ती’’तिआदीसु (म. नि. ३.२७) अञ्ञत्थे दिस्सति, ‘‘चेतसो एकोदिभाव’’न्तिआदीसु (दी. नि. १.२२८) सेट्ठत्थे, ‘‘एको वूपकट्ठो’’तिआदीसु (दी. नि. १.४०५) असहाये, ‘‘एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु सङ्ख्यायं. इधापि सङ्ख्यायन्ति दस्सेन्तो आह ‘‘एकन्ति गणनपरिच्छेदनिद्देसो’’ति. कालञ्च समयञ्चाति युत्तकालञ्च पच्चयसामग्गिञ्च खणोति ओकासो. तथागतुप्पादादिको हि मग्गब्रह्मचरियस्स ओकासो तप्पच्चयपटिलाभहेतुत्ता. खणो एव च समयो. यो ‘‘खणो’’ति च ‘‘समयो’’ति च वुच्चति, सो एकोवाति हि अत्थो महासमयोति महासमूहो. समयोपि खोति सिक्खापदपूरणस्स हेतुपि. समयप्पवादकेति दिट्ठिप्पवादके. तत्थ हि निसिन्ना तित्थिया अत्तनो अत्तनो समयं पवदन्तीति. अत्थाभिसमयाति हितपटिलाभा. अभिसमेतब्बोति अभिसमयो, अभिसमयो अत्थो अभिसमयट्ठोति पीळनादीनि अभिसमेतब्बभावेन एकीभावं उपनेत्वा वुत्तानि. अभिसमयस्स वा पटिवेधस्स विसयभूतो अत्थो अभिसमयट्ठोति. तानेव तथा एकत्तेन वुत्तानि. तत्थ पीळनं दुक्खसच्चस्स तंसमङ्गिनो हिंसनं अविप्फारिकताकरणं. सन्तापो दुक्खदुक्खतादिवसेन सन्तापनं परिदहनं.

तत्थ सहकारीकारणं सन्निज्झं समेति समवेतीति समयो, समवायो. समेति समागच्छति मग्गब्रह्मचरियं एत्थ तदाधारपुग्गलेहीति समयो, खणो. समेति एत्थ, एतेन वा संगच्छति सत्तो, सभावधम्मो वा सहजातादीहि उप्पादादीहि वाति समयो, कालो. धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं करणं विय च कप्पनामत्तसिद्धेन रूपेन वोहरीयतीति. समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समयो, समूहो यथा ‘‘समुदायो’’ति. अवयवसहावट्ठानमेव हि समूहोति. अवसेसपच्चयानं समागमे एति फलं एतस्मा उप्पज्जति पवत्तति चाति समयो, हेतु यथा ‘‘समुदयो’’ति. समेति संयोजनभावतो सम्बन्धो एति अत्तनो विसये पवत्तति, दळ्हग्गहणभावतो वा संयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो, दिट्ठि; दिट्ठिसञ्ञोजनेन हि सत्ता अतिविय बज्झन्तीति. समिति सङ्गति समोधानन्ति समयो, पटिलाभो. समयनं, सम्मा वा अयनं अपगमोति समयो, पहानं. अभिमुखं ञाणेन सम्मा एतब्बो अभिसमेतब्बोति अभिसमयो, धम्मानं अविपरीतो सभावो. अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति अभिसमयो, धम्मानं अविपरीतसभावावबोधो. एवं तस्मिं तस्मिं अत्थे समय-सद्दस्स पवत्ति वेदितब्बा. समयसद्दस्स अत्थुद्धारे अभिसमयसद्दस्स उदाहरणं वुत्तनयेनेव वेदितब्बं. अस्साति समयसद्दस्स. कालो अत्थो समवायादीनं अत्थानं इध असम्भवतो, देसदेसकपरिसानं विय सुत्तस्स निदानभावेन कालस्स अपदिसितब्बतो च.

कस्मा पनेत्थ अनियमितवसेनेव कालो निद्दिट्ठो, न उतुसंवच्छरादिवसेन नियमेत्वाति? आह – ‘‘तत्थ किञ्चापी’’तिआदि. उतुसंवच्छरादिवसेन नियमं अकत्वा समयसद्दस्स वचनेन अयम्पि गुणो लद्धो होतीति दस्सेन्तो ‘‘ये वा इमे’’तिआदिमाह. सामञ्ञजोतना हि विसेसे अवतिट्ठतीति. तत्थ दिट्ठधम्मसुखविहारसमयो देवसिकं झानफलसमापत्तीहि वीतिनामनकालो, विसेसतो सत्तसत्ताहानि. सुप्पकासाति दससहस्सिलोकधातुसंकम्पनओभासपातुभावादीहि पाकटा. यथावुत्तभेदेसु एव समयेसु एकदेसं पकारन्तरेहि सङ्गहेत्वा दस्सेतुं ‘‘यो चाय’’न्तिआदिमाह. तथा हि ञाणकिच्चसमयो अत्तहितपटिपत्तिसमयो च अभिसम्बोधिसमयो, अरियतुण्हीभावसमयो दिट्ठधम्मसुखविहारसमयो, करुणाकिच्चपरहितपटिपत्तिधम्मिकथासमयो देसनासमयो एव.

करणवचनेन निद्देसो कतोति सम्बन्धो. तत्थाति अभिधम्मतदञ्ञसुत्तपदविनयेसु. तथाति भुम्मकरणेहि. अधिकरणत्थो आधारत्थो. भावो नाम किरिया, ताय किरियन्तरलक्खणं भावेनभावलक्खणं. तत्थ यथा कालो सभावधम्मपरिच्छिन्नो सयं परमत्थतो अविज्जमानोपि आधारभावेन पञ्ञातो तङ्खणप्पवत्तानं ततो पुब्बे परतो च अभावतो ‘‘पुब्बण्हे जातो, सायन्हे गच्छती’’ति च आदीसु, समूहो च अवयवविनिमुत्तो अविज्जमानोपि कप्पनामत्तसिद्धो अवयवानं आधारभावेन पञ्ञापीयति ‘‘रुक्खे साखा, यवरासियं सम्भूतो’’तिआदीसु, एवं इधापीति दस्सेन्तो आह ‘‘अधिकरणञ्हि…पे… धम्मान’’न्ति. यस्मिं काले धम्मपुञ्जे वा कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिं एव काले धम्मपुञ्जे च फस्सादयोपि होन्तीति अयञ्हि तत्थ अत्थो. यथा च ‘‘गावीसु दुय्हमानासु गतो, दुद्धासु आगतो’’ति दोहनकिरियाय गमनकिरिया लक्खीयति, एवं इधापि ‘‘यस्मिं समये, तस्मिं समये’’ति च वुत्ते ‘‘सती’’ति अयमत्थो विञ्ञायमानो एव होति पदत्थस्स सत्ताविरहाभावतोति समयस्स सत्ताकिरियाय चित्तस्स उप्पादकिरिया फस्सादीनं भवनकिरिया च लक्खीयति. यस्मिं समयेति यस्मिं नवमे खणे, यस्मिं योनिसोमनसिकारादिहेतुम्हि, पच्चयसमवाये वा सति कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव खणे, हेतुम्हि, पच्चयसमवाये वा फस्सादयोपि होन्तीति उभयत्थ समयसद्दे भुम्मनिद्देसो कतो लक्खणभूतभावयुत्तोति दस्सेन्तो आह ‘‘खण…पे… लक्खीयती’’ति.

हेतुअत्थो करणत्थो च सम्भवति ‘‘अन्नेन वसति, अज्झेनेन वसति, फरसुना छिन्दति, कुदालेन खणती’’तिआदीसु विय. वीतिक्कमञ्हि सुत्वा भिक्खुसङ्घं सन्निपातापेत्वा ओतिण्णवत्थुकं पुग्गलं पटिपुच्छित्वा विगरहित्वा च तं तं वत्थुं ओतिण्णकालं अनतिक्कमित्वा तेनेव कालेन सिक्खापदानि पञ्ञपेन्तो भगवा विहरति सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो ततियपाराजिकादीसु विय.

अच्चन्तमेव आरम्भतो पट्ठाय याव देसनानिट्ठानं परहितपटिपत्तिसङ्खातेन करुणाविहारेन. तदत्थजोतनत्थन्ति अच्चन्तसंयोगत्थजोतनत्थं. उपयोगवचननिद्देसो कतो यथा ‘‘मासं अज्झेती’’ति.

पोराणाति अट्ठकथाचरिया. अभिलापमत्तभेदोति वचनमत्तेन विसेसो. तेन सुत्तविनयेसु विभत्तिब्यत्तयो कतोति दस्सेति.

सेट्ठन्ति सेट्ठवाचकं वचनं ‘‘सेट्ठ’’न्ति वुत्तं सेट्ठगुणसहचरणतो. तथा उत्तमन्ति एत्थापि. गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगतो, गरुकरणारहताय वा गारवयुत्तो. वुत्तोयेव, न पन इध वत्तब्बो विसुद्धिमग्गस्स इमिस्सा अट्ठकथाय एकदेसभावतोति अधिप्पायो.

अपरो नयो (सं. नि. टी. १.१.१; सारत्थ. टी. १.विनयानिसंसकथावण्णना; विसुद्धि. महाटी. १.१४४; इतिवु. अट्ठ. गन्थारम्भकथा) – भागवाति भगवा, भतवाति भगवा, भागे वनीति भगवा, भगे वनीति भगवा, भत्तवाति भगवा, भगे वमीति भगवा, भागे वमीति भगवा.

भगवा भतवा भागे, भगे च वनि भत्तवा;

भगे वमि तथा भागे, वमीति भगवा जिनो.

तत्थ कथं भागवाति भगवा? ये ते सीलादयो धम्मक्खन्धा गुणभागा गुणकोट्ठासा, ते अनञ्ञसाधारणा निरतिसया तथागतस्स अत्थि उपलब्भन्ति. तथा हिस्स सीलं, समाधि, पञ्ञा, विमुत्ति, विमुत्तिञाणदस्सनं, हिरी, ओत्तप्पं, सद्धा, वीरियं, सति सम्पजञ्ञं, सीलविसुद्धि, दिट्ठिविसुद्धि, समथो, विपस्सना, तीणि कुसलमूलानि, तीणि सुचरितानि, तयो सम्मावितक्का, तिस्सो अनवज्जसञ्ञा, तिस्सो धातुयो, चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, चत्तारो अरियमग्गा, चत्तारि अरियफलानि, चतस्सो पटिसम्भिदा, चतुयोनिपटिच्छेदकञाणं, चत्तारो अरियवंसा, चत्तारि वेसारज्जञाणानि, पञ्च पधानियङ्गानि, पञ्चङ्गिको सम्मासमाधि, पञ्चञाणिको सम्मासमाधि, पञ्चिन्द्रियानि, पञ्च बलानि, पञ्च निस्सारणीया धातुयो, पञ्च विमुत्तायतनञाणानि, पञ्च विमुत्तिपरिपाचनीया सञ्ञा, छ अनुस्सतिट्ठानानि, छ गारवा, छ निस्सारणीया धातुयो, छ सततविहारा, छ अनुत्तरियानि, छ निब्बेधभागिया सञ्ञा, छ अभिञ्ञा, छ असाधारणञाणानि, सत्त अपरिहानिया धम्मा, सत्त अरियधम्मा, सत्त अरियधनानि, सत्त बोज्झङ्गा, सत्त सप्पुरिसधम्मा, सत्त निज्जरवत्थूनि, सत्त सञ्ञा, सत्त दक्खिणेय्यपुग्गलदेसना, सत्त खीणासवबलदेसना, अट्ठ पञ्ञापटिलाभहेतुदेसना, अट्ठ सम्मत्तानि, अट्ठ लोकधम्मातिक्कमा, अट्ठ आरम्भवत्थूनि, अट्ठ अक्खणदेसना, अट्ठ महापुरिसवितक्का, अट्ठ अभिभायतनदेसना, अट्ठ विमोक्खा, नव योनिसोमनसिकारमूलका धम्मा, नव पारिसुद्धिपधानियङ्गानि, नव सत्तावासदेसना, नव आघातपटिविनया, नव सञ्ञा, नव नानत्ता, नव अनुपुब्बविहारा, दस नाथकरणा धम्मा, दस कसिणायतनानि, दस कुसलकम्मपथा, दस सम्मत्तानि, दस अरियवासा, दस असेक्खधम्मा, दस तथागतबलानि, एकादस मेत्तानिसंसा, द्वादस धम्मचक्काकारा, तेरस धुतगुणा, चुद्दस बुद्धञाणानि, पञ्चदस विमुत्तिपरिपाचनीया धम्मा, सोळसविधा आनापानस्सति, सोळस अपरन्तपनीया धम्मा, अट्ठारस बुद्धधम्मा, एकूनवीसति पच्चवेक्खणञाणानि, चतुचत्तालीस ञाणवत्थूनि, पञ्ञास उदयब्बयञाणानि, परोपण्णास कुसलधम्मा, सत्तसत्तति ञाणवत्थूनि, चतुवीसतिकोटिसतसहस्ससङ्खासमापत्तिसञ्चारिमहावजिरञाणं, अनन्तनयसमन्तपट्ठानपविचयपच्चवेक्खणदेसनाञाणानि तथा अनन्तासु लोकधातूसु अनन्तानं सत्तानं आसयादिविभावनञाणानि चाति एवमादयो अनन्तापरिमाणभेदा अनञ्ञसाधारणा निरतिसया गुणभागा गुणकोट्ठासा संविज्जन्ति उपलब्भन्ति, तस्मा यथावुत्तविभागा गुणभागा अस्स अत्थीति ‘‘भागवा’’ति वत्तब्बे आ-कारस्स रस्सत्तं कत्वा ‘‘भगवा’’ति वुत्तो. एवं ताव भागवाति भगवा.

यस्मा सीलादयो सब्बे, गुणभागा असेसतो;

विज्जन्ति सुगते तस्मा, भगवाति पवुच्चतीति.

कथं भतवाति भगवा? ये ते सब्बलोकहिताय उस्सुक्कमापन्नेहि मनुस्सत्तादिके अट्ठ धम्मे समोधानेत्वा सम्मासम्बोधिया कतमहाभिनीहारेहि महाबोधिसत्तेहि परिपूरितब्बा दानपारमी, सील, नेक्खम्म, पञ्ञा, वीरिय, खन्ति, सच्च, अधिट्ठान, मेत्ता, उपेक्खापारमीति दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समतिंस पारमियो, दानादीनि चत्तारि सङ्गहवत्थूनि, सच्चादीनि चत्तारि अधिट्ठानानि, अङ्गपरिच्चागो नयनधनरज्जपुत्तदारपरिच्चागोति पञ्च महापरिचागा, पुब्बयोगो, पुब्बचरिया, धम्मक्खानं, ञातत्थचरिया, लोकत्थचरिया, बुद्धिचरियाति एवमादयो, सङ्खेपतो वा सब्बे पुञ्ञञाणसम्भारा बुद्धकरधम्मा, ते महाभिनीहारतो पट्ठाय कप्पानं सतसहस्साधिकानि चत्तारि असङ्खेय्यानि यथा हानभागिया संकिलेसभागिया ठितिभागिया वा न होन्ति, अथ खो उत्तरुत्तरि विसेसभागियाव होन्ति, एवं सक्कच्चं निरन्तरं अनवसेसतो भता सम्भता अस्स अत्थीति ‘‘भतवा’’ति वत्तब्बे ‘‘भगवा’’ति वुत्तो निरुत्तिनयेन त-कारस्स ग-कारं कत्वा. अथ वा भतवाति तेयेव यथावुत्ते बुद्धकरधम्मे वुत्तनयेनेव भरि सम्भरि, परिपूरेसीति अत्थो. एवम्पि भतवाति भगवा.

सम्मासम्बोधिया सब्बे, दानपारमिआदिके;

सम्भारे भतवा नाथो, तेनापि भगवा मतोति.

कथं भागे वनीति भगवा? ये ते चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं वळञ्जनकसमापत्तिभागा, ते अनवसेसतो लोकहितत्थं अत्तनो च दिट्ठधम्मसुखविहारत्थं निच्चकप्पं वनि भजि सेवि बहुलमकासीति भागे वनीति भगवा. अथ वा अभिञ्ञेय्यधम्मेसु कुसलादीसु खन्धादीसु च ये ते परिञ्ञेय्यादिवसेन सङ्खेपतो वा चतुब्बिधा अभिसमयभागा, वित्थारतो पन ‘‘चक्खु परिञ्ञेय्यं सोतं…पे… जरामरणं परिञ्ञेय्य’’न्तिआदिना (पटि. म. १.२१) अनेके परिञ्ञेय्यभागा, ‘‘चक्खुस्स समुदयो पहातब्बो…पे… जरामरणस्स समुदयो पहातब्बो’’तिआदिना पहातब्बभागा, ‘‘चक्खुस्स निरोधो…पे… जरामरणस्स निरोधो सच्छिकातब्बो’’तिआदिना सच्छिकातब्बभागा, ‘‘चक्खुस्स निरोधगामिनी पटिपदा’’तिआदिना, ‘‘चत्तारो सतिपट्ठाना’’तिआदिना च अनेकभेदा भावेतब्बभागा च धम्मा, ते सब्बे वनि भजि यथारहं गोचरभावनासेवनानं वसेन सेवि. एवम्पि भागे वनीति भगवा. अथ वा ‘‘ये इमे सीलादयो धम्मक्खन्धा सावकेहि साधारणा गुणभागा गुणकोट्ठासा, किन्ति नु खो ते विनेय्यसन्तानेसु पतिट्ठपेय्य’’न्ति महाकरुणाय वनि अभिपत्थयि, सा चस्स अभिपत्थना यथाधिप्पेतफलावहा अहोसि. एवम्पि भागे वनीति भगवा.

यस्मा ञेय्यसमापत्तिगुणभागे असेसतो;

भजि पत्थयि सत्तानं, हिताय भगवा ततोति.

कथं भगे वनीति भगवा? समासतो ताव कतपुञ्ञेहि पयोगसम्पन्नेहि यथाविभवं भजीयन्तीति भगा, लोकियलोकुत्तरा सम्पत्तियो. तत्थ लोकिये ताव तथागतो सम्बोधितो पुब्बे बोधिसत्तभूतो परमुक्कंसगते वनि भजि सेवि, यत्थ पतिट्ठाय निरवसेसतो बुद्धकरधम्मे समन्नानेन्तो बुद्धधम्मे परिपाचेसि, बुद्धभूतो पन ते निरवज्जसुखूपसंहिते अनञ्ञसाधारणे लोकुत्तरेपि वनि भजि सेवि, वित्थारतो पन पदेसरज्जइस्सरियचक्कवत्तिसम्पत्ति-देवरज्जसम्पत्तिआदिवसेन- झानविमोक्खसमाधिसमापत्तिञाणदस्सन-मग्गभावनाफलसच्छि- किरियादि-उत्तरिमनुस्सधम्मवसेन च अनेकविहिते अनञ्ञसाधारणे भगे वनि भजि सेवि. एवम्पि भगे वनीति भगवा.

या ता सम्पत्तियो लोके, या च लोकुत्तरा पुथु;

सब्बा ता भजि सम्बुद्धो, तस्मापि भगवा मतोति.

कथं भत्तवाति भगवा? भत्ता दळ्हभत्तिका अस्स बहू अत्थीति भत्तवा. तथागतो हि महाकरुणासब्बञ्ञुतञ्ञाणादिअपरिमितनिरुपमपभावगुणविसेससमङ्गिभावतो सब्बसत्तुत्तमो, सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्चन्तूपकारिताय द्वत्तिंसमहापुरिसलक्खण-असीतिअनुब्यञ्जन-ब्यामप्पभादिअनञ्ञसाधारण- विसेसपटिमण्डित-रूपकायताय यथाभुच्च-गुणाधिगतेन ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्तेन लोकत्तयब्यापिना सुविपुलेन सुविसुद्धेन च थुतिघोसेन समन्नागतत्ता उक्कंसपारमिप्पत्तासु अप्पिच्छतासन्तुट्ठिआदीसु सुप्पतिट्ठितभावतो दसबलचतुवेसारज्जादिनिरतिसयगुणविसेस-समङ्गिभावतो च रूपप्पमाणो रूपप्पसन्नो, घोसप्पमाणो घोसप्पसन्नो, लूखप्पमाणो लूखप्पसन्नो, धम्मप्पमाणो धम्मप्पसन्नोति एवं चतुप्पमाणिके लोकसन्निवासे सब्बथापि पसादावहभावेन समन्तपासादिकत्ता अपरिमाणानं सत्तानं सदेवमनुस्सानं आदरबहुमानगारवायतनताय परमपेमसम्भत्तिट्ठानं. ये तस्स ओवादे पतिट्ठिता अवेच्चप्पसादेन समन्नागता होन्ति, केनचि असंहारिया तेसं पसादभत्ति समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा. तथा हि ते अत्तनो जीवितपरिच्चागेपि तत्थ पसादं न परिच्चजन्ति, तस्स वा आणं दळ्हभत्तिभावतो. तेनेवाह –

‘‘यो वे कतञ्ञू कतवेदि धीरो;

कल्याणमित्तो दळ्हभत्ति च होती’’ति. (जा. २.१७.७८);

‘‘सेय्यथापि, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति, एवमेव खो, भिक्खवे, यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती’’ति (अ. नि. ८.२०; उदा. ४५; चूळव. ३८५) च.

एवं भत्तवाति भगवा निरुत्तिनयेन एकस्स त-कारस्स लोपं कत्वा इतरस्स ग-कारं कत्वा.

गुणातिसययुत्तस्स, यस्मा लोकहितेसिनो;

सम्भत्ता बहवो सत्थु, भगवा तेन वुच्चतीति.

कथं भगे वमीति भगवा? यस्मा तथागतो बोधिसत्तभूतोपि पुरिमासु जातीसु पारमियो पूरेन्तो भगसङ्खातं सिरिं इस्सरियं यसञ्च वमि, उग्गिरि, खेळपिण्डं विय अनपेक्खो छड्डयि; पच्छिमत्तभावेपि हत्थागतं चक्कवत्तिसिरिं देवलोकाधिपच्चसदिसं चतुदीपिस्सरियं चक्कवत्तिसम्पत्तिसन्निस्सयं सत्तरतनसमुज्जलं यसञ्च तिणायपि अमञ्ञमानो निरपेक्खो पहाय अभिनिक्खमित्वा सम्मासम्बोधिं अभिसम्बुद्धो, तस्मा इमे सिरिआदिके भगे वमीति भगवा. अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा, सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोकविसेससन्निस्सया सोभा कप्पट्ठियभावतो, तेपि भगे वमि तन्निवासिसत्तावाससमतिक्कमनतो, तप्पटिबद्धछन्दरागपहानेन पजहीति. एवम्पि भगे वमीति भगवा.

चक्कवत्तिसिरिं यस्मा, यसं इस्सरियं सुखं;

पहासि लोकचित्तञ्च, सुगतो भगवा ततोति.

कथं भागे वमीति भगवा? भागा नाम सभागधम्मकोट्ठासा, ते खन्धायतनधातादिवसेन, तत्थापि रूपवेदनादिवसेन, पथवियादिअतीतादिवसेन च अनेकविधा. ते भगवा सब्बं पपञ्चं सब्बं योगं सब्बं गन्थं सब्बं संयोजनं समुच्छिन्दित्वा अमतं धातुं समधिगच्छन्तो वमि उग्गिरि, अनपेक्खो छड्डयि न पच्चागमि. तथा हेस ‘‘सब्बत्थमेव पथविं आपं तेजं वायं, चक्खुं सोतं घानं जिव्हं कायं मनं, रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे, चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं, चक्खुसम्फस्सं…पे… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे… मनोसम्फस्सजं वेदनं, चक्खुसम्फस्सजं सञ्ञं…पे… मनोसम्फस्सजं सञ्ञं, चक्खुसम्फस्सजं चेतनं…पे… मनोसम्फस्सजं चेतनं, रूपतण्हं…पे… धम्मतण्हं, रूपवितक्कं…पे… धम्मवितक्कं, रूपविचारं…पे… धम्मविचार’’न्तिआदिना अनुपदधम्मविभागवसेनपि सब्बेव धम्मकोट्ठासे अनवसेसतो वमि उग्गिरि, अनपेक्खपरिच्चागेन छड्डयि. वुत्तं हेतं ‘‘यं तं, आनन्द, चत्तं वन्तं मुत्तं पहीनं पटिनिस्सट्ठं, तं तथागतो पुन पच्चागमिस्सतीति नेतं ठानं विज्जती’’ति (दी. नि. २.१८३). एवम्पि भागे वमीति भगवा. अथ वा भागे वमीति सब्बेपि कुसलाकुसले सावज्जानवज्जे हीनपणीते कण्हसुक्कसप्पटिभागे धम्मे अरियमग्गञाणमुखेन वमि उग्गिरि अनपेक्खो परिच्चजि पजहि, परेसञ्च तथत्ताय धम्मं देसेसि. वुत्तम्पि चेतं ‘‘धम्मापि वो, भिक्खवे, पहातब्बा, पगेव अधम्मा (म. नि. १.२४०), कुल्लूपमं वो, भिक्खवे, धम्मं देसेस्सामि नित्थरणत्थाय, नो गहणत्थाया’’तिआदि (म. नि. १.२४०). एवम्पि भागे वमीति भगवा.

खन्धायतनधातादि-धम्मभागामहेसिना;

कण्हसुक्का यतो वन्ता, ततोपि भगवा मतोति.

तेन वुत्तं –

‘‘भागवा भतवा भागे, भगे च वनि भत्तवा;

भगे वमि तथा भागे, वमीति भगवा जिनो’’ति.

धम्मसरीरं पच्चक्खं करोतीति ‘‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’’ति (दी. नि. २.२१६) वचनतो धम्मस्स सत्थुभावपरियायो विज्जतीति कत्वा वुत्तं. वजिरसङ्घातसमानकायो परेहि अभेज्जसरीरत्ता. न हि भगवतो रूपकाये केनचि सक्का अन्तरायो कातुन्ति.

देसनासम्पत्तिं निद्दिसति वक्खमानस्स सकलस्स सुत्तस्स ‘‘एव’’न्ति निदस्सनतो. सावकसम्पत्तिं निद्दिसति पटिसम्भिदाप्पत्तेन पञ्चसु ठानेसु भगवता एतदग्गे ठपितेन मया महासावकेन सुतं, तञ्च खो मयाव सुतं, न अनुस्सुतिकं, न परम्पराभतन्ति इमस्स अत्थस्स दीपनतो. कालसम्पत्तिं निद्दिसति भगवा-सद्दसन्निधाने पयुत्तस्स समय-सद्दस्स कालस्स बुद्धुप्पादपटिमण्डितभावदीपनतो. बुद्धुप्पादपरमा हि कालसम्पदा. तेनेतं वुच्चति –

‘‘कप्पकसाये कलियुगे, बुद्धुप्पादो अहो महच्छरियं;

हुतावहमज्झे जातं, समुदितमकरन्दमरविन्द’’न्ति. (दी. नि. टी. १.१; सं. नि. टी. १.१.१; अ. नि. टी. १.१.१ रूपादिवग्गवण्णना);

भगवाति देसकसम्पत्तिं निद्दिसति गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनभावतो.

मङ्गलदिवसो सुखणो सुनक्खत्तन्ति अज्ज मङ्गलदिवसो, तस्मा सुनक्खत्तं, तत्थापि अयं सुखणो. मा अतिक्कमीति मा रत्तिविभायनं अनुदिक्खन्तानं रत्ति अतिक्कमीति एवं सम्बन्धो वेदितब्बो. उक्कासु ठितासु ठिताति उक्कट्ठा (दी. नि. टी. १.२५५; अ. नि. टी. २.४.३६). उक्कासु विज्जोतलन्तीसु ठिता पतिट्ठिताति मूलविभूजादिपक्खेपेन (पाणिनि ३.२.५) सद्दसिद्धि वेदितब्बा. निरुत्तिनयेन वा उक्कासु ठितासु ठिता आसीति उक्कट्ठा. अपरे पन भणन्ति ‘‘भूमिभागसम्पत्तिया मनुस्ससम्पत्तिया उपकरणसम्पत्तिया च सा नगरी उक्कट्ठगुणयोगतो ‘उक्कट्ठा’ति नामं लभी’’ति.

अविसेसेनाति न विसेसेन, विहारभावसामञ्ञेनाति अत्थो. इरियापथ…पे… विहारेसूति इरियापथविहारो दिब्बविहारो ब्रह्मविहारो अरियविहारोति एतेसु चतूसु विहारेसु. समङ्गिपरिदीपनन्ति समङ्गीभावपरिदीपनं. एतन्ति ‘‘विहरती’’ति एतं पदं. तथा हि तं ‘‘इधेकच्चो गिहीहि संसट्ठो विहरति सहनन्दी सहसोकी’’तिआदीसु (सं. नि. ४.२४१) इरियापथविहारे आगतं; ‘‘यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरती’’तिआदीसु (ध. स. १६०; विभ. ६२४) दिब्बविहारे; ‘‘सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदीसु (दी. नि. १.५५६; ३.३०८; म. नि. १.७७; २.३०९; ३.२३०) ब्रह्मविहारे; ‘‘सो खो अहं अग्गिवेस्सन तस्सायेव कथाय परियोसाने तस्मिं एव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि सन्निसादेमि एकोदिं करोमि समादहामि, येन सुदं निच्चकप्पं विहरामी’’तिआदीसु (म. नि. १.३८७) अरियविहारे.

तत्थ इरियनं वत्तनं इरिया, कायप्पयोगो. तस्सा पवत्तनुपायभावतो ठानादि इरियापथो. ठानसमङ्गी वा हि कायेन किञ्चि करेय्य गमनादीसु अञ्ञतरसमङ्गी वा. अथ वा इरियति पवत्तति एतेन अत्तभावो, कायकिच्चं वाति इरिया, तस्सा पवत्तिया उपायभावतो पथोति इरियापथो, ठानादि एव. सो च अत्थतो गतिनिवत्तिआदिआकारेन पवत्तो चतुसन्ततिरूपपबन्धो एव. विहरणं, विहरति एतेनाति वा विहारो, इरियापथो एव विहारो इरियापथविहारो. दिवि भवोति दिब्बो. तत्थ बहुलप्पवत्तिया ब्रह्मपारिसज्जादिदेवलोके भवोति अत्थो. तत्थ यो दिब्बानुभावो, तदत्थाय संवत्ततीति वा दिब्बो, अभिञ्ञाभिनीहारवसेन महागतिकत्ता वा दिब्बो, दिब्बो च सो विहारो चाति दिब्बविहारो, चतस्सो रूपावचरसमापत्तियो. आरुप्पसमापत्तियोपि एत्थेव सङ्गहं गच्छन्ति. ब्रह्मूनं, ब्रह्मानो वा विहारा ब्रह्मविहारा, चतस्सो अप्पमञ्ञायो. अरियानं, अरिया वा विहारा अरियविहारा, चत्तारि सामञ्ञफलानि. सो हि भगवा एकं इरियापथबाधनन्तिआदि यदिपि भगवा एकेनपि इरियापथेन चिरतरं कालं अत्तभावं पवत्तेतुं सक्कोति, तथापि ‘‘उपादिन्नकसरीरस्स नाम अयं सभावो’’ति दस्सेतुं वुत्तं. यस्मा वा भगवा यत्थ कत्थचि वसन्तो वेनेय्यानं धम्मं देसेन्तो, नानासमापत्तीहि च कालं वीतिनामेन्तो वसतीति वेनेय्यसत्तानं अत्तनो च विविधं हितसुखं हरति उपनेति उप्पादेति, तस्मा विविधं हरतीति एवमेत्थ अत्थो वेदितब्बो.

सुभगत्ताति सिरीकामानवसेन सोभनत्ता. तेनेवाह ‘‘सुन्दरसिरिकत्ता सुन्दरकामत्ता चा’’ति. छणसमज्जउस्सवेति एत्थ छणं नाम फग्गुनमासादीसु उत्तरफग्गुनादि-अभिलक्खितदिवसेसु सपरिजनानं मनुस्सानं मङ्गलकरणं. समज्जं नाम नटसमज्जादि. उस्सवो नक्खत्तं. यत्थ गामनिगमवासिनो तयो सत्त वा दिवसे नक्खत्तघोसनं कत्वा यथाविभवं अलङ्कतपटियत्ता भोगे परिभुञ्जन्ता नक्खत्तकीळनं कीळन्ति. तेसं तं तथेव होतीति तेसं मनुस्सानं तं पत्थनं तन्निवासिदेवतानुभावेन येभुय्येन तथेव होति, पत्थना समिज्झतीति अत्थो. बहुजनकन्ततायाति इमिना ‘‘सुन्दरकामत्ता’’ति एतस्सेव पदस्स पकारन्तरेन अत्थं विभावेति. तत्रायं वचनत्थो – कमनीयट्ठेन सुट्ठु भजीयतीति सुभगं, सुभा अगा रुक्खा एत्थाति वा सुभगं, सुन्दरकित्तियोगतो वा ‘‘सुभग’’न्ति एवम्पेत्थ अत्थं वण्णेन्ति. केचि पन ‘‘सुभागवने’’ति पठन्ति, ‘‘सुन्दरभूमिभागे वने’’ति चस्स अत्थं वदन्ति. सुभगस्स नाम यक्खस्स वनं तेन परिग्गहितत्ताति ‘‘सुभगवन’’न्ति अञ्ञे. वननं भत्तीतिअत्थे तं वननं कारेतीति एतस्मिं अत्थे वनयतीति पदसिद्धि वेदितब्बा. तेनेवाह ‘‘अत्तनि सिनेहं उप्पादेती’’ति. याचनत्थे वनुते इति वनन्ति उपचारकप्पनावसेन वन-सद्दो वेदितब्बो.

उजुवंसाति उजुभूतविटपा. महासालाति महारुक्खा. अञ्ञतरस्मिं सालमूलेति अञ्ञतरस्स रुक्खस्स मूले. वनप्पतिजेट्ठकरुक्खोति वनप्पतिभूतो जेट्ठकरुक्खो. तमेव जेट्ठकभावन्ति वनप्पतिभावेनागतं सेट्ठभावं पधानभावं. तेन हि सो ‘‘सालराजा’’ति वुत्तो. उपगतानं रञ्जनट्ठेन राजा, अञ्ञस्मिम्पि तादिसे रुक्खे राजवोहारं दस्सेतुं ‘‘सुपतिट्ठितस्सा’’तिआदि वुत्तं. तत्थ ब्राह्मण धम्मिकाति आलपनं. निप्परियायेन साखादिमतो सङ्घातस्स सुप्पतिट्ठितभावसाधने अवयवविसेसे पवत्तमानो मूल-सद्दो. यस्मा तंसदिसेसु तन्निस्सये पदेसे च रुळ्हीवसेन परियायतो पवत्तति, तस्मा ‘‘मूलानि उद्धरेय्या’’ति एत्थ निप्परियायमूलं अधिप्पेतन्ति एकेन मूल-सद्देन विसेसेत्वा आह ‘‘मूलमूले दिस्सती’’ति यथा ‘‘दुक्खदुक्खं (सं. नि. ४.३२७), रूपरूप’’न्ति (विसुद्धि. २.४४९) च. असाधारणहेतुम्हीति असाधारणकारणे. लोभसहगतचित्तुप्पादानं एव आवेणिके नेसं सुप्पतिट्ठितभावसाधनतो मूलट्ठेन उपकारके पच्चयधम्मे दिस्सतीति अत्थो.

तत्थाति ‘‘एकं समयं भगवा उक्कट्ठायं विहरति सुभगवने सालराजमूले’’ति यं वुत्तं वाक्यं, तत्त. सियाति कस्सचि एवं परिवितक्को सिया, वक्खमानाकारेन कदाचि चोदेय्य वाति अत्थो. अथ तत्थ विहरतीति यदि सुभगवने सालराजमूले विहरति. न वत्तब्बन्ति नानाठानभूतत्ता उक्कट्ठासुभगवनानं, एकं समयन्ति च वुत्तत्ताति अधिप्पायो. इदानि चोदको तमेव अत्तनो अधिप्पायं ‘‘न हि सक्का’’तिआदिना विवरति. इतरो सब्बमेतं अविपरीतं अत्थं अजानन्तेन वुत्तन्ति दस्सेन्तो ‘‘न खो पनेतं एवं दट्ठब्ब’’न्ति आह. तत्थ एतन्ति ‘‘उक्कट्ठायं विहरति सुभगवने सालराजमूले’’ति एतं वचनं. एवन्ति ‘‘यदि ताव भगवा’’तिआदिना यं तं भवता चोदितं, तं अत्थतो एवं न खो पन दट्ठब्बं, न उभयत्थ अपुब्बअचरिमं विहारदस्सनत्थन्ति अत्थो.

इदानि अत्तनो यथाधिप्पेतं अविपरीतं अत्थं, तस्स च पटिकच्चेव वुत्तभावं, तेन च अप्पटिविद्धत्तं पकासेन्तो ‘‘ननु अवोचुम्ह…पे… सालराजमूले’’ति आह. एवम्पि ‘‘सुभगवने सालराजमूले विहरती’’च्चेव वत्तब्बं, न ‘‘उक्कट्ठाय’’न्ति चोदनं मनसि कत्वा वुत्तं ‘‘गोचरगामनिदस्सनत्थ’’न्तिआदि.

अवस्सं चेत्थ गोचरगामकित्तनं कातब्बं. तथा हि तं यथा सुभगवनादिकित्तनं पब्बजितानुग्गहकरणादिअनेकप्पयोजनं, एवं गहट्ठानुग्गहकरणादिविविधप्पयोजनन्ति दस्सेन्तो ‘‘उक्कट्ठाकित्तनेना’’तिआदिमाह. तत्थ पच्चयग्गहणेन उपसङ्कमनपयिरुपासनानं ओकासदानेन धम्मदेसनाय सरणेसु सीलेसु च पतिट्ठापनेन यथूपनिस्सयं उपरिविसेसाधिगमावहनेन च गहट्ठानग्गहकरणं, उग्गहपरिपुच्छानं कम्मट्ठानानुयोगस्स च अनुरूपवसनट्ठानपरिग्गहेनेत्थ पब्बजितानुग्गहकरणं वेदितब्बं. करुणाय उपगमनं, न लाभादिनिमित्तं, पञ्ञाय अपगमनं, न विरोधादिनिमित्तन्ति उपगमनापगमनानं निरुपक्किलेसतं विभावेति. धम्मिकसुखं नाम अनवज्जसुखं. देवानं उपकारबहुलता जनविवित्तताय. पचुरजनविवित्तं हि ठानं देवा उपसङ्कमितब्बं मञ्ञन्ति. तदत्थपरिनिप्फादनन्ति लोकत्थनिप्फादनं, बुद्धकिच्चसम्पादनन्ति अत्थो. एवमादिनाति आदि-सद्देन उक्कट्ठाकित्तनतो रूपकायस्स अनुग्गण्हनं दस्सेति, सुभगवनादिकित्तनतो धम्मकायस्स. तथा पुरिमेन पराधीनकिरियाकरणं, दुतियेन अत्ताधीनकिरियाकरणं. पुरिमेन वा करुणाकिच्चं, इतरेन पञ्ञाकिच्चं. पुरिमेन चस्स परमाय अनुकम्पाय समन्नागमं, पच्छिमेन परमाय उपेक्खाय समन्नागमं दीपेति. भगवा हि सब्बसत्ते परमाय अनुकम्पाय अनुकम्पति, न च तत्थ सिनेहदोसानुपतितो परमुपेक्खकभावतो, उपेक्खको च न च परहितसुखकरणे अप्पोसुक्को महाकारुणिकभावतो.

तस्स महाकारुणिकताय लोकनाथता, उपेक्खकताय अत्तनाथता. तथा हेस बोधिसत्तभूतो महाकरुणाय सञ्चोदितमानसो सकललोकहिताय उस्सुक्कमापन्नो महाभिनीहारतो पट्ठाय तदत्थनिप्फादनत्थं पुञ्ञञाणसम्भारे सम्पादेन्तो अपरिमितं कालं अनप्पकं दुक्खमनुभोसि, उपेक्खकताय सम्मा पतितेहि दुक्खेहि न विकम्पि. तथा महाकारुणिकताय संसाराभिमुखता, उपेक्खकताय ततो निब्बिन्दना. तथा उपेक्खकताय निब्बानाभिमुखता, महाकारुणिकताय तदधिगमो. तथा महाकारुणिकताय परेसं अभिंसापनं, उपेक्खकताय सयं परेहि अभायनं. महाकारुणिकताय परं रक्खतो अत्तनो रक्खणं, उपेक्खकताय अत्तानं रक्खतो परेसं रक्खणं. तेनस्स अत्तहिताय पटिपन्नादीसु चतुत्थपुग्गलभावो सिद्धो होति. तथा महाकारुणिकताय सच्चाधिट्ठानस्स चागाधिट्ठानस्स च पारिपूरि, उपेक्खकताय उपसमाधिट्ठानस्स पञ्ञाधिट्ठानस्स च पारिपूरि. एवं परिसुद्धासयपयोगस्स महाकारुणिकताय लोकहितत्थमेव रज्जसम्पदादिभवसम्पत्तिया उपगमनं, उपेक्खकताय तिणायपि अमञ्ञमानस्स ततो अपगमनं. इति सुविसुद्धउपगमापगमस्स महाकारुणिकताय लोकहितत्थमेव दानवसेन सम्पत्तीनं परिच्चजना, उपेक्खकताय चस्स फलस्स अत्तनो अपच्चासीसना. एवं समुदागमनतो पट्ठाय अच्छरियब्भुतगुणसमन्नागतस्स महाकारुणिकताय परेसं हितसुखत्थं अतिदुक्करकारिता, उपेक्खकताय कायम्पि अनलंकारिता.

तथा महाकारुणिकताय चरिमत्तभावे जिण्णातुरमतदस्सनेन सञ्जातसंवेगो, उपेक्खकताय उळारेसु देवभोगसदिसेसु भोगेसु निरपेक्खो महाभिनिक्खमनं निक्खमि. तथा महाकारुणिकताय ‘‘किच्छं वतायं लोको आपन्नो’’तिआदिना (दी. नि. २.५७; सं. नि. २.४, १०) करुणामुखेनेव विपस्सनारम्भो, उपेक्खकताय बुद्धभूतस्स सत्त सत्ताहानि विवेकसुखेनेव वीतिनामनं. महाकारुणिकताय धम्मगम्भीरतं पच्चवेक्खित्वा धम्मदेसनाय अप्पोसुक्कतं आपज्जित्वापि महाब्रह्मुनो अज्झेसनापदेसेन ओकासकरणं, उपेक्खकताय पञ्चवग्गियादि वेनेय्यानं अननुरूपसमुदाचारेपि अनञ्ञथाभावो. महाकारुणिकताय कत्थचि पटिघाताभावेनस्स सब्बत्थ अमित्तसञ्ञाय अभावो, उपेक्खकताय कत्थचिपि अनुरोधाभावेन सब्बत्थ सिनेहसन्थवाभावो. महाकारुणिकताय गामादीनं आसन्नट्ठाने वसन्तस्सपि उपेक्खकताय अरञ्ञट्ठाने एव विहरणं. तेन वुत्तं ‘‘पुरिमेन चस्स परमाय अन्नुकम्पाय समन्नागमं, पच्छिमेन परमाय उपेक्खाय समन्नागमं दीपेती’’ति.

न्ति ‘‘तत्रा’’ति पदं. देसकालपरिदीपनन्ति ये देसकाला इध विहरणकिरियाविसेसनभावेन वुत्ता, तेसं परिदीपनन्ति दस्सेन्तो ‘‘यं समयं…पे… दीपेती’’ति आह. तं-सद्दो हि वुत्तस्स अत्थस्स पटिनिद्देसो, तस्मा इध कालस्स, देसस्स वा पटिनिद्देसो भवितुं अरहति, न अञ्ञस्स. अयं ताव तत्र-सद्दस्स पटिनिद्देसभावे अत्थविभावना. यस्मा पन ईदिसेसु ठानेसु तत्र-सद्दो धम्मदेसनाविसिट्ठं देसं कालञ्च विभावेति, तस्मा वुत्तं ‘‘भासितब्बयुत्ते वा देसकाले दीपेती’’ति. तेन तत्राति यत्थ भगवा धम्मदेसनत्थं भिक्खू आलपि अभासि, तादिसे देसे, काले वाति अत्थो. न हीतिआदिना तमेवत्थं समत्थेति. ननु च यत्थ ठितो भगवा ‘‘अकालो खो तावा’’तिआदिना बाहियस्स धम्मदेसनं पटिक्खिपि, तत्थेव अन्तरवीथियं ठितो तस्स धम्मं देसेतीति? सच्चमेतं, अदेसेतब्बकाले अदेसनाय इदं उदाहरणं. तेनेवाह ‘‘अकालो खो तावा’’ति. यं पन तत्थ वुत्तं ‘‘अन्तरघरं पविट्ठम्हा’’ति (उदा. १०), तम्पि तस्स अकालभावस्सेव परियायेन दस्सनत्थं वुत्तं. तस्स हि तदा अद्धानपरिस्समेन रूपकाये अकम्मञ्ञता अहोसि, बलवपीतिवेगेन नामकाये, तदुभयस्स वूपसमं आगमेन्तो पपञ्चपरिहारत्थं भगवा ‘‘अकालो खो’’ति परियायेन पटिक्खिपि. अदेसेतब्बदेसे अदेसनाय पन उदाहरणं ‘‘अथ खो भगवा मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले निसीदि (सं. नि. २.१५४), विहारतो निक्खमित्वा विहारपच्छायायं पञ्ञत्ते आसने निसीदी’’ति (दी. नि. १.३६३) च एवमादिकं इध आदि-सद्देन सङ्गहितं.

‘‘अथ खो सो, भिक्खवे, बालो इध पुब्बे रसादो इध पापानि कम्मानि करित्वा’’तिआदीसु (म. नि. ३.२५१) पदपूरणमत्ते खो-सद्दो, ‘‘दुक्खं खो अगारवो विहरति अप्पतिस्सो’’तिआदीसु (अ. नि. ४.२१) अवधारणे, ‘‘कित्तावता नु खो, आवुसो, सत्थु पविवित्तस्स विहरतो सावका विवेकं नानुसिक्खन्ती’’तिआदीसु (म. नि. १.३१) आदिकालत्थे. वाक्यारम्भेति अत्थो. तत्थ पदपूरणेन वचनालङ्कारमत्तं कतं होति, आदिकालत्थेन वाक्यस्स उपञ्ञासमत्तं, अवधारत्थेन पन नियमदस्सनं, तस्मा आमन्तेसि एवाति आमन्तने नियमो दस्सितो होतीति.

‘‘भगवाति लोकगरुदीपन’’न्ति कस्मा वुत्तं, ननु पुब्बेपि भगवा-सद्दस्स अत्थो वुत्तोति? यदिपि पुब्बे वुत्तो, तं पनस्स यथावुत्ते ठाने विहरणकिरियाय कत्तुविसेसदस्सनत्थं कतं, न आमन्तनकिरियाय, इध पन आमन्तनकिरियाय, तस्मा तदत्थं पुन ‘‘भगवा’’ति पाळियं वुत्तन्ति तस्सत्थं दस्सेतुं ‘‘भगवाति लोकगरुदीपन’’न्ति आह. कथासवनयुत्तपुग्गलवचनन्ति वक्खमानाय मूलपरियायदेसनाय सवनयोग्यपुग्गलवचनं. चतूसुपि परिसासु भिक्खू एव एदिसानं देसनानं विसेसेन भाजनभूता, इति सातिसयसासनसम्पटिग्गाहकभावदस्सनत्थं इध भिक्खुगहणन्ति दस्सेत्वा इदानि सद्दत्थं दस्सेतुं ‘‘अपिचा’’तिआदिमाह.

तत्थ भिक्खकोति भिक्खूति भिक्खनधम्मताय भिक्खूति अत्थो. भिक्खाचरियं अज्झुपगतोति बुद्धादीहिपि अज्झुपगतं भिक्खाचरियं उञ्छाचरियं अज्झुपगतत्ता अनुट्ठितत्ता भिक्खू. यो हि कोचि अप्पं वा महन्तं वा भोगक्खन्धं पहाय अगारस्मा अनगारियं पब्बजितो, सो कसिगोरक्खादीहि जीविकाकप्पनं हित्वा लिङ्गसम्पटिच्छनेनेव भिक्खाचरियं अज्झुपगतत्ता भिक्खु, परपटिबद्धजीविकत्ता वा विहारमज्झे काजभत्तं भुञ्जमानोपि भिक्खाचरियं अज्झुपगतोति भिक्खु, पिण्डियालोपभोजनं निस्साय पब्बज्जाय उस्साहजातत्ता वा भिक्खाचरियं अज्झुपगतोति भिक्खूति एवम्पेत्थ अत्थो दट्ठब्बो. आदिना नयेनाति ‘‘भिन्नपटधरोति भिक्खु, भिन्दति पापके अकुसले धम्मेति भिक्खु, भिन्नत्ता पापकानं अकुसलानं धम्मानं भिक्खू’’तिआदिना विभङ्गे (विभ. ५१०) आगतनयेन. ञापनेति अवबोधने, पटिवेदनेति अत्थो.

भिक्खनसीलतातिआदीसु भिक्खनसीलता भिक्खनेन आजीवनसीलता, न कसिवणिज्जादीहि आजीवनसीलता. भिक्खनधम्मता ‘‘उद्दिस्स अरिया तिट्ठन्ती’’ति (पटि. म. १५३; मि. प. ४.५.९) एवं वुत्तभिक्खनसभावता, न सम्भावनाकोहञ्ञसभावता. भिक्खने साधुकारिता ‘‘उत्तिट्ठे नप्पमज्जेय्या’’ति (ध. प. १६८) वचनं अनुस्सरित्वा तत्थ अप्पमज्जना. अथ वा सीलं नाम पकतिसभावो, इध पन तदधिट्ठानं. धम्मोति वतं. अपरे पन ‘‘सीलं नाम वतसमादानं, धम्मो नाम पवेणीआगतं चारित्तं, साधुकारिताति सक्कच्चकारिता आदरकिरिया’’ति वण्णेन्ति. हीनाधिकजनसेवितन्ति ये भिक्खुभावे ठितापि जातिमदादिवसेन उद्धता उन्नळा. ये च गिहिभावे परेसु अत्थिकभावम्पि अनुपगतताय भिक्खाचरियं परमकापञ्ञतं मञ्ञन्ति, तेसं उभयेसम्पि यथाक्कमं ‘‘भिक्खवो’’ति वचनेन हीनजनेहि दलिद्देहि परमकापञ्ञतं पत्तेहि परकुलेसु भिक्खाचरियाय जीविकं कप्पेन्तेहि सेवितं वुत्तिं पकासेन्तो उद्धतभावनिग्गहं करोति, अधिकजनेहि उळारभोगखत्तियकुलादितो पब्बजितेहि बुद्धादीहि आजीवविसोधनत्थं सेवितं वुत्तिं पकासेन्तो दीनभावनिग्गहं करोतीति योजेतब्बं. यस्मा ‘‘भिक्खवो’’ति वचनं आमन्तनभावतो अभिमुखीकरणं, पकरणतो सामत्थियतो च सुस्सूसाजननं सक्कच्चसवनमनसिकारनियोजनञ्च होति. तस्मा तमत्थं दस्सेन्तो ‘‘भिक्खवोति इमिना’’तिआदिमाह.

तत्थ साधुकसवनमनसिकारेति साधुकसवने साधुकमनसिकारे च. कथं पन पवत्तिता सवनादयो साधुकं पवत्तिता होन्तीति? ‘‘अद्धा इमाय सम्मापटिपत्तिया सकलसासनसम्पत्ति हत्थगता भविस्सती’’ति आदरगारवयोगेन, कथादीसु अपरिभवनादिना च. वुत्तं हि ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तं. कतमेहि पञ्चहि? न कथं परिभोति, न कथिकं परिभोति, न अत्तानं परिभोति, अविक्खित्तचित्तो धम्मं सुणाति एकग्गचित्तो, योनिसो च मनसि करोति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो सुणन्तो सद्धम्मं भब्बो नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्त’’न्ति (अ. नि. ५.१५१). तेनेवाह ‘‘साधुकसवनमनसिकारायत्ता हि सासनसम्पत्ती’’ति. सासनसम्पत्ति नाम सीलादिनिप्फत्ति.

पठमं उप्पन्नत्ता अधिगमवसेन. सत्थुचरियानुविधायकत्ता सीलादिगुणानुट्ठानेन. तिण्णं यानानं वसेन अनुधम्मपटिपत्तिसब्भावतो सकलसासनपटिग्गाहकत्ता. सन्तिकत्ताति समीपभावतो. सन्तिकावचरत्ताति सब्बकालं सम्पयुत्तभावतो. यथानुसिट्ठन्ति अनुसासनिअनुरूपं, अनुसासनिं अनवसेसतो पटिग्गहेत्वाति अत्थो. एकच्चे भिक्खूयेव सन्धायाति ये सुत्तपरियोसाने ‘‘ते भिक्खू भगवतो भासितं अभिनन्दु’’न्ति वुत्ता पञ्चसता ब्राह्मणपब्बजिता, ते सन्धाय.

पुब्बे सब्बपरिससाधारणत्तेपि भगवतो धम्मदेसनाय ‘‘जेट्ठसेट्ठा’’तिआदिना भिक्खूनं एव आमन्तने कारणं दस्सेत्वा इदानि भिक्खू आमन्तेत्वाव धम्मदेसनाय पयोजनं दस्सेतुं ‘‘किमत्थं पन भगवा’’ति चोदनं समुट्ठापेसि. तत्थ अञ्ञं चिन्तेन्ताति अञ्ञविहिता. विक्खित्तचित्ताति असमाहितचित्ता. धम्मं पच्चवेक्खन्ताति तदा हिय्यो ततो परदिवसेसु वा सुतधम्मं पति पति मनसा अवेक्खन्ता. भिक्खू आमन्तेत्वा धम्मे देसियमाने आदितो पट्ठाय देसनं सल्लक्खेतुं सक्कोन्तीति इममेवत्थं ब्यतिरेकमुखेन दस्सेतुं ‘‘ते अनामन्तेत्वा’’तिआदि वुत्तं.

भिक्खवोतीति च सन्धिवसेन इ-कारलोपो दट्ठब्बो ‘‘भिक्खवो इती’’ति. अयं हि इति-सद्दो हेतु-परिसमापनादिपदत्थविपरियाय-पकारावधारणनिदस्सनादिअनेकत्थप्पभेदो. तथा हेस ‘‘रुप्पतीति खो, भिक्खवे, तस्मा ‘रूप’न्ति वुच्चती’’तिआदीसु (सं. नि. ३.७९) हेतुअत्थे दिस्सति; ‘‘तस्मा तिह मे, भिक्खवे, धम्मदायादा भवथ, मा आमिसदायादा, अत्थि मे तुम्हेसु अनुकम्पा ‘किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’ति’’आदीसु परिसमापने; ‘‘इति वा, इति एवरूपा नच्चगीतवादितविसूकदस्सना पटिविरतो’’तिआदीसु (दी. नि. १.१३) आदिअत्थे; ‘‘मागण्ठियोति तस्स ब्राह्मणस्स सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनमभिलापो’’तिआदीसु (महानि. ७३) पदत्थविपरियाये; ‘‘इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो, सउपद्दवो बालो, अनुपद्दवो पण्डितो, सउपसग्गो बालो, अनुपसग्गो पण्डितो’’तिआदीसु (म. नि. ३.१२४) पकारे; ‘‘अत्थि इदप्पच्चया जरामरणन्ति इति पुट्ठेन सता, आनन्द, अत्थीतिस्स वचनीयं, किं पच्चया जरामरणन्ति इति चे वदेय्य, जातिपच्चया जरामरणन्ति इच्चस्स वचनीय’’न्तिआदीसु (दी. नि. २.९६) अवधारणे; ‘‘सब्बमत्थीति खो, कच्चान, अयमेको अन्तो, सब्बं नत्थीति खो, कच्चान, अयं दुतियो अन्तो’’तिआदीसु (सं. नि. २.१५) निदस्सने. इधापि निदस्सनेव दट्ठब्बो. भिक्खवोति हि आमन्तिताकारो, तमेस इति-सद्दो निदस्सेति ‘‘भिक्खवोति आमन्तेसी’’ति. इमिना नयेन ‘‘भद्दन्ते’’तिआदीसुपि यथारहं इति-सद्दस्स अत्थो वेदितब्बो. पुब्बे ‘‘भगवा आमन्तेसी’’ति वुत्तत्ता ‘‘भगवतो पच्चस्सोसु’’न्ति इध ‘‘भगवतो’’ति सामिवचनं आमन्तनमेव सम्बन्धीअन्तरं अपेक्खतीति इमिना अधिप्पायेन ‘‘भगवतो आमन्तनं पटिअस्सोसु’’न्ति वुत्तं. ‘‘भगवतो’’ति पन इदं पटिस्सवसम्बन्धनेन सम्पदानवचनं यथा ‘‘देवदत्तस्स पटिस्सुणोती’’ति.

यं निदानं भासितन्ति सम्बन्धो. एत्थाह – किमत्थं पन धम्मविनयसङ्गहे करियमाने निदानवचनं, ननु भगवता भासितवचनस्सेव सङ्गहो कातब्बोति? वुच्चते – देसनाय ठितिअसम्मोससद्धेय्यभावसम्पादनत्थं. कालदेसदेसकनिमित्तपरिसापदेसेहि उपनिबन्धित्वा ठपिता हि देसना चिरट्ठितिका होति असम्मोसधम्मा सद्धेय्या च, देसकालकत्तुसोतुनिमित्तेहि उपनिबद्धो विय वोहारविनिच्छयो. तेनेव च आयस्मता महाकस्सपेन ‘‘मूलपरियायसुत्तं आवुसो, आनन्द, कत्थ भासित’’न्तिआदिना देसादिपुच्छासु कतासु तासं विस्सज्जनं करोन्तेन धम्मभण्डागारिकेन ‘‘एवं मे सुत’’न्तिआदिना इमस्स सुत्तस्स निदानं भासितं. अपिच सत्थुसम्पत्तिपकासनत्थं निदानवचनं. तथागतस्स हि भगवतो पुब्बरचनानुमानागमतक्काभावतो सम्मासम्बुद्धभावसिद्धि. न हि सम्मासम्बुद्धस्स पुब्बरचनादीहि अत्थो अत्थि सब्बत्थ अप्पटिहतञाणचारताय एकप्पमाणत्ता च ञेय्यधम्मेसु. तथा आचरियमुट्ठिधम्ममच्छरियसासनसावकानुरोधाभावतो खीणासवभावसिद्धि. न हि सब्बसो खीणासवस्स ते सम्भवन्तीति सुविसुद्धस्स परानुग्गहप्पवत्ति. एवं देसकसंकिलेसभूतानं दिट्ठिसीलसम्पदादूसकानं अविज्जातण्हानं अच्चन्ताभावसंसूचकेहि ञाणसम्पदापहानसम्पदाभिब्यञ्जकेहि च सम्बुद्धविसुद्धभावेहि पुरिमवेसारज्जद्वयसिद्धि, ततो एव च अन्तरायिकनिय्यानिकधम्मेसु सम्मोहाभावसिद्धितो पच्छिमवेसारज्जद्वयसिद्धीति भगवतो चतुवेसारज्जसमन्नागमो अत्तहितपरहितपटिपत्ति च निदानवचनेन पकासिता होति तत्थ तत्थ सम्पत्तपरियाय अज्झासयानुरूपं ठानुप्पत्तिकपटिभानेन धम्मदेसनादीपनतो, इध पन पथवीआदीसु वत्थूसु पुथुज्जनानं पटिपत्तिविभागववत्थापकदेसनादीपनतोति योजेतब्बं. तेन वुत्तं ‘‘सत्थुसम्पत्तिपकासनत्थं निदानवचन’’न्ति.

तथा सासनसम्पत्तिपकासनत्थं निदानवचनं. ञाणकरुणापरिग्गहितसब्बकिरियस्स हि भगवतो नत्थि निरत्थिका पटिपत्ति, अत्तहितत्था वा. तस्मा परेसं एव अत्थाय पवत्तसब्बकिरियस्स सम्मासम्बुद्धस्स सकलम्पि कायवचीमनोकम्मं यथापवत्तं वुच्चमानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्तानं अनुसासनट्ठेन सासनं, न कब्यरचना, तयिदं सत्थुचरितं कालदेसदेसकपरिसापदेसेहि सद्धिं तत्थ तत्थ निदानवचनेहि यथारहं पकासीयति, इध पन ‘‘पथवियादीसु वत्थूसू’’ति सब्बं पुरिमसदिसमेव. तेन वुत्तं ‘‘सासनसम्पत्तिपकासनत्थं निदानवचन’’न्ति. अपिच सत्थुनो पमाणभावप्पकासनेन सासनस्स पमाणभावदस्सनत्थं निदानवचनं, तञ्च देसकप्पमाणभावदस्सनं हेट्ठा वुत्तनयानुसारेन ‘‘भगवा’’ति च इमिना पदेन विभावितन्ति वेदितब्बं. ‘‘भगवा’’ति इमिना तथागतस्स रागदोसमोहादिसब्बकिलेसमलदुच्चरितादिदोसप्पहानदीपनेन वचनेन अनञ्ञसाधारणसुपरिसुद्धञाणकरुणादिगुणविसेसयोगपरिदीपनेन ततो एव सब्बसत्तुत्तमभावदीपनेन अयमत्थो सब्बथा पकासितो होतीति इदमेत्थ निदानवचनप्पयोजनस्स मुखमत्तदस्सनं.

अब्भन्तरनिदानवण्णना निट्ठिता.

सुत्तनिक्खेपवण्णना

निक्खित्तस्साति देसितस्स. देसनापि हि देसेतब्बस्स सीलादिअत्थस्स विनेय्यसन्तानेसु निक्खिपनतो ‘‘निक्खेपो’’ति वुच्चति. सुत्तनिक्खेपं विचारेत्वा वुच्चमाना पाकटा होतीति सामञ्ञतो भगवतो देसनासमुट्ठानस्स विभागं दस्सेत्वा ‘‘एत्थायं देसना एवंसमुट्ठाना’’ति देसनाय समुट्ठाने दस्सिते सुत्तस्स सम्मदेव निदानपरिजाननेन वण्णनाय सुविञ्ञेय्यत्ता वुत्तं. एवञ्हि ‘‘अस्सुतवा भिक्खवे पुथुज्जनो’’तिआदिना, ‘‘योपि सो, भिक्खवे, भिक्खु अरहं खीणासवो’’तिआदिना (म. नि. १.८), ‘‘तथागतोपि खो, भिक्खवे, अरहं सम्मासम्बुद्धो’’तिआदिना (म. नि. १.१२) च पवत्तदेसना अनुसन्धिदस्सनसुखताय सुविञ्ञेय्या होति. तत्थ यथा अनेकसतअनेकसहस्सभेदानिपि सुत्तन्तानि संकिलेसभागियादिपधाननयवसेन सोळसविधतं नातिवत्तन्ति, एवं अत्तज्झासयादिसुत्तनिक्खेपवसेन चतुब्बिधभावन्ति आह ‘‘चत्तारो हि सुत्तनिक्खेपा’’ति.

एत्थ च यथा अत्तज्झासयस्स अट्ठुप्पत्तिया च परज्झासयपुच्छाहि सद्धिं संसग्गभेदो सम्भवति ‘‘अत्तज्झासयो च परज्झासयो च, अत्तज्झासयो च पुच्छावसिको च, अट्ठुप्पत्तिको च परज्झासयो च, अट्ठुप्पत्तिको च पुच्छावसिको चा’’ति अज्झासयपुच्छानुसन्धिसब्भावतो, एवं यदिपि अट्ठुप्पत्तिया अत्तज्झासयेनपि संसग्गभेदो सम्भवति, अत्तज्झासयादीहि पन पुरतो ठितेहि अट्ठुप्पत्तिया संसग्गो नत्थीति नयिध निरवसेसो वित्थारनयो सम्भवतीति ‘‘चत्तारो सुत्तनिक्खेपा’’ति वुत्तं, तदन्तोगधत्ता वा सम्भवन्तानं सेसनिक्खेपानं मूलनिक्खेपवसेन चत्तारोव दस्सिता. तथादस्सनञ्चेत्थ अयं संसग्गभेदो गहेतब्बोति.

तत्रायं वचनत्थो – निक्खिपीयतीति निक्खेपो, सुत्तं एव निक्खेपो सुत्तनिक्खेपो. अथ वा निक्खिपनं निक्खेपो, सुत्तस्स निक्खेपो सुत्तनिक्खेपो, सुत्तदेसनाति अत्थो. अत्तनो अज्झासयो अत्तज्झासयो, सो अस्स अत्थि कारणभूतोति अत्तज्झासयो. अत्तनो अज्झासयो एतस्साति वा अत्तज्झासयो. परज्झासयेपि एसेव नयो. पुच्छाय वसो पुच्छावसो, सो एतस्स अत्थीति पुच्छावसिको. सुत्तदेसनावत्थुभूतस्स अत्थस्स उप्पत्ति अत्थुप्पत्ति, अत्थुप्पत्तियेव अट्ठुप्पत्ति त्थ-कारस्स ट्ठ-कारं कत्वा. सा एतस्स अत्थीति अट्ठुप्पत्तिको. अथ वा निक्खिपीयति सुत्तं एतेनाति सुत्तनिक्खेपो, अत्तज्झासयादि एव. एतस्मिं पन अत्तविकप्पे अत्तनो अज्झासयो अत्तज्झासयो. परेसं अज्झासयो परज्झासयो. पुच्छीयतीति पुच्छा, पुच्छितब्बो अत्थो. पुच्छनवसेन पवत्तं धम्मपटिग्गाहकानं वचनं पुच्छावसिकं, तदेव निक्खेप-सद्दापेक्खाय पुल्लिङ्गवसेन ‘‘पुच्छावसिको’’ति वुत्तं. तथा अट्ठुप्पत्ति एव अट्ठुप्पत्तिकोति एवम्पेत्थ अत्थो वेदितब्बो.

अपिचेत्थ परेसं इन्द्रियपरिपाकादिकारणनिरपेक्खत्ता अत्तज्झासयस्स विसुं सुत्तनिक्खेपभावो युत्तो केवलं अत्तनो अज्झासयेनेव धम्मतन्तिठपनत्थं पवत्तितदेसनत्ता. परज्झासयपुच्छावसिकानं पन परेसं अज्झासयपुच्छानं देसनापवत्तिहेतुभूतानं उप्पत्तियं पवत्तितानं कथमट्ठुप्पत्तियं अनवरोधो, पुच्छावसिकअट्ठुप्पत्तिकानं वा परज्झासयानुरोधेन पवत्तिकानं कथं परज्झासये अनवरोधोति? न चोदेतब्बमेतं. परेसञ्हि अभिनीहारपरिपुच्छादिविनिमुत्तस्सेव सुत्तदेसनाकारणुप्पादस्स अट्ठुप्पत्तिभावेन गहितत्ता परज्झासयपुच्छावसिकानं विसुं गहणं. तथा हि ब्रह्मजाल (दी. नि. १.१) धम्मदायादसुत्तादीनं (म. नि. १.२९) वण्णावण्णआमिसुप्पादादिदेसनानिमित्तं ‘‘अट्ठुप्पत्ती’’ति वुच्चति. परेसं पुच्छं विना अज्झासयं एव निमित्तं कत्वा देसितो परज्झासयो, पुच्छावसेन देसितो पुच्छावसिकोति पाकटोयमत्थोति.

अत्तनो अज्झासयेनेव कथेसि धम्मतन्तिठपनत्थन्ति दट्ठब्बं. सम्मप्पधानसुत्तन्तहारकोति अनुपुब्बेन निक्खित्तानं संयुत्तके सम्मप्पधानपटिसंयुत्तानं सुत्तानं आवळि. तथा इद्धिपादहारकादयो.

विमुत्तिपरिपाचनीया धम्मा सद्धिन्द्रियादयो. अज्झासयन्ति अधिमुत्तिं. खन्तिन्ति दिट्ठिनिज्झानक्खन्तिं. मनन्ति चित्तं. अभिनिहारन्ति पणिधानं. बुज्झनभावन्ति बुज्झनसभावं, पटिविज्झनाकारं वा.

उप्पन्ने माने निक्खित्तन्ति सम्बन्धो. इत्थिलिङ्गादीनि तीणि लिङ्गानि. नामादीनि चत्तारि पदानि. पठमादयो सत्त विभत्तियो. मुञ्चित्वा न किञ्चि कथेति सभावनिरुत्तिया तथेव पवत्तनतो. गण्ठिभूतं पदं. यथा हि रुक्खस्स गण्ठिट्ठानं दुब्बिनिब्बेधं दुत्तच्छितञ्च होति, एवमेवं यं पदं अत्थतो विवरितुं न सक्का, तं ‘‘गण्ठिपद’’न्ति वुच्चति. अनुपहच्चाति अनुद्धरित्वा.

येन येन सम्बन्धं गच्छति, तस्स तस्स अनवसेसतं दीपेतीति इमिना इमस्स सब्ब-सद्दस्स सप्पदेसतं दस्सेति. सब्ब-सद्दो हि सब्बसब्बं पदेससब्बं आयतनसब्बं सक्कायसब्बन्ति चतूसु विसयेसु दिट्ठप्पयोगो. तथा हेस ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथमागच्छन्ती’’तिआदीसु (महानि. १५६; चूळनि. ८५; पटि. म. ३.६) सब्बसब्बस्मिं आगतो. ‘‘सब्बेसं वो, सारिपुत्त, सुभासितं परियायेना’’तिआदीसु (म. नि. १.३४५) पदेससब्बस्मिं. ‘‘सब्बं वो, भिक्खवे, देसेस्सामि…पे… चक्खुञ्चेव रूपा च…पे… मनो चेव धम्मा चा’’ति (सं. नि. ४.२३) एत्थ आयतनसब्बस्मिं. ‘‘सब्बं सब्बतो सञ्जानाती’’तिआदीसु (म. नि. १.५) सक्कायसब्बस्मिं. तत्थ सब्बसब्बस्मिं आगतो निप्पदेसो, इतरेसु तीसुपि आगतो सप्पदेसो, इध पन सक्कायसब्बस्मिं वेदितब्बो. तथा हि वक्खति ‘‘सक्कायपरियापन्ना पन तेभूमकधम्माव अनवसेसतो वेदितब्बा’’ति (म. नि. अट्ठ. १.१ सुत्तनिक्खेपवण्णना).

सच्चेसूति अरियसच्चेसु. एते चतुरो धम्माति इदानि वुच्चमाने सच्चादिके चत्तारो धम्मे सन्धाय वदति. तत्थ सच्चन्ति वचीसच्चं. ठितीति वीरियं, ‘‘धिती’’ति वा पाठो, सो एवत्थो. चागोति अलोभो. दिट्ठं सो अतिवत्ततीति यस्मिं एते सच्चादयो धम्मा उपलब्भन्ति, सो दिट्ठं अत्तनो अमित्तं अतिक्कमति, न तस्स हत्थतं गच्छति, अथ खो नं अभिभवति एवाति अत्थो. सभावे वत्तति असभावधम्मस्स कारणासम्भवतो. न हि निस्सभावा धम्मा केनचि निब्बत्तीयन्ति. अत्तनो लक्खणं धारेन्तीति यदिपि लक्खणविनिमुत्ता धम्मा नाम नत्थि, तथापि यथा दिट्ठितण्हापरिकप्पिताकारमत्ता अत्तसुभसुखसस्सतादयो, पकतियादयो, दब्बादयो, जीवादयो, कायादयो लोकवोहारमत्तसिद्धा गगणकुसुमादयोव सच्चिकट्ठपरमत्थतो न उपलब्भन्ति, न एवमेते, एते पन सच्चिकट्ठपरमत्थभूता उपलब्भन्ति, ततो एव सत्तादिविसेसविरहतो धम्ममत्ता सभाववन्तोति दस्सनत्थं ‘‘अत्तनो लक्खणं धारेन्ती’’ति वुत्तं. भवति हि भेदाभावेपि सुखावबोधनत्थं उपचारमत्तसिद्धेन भेदेन निद्देसो यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति. धारीयन्ति वा यथासभावतो अवधारीयन्ति ञायन्तीति धम्मा, कक्खळफुसनादयो.

असाधारणहेतुम्हीति असाधारणकारणे, सक्कायधम्मेसु तस्स तस्स आवेणिकपच्चयेति अत्थो. किं पन तन्ति? तण्हामानदिट्ठियो, अविज्जादयोपि वा. यथेव हि पथवीआदीसु मञ्ञनावत्थूसु उप्पज्जमाना तण्हादयो मञ्ञना तेसं पवत्तिया मूलकारणं, एवं अविज्जादयोपि. तथा हि ‘‘अस्सुतवा पुथुज्जनो’’तिआदिना ‘‘अपरिञ्ञातं तस्साति वदामी’’ति (म. नि. १.२) ‘‘नन्दी दुक्खस्स मूल’’न्ति (म. नि. १.१३) च अन्वयतो, ‘‘खया रागस्स…पे… वीतमोहत्ता’’ति ब्यतिरेकतो च तेसं मूलकारणभावो विभावितो.

परियायेति देसेतब्बमत्थं अवगमेति बोधयतीति परियायो, देसना. परियायति अत्तनो फलं परिग्गहेत्वा वत्तति तस्स वा कारणभावं गच्छतीति परियायो, कारणं. परियायति अपरापरं परिवत्ततीति परियायो, वारो. एवं परियायसद्दस्स देसनाकारणवारेसु पवत्ति वेदितब्बा. यथारुतवसेन अग्गहेत्वा निद्धारेत्वा गहेतब्बत्थं नेय्यत्थं. तेभूमका धम्माव अनवसेसतो वेदितब्बा मञ्ञनावत्थुभूतानं सब्बेसं पथवीआदिधम्मानं अधिप्पेतत्ता.

कारणदेसनन्ति कारणञापनं देसनं. तं अत्थन्ति तं सब्बधम्मानं मूलकारणसङ्खातं, कारणदेसनासङ्खातं वा अत्थं. तेनेवाह ‘‘तं कारणं तं देसन’’न्ति. एकत्थमेतन्ति एतं पदद्वयं एकत्थं. साधु-सद्दो एव हि क-कारेन वड्ढेत्वा ‘‘साधुक’’न्ति वुत्तो. तेनेव हि साधुसद्दस्स अत्थं वदन्तेन अत्थुद्धारवसेन साधुकसद्दो उदाहटो. धम्मरुचीति पुञ्ञकामो. पञ्ञाणवाति पञ्ञवा. अद्दुब्भोति अदूसको, अनुपघातकोति अत्थो. इधापीति इमस्मिं मूलपरियायसुत्तेपि. अयन्ति साधुकसद्दो. एत्थेव दळ्हीकम्मेति सक्कच्चकिरियायं. आणत्तियन्ति आणापने. ‘‘सुणाथ साधुकं मनसि करोथा’’ति हि वुत्ते साधुकसद्देन सवनमनसिकारानं सक्कच्चकिरिया विय तदाणापनम्पि वुत्तं होति. आयाचनत्थता विय चस्स आणापनत्थता वेदितब्बा.

इदानेत्थ एवं योजना वेदितब्बाति सम्बन्धो. सोतिन्द्रियविक्खेपवारणं सवने नियोजनवसेन किरियन्तरपटिसेधनभावतो, सोतं ओदहथाति अत्थो. मनिन्द्रियविक्खेपनिवारणं अञ्ञचिन्तापटिसेधनतो. पुरिमन्ति ‘‘सुणाथा’’ति पदं. एत्थाति सुणाथ, मनसि करोथा’’ति पदद्वये, एतस्मिं वा अधिकारे. ब्यञ्जनविपल्लासग्गाहवारणं सोतद्वारे विक्खेपपटिबाहकत्ता. न हि याथावतो सुणन्तस्स सद्दतो विपल्लासग्गाहो होति. अत्थविपल्लासग्गाहवारणं मनिन्द्रियविक्खेपपटिबाहकत्ता. न हि सक्कच्चं धम्मं उपधारेन्तस्स अत्थतो विपल्लासग्गाहो होति. धम्मस्सवने नियोजेति सुणाथाति विदहनतो. धारणूपपरिक्खासूति उपपरिक्खग्गहणेन तुलनतीरणादिके दिट्ठिया च सुप्पटिवेधं सङ्गण्हाति.

सब्यञ्जनोति एत्थ यथाधिप्पेतमत्थं ब्यञ्जयतीति ब्यञ्जनं, सभावनिरुत्ति. सह ब्यञ्जनेनाति सब्यञ्जनो, ब्यञ्जनसम्पन्नोति अत्थो. अरणीयतो उपगन्धब्बतो अनुट्ठातब्बतो अत्थो, चतुपारिसुद्धिसीलादिको. सह अत्थेनाति सात्थो, अत्थसम्पन्नोति अत्थो. धम्मगम्भीरोतिआदीसु धम्मो नाम तन्ति. देसना नाम तस्सा मनसा ववत्थापिताय तन्तिया देसना. अत्थो नाम तन्तिया अत्थो. पटिवेधो नाम तन्तिया तन्तिअत्थस्स च यथाभूतावबोधो. यस्मा चेते धम्मदेसनाअत्थपटिवेधा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाळ्हा अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा. तेन वुत्तं ‘‘यस्मा अयं धम्मो…पे… साधुकं मनसि करोथा’’ति. एत्थ च पटिवेधस्स दुक्करभावतो धम्मत्थानं देसनाञाणस्स दुक्करभावतो देसनाय दुक्खोगाहता, पटिवेधस्स पन उप्पादेतुं असक्कुणेय्यत्ता तब्बिसयञाणुप्पत्तिया च दुक्करभावतो दुक्खोगाहता वेदितब्बा.

देसनं नाम उद्दिसनं. तस्स निद्दिसनं भासनन्ति इधाधिप्पेतन्ति आह ‘‘वित्थारतोपि नं भासिस्सामीति वुत्तं होती’’ति. परिब्यत्तं कथनं वा भासनं. साळिकायिव निग्घोसोति साळिकाय आलापो विय मधुरो कण्णसुखो पेमनीयो. पटिभानन्ति सद्दो. उदीरयीति उच्चारीयति, वुच्चति वा.

एवं वुत्ते उस्साहजाताति एवं ‘‘सुणाथ साधुकं मनसि करोथ भासिस्सामी’’ति वुत्ते न किर सत्था सङ्खेपेनेव देसेस्सति, वित्थारेनपि भासिस्सतीति सञ्जातुस्साहा हट्ठतुट्ठा हुत्वा. इधाति इमिना वुच्चमानअधिकरणं तस्स पुग्गलस्स उप्पत्तिट्ठानभूतं अधिप्पेतन्ति आह ‘‘देसापदेसे निपातो’’ति. लोकन्ति ओकासलोकं. इध तथागतो लोकेति हि जातिखेत्तं, तत्थापि अयं चक्कवाळो अधिप्पेतो. समणोति सोतापन्नो. दुतियो समणोति सकदागामी. वुत्तञ्हेतं ‘‘कतमो च, भिक्खवे, समणो? इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्नो होती’’ति (अ. नि. ४.२४१) ‘‘कतमो च, भिक्खवे, दुतियो समणो? इध, भिक्खवे, भिक्खु तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होती’’ति च (अ. नि. ४.२४१). इधेव तिट्ठमानस्साति इमिस्सा एव इन्दसालगुहायं तिट्ठमानस्स.

. अस्सुतवाति एत्थ (अ. नि. टी. १.१.५१) सुतन्ति सोतद्वारानुसारेन उपधारितं, उपधारणं वा, सुतं अस्सत्थीति सुतवा. वा-सद्दस्स हि अत्थो अत्थितामत्तादिवसेन अनेकविधो. तथा हि ‘‘अन्तवा अयं लोको परिवटुमो’’तिआदीसु (दी. नि. १.५४; पटि. म. १.१४०) अत्थितामत्तं अत्थो. ‘‘धनवा भोगवा, लाभी अन्नस्सा’’ति च आदीसु बहुभावो. ‘‘रोगवा होति रोगाभिभूतो’’तिआदीसु कायाबाधो. ‘‘कुट्ठी कुट्ठचीवरेना’’तिआदीसु निन्दा, ‘‘इस्सुकी मच्छरी सठो मायाविनो केटुभिनो’’तिआदीसु अभिण्हयोगो. ‘‘दण्डी छत्ती अलम्बरी’’तिआदीसु (विसुद्धि. १.१४२) संसग्गो. ‘‘पण्डितो वापि तेन सो’’तिआदीसु (ध. प. ६३) उपमानं, सदिसभावोति अत्थो. ‘‘तं वापि धीरा मुनिं वेदयन्ती’’तिआदीसु (सु. नि. २१३) समुच्चयो. ‘‘के वा इमे कस्स वा’’तिआदीसु (पारा. २९६) संसयो. ‘‘अयं वा इमेसं समणब्राह्मणानं सब्बबालो सब्बमूळ्हो’’तिआदीसु (दी. नि. १.१८१) विभावनो. ‘‘न वायं कुमारो मत्तमञ्ञासी’’तिआदीसु (सं. नि. २.१५४) पदपूरणं. ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा’’तिआदीसु (म. नि. १.१७०) विकप्पो. ‘‘सक्यपुत्तस्स सिरीमतो (दी. नि. ३.२७७), सीलवतो सीलसम्पत्तिया कल्याणो कित्तिसद्दो अब्भुग्गच्छती’’ति (दी. नि. २.१५०; ३.३१६; अ. नि. ५.२१३; महाव. २८५) च आदीसु पसंसा. ‘‘पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया’’तिआदीसु (दी. नि. ३.३१७, ३५५) अतिसयो. इधापि अतिसयो, पसंसा वा अत्थो, तस्मा यस्स पसंसितं, अतिसयेन वा सुतं अत्थि, सो सुतवाति संकिलेसविद्धंसनसमत्थं परियत्तिधम्मस्सवनं, तं सुत्वा तथत्ताय पटिपत्ति च ‘‘सुतवा’’ति इमिना सद्देन पकासिता. अथ वा सोतब्बयुत्तं सुत्वा कत्तब्बनिप्फत्तिवसेन सुणीति सुतवा, तप्पटिक्खेपेन न सुतवाति अस्सुतवा.

अयञ्हि अ-कारो ‘‘अहेतुका धम्मा (ध. स. २.दुकमातिका), अभिक्खुको आवासो’’तिआदीसु (पाचि. १०४६, १०४७) तंसहयोगनिवत्तियं इच्छितो. ‘‘अपच्चया धम्मा’’ति (ध. स. ७.दुकमातिका) तंसम्बन्धीभावनिवत्तियं. पच्चयुप्पन्नञ्हि पच्चयसम्बन्धीति अप्पच्चयुप्पन्नत्ता अतंसम्बन्धिता एत्थ जोतिता. ‘‘अनिदस्सना धम्मा’’ति (ध. स. ९.दुकमातिका) तंसभावनिवत्तियं. निदस्सनञ्हि दट्ठब्बता. अथ वा पस्सतीति निदस्सनं, चक्खुविञ्ञाणं, तग्गहेतब्बभावनिवत्तियं यथा ‘‘अनासवा धम्मा’’ति (ध. स. १५.दुकमातिका), ‘‘अप्पटिघा धम्मा (ध. स. १०.दुकमातिका), अनारम्मणा धम्मा’’ति (ध. स. ५५.दुकमातिका) तंकिच्चनिवत्तियं, ‘‘अरूपिनो धम्मा (ध. स. ११.दुकमातिका) अचेतसिका धम्मा’’ति (ध. स. ५७.दुकमातिका) तब्भावनिवत्तियं. तदञ्ञथा हि एत्थ पकासिता. ‘‘अमनुस्सो’’ति तब्भावमत्तनिवत्तियं. मनुस्समत्तं नत्थि, अञ्ञं समानन्ति. सदिसता हि एत्थ सूचिता. ‘‘अस्समणो समणपटिञ्ञो, अनरियो’’ति (अ. नि. ३.१३) च तंसम्भावनीयगुणनिवत्तियं. गरहा हि इध ञायति. ‘‘कच्चि भोतो अनामयं, अनुदरा कञ्ञा’’ति (जा. २.२०.१२९) तदनप्पभावनिवत्तियं, ‘‘अनुप्पन्ना धम्मा’’ति (ध. स. १७.तिकमातिका) तंसदिसभावनिवत्तियं. अतीतानञ्हि उप्पन्नपुब्बत्ता उप्पादिधम्मानञ्च पच्चयेकदेसनिप्फत्तिया आरद्धुप्पादिभावतो कालविमुत्तस्स च विज्जमानत्ता उप्पन्नानुकूलता पगेव पच्चुप्पन्नानन्ति तब्बिदूरताव एत्थ विञ्ञायति ‘‘असेक्खा धम्मा’’ति (ध. स. ११.तिकमातिका) तदपरियोसाननिवत्तियं. तन्निट्ठानञ्हि एत्थ पकासितन्ति. एवमनेकेसं अत्थानं जोतको. इध पन ‘‘अरूपिनो धम्मा अचेतसिका धम्मा’’तिआदीसु विय तब्भावनिवत्तियं दट्ठब्बो, अञ्ञत्थेति अत्थो. एतेनस्स सुतादिञाणविरहतं दस्सेति. तेन वुत्तं ‘‘आगमाधिगमाभावा ञेय्यो अस्सुतवा इती’’ति.

इदानि तस्स अत्थं विवरन्तो यस्मा खन्धधात्वादिकोसल्लेनपि मञ्ञनापटिसेधनसमत्थं बाहुसच्चं होति. यथाह ‘‘कित्तावता नु खो, भन्ते, बहुस्सुतो होति? यतो खो भिक्खु खन्धकुसलो होति धातु, आयतन, पटिच्चसमुप्पादकुसलो होति, एत्तावता खो भिक्खु बहुस्सुतो होती’’ति, तस्मा ‘‘यस्स हि खन्धधातुआयतनसच्चपच्चयाकारसतिपट्ठानादीसूतिआदि वुत्तं. तत्थ वाचुग्गतकरणं उग्गहो. अत्थपरिपुच्छनं परिपुच्छा. कुसलेहि सह चोदनापरिहरणवसेन विनिच्छयकरणं विनिच्छयो. मग्गफलनिब्बानानि अधिगमो.

बहूनं (ध. स. मूलटी. १००७) नानप्पकारानं किलेससक्कायदिट्ठीनं अविहतत्ता ता जनेन्ति, ताहि वा जनिताति पुथुज्जना. अविघातमेव वा जन-सद्दो वदति. पुथु सत्थारानं मुखमुल्लोकिकाति एत्थ पुथु जना सत्थुपटिञ्ञा एतेसन्ति पुथुज्जनाति वचनत्थो. पुथु सब्बगतीहि अवुट्ठिताति एत्थ जनेतब्बा, जायन्ति वा एत्थ सत्ताति जना, नानागतियो, ता पुथू एतेसन्ति पुथुज्जना. इतो परे जायन्ति एतेहीति जना, अभिसङ्खारादयो, ते एतेसं पुथू विज्जन्तीति पुथुज्जना. अभिसङ्खरणादिअत्थो एव वा जन-सद्दो दट्ठब्बो. ओघा कामोघादयो. रागग्गिआदयो सन्तापा. ते एव, सब्बेपि वा किलेसा परिळाहा. पुथु पञ्चसु कामगुणेसु रत्ताति एत्थ जायतीति जनो, रागो गेधोति एवमादिको, पुथु जनो एतेसन्ति पुथुज्जना. पुथूसु वा जना जाता रत्ताति एवं रागादिअत्थो एव वा जनसद्दो दट्ठब्बो. रत्ताति वत्थं विय रङ्गजातेन चित्तस्स विपरिणामकरेन छन्दरागेन रत्ता सारत्ता. गिद्धाति अभिकङ्खनसभावेन अभिज्झानेन गिद्धा गेधं आपन्ना. गधिताति गन्थिता विय दुम्मोचनीयभावेन तत्थ पटिबद्धा. मुच्छिताति किलेसवसेन विसञ्ञीभूता विय अनञ्ञकिच्चा मुच्छं मोहमापन्ना. अज्झोसन्नाति अनञ्ञसाधारणे विय कत्वा गिलित्वा परिनिट्ठपेत्वा ठिता. लग्गाति वङ्कदण्डके विय आसत्ता महापलिपे वा याव नासिकग्गा पलिपन्नपुरिसो विय उद्धरितुं असक्कुणेय्यभावेन निमुग्गा, लगिताति मक्कटालेपे आलग्गभावेन पच्चुड्डितो विय मक्कटो पञ्चन्नं इन्द्रियानं वसेन आलग्गिता. पलिबुद्धाति बद्धा, उपद्दुता वा. आवुटाति आवुनिता, निवुताति निवारिता. ओवुताति पलिगुण्ठिता, परियोनद्धा वा. पिहिताति पिदहिता, पटिच्छन्नाति पटिच्छादिता. पटिकुज्जिताति हेट्ठामुखजाता. पुथूनं वा गणनपथमतीतानन्तिआदिना पुथु जनो पुथुज्जनोति दस्सेति.

‘‘अस्सुतवा’’ति एतेन अविज्जन्धता वुत्ताति आह ‘‘अन्धपुथुज्जनो वुत्तो होती’’ति. आरकत्ता (सं. नि. टी. २.३.१) किलेसेहि मग्गेन समुच्छिन्नत्ता. अनयेति अवड्ढियं, अनत्थेति अत्थो. अनये वा अनुपाये. नइरियनतो अवत्तनतो. अयेति वड्ढियं, अत्थे, उपाये वा. अरणीयतोति पयिरुपासितब्बतो. निरुत्तिनयेन पदसिद्धि वेदितब्बा पुरिमेसु अत्थविकप्पेसु. पच्छिमे पन सद्दसत्थवसेनपि. यदिपि अरिय-सद्दो ‘‘ये हि वो अरिया परिसुद्धकायकम्मन्ता’’तिआदीसु (म. नि. १.३५) विसुद्धासयपयोगेसु पुथुज्जनेसुपि वत्तति. इध पन अरियमग्गाधिगमेन सब्बलोकुत्तरभावेन च अरियभावो अधिप्पेतोति दस्सेन्तो आह ‘‘बुद्धा’’तिआदि. तत्थ ‘‘पच्चेकबुद्धा तथागतसावका च सप्पुरिसा’’ति इदं अरिया सप्पुरिसाति इध वुत्तपदानं अत्थं असङ्करतो दस्सेतुं वुत्तं. यस्मा पन निप्परियायतो अरियसप्पुरिसभावा अभिन्नसभावा. तस्मा ‘‘सब्बेव वा’’तिआदि वुत्तं.

एत्तावता हि बुद्धसावको वुत्तो. तस्स हि एकन्तेन कल्याणमित्तो इच्छितब्बो परतोघोसमन्तरेन पठममग्गस्स अनुप्पज्जनतो. विसेसतो चस्स भगवाव कल्याणमित्तो अधिप्पेतो. वुत्तञ्हेतं ‘‘ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ती’’तिआदि (सं. नि. ५.२). सो एव च अवेच्चपसादाधिगमेन दळ्हभत्ति नाम. वुत्तम्पि चेतं ‘‘यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती’’ति (उदा. ४५). कतञ्ञुतादीहि पच्चेकबुद्धा बुद्धाति एत्थ कतं जानातीति कतञ्ञू. कतं विदितं पाकटं करोतीति कतवेदी. अनेकेसुपि हि कप्पसतसहस्सेसु कतं उपकारं जानन्ति पच्चेकबुद्धा पाकटञ्च करोन्ति सतिजननआमिसपटिग्गहणादिना, तथा संसारदुक्खदुक्खितस्स सक्कच्चं करोन्ति किच्चं, यं अत्तना कातुं सक्का. सम्मासम्बुद्धो पन कप्पानं असङ्ख्येय्यसहस्सेसुपि कतं उपकारं मग्गफलानं उपनिस्सयञ्च जानाति, पाकटञ्च करोति, सीहो विय च एवं सब्बत्थ सक्कच्चमेव धम्मदेसनं करोन्तो बुद्धकिच्चं करोति. याय पटिपत्तिया दिट्ठा नाम होन्ति, तस्सा अप्पटिपज्जनभावो, तत्थ च आदराभावो अरियानं अदस्सनसीलता च, न च दस्सने साधुकारिता च वेदितब्बा. चक्खुना अदस्सावीति एत्त चक्खु नाम न मंसचक्खु एव, अथ खो दिब्बचक्खुपीति आह ‘‘दिब्बचक्खुना वा’’ति. अरियभावोति येहि योगतो ‘‘अरिया’’ति वुच्चन्ति. ते मग्गफलधम्मा दट्ठब्बा.

तत्राति ञाणदस्सनस्सेव दस्सनभावे. वत्थूति अधिप्पेतत्थञापनकारणं. एवं वुत्तेपीति एवं अञ्ञापदेसेन अत्तूपनायिकं कत्वा वुत्तेपि. धम्मन्ति लोकुत्तरधम्मं, चतुसच्चधम्मं वा. अरियकरधम्मा अनिच्चानुपस्सनादयो विपस्सियमाना अनिच्चादयो, चत्तारि वा अरियसच्चानि.

अविनीतोति न विनीतो, अधिसीलसिक्खादिवसेन न सिक्खितो. येसं संवरविनयादीनं अभावेन अयं अविनीतोति वुच्चति, ते ताव दस्सेतुं ‘‘दुविधो विनयो नामा’’तिआदिमाह. तत्थ सीलसंवरोति पातिमोक्खसंवरो वेदितब्बो, सो च अत्थतो कायिकवाचसिको अवीतिक्कमो. सतिसंवरोति इन्द्रियरक्खा, सा च तथापवत्ता सति एव. ञाणसंवरोति ‘‘सोतानं संवरं ब्रूमी’’ति (सु. नि. १०४०) वत्वा ‘‘पञ्ञायेते पिधीयरे’’ति वचनतो सोतसङ्खातानं तण्हादिट्ठिदुच्चरितअविज्जाअवसिट्ठकिलेसानं संवरो पिदहनं समुच्छेदञाणन्ति वेदितब्बं. खन्तिसंवरोति अधिवासना, सा च तथापवत्ता खन्धा, अदोसो वा. पञ्ञाति एके, तं अट्ठकथाय विरुज्झति. वीरियसंवरो कामवितक्कादीनं विनोदनवसेन पवत्तं वीरियमेव. तेन तेन गुणङ्गेन तस्स तस्स अगुणङ्गस्स पहानं तदङ्गपहानं. विक्खम्भनेन पहानं विक्खम्भनपहानं. सेसपदत्थयेपि एसेव नयो.

इमिना पातिमोक्खसंवरेनातिआदि सीलसंवरादीनं विवरणं. तत्थ समुपेतोति एत्थ इति-सद्दो आदिसत्थो. तेन ‘‘सहगतो समुपगतो’’तिआदिना विभङ्गे (विभ. ५११) आगतं संवरविभङ्गं दस्सेति. एस नयो सेसेसुपि. यं पनेत्थ वत्तब्बं, तं अनन्तरसुत्ते आवि भविस्सति.

कायदुच्चरितादीनन्ति दुस्सील्यसङ्खातानं कायवचीदुच्चरितादीनं मुट्ठस्सच्चसङ्खातस्स पमादस्स अभिज्झादीनं वा अक्खन्तिअञ्ञाणकोसज्जानञ्च. संवरणतोति पिदहनतो थकनतो. विनयनतोति कायवाचाचित्तानं विरूपप्पवत्तिया विनयनतो अपनयनतो, कायदुच्चरितादीनं वा विनयनतो, कायादीनं वा जिम्हप्पवत्तिं विच्छिन्दित्वा उजुकं नयनतोति अत्थो. पच्चयसमवाये उप्पज्जनारहानं कायदुच्चरितादीनं तथा तथा अनुप्पादनमेव संवरणं विनयनञ्च वेदितब्बं.

यं पहानन्ति सम्बन्धो. ‘‘नामरूपपरिच्छेदादीसु विपस्सनाञाणेसू’’ति कस्मा वुत्तं, ननु नामरूपपरिच्छेदपच्चयपरिग्गहकङ्खावितरणानि न विपस्सनाञाणानि सम्मसनाकारेन अप्पवत्तनतो? सच्चमेतं. विपस्सनाञाणस्स पन अधिट्ठानभावतो एवं वुत्तं. ‘‘नामरूपमत्तमिदं, नत्थि एत्थ अत्ता वा अत्तनियं वा’’ति एवं पवत्तञाणं नामरूपववत्थानं. सति विज्जमाने खन्धपञ्चकसङ्खाते काये, सयं वा सती तस्मिं काये दिट्ठीति सक्कायदिट्ठि. ‘‘रूपं अत्ततो समनुपस्सती’’ति (सं. नि. ३.८१; ४.३४५) एवं पवत्ता मिच्छादिट्ठि. तस्सेव रूपारूपस्स कम्माविज्जादिपच्चयपरिग्गण्हनञाणं पच्चयपरिग्गहो. ‘‘नत्थि हेतु नत्थि पच्चयो सत्तानं संकिलेसाया’’ति (दी. नि. १.१६८) आदिनयप्पवत्ता अहेतुकदिट्ठि. ‘‘इस्सरपुरिसपजापतिपकतिअणुकालादीहि लोको पवत्तति निवत्तति चा’’ति पवत्ता विसमहेतुदिट्ठि. तस्सेवाति पच्चयपरिग्गहस्सेव. कङ्खावितरणेनाति यथा एतरहि नामरूपस्स कम्मादिपच्चयतो उप्पत्ति, एवं अतीतानागतेसुपीति तीसुपि कालेसु विचिकिच्छापनयनञाणेन. कथंकथीभावस्साति ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्ति (म. नि. १.१८; सं. नि. २.२०) आदिनयप्पवत्ताय संसयप्पवत्तिया. कलापसम्मसनेनाति ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्तिआदिना (म. नि. १.३६१; २.११३; ३.८६, ८९) खन्धपञ्चकं एकादससु ओकासेसु पक्खिपित्वा सम्मसनवसेन पवत्तेन नयविपस्सनाञाणेन. अहं ममाति गाहस्साति अत्तत्तनियगहणस्स. मग्गामग्गववत्थानेनाति मग्गामग्गञाणविसुद्धिया. अमग्गे मग्गसञ्ञायाति ओभासादिके अमग्गे ‘‘मग्गो’’ति उप्पन्नसञ्ञाय.

यस्मा सम्मदेव सङ्खारानं उदयं पस्सन्तो ‘‘एवमेव सङ्खारा अनुरूपकारणतो उप्पज्जन्ति, न पन उच्छिज्जन्ती’’ति गण्हाति, तस्मा वुत्तं ‘‘उदयदस्सनेन उच्छेददिट्ठिया’’ति. यस्मा पन सङ्खारानं वयं पस्सन्तो ‘‘यदिपिमे सङ्खारा अविच्छिन्ना वत्तन्ति, उप्पन्नुप्पन्ना पन अप्पटिसन्धिका निरुज्झन्ते वा’’ति पस्सति, तस्सेवं पस्सतो कुतो सस्सतग्गाहो, तस्मा वुत्तं ‘‘वयदस्सनेन सस्सतदिट्ठिया’’ति. भयदस्सनेनाति भयतुपट्ठानञाणेन. सभयेति सब्बभयानं आकरभावतो सकलदुक्खवूपसमसङ्खातस्स परमस्सासस्स पटिपक्खभावतो च सभये खन्धपञ्चके. अभयसञ्ञायाति ‘‘अभयं खेम’’न्ति उप्पन्नसञ्ञाय. अस्सादसञ्ञा नाम पञ्चुपादानक्खन्धेसु अस्सादवसेन पवत्तसञ्ञा, या ‘‘आलयाभिनिवेसो’’तिपि वुच्चति. अभिरतिसञ्ञा तत्थेव अभिरतिवसेन पवत्तसञ्ञा, या ‘‘नन्दी’’तिपि वुच्चति. अमुच्चितुकम्यता आदानं. अनुपेक्खा सङ्खारेहि अनिब्बिन्दनं, सालयताति अत्थो. धम्मट्ठितियं पटिच्चसमुप्पादे पटिलोमभावो सस्सतुच्छेदग्गाहो, पच्चयाकारपटिच्छादकमोहो वा, निब्बाने पटिलोमभावो सङ्खारेसु रति, निब्बानपटिच्छादकमोहो वा. सङ्खारनिमित्तग्गाहोति यादिसस्स किलेसस्स अप्पहीनत्ता विपस्सना सङ्खारनिमित्तं न मुञ्चति, सो किलेसो, यो ‘‘संयोगाभिनिवेसो’’तिपि वुच्चति. सङ्खारनिमित्तग्गहणस्स अतिक्कमनमेव वा पहानं.

पवत्ति एव पवत्तिभावो, परियुट्ठानन्ति अत्थो. नीवरणादिधम्मानन्ति एत्थ आदि-सद्देन नीवरणपक्खिया किलेसा वितक्कविचारादयो च गय्हन्ति.

चतुन्नं अरियमग्गानं भावितत्ता अच्चन्तं अप्पवत्तिभावेन यं पहानन्ति सम्बन्धो. केन पहानन्ति? अरियमग्गेहेवाति विञ्ञायमानोयमत्थो तेसं भावितत्ता अप्पवत्तिवचनतो. समुदयपक्खिकस्साति एत्थ चत्तारोपि मग्गा चतुसच्चाभिसमयाति कत्वा तेहि पहातब्बेन तेन तेन समुदयेन सह पहातब्बत्ता समुदयसभागत्ता, सच्चविभङ्गे च सब्बकिलेसानं समुदयभावस्स वुत्तत्ता ‘‘समुदयपक्खिका’’ति दिट्ठिआदयो वुच्चन्ति. पटिप्पस्सद्धत्तं वुपसन्तता. सङ्खतनिस्सटता सङ्खारसभावाभावो. पहीनसब्बसङ्खतन्ति विरहितसब्बसङ्खतं, विसङ्खारन्ति अत्थो. पहानञ्च तं विनयो चाति पहानविनयो पुरिमेन अत्थेन, दुतियेन पन पहीयतीति पहानं, तस्स विनयोति योजेतब्बं.

भिन्नसंवरत्ताति नट्ठसंवरत्ता, संवराभावतोति अत्थो. तेन असमादिन्नसंवरोपि सङ्गहितो होति. समादानेन हि सम्पादेतब्बो संवरो तदभावे न होतीति. एवञ्हि लोके वत्तारो होन्ति ‘‘महा वत नो भोगो, सो नट्ठो तथा अकतत्ता’’ति. अरियेति अरियो. पच्चत्तवचनञ्हेतं. एसेसेति एसो सो एव, अत्थतो अनञ्ञोति अत्थो. तज्जातेति अत्थतो तंसभावो, सप्पुरिसो अरियसभावो, अरियो च सप्पुरिससभावोति अत्थो.

तं अत्थन्ति ‘‘सब्बधम्ममूलपरियाय’’न्ति एवं वुत्तमत्थं. कस्मा पनेत्थ पुग्गलाधिट्ठाना देसना कताति? यदेत्थ वत्तब्बं, तं ‘‘यस्मा पुथुज्जनो अपरिञ्ञातवत्थुको’’तिआदिना (म. नि. अट्ठ. १.२) सयमेव वक्खति. धम्मो अधिट्ठानं एतिस्साति धम्माधिट्ठाना, सभावधम्मे निस्साय पवत्तितदेसना. धम्मवसेनेव पवत्ता पठमा, पुग्गलवसेन उट्ठहित्वा पुग्गलवसेनेव गता ततिया, इतरा धम्मपुग्गलानं वोमिस्सकवसेन. कस्मा पन भगवा एवं विभागेन धम्मं देसेतीति? वेनेय्यज्झासयेन देसनाविलासेन च. ये हि वेनेय्या धम्माधिट्ठानाय धम्मदेसनाय सुखेन अत्थं पटिविज्झन्ति, तेसं तथा धम्मं देसेति. एस नयो सब्बत्थ. यस्सा च धम्मधातुया सुप्पटिविद्धत्ता देसनाविलासप्पत्तो होति, सायं सुप्पटिविद्धा, तस्मा देसनाविलासप्पत्तो धम्मिस्सरो धम्मराजा यथा यथा इच्छति, तथा तथा धम्मं देसेतीति एवं इमिना वेनेय्यज्झासयेन देसनाविलासेन च एवं विभागेन धम्मं देसेतीति वेदितब्बो.

छधातुरोति पथविधातु आपो-तेजो-वायो-आकासधातु विञ्ञाणधातूति इमेसं छन्नं धातूनं वसेन छधातुरो. ‘‘चक्खुना रूपं दिस्वा सोमनस्सट्ठानियं रूपं उपविचरती’’तिआदिना (दी. नि. ३.३२४) वुत्तानं छन्नं सोमनस्सूपविचारानं, छन्नं दोमनस्सउपेक्खूपविचारानञ्च वसेन अट्ठारसमनोपविचारो. सच्चाधिट्ठानादिवसेन चतुराधिट्ठानो. पञ्ञाचक्खुना दिट्ठधम्मिकस्स सम्परायिकस्स च अत्थस्स अदस्सनतो अन्धो, दिट्ठधम्मिकस्सेव दस्सनतो एकचक्खु, द्विन्नम्पि दस्सनतो द्विचक्खु, वेदितब्बो.

स्वायं निद्दिसीति सम्बन्धो. स्वायन्ति च सो अयं, यथावुत्तदेसनाविभागकुसलो भगवाति अत्थो. अपरिञ्ञातवत्थुकोति तीहि परिञ्ञाहि अपरिञ्ञातक्खन्धो. खन्धा हि परिञ्ञातवत्थु. अपरिञ्ञामूलिकाति परिजाननाभावनिमित्ता तस्मिं सति भावतो. परिञ्ञानञ्हि अविज्जादयो किलेसा पटिपक्खा तम्मूलिका च सब्बमञ्ञनाति. अरियानं अदस्सावीति एत्थ इति-सद्दो आदिअत्थो. तेन ‘‘अरियधम्मस्स अकोविदो’’तिआदिकं पुथुजनस्स विसेसनभावेन पवत्तं पाळिसेसं गण्हाति पुथुज्जननिद्देसभावतो. तेनाह ‘‘एवं पुथुज्जनं निद्दिसी’’ति.

सुत्तनिक्खेपवण्णना निट्ठिता.

पथवीवारवण्णना

तस्साति पुथुज्जनस्स. वसति एत्थ आरम्मणकरणवसेनाति आरम्मणम्पि वत्थूति वुच्चति पवत्तिट्ठानभावतोति आह ‘‘पथवीआदीसु वत्थूसू’’ति. सक्कायधम्मानम्पि आरम्मणादिना सतिपि मञ्ञनाहेतुभावे मञ्ञनाहेतुकत्तेनेव तेसं निब्बत्तितोति वुत्तं ‘‘सब्बसक्कायधम्मजनितं मञ्ञन’’न्ति. एत्थ च पथवीधातु सेसधातूनं ससम्भारासम्भारभावा सतिपि पमाणतो समभावे सामत्थियतो अधिकानधिकभावेन वेदितब्बा. सम्भारन्तीति सम्भारा, परिवारा. तंतंकलापेहि लक्खणपथविया सेसधम्मा यथारहं पच्चयभावेन परिवारभावेन च पवत्तन्ति. तेनाह ‘‘सा हि वण्णादीहि सम्भारेहि सद्धिं पथवीति ससम्भारपथवी’’ति. पथवितोति एत्थ पुथुलट्ठेन पुथुवी, पुथुवी एव पथवी. सा हि सतिपि परिच्छिन्नवुत्तियं सब्बेसं सकलापभावानं आधारभावेन पवत्तमाना पुथुला पत्थटा वित्थिण्णाति वत्तब्बतं अरहति, न पन तं अनुपविसित्वा पवत्तमाना आपादयो. ससम्भारपथविया पन पुथुलभावे वत्तब्बमेव नत्थि. आरम्मणपथवियं वड्ढनफरणट्ठेहि पुथुलट्ठो, इतरस्मिं रुळ्हियाव दट्ठब्बो. आरम्मणपथवीति झानस्स आरम्मणभूतं पथवीसङ्खातं पटिभागनिमित्तं. तेनाह ‘‘निमित्तपथवीतिपि वुच्चती’’ति. आगमनवसेनाति पथवीकसिणभावनागमनवसेन. तथा हि वुत्तं ‘‘आपो च देवा पथवी, तेजो वायो तदागमु’’न्ति (दी. नि. २.३४०).

सब्बापीति चतुब्बिधा पथवीपि. अनुस्सवादिमत्तलद्धा मञ्ञना वत्थु होतियेव. तथा हि ‘‘कक्खळं खरिगत’’न्तिआदिना (विभ. १७३) लक्खणपथवीपि उद्धरीयति. यं पनेके वदन्ति ‘‘लक्खणे दिट्ठे मञ्ञना नत्थि, सञ्जानातीति वुत्तसञ्ञा च दिट्ठिग्गाहस्स मूलभूता पिण्डग्गाहिता, सा लक्खणे नक्खमति, तस्मा लक्खणपथवी न गहेतब्बा’’ति, तदयुत्तं लक्खणपटिवेधस्स इध अनधिप्पेतत्ता. तेनाह ‘‘लोकवोहारं गहेत्वा’’ति. न च सब्बसञ्ञा पिण्डग्गाहिका, नापि दिट्ठिग्गाहस्सेव मूलभूता, तस्मा लक्खणपथवियापि कायद्वारानुसारेन अञ्ञथा च उपट्ठिताय मञ्ञना पवत्ततेव. तेनेव च ‘‘अनुस्सवादिमत्तलद्धा’’ति वुत्तं. पथवितोति पच्चते निस्सक्कवचनन्ति दस्सेन्तो ‘‘पथवीति सञ्जानाती’’ति आह. यस्मा चतुब्बिधम्पि पथविं ‘‘पथवी’ति सञ्जानन्तो तेन तेन नयेन पथवीकोट्ठासेनेव सञ्जानातीति वुच्चति, न आपादिकोट्ठासेन, तस्मा वुत्तं ‘‘पथविभागेन सञ्जानाती’’ति. लोकवोहारं गहेत्वाति लोकसमञ्ञं अविजहित्वा. एतेन लक्खणपथवियम्पि वोहारमुखेनेवस्सा पवत्तीति दस्सेति.

यदि लोकवोहारेन तत्थ पवत्ति, को एत्थ दोसो, ननु अरियापि ‘‘अयञ्हि भन्ते महापथवी’’तिआदिना लोकवोहारेन पवत्तन्तीति? न एत्थ वोहारमत्ते अवट्ठानं अधिप्पेतं, अथ खो वोहारमुखेन मिच्छाभिनिवेसोति दस्सेन्तो ‘‘सञ्ञाविपल्लासेन सञ्जानाती’’ति आह. तस्सत्थो – अयोनिसोमनसिकारसम्भूताय ‘‘सुभ’’न्तिआदिनयप्पवत्ताय विपरीतसञ्ञाय सञ्जानातीति. एतेन दुब्बला तण्हामानदिट्ठिमञ्ञना दस्सिताति दट्ठब्बं. यदि एवं कस्मा सञ्ञा गहिताति? पाकटभावतो. यथा नाम अग्गिम्हि मथियमाने यदा धूमो उपलब्भति, किञ्चापि तदा विज्जतेव पावको अविनाभावतो, पाकटभावतो पन धूमो जातोति वुच्चति, न अग्गि जातोति, एवंसम्पदमिदं दट्ठब्बं. यदिपि तत्थ मञ्ञनाकिच्चं अत्थि, न पन विभूतं अपाकटभावतो सञ्ञाकिच्चमेव विभूतं, तं पन मञ्ञनानुकूलं मञ्ञनासहितं चाति आह ‘‘सञ्ञाविपल्लासेन सञ्जानाती’’ति. एवं पथवीभागं अमुञ्चन्तोयेव वा सञ्जानातीति सम्बन्धो. यो हि वुत्तप्पभेदाय पथविया पथविभागं अमुञ्चन्तोयेव अविजहन्तोयेव सीसपिण्डे सुवण्णसञ्ञी विय अनत्तादिसभावंयेव तं अत्तादिवसेन सञ्जानाति, तस्स वसेन वुत्तं ‘‘पथवी’’तिआदि. न वत्तब्बं पुथुज्जनग्गाहस्स युत्तिमग्गननिवारणतोति दस्सेन्तो आह ‘‘उम्मत्तको विय…पे… गण्हाती’’ति. अरियानं अदस्सावितादिभेदन्ति अरियानं अदस्सावितादिविसेसं वदन्तेन भगवताव एत्थ यथावुत्तसञ्जानने कारणं वुत्तन्ति योजना.

एवन्ति ‘‘पथविभागेन सञ्जानाती’’तिआदिना वुत्तप्पकारेन. सञ्जानित्वाति पुब्बकालकिरियानिद्देसोति आह ‘‘अपरभागे…पे… गण्हाती’’ति. पपञ्चसङ्खाति पपञ्चकोट्ठासा. पपञ्चन्ति सत्ता संसारे चिरायन्ति एतेहीति पपञ्चा, मञ्ञन्ति ‘‘एतं ममा’’तिआदिना परिकप्पेन्ति एताहीति मञ्ञनाति द्वीहिपि परियायेहि तण्हादयोव वुत्ताति आह ‘‘तण्हामानदिट्ठिपपञ्चेहि इध मञ्ञनानामेन वुत्तेही’’ति. अजञ्ञस्स जञ्ञतो, असेय्यादिकस्स सेय्यादितो गहणतो दिट्ठिमञ्ञना विय तण्हामानमञ्ञनापि अञ्ञथा गाहो एवाति आह ‘‘अञ्ञथा गण्हाती’’ति. आरम्मणाभिनिरोपनादिना भिन्नसभावानम्पि वितक्कादीनं साधारणो उपनिज्झायनसभावो विय अनुगिज्झनुण्णतिपरामसनसभावानम्पि तण्हादीनं साधारणेन आरम्मणपरिकप्पनाकारेन पवत्ति मञ्ञनाति दट्ठब्बं. तेनाह ‘‘तीहि मञ्ञनाहि मञ्ञती’’तिआदि. अस्साति पुथुज्जनस्स, उदयब्बयानुपस्सनादीसु विय सुखुमनयेनपि मञ्ञनापवत्ति अत्थीति विभावनसुखताय थूलंयेव तं दस्सेतुकामो ‘‘ओळारिकनयेना’’तिआह. ओळारिके हि विभागे दस्सिते सुखुमविभावना सुकराति दस्सेतुं अयमत्थयोजना वुच्चतीति सम्बन्धो. अज्झत्तिकाति इन्द्रियबद्धा सत्तसन्तानपरियापन्ना नियकज्झत्ता वुत्ता विभङ्गे पटिसम्भिदामग्गे च.

विभङ्गेति धातुविभङ्गे (विभ. १७३). बाहिराति अनिन्द्रियबद्धा सङ्खारसन्तानपरियापन्ना. कक्खळन्ति थद्धं. खरिगतन्ति फरुसं. कक्खळभावो कक्खळत्तं. कक्खळभावोति कक्खळसभावो. बहिद्धाति इन्द्रियबद्धतो बहिद्धाभूतं. अनुपादिन्नन्ति न उपादिन्नं. अयोति काळलोहं. लोहन्ति जातिलोहं विजातिलोहं कित्तिमलोहं पिसाचलोहन्ति चतुब्बिधं. तत्थ अयो सज्झु सुवण्णं तिपु सीसं तम्बलोहं वेकन्तकलोहन्ति इमानि सत्त जातिलोहानि नाम. नागनासिकालोहं विजातिलोहं नाम. कंसलोहं वट्टलोहं आरकुटन्ति तीणि कित्तिमलोहानि नाम. मोरक्खकं पुथुकं मलिनकं चपलकं सलकं आटलं भत्तकं दुसिलोहन्ति अट्ठ पिसाचलोहानि नाम. तेसु वेकन्तकलोहं नाम सब्बलोहच्छेदनसमत्था एका लोहजाति. तथा हि तं विकन्तति छिन्दतीति विकन्तकन्ति वुच्चति. विकन्तकमेव वेकन्तकं. नागनासिकालोहं लोहसदिसं लोहविजाति हलिद्दादिविजाति विय. तथा हि तं लोहाकारं लोहमलं विय घनसंहतं हुत्वा तिट्ठति, तापेत्वा ताळितं पन भिन्नं भिन्नं हुत्वा विसरति मुदु मट्ठं कम्मनियं वा न होति. तिपुतम्बे मिस्सेत्वा कतं कंसलोहं. सीसतम्बे मिस्सेत्वा कतं वट्टलोहं. जसतम्बे मिस्सेत्वा कतं आरकुटं. तेनेव तं करणेन निब्बत्तत्ता कित्तिमलोहन्ति वुच्चति. यं पन केवलं रसकधातु विनिग्गतं, तं ‘‘पित्तल’’न्तिपि वदन्ति. तं इध नाधिप्पेतं, यथावुत्तं मिस्सकमेव कत्वा योजितं कित्तिमन्ति वुत्तं. मोरक्खकादीनि एवंनामानेवेतानि. तेसु यस्मा पञ्च जातिलोहानि पाळियं विसुं वुत्तानेव, तस्मा वेकन्तकलोहेन सद्धिं वुत्तावसेसं सब्बं इध लोहन्ति वेदितब्बं.

तिपूति सेततिपु. सीसन्ति काळतिपु. सज्झन्ति रजतं. मुत्ताति हत्थिकुम्भजादिका अट्ठविधापि मुत्ता. तथा हि हत्थिकुम्भं वराहदाठा भूजङ्गसीसं वलाहकूटं वेळू मच्छसीरो सङ्खो सिप्पीति अट्ठ मुत्तायोनियो. तत्थ हत्थिकुम्भजा पीतवण्णा पभाहीना. वराहदाठा वराहदाठवण्णाव. भुजङ्गसीसजा नीलादिवण्णा सुविसुद्धा वट्टला च. वलाहकजा भासुरा दुब्बिभागरूपा रत्तिभागे अन्धकारं विधमन्तियो तिट्ठन्ति, देवूपभोगा एव च होन्ति. वेळुजा करकुपलसमानवण्णा न भासुरा, ते च वेळू अमनुस्सगोचरे एव पदेसे जायन्ति. मच्छसीरजा पाठीनपिट्ठिसमानवण्णा वट्टला लघवो च होन्ति पभाविहीना, ते च मच्छा समुद्दमज्झे एव जायन्ति. सङ्खजा सङ्खोदरच्छविवण्णा कोलप्पमाणापि होन्ति पभाविहीनाव. सिप्पिजा पभाविसेसयुत्ता होन्ति नानासण्ठाना. एवं जातितो अट्ठविधासुपि मुत्तासु या मच्छसङ्खसिप्पिजा, ता सामुद्दिका होन्ति, भुजङ्गजापि काचि सामुद्दिका होन्ति, इतरा असामुद्दिका. यस्मा बहुलं सामुद्दिकाव मुत्ता लोके दिस्सन्ति, तत्थापि सिप्पिजाव, इतरा कादाचिका. तस्मा सम्मोहविनोदनियं (विभ. अट्ठ. १७३) ‘‘मुत्ताति सामुद्दिका मुत्ता’’ति वुत्तं.

मणीति ठपेत्वा पाळिआगते वेळुरियादिके सेसो जोतिरसादिभेदो सब्बोपि मणि. वेळुरियन्ति वंसवण्णमणि. सङ्खोति सामुद्दिकसङ्खो. सिलाति काळसिला पण्डुसिला सेतसिलादिभेदा अट्ठपि सिला. रजतन्ति कहापणादिकं वुत्तावसेसं रजतसम्मतं. जातरूपन्ति सुवण्णं. लोहितङ्गोति रत्तमणि. मसारगल्लन्ति कबरमणि तिणादीसु बहिभारा तालनाळिकेरादयोपि तिणं नाम. अन्तोसारं खदिरादि अन्तमसो दारुखण्डम्पि कट्ठं नाम. मुग्गमत्ततो याव मुट्ठिप्पमाणा मरुम्बा सक्खरा नाम. मुग्गमत्ततो पट्ठाय हेट्ठा वालिका नाम. कठलन्ति कपालखण्डं. भूमीति ससम्भारपथवी. पासाणोति अन्तोमुट्ठियं असण्ठहनतो पट्ठाय याव हत्थिप्पमाणं पासाणं, हत्थिप्पमाणतो पन पट्ठाय उपरि पब्बतोति. अयं अयोआदीसु विभागनिद्देसो. निमित्तपथवीति पटिभागनिमित्तभूतं पथविकसिणं. तम्पि हि ‘‘रूपावचरतिकचतुक्कज्झानं कुसलतो च विपाकतो च किरियतो च चतुत्थस्स झानस्स विपाको इमे धम्मा बहिद्धारम्मणा’’ति वचनतो ‘‘बाहिरा पथवी’’ति वुच्चति. तेन वुत्तं ‘‘या च अज्झत्तारम्मणत्तिके निमित्तपथवी, तं गहेत्वा’’ति. उग्गहनिमित्तञ्चेत्थ तंगतिकमेव दट्ठब्बं, निमित्तुप्पत्तितो पन पुब्बे भूमिग्गहणेनेव गहितन्ति.

तीहि मञ्ञनाहीति वुत्तं मञ्ञनात्तयं सपरसन्तानेसु सङ्खेपतो योजेत्वा दस्सेतुं ‘‘अहं पथवी’’तिआदि वुत्तं. तत्थ अहं पथवीतिआदीना अज्झत्तविसयं दिट्ठिमञ्ञनं मानमञ्ञनञ्च दस्सेति अत्ताभिनिवेसाहंकारदीपनतो. मम पथवीति इमिना तण्हामञ्ञनं मानमञ्ञनम्पि वा परिग्गहभूतायपि पथविया सेय्यादितो मानजप्पनतो. सेसपदद्वयेपि इमिनानयेन मञ्ञनाविभागो वेदितब्बो. तत्थ पथविकसिणज्झानलाभी झानचक्खुना गहितझानारम्मणं ‘‘अत्ता’’ति अभिनिविसन्तो तञ्च सेय्यादितो दहन्तो अत्थतो ‘‘अहं पथवी’’ति मञ्ञति नाम, तमेव ‘‘अयं मय्हं अत्ता’’ति गहणे पन ‘‘मम पथवी’’ति मञ्ञति नाम. तथा तं ‘‘परपुरिसो’’ति वा ‘‘देवो’’ति वा वादवसेन ‘‘अयमेव परेसं अत्ता’’ति वा अभिनिविसन्तो ‘‘परो पथवी, परस्स पथवी’’ति मञ्ञति नाम. इमिना नयेन सेसपथवीसुपि यथारहं चतुक्कं निद्धारेतब्बं.

एवं ‘‘पथविं मञ्ञती’’ति एत्थ चतुक्कवसेन मञ्ञनं दस्सेत्वा इदानि मञ्ञनावत्थुं मञ्ञनायो च विभजित्वा अनेकविहितं तस्स मञ्ञनाकारं दस्सेतुं ‘‘अथ वा’’तिआदिमाह. तत्थ अयन्ति यथावुत्तो पुथुज्जनो. छन्दरागन्ति बहलरागं. अस्सादेतीति निकामेति, ‘‘इमे केसा मुदुसिनिद्धकुञ्चितनीलोभासा’’तिआदिना तत्थ रसं विन्दति. अभिनन्दतीति सप्पीतिकाय तण्हाय अभिमुखो नन्दति पमोदति. अभिवदतीति उप्पन्नं तण्हाभिनन्दनावेगं हदयेन सन्धारेतुं असक्कोन्तो ‘‘अहो मे केसा’’ति वाचं निच्छारेति. अज्झोसाय तिट्ठतीति बलवतण्हाभिनिवेसेन गिलित्वा परिनिट्ठापेत्वा तिट्ठति. अञ्ञतरं वा पन रज्जनीयवत्थुन्ति केसादितो अञ्ञतरं वा करचरणादिप्पभेदं नियकज्झत्तपरियापन्नं रागुप्पत्तिहेतुभूतं वत्थुं. इतीति इमिना सिनिद्धादिप्पकारेनाति पत्थयितब्बाकारं परामसति. तत्थ नन्दिं समन्नानेतीति तेसु भावीसु केसादीसु सिद्धं विय कत्वा नन्दिं तण्हं समन्नाहरति समुपचारेति. पणिदहतीति पत्थनं ठपेति.

सम्पत्तिं निस्साय ‘‘सेय्योहमस्मी’’ति, विपत्तिं निस्साय ‘‘हीनोहमस्मी’’ति मानं जनेतीति योजना. पथवीकोट्ठासभूतानं केसादीनं सम्पत्तिविपत्तीहि मानजप्पना पथविया मञ्ञना होतीति आह ‘‘एवं अज्झत्तिकं पथविं मानमञ्ञनाय मञ्ञती’’ति. अवयवब्यतिरेकेन समुदायस्स अभावतो समुदायो जीवाभिनिवेसो अवयवेपि होतीति दस्सेन्तो ‘‘तं जीवं तं सरीरन्ति आगतनयेन पन केसं ‘जीवो’ति अभिनिविसती’’ति आह. ‘‘केसा नामेते इस्सरविहिता पजापतिनिस्सिता अणुसञ्चयो पकतिपरिणामो’’तिआदिना नयेनपेत्थ दिट्ठिमञ्ञना वेदितब्बा.

इमिस्सा पवत्तियाति निकन्तिमानदिट्ठीनं परियादानसमुग्घाटप्पवत्तिया. ‘‘एतं ममा’’तिआदिना यदिपि तिस्सन्नम्पि मञ्ञनानं सम्भवो दस्सितो. तण्हामानमञ्ञनानं पन हेट्ठा दस्सितत्ता दिट्ठिमञ्ञना एवेत्थ विसेसतो उद्धटाति वेदितब्बं. तेनाह ‘‘एवम्पि अज्झत्तिकं पथविं दिट्ठिमञ्ञनाय मञ्ञती’’ति.

बाहिरम्पि पथविं तीहि मञ्ञनाहि मञ्ञतीति योजना. तं पन मञ्ञनाविधिं दस्सेतुं ‘‘कथ’’न्ति आह. तस्सत्थो हेट्ठा वुत्तनयेन वेदितब्बो.

अयं जीवोति अयं काळलोहं ‘‘जीवो अत्ता’’ति अभिनिविसति एकच्चे निगण्ठा विय. एवं बाहिरं पथविं दिट्ठिमञ्ञनाय मञ्ञतीति एत्थापि ‘‘या चेव खो पन अज्झत्तिका पथवीधातु, या च बाहिरा पथवीधातू’’तिआदिना नयेन आनेत्वा वत्तब्बो.

पथवीकसिणं अत्ततो समनुपस्सतीतिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. अयम्पि च नयो ‘‘रूपं अत्ततो समनुपस्सती’’ति एत्थेव अन्तोगधोति दट्ठब्बो कसिणानम्पि रूपसमञ्ञासम्भावतो. पथविं मञ्ञतीति एत्थ यादिसो मञ्ञनावत्थुमञ्ञनानं वित्थारनयो वुत्तो, तादिसो इतो परं वुत्तनयोवाति आह ‘‘इतो परं सङ्खेपेनेव कथयिस्सामा’’ति, अतादिसो पन वित्थारतोपि कथयिस्सतीति अत्थो.

तस्माति यस्मा ‘‘पथविया’’ति इदं भुम्मवचनं, तस्मा, सो अत्तपरत्तदुपकरणानं आधारभावेन तं मञ्ञनावत्थुं कप्पेतीति अत्थो. तेनाह ‘‘अहं पथविया’’तिआदि. ननु च इन्द्रियबद्धानिन्द्रियबद्धपभेदस्स धम्मप्पबन्धस्स ससम्भारपथवी च आधारनिस्सयो, इतरा आरम्मणनिस्सयो तदारम्मणस्साति एत्थ निब्बिरोधोति? न, मञ्ञनावत्थुं निस्सयभावेन परिकप्पनतो. अयञ्हि ‘‘अह’’न्ति दिट्ठिमञ्ञनाय मानमञ्ञनाय च वत्थुभूतस्स अत्तनो पथविसन्निस्सयं कत्वा ‘‘अहं पथविया’’ति मञ्ञति, तण्हामञ्ञनाय वत्थुभूतस्स उपकरणस्स पथविं सन्निस्सयं कत्वा ‘‘मय्हं किञ्चनं पलिबोधो पथविया’’ति मञ्ञति. परोतिआदीसुपि इमिना नयेन अत्थो वेदितब्बो.

य्वायं अत्थनयोति सम्बन्धो. वुत्तो पटिसम्भिदामग्गे. एतेनेव नयेनाति य्वायं ‘‘सो खो पन मे अत्ता इमस्मिं रूपे’’ति समुदायस्स आधारभावदीपनो अत्थनयो वुत्तो, एतेनेव नयेन. न हि अवयवब्यतिरेकेन समुदायो लब्भति, तस्मा समुदाये वुत्तविधि अवयवेपि लब्भतीति अधिप्पायो. तेनाह सो खो पन मे अयं अत्ता इमिस्सा पथवियाति मञ्ञन्तोति. तस्मिंयेव पनस्स अत्तनीति एत्थ अस्साति पुथुज्जनस्स. तस्मिंयेव अत्तनीति अज्झत्तिकबाहिरपथवीसन्निस्सये अत्तनि. ‘‘पथविया मञ्ञती’’ति पदस्सायं वण्णना. एवं ‘‘पथविया मञ्ञती’’ति एत्थ अत्तवसेन दिट्ठिमानतण्हामञ्ञनं दस्सेत्वा इदानि परवसेन दस्सेतुं ‘‘यदा पना’’तिआदि वुत्तं. तत्थ अस्साति परस्स. तदाति परवसेन मञ्ञनायं. दिट्ठिमञ्ञना एव युज्जति तत्थ निच्चाभिनिवेसादयो सम्भवन्तीति कत्वा. अवधारणेन मानतण्हामञ्ञना निवत्तेति. न हि ‘‘सेय्योहमस्मी’’तिआदिना, ‘‘मय्ह’’न्ति च पवत्तलक्खणा मानतण्हा परस्मिं परस्स सन्तकभावेन गहिते च पवत्तन्तीति अधिप्पायो. इतरायोपीति मानतण्हामञ्ञनायोपि. इच्छन्ति अट्ठकथाचरिया. परस्सपि हि पथवीसन्निस्सयेन सम्पत्तिइस्सरियादिकस्स वसेन अत्तनि सेय्यादिभावं दहतो पणिदहतो च चित्तं तथाभावाय मानतण्हामञ्ञना सम्भवन्तीति आचरियानं अधिप्पायो. ‘‘परो पथवी परस्स पथवी’’ति एत्थापि इमे द्वे पकारा साधिप्पाया निद्धारेतब्बा.

‘‘पथवितो सञ्जानाती’’ति, ‘‘आदितो’’ति च आदीसु अनिस्सक्कवचनेपि तो-सद्दो दिट्ठोति आह ‘‘पथवितोति निस्सक्कवचन’’न्ति. सउपकरणस्साति हिरञ्ञसुवण्णगतस्स दासपोरिसादिना वित्तुपकरणेन सउपकरणस्स, अत्तनो वा परस्स वा तेसं उपकरणस्स वाति अत्थो. यथावुत्तप्पभेदतोति लक्खणादिअज्झत्तिकादिवुत्तप्पकारविभागतो. उप्पत्तिं वा निग्गमनं वाति ‘‘तं अण्डं अहोसि हेममयं, तस्मिं सयं ब्रह्मा उप्पन्नो’’ति ब्रह्मण्डवादवसेन वा ‘‘द्वीहि अणूहि द्विअणुक’’न्ति एवं पवत्तअणुकवादवसेन वा पथवितो उप्पत्तिं वा ‘‘सब्बोयं लोको इस्सरतो विनिग्गतो’’ति इस्सरवादवसेन इस्सरकुत्ततो पथवितो निग्गमनं वा मञ्ञमानोति योजना. पथवितो वा अञ्ञो आपादिको अत्ताति अधिप्पायो. एत्थ च पुरिमस्मिं अत्थविकप्पे कारकलक्खणं निस्सक्कवचनं, दुतियस्मिं उपपदलक्खणन्ति दट्ठब्बं. अत्तनो परिग्गहभूतपथवितो सुखप्पत्तिं ततो एव च परेहि सेय्यादिभावं कप्पेन्तस्स वसेनपेत्थ तण्हामानमञ्ञना वेदितब्बा. अपरेति सारसमासाचरिया. ततो अञ्ञं अप्पमाणं अत्तानं गहेत्वाति पुब्बे भावितआपादिअप्पमाणकसिणवसेन वा कापिलकाणाददिट्ठिवसेन वा अप्पमाणं ब्यापिनं अत्तानं गहेत्वा. पथवितोति पच्छा अभावितअवड्ढितपथवीकसिणसङ्खातपथवितो. बहिद्धापि मे अत्ताति इतो पथवितो बहिपि मे अत्ताति अधिप्पायो.

केवलन्ति अनवसेसं. महापथविं तण्हावसेन ममायति, अयञ्च नयो चतुदीपिस्सरिये ठितस्स दीपचक्कवत्तिनो च लब्भेय्य, मण्डलिकराजमहामत्तकुटुम्बिकानम्पि वसेन लब्भतेव तेसम्पि यथापरिग्गहं अनवसेसेत्वा मञ्ञनाय सम्भवतो. ‘‘एवं ममा’’ति गाहस्स ‘‘एसोहमस्मिं, एसो मे अत्ता’’ति गाहविधूरताय वुत्तं ‘‘एका तण्हामञ्ञना एव लब्भती’’ति. इमिना नयेनाति वुत्तमतिदेसं विभावेतुं ‘‘सा चाय’’न्तिआदि वुत्तं. तत्थ सा चायन्ति सा च अयं तण्हामञ्ञना योजेतब्बाति सम्बन्धो. यथा पन दिट्ठिमञ्ञनामञ्ञिते वत्थुस्मिं सिनेहं मानञ्च उप्पादयतो तण्हामानमञ्ञना सम्भवन्ति, एवं तण्हामञ्ञनामञ्ञितेन वत्थुना अत्तानं सेय्यादितो दहतो तञ्च अत्तनियं निच्चं तथा तंसामिभूतं अत्तानञ्च परिकप्पेन्तस्स इतरमञ्ञनापि सम्भवन्तीति सक्का विञ्ञातुं. ‘‘मे’’ति हि इमिना अत्थग्गहणमुखेनेव अत्तनियसम्बन्धो पकासीयतीति.

अभिनन्दतीति इमिना तण्हादिट्ठाभिनिवेसानं सङ्गहितत्ता ते दस्सेन्तो ‘‘अस्सादेति परामसति चा’’ति आह. दिट्ठिविप्पयुत्तचित्तुप्पादवसेन चेतस्स द्वयस्स असङ्करतो पवत्ति वेदितब्बा, एकचित्तुप्पादेपि वा अधिपतिधम्मानं विय पुब्बाभिसङ्खारवसेन तस्स तस्स बलवभावेन पवत्ति. एतस्मिं अत्थेति तण्हादिट्ठिवसेन अभिनन्दनत्थे. एतन्ति ‘‘पथविं अभिनन्दती’’ति एतं पदं. येसं विनेय्यानं येहि पकारविसेसेहि धम्मानं विभावने कते विसेसाधिगमो होति, तेसं तेहि पकारविसेसेहि धम्मविभावनं. येसं पन येन एकेनेव पकारेन धम्मविभावने कते विसेसाधिगमो होति, तेसम्पि तं वत्वा धम्मिस्सरताय तदञ्ञनिरवसेसप्पकारविभावनञ्च देसनाविलासो. तेनाह ‘‘पुब्बे मञ्ञनावसेन किलेसुप्पत्तिं दस्सेत्वा इदानि अभिनन्दनावसेन दस्सेन्तो’’ति. धम्मधातुयाति सम्मासम्बोधिया. सा हि सब्बञेय्यधम्मं यथासभावतो धारेति उपधारेति, सकलञ्च विनेय्यसत्तसङ्खातधम्मप्पबन्धं अपायदुक्खसंसारदुक्खपतनतो धारेति, सयञ्च अविपरीतपवत्तिआकारा धातूति धम्मधातूति इधाधिप्पेता. सब्बञ्ञुतञ्ञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं सम्मासम्बोधीति. सुप्पटिविद्धत्ताति सुट्ठु पटिविद्धभावतो, सम्मा अधिगतत्ताति अत्थो. अभिकङ्खनसम्पग्गहपरामसनानं वसेन आरम्मणे परिकप्पनापवत्ति मञ्ञना. तत्थ ‘‘ममं, अह’’न्ति च अभिनिवेसनं परिकप्पनं. येन अज्झोसानं होति, अयं अभिनन्दनाति अयमेतेसं विसेसो. सुत्तादिअविरुद्धायेव अत्तनोमति इच्छितब्बा, न इतराति सुत्तेन तस्सा सङ्गहं दस्सेतुं ‘‘वुत्तञ्चेत’’न्तिआदि वुत्तं. देसनाविलासविभावनस्स पन सहेतुकहेतुसम्पयुत्तदुकादिदेसनाय निबद्धता निद्धारेतब्बा.

तस्साति तेन. ञातसद्दसम्बन्धेन हेतं कत्तरि सामिवचनं. तस्माति अपरिञ्ञातत्ता. ‘‘अपरिञ्ञात’’न्ति पटिक्खेपमुखेन यं परिजाननं वुत्तं, तं अत्थतो तिविधा परिञ्ञा होतीति तं सरूपतो पवत्तिआकारतो च विभावेन्तो ‘‘यो ही’’तिआदिमाह.

तत्थ याय पञ्ञाय विपस्सनाभूमिं परिजानाति परिच्छिन्दति, सा परिजाननपञ्ञा ञातपरिञ्ञा. सा हि तेभूमकधम्मजातं ‘‘अयं विपस्सनाभूमी’’ति ञातं विदितं पाकटं करोन्तीयेव लक्खणरसादितो अज्झत्तिकादिविभागतो च परिच्छिज्ज जानाति. इध पन पथवीधातुवसेन वेदितब्बाति वुत्तं ‘‘पथवीधातुं परिजानाती’’तिआदि. तीरणपरिञ्ञाति कीरणवसेन परिजाननकपञ्ञा. सा हि परिवारेहि अनिच्चतादिआकारेहि अनिच्चतादिसभावस्स उपादानक्खन्धपञ्चकस्स तीरणवसेन सम्मसनवसेन तं परिच्छिज्ज जानाति. अग्गमग्गेनाति अरहत्तमग्गेन. सो हि अनवसेसतो छन्दरागं पजहति. अग्गमग्गेनाति वा अग्गभूतेन मग्गेन, लोकुत्तरमग्गेनाति अत्थो. उभयथापि हि समुच्छेदपहानकारी एव पञ्ञा निप्परियायेन पहानपरिञ्ञाति दस्सेति.

नामरूपववत्थानन्ति एतेन पच्चयपरिग्गहोपि सङ्गहितोति दट्ठब्बो नामरूपस्स हेतुववत्थानभावतो. सोपि हि हेतुपच्चयमुखेन नामरूपस्स ववत्थानमेवाति. कलापसम्मसनादिवसेन तीरणपरिञ्ञा अनिच्चादिवसेन सम्मसनभावतो. तस्माति यस्मा ता परिञ्ञायो नत्थि, तस्मा. अथ वा तस्मा अपरिञ्ञातत्ताति यस्मा अपरिञ्ञाता पथवी, तस्मा अपरिञ्ञातत्ता पथविया तं पथविं मञ्ञति च अभिनन्दति चाति.

पथवीवारवण्णना निट्ठिता.

आपोवारादिवण्णना

आपं आपतोति एत्थ अप्पोति, अप्पायतीति वा आपो, यस्मिं सङ्घाते सयं अत्थि, तं आबन्धनवसेन ब्यापेत्वा तिट्ठति, परिब्रूहेतीति वा अत्थो. अत्थानं अधि अज्झत्तं. पति पति अत्तानन्ति पच्चत्तं. उभयेनपि सत्तसन्तानपरियापन्नमेव वदति. आपो आपोगतन्तिआदीसु आबन्धनमेव आपो, तदेव आपोसभावं गतत्ता आपोगतं, सभावेनेव आपभावं पत्तन्ति अत्थो. सिनेहनवसेन सिनेहो, सोयेव सिनेहनसभावं गतत्ता सिनेहगतं. बन्धनत्तं रूपस्साति अविनिब्भोगरूपस्स बन्धनभावो, अविप्पकिरणवसेन सम्पिण्डनन्ति अत्थो. उग्गण्हन्तोति यथापरिच्छिन्ने आपोमण्डले यथा उग्गहनिमित्तं उपलब्भति, तथा निमित्तं गण्हन्तो. वुत्तोति ‘‘आपस्मि’’न्ति एत्थ वुत्तआपो. सो हि ससम्भारआपो, न ‘‘आपोकसिण’’न्ति एत्थ वुत्तआपो. सेसन्ति आरम्मणसम्मुतिआपानं सरूपविभावनं. ‘‘आपं आपतो पजानाती’’तिआदिपाळिया अत्थविभावनञ्चेव तत्थ तत्थ मञ्ञनाविभागदस्सनञ्च पथवियं वुत्तसदिसमेवाति. तत्थ ‘‘पथवीकसिणमेको सञ्जानाती’’तिआदिना (दी. नि. ३.३६०; अ. नि. १०.२५) वुत्तं, इध ‘‘आपोकसिणमेको सञ्जानाती’’तिआदिना वत्तब्बं. तत्थ च ‘‘पथवीति सञ्जानाती’’ति वुत्तं, इध पन ‘‘आपोति सञ्जानाती’’तिआदिना वत्तब्बन्ति एवमादि एव विसेसो. सेसं तादिसमेव. तेन वुत्तं ‘‘पथवियं वुत्तसदिसमेवा’’ति. यो पनेत्थ विसेसो, तं दस्सेतुं ‘‘केवल’’न्तिआदि वुत्तं. तत्थ मूलरसोति मूलं पटिच्च निब्बत्तरसो. खन्धरसादीसुपि एसेव नयो. खीरादीनि पाकटानेव. यथा पन भेसज्जसिक्खापदे (पारा. ६१८-६२५), न एवमिध नियमो अत्थि. यं किञ्चि खीरं खीरमेव. सेसेसुपि एसेव नयो. भुम्मानीति आवाटादीसु ठितउदकानि. अन्तलिक्खानीति पथविं अप्पत्तानि वस्सोदकानि, पत्तानि पन भुम्मानेव. एवं वुत्ता चाति -सद्देन हिमोदककप्पविनासकउदकपथवियाअन्तोउदकपथवीसन्धारकउदकादिं पुब्बे अवुत्तम्पि समुच्चिनोति.

तेजं तेजतोति एत्थ तेजनट्ठेन तेजो, तेजनं नाम दहनपचनादिसमत्थं निसानं, यं उण्हत्तन्ति वुच्चति. येन चाति येन तेजोगतेन कुपितेन. सन्तप्पतीति अयं कायो समन्ततो तप्पति एकाहिकजरादिभावेन उसुमजातो होति. येन च जीरीयतीति येन अयं कायो जीरीयति, इन्द्रियवेकल्लतं बलपरिक्खयं वलितादिभावञ्च पापुणाति. येन च परिडय्हतीति येन कुपितेन अयं कायो परितो डय्हति, सो च पुग्गलो डय्हामीति सतधोतसप्पिगोसीतचन्दनादिलेपञ्चेव तालवण्टवातञ्च पच्चासीसति. येन च असितपीतखायितसायितं सम्मा परिणामं गच्छतीति येन असितं वा ओदनादि, पीतं वा पानकादि, खायितं वा पिठखज्जकादि, सायितं वा अम्बपक्कमधुफाणितादि सम्मदेव परिपाकं गच्छति, रसादिभावेन विवेकं गच्छतीति अत्थो. एत्थ च सरीरस्स पकतिउसुमं अतिक्कमित्वा उण्हभावो सन्तापो, सरीरदहनवसेन पवत्तो महादाहो परिदाहो, सतवारं तापेत्वा उदके पक्खिपित्वा उद्धटसप्पि सतधोतसप्पि, रसरुधिरमंसमेदअट्ठिअट्ठिमिञ्जसुक्का रसादयो. तत्थ पुरिमा तयो तेजा चतुसमुट्ठाना, पच्छिमो कम्मसमुट्ठानोव.

तेजोभावं गतत्ता तेजोगतं. उस्माति उण्हाकारो. उस्माव उस्माभावं गतत्ता उस्मागतं. उसुमन्ति चण्डउसुमं. तदेव उसुमगतं, सभावेनेव उसुमभावं पत्तन्ति अत्थो. कट्ठग्गीति कट्ठुपादानो अग्गि. सकलिकग्गीआदीसुपि एसेव नयो. सङ्कारग्गीति कचवरं पटिच्च उप्पन्नअग्गि. इन्दग्गीति असनिअग्गि. सन्तापोति जालाय वा वीतच्चितङ्गारानं वा सन्तापो. सूरियसन्तापोति आतपो. कट्ठसन्निचयसन्तापोति कट्ठरासिं पटिच्च उप्पन्नसन्तापो. सेसेसुपि एसेव नयो. एवं वुत्ता चाति. च-सद्देन पेतग्गिकप्पविनासकग्गिनिरयग्गिआदिके अवुत्तेपि समुच्चिनोति.

वायं वायतोति एत्थ वायनट्ठेन वायो. किमिदं वायनं नाम? वित्थम्भनं, समुदीरणं वा, वायनं गमनन्ति एके. उद्धङ्गमा वाताति उग्गारहिक्कादिपवत्तका उद्धं आरोहनवाता. अधोगमा वाताति उच्चारपस्सावादिनीहरणता अधो ओरोहनवाता. कुच्छिसया वाताति अन्तानं बहिवाता. कोट्ठासया वाताति अन्तानं अन्तोवाता. अङ्गमङ्गानुसारिनो वाताति धमनीजालानुसारेन सकलसरीरे अङ्गमङ्गानि अनुसटा समिञ्जनपसारणादिनिब्बत्तका वाता. सत्थकवाताति सन्धिबन्धनानि कत्तरिया छिन्दन्ता विय पवत्तवाता. खुरकवाताति खुरेन विय हदयमंसछेदनफालनकवाता. उप्पलकवाताति हदयमंसस्स समुप्पाटनकवाता. अस्सासोति अन्तोपविसनकनासिकावातो. पस्सासोति बहिनिक्खमननासिकावातो. एत्थ च पुरिमा सब्बे चतुसमुट्ठाना, अस्सासपस्सासा चित्तसमुट्ठानाव.

वायोगतन्ति वायोव वायोगतं, सभावेनेव वायोभावं पत्तन्ति अत्थो. थम्भितत्तं रूपस्साति अविनिब्भोगरूपस्स थम्भितभावो. पुरत्थिमा वाताति पुरत्थिमदिसतो आगता वाता. पच्छिमादीसुपि एसेव नयो. सरजादीसु सह रजेन सरजा, रजविरहिता सुद्धा अरजा. सीतउतुसमुट्ठाना, सीतवलाहकन्तरे वा जाता सीता. उण्हउतुसमुट्ठाना, उण्हवलाहकन्तरे वा जाता उण्हा. परित्ताति मन्दा तनुकवाता. अधिमत्ताति बलववाता. काळाति काळवलाहकन्तरे समुट्ठिता. येहि अब्भाहतो छविवण्णो काळको होति, तेसं एतं अधिवचनन्तिपि एके. वेरम्भवाताति योजनतो उपरि वायनवाता. पक्खवाताति अन्तमसो मक्खिकायपि पक्खायूहनवाता. सुपण्णवाताति गरुळवाता. कामं चेतेपि पक्खवाताव, उस्सदवसेन पन विसुं गहिता. तालवण्टवाताति तालवण्णेहि कतेन, अञ्ञेहि वा कतेन केनचि मण्डलसण्ठानेन समुट्ठापितवाता. विधूपनवाताति बीजनपत्तकेन समुट्ठापितवाता. इमानि च तालवण्टविधूपनानि अनुप्पन्नम्पि वातं उप्पादेन्ति, उप्पन्नम्पि परिवत्तेन्ति. इधापि -सद्दो उदकसन्धारकवातकप्पविनासकवातजालापेल्लनकवातादिके अवुत्तेपि समुच्चिनोति. एत्थ च ‘‘आपं मञ्ञती’’तिआदीसु यस्मा तीहि मञ्ञनाहि – ‘‘अहं आपोति मञ्ञति, मम आपोति मञ्ञती’’तिआदिना पथवीवारे वुत्तनयेन सक्का मञ्ञनाविभागो विभावेतुन्ति वुत्तं ‘‘सेसं वुत्तनयमेवा’’ति. तस्मा तत्थ वुत्तनयानुसारेन इमेसु तीसु वारेसु यथारहं मञ्ञनाविभागो विभावेतब्बो.

एत्तावताति एत्तकेन इमिना चतुवारपरिमाणेन देसनाविसेसेन. -सद्दो ब्यतिरेको. तेन वक्खमानंयेव विसेसं जोतेति. य्वायन्ति यो अयं लक्खणो नाम हारो वुत्तोति सम्बन्धो. सो पन लक्खणहारो यंलक्खणो तत्थ वुत्तो, तं दस्सेतुं ‘‘वुत्तम्ही’’तिआदि वुत्तं. तत्थ वुत्तम्हि एकधम्मेति कुसलादीसु खन्धादीसु वा यस्मिं कस्मिञ्चि एकधम्मे सुत्ते सरूपतो निद्धारणवसेन वा कथिते. ये धम्मा एकलक्खणा तेनाति ये केचि धम्मा कुसलादिभावेन, रूपक्खन्धादिभावेन वा तेन वुत्तधम्मेन समानलक्खणा. वुत्ता भवन्ति सब्बेति सब्बेपि कुसलादिसभावा, खन्धादिसभावा वा धम्मा सुत्ते अवुत्तापि ताय समानलक्खणताय वुत्ता भवन्ति, आनेत्वा संवण्णनवसेनाति अधिप्पायो.

एत्थ च एकलक्खणाति समानलक्खणा वुत्ता. तेन सहचरिता समानकिच्चता समानहेतुता समानफलता समानारम्मणताति एवमादीहिपि अवुत्तानं वुत्तानं विय निद्धारणं वेदितब्बं. इतीति इमिना पकारेन. तेनाह ‘‘एवं नेत्तियं लक्खणो नाम हारो वुत्तो’’ति, नेत्तिपाळियं (नेत्ति. २३) पन ‘‘ये धम्मा एकलक्खणा केचि सो हारो लक्खणो नामा’’ति पाठो आगतो. तस्स वसेनाति तस्स लक्खणहारस्स वसेन. रूपलक्खणं अनतीतत्ताति रुप्पनसभावेन समानसभावत्ता. वदन्तेन भगवता. एताति ‘‘रूपं अत्ततो समनुपस्सती’’ति एवं वुत्तदिट्ठी. एत्थ च सक्कायदिट्ठिमञ्ञनादस्सनेनेव सकलरूपवत्थुका तण्हामानमञ्ञनापि दस्सिता एवाति दट्ठब्बं. तथा हि वुत्तं ‘‘तस्मिंयेव पनस्स दिट्ठिमञ्ञनाय मञ्ञिते वत्थुस्मिं सिनेहं मानञ्च उप्पादयतो तण्हामानमञ्ञनापि वेदितब्बा’’ति. अथ वा पथविं आपं तेजं वायं मेति मञ्ञति अभिनन्दतीति च वदन्तेन वुत्तनयेनेव सकलरूपवत्थुका तण्हामञ्ञना तदनुसारेन मानमञ्ञनापि वुत्ताव होतीति एवम्पेत्थ इतरमञ्ञनापि निद्धारेतब्बा.

आपोवारादिवण्णना निट्ठिता.

भूतवारादिवण्णना

. ‘‘पथविं मञ्ञति, पथविया मञ्ञती’’तिआदीहि पदेहि ‘‘रूपं अत्ततो समनुपस्सति, रूपस्मिं अत्तानं समनुपस्सती’’तिआदीनं सक्कायदिट्ठीनं निद्धारितत्ता वुत्तं ‘‘एवं रूपमुखेन सङ्खारवत्थुकं मञ्ञनं वत्वा’’ति. तेसु सङ्खारेसु सत्तेसुपीति तदुपादानेसुपि सत्तेसु. धातूसूति पथवीआदीसु चतूसु धातूसु. ‘‘जातं भूतं सङ्खत’’न्तिआदीसु (दी. नि. २.२०७; सं. नि. ५.३७९) भूत-सद्दो उप्पादे दिस्सति, सउपसग्गो पन ‘‘पभूतमरियो पकरोति पुञ्ञ’’न्तिआदीसु विपुले, ‘‘येभुय्येन भिक्खूनं परिभूतरूपो’’तिआदीसु हिंसने, ‘‘सम्भूतो साणवासी’’तिआदीसु (चूळव. ४५०) पञ्ञत्तियं, ‘‘अभिभूतो मारो विजितो सङ्गामो’’तिआदीसु विमथने, ‘‘पराभूतरूपो खो अयं अचेलो पाथिकपुत्तो’’तिआदीसु (दी. नि. ३.२३, २५, ३१, ३२) पराजये, ‘‘अनुभूतं सुखदुक्ख’’न्तिआदीसु वेदियने, ‘‘विभूतं विभावितं पञ्ञाया’’तिआदीसु पाकटीकरणे दिस्सति. ते सब्बे रुक्खादीसूति. आदि-सद्देन सङ्गहिताति दट्ठब्बा. ‘‘कालो घसति भूतानीति (जा. १.२.१९०), भूता लोके समुस्सय’’न्ति (दी. नि. २.२२०; सं. नि. १.१८६) च आदीसु अविसेसेन सत्तवाचकोपि भूतसद्दो, उपरि देवादिपदेहि सत्तविसेसानं गहितत्ता इध तदवसिट्ठा भूतसद्देन गय्हन्तीति आह ‘‘नो च खो अविसेसेना’’ति. तेनेवाह – ‘‘चातुमहाराजिकानञ्हि हेट्ठा सत्ता इध भूताति अधिप्पेता’’ति. यो हि सत्तनिकायो परिपुण्णयोनिको चतूहिपि योनीहि निब्बत्तनारहो, तत्थायं भूतसमञ्ञा अण्डजादिवसेन भवनतो.

भूतेति वुत्तदेसआदेसिते भूते. भूततो सञ्जानातीति इमिना ‘‘भूता’’ति लोकवोहारं गहेत्वा यथा तत्थ तण्हादिमञ्ञना सम्भवन्ति, एवं विपरीतसञ्ञाय सञ्जाननं पकासीयति. स्वायमत्थो हेट्ठा ‘‘पथवितो सञ्जानाती’’ति एत्थ वुत्तनयानुसारेन सक्का जानितुन्ति आह ‘‘वुत्तनयमेवा’’ति. यथा सुद्धावासा सब्बदा अभावतो इमं देसनं नारुळ्हा, एवं नेरयिकापि सब्बमञ्ञनानधिट्ठानतो. एतेनेव एकच्चपेतानम्पेत्थ असङ्गहो दट्ठब्बो. अपरे पन ‘‘दिट्ठिमञ्ञनाधिट्ठानतो तेसम्पेत्थ सङ्गहो इच्छितोयेवा’’ति वदन्ति. ‘‘समङ्गिभूतं परिचारेन्त’’न्तिआदिना सुत्ते वुत्तनयेन. रज्जतीति ‘‘सुभा सुखिता’’ति विपल्लासग्गाहेन तत्थ रागं जनेति. एवमेत्थ रज्जन्तो च न केवलं दस्सनवसेनेव, सवनादिवसेनपि रज्जतेवाति दस्सेन्तो ‘‘दिस्वापि…पे… उत्वापी’’ति आह. तत्थ घायनादिवसेन रज्जनं तेहि अनुभूतगन्धमालादिवसेन चेव विसभागवत्थुभूतानं तेसं परिभोगवसेन च यथानुभवं अनुस्सरणवसेन च वेदितब्बं. एवं भूते तण्हामञ्ञनाय मञ्ञतीति वुत्तनयेन भूते पटिच्च छन्दरागं जनेन्तो तेसं पटिपत्तिं अस्सादेन्तो अभिनन्दन्तो अभिवदन्तो अज्झोसाय तिट्ठन्तो ‘‘ईदिसी अवत्था मम अनागतमद्धानं सिया’’तिआदिना वा पन नयेन तत्थ नन्दिं समन्नानेन्तो भूते तण्हामञ्ञनाय मञ्ञतीति अत्थो. अप्पटिलद्धस्स खत्तियमहासालादिभावस्स, सम्पत्तिं विपत्तिन्ति जातिवसेन उक्कट्टनिहीनतं. दहतीति ठपेति. यो एवरूपो मानोति यो एसो ‘‘अयं पुब्बे मया सदिसो, इदानि अयं सेट्ठो अयं हीनतरो’’ति उप्पन्नो मानो. अयं वुच्चति मानातिमानोति अयं भारातिभारो विय पुरिमं सदिसमानं उपादाय मानातिमानो नामाति अत्थो.

निच्चातिआदीसु उप्पादाभावतो निच्चा, मरणाभावतो धुवा, सब्बदा भावतो सस्सता. अनिच्चपटिपक्खतो वा निच्चा, थिरभावतो धुवा, सस्सतिसमताय सस्सता, जरादिवसेन विपरिणामस्स अभावतो अविपरिणामधम्माति मञ्ञति. सब्बे सत्ताति ओट्ठगोणगद्रभादयो अनवसेसा सञ्जनट्ठेन सत्ता. सब्बे पाणाति ‘‘एकिन्द्रियो पाणो द्विन्द्रियो पाणो’’तिआदिवसेन वुत्ता अनवसेसा पाणनट्ठेन पाणा. सब्बे भूताति अनवसेसा अण्डकोसादीसु भूता सञ्जाताति भूता. सब्बे जीवाति सालियवगोधूमादयो अनवसेसा जीवनट्ठेन जीवा. तेसु हि सो विरूहभावेन जीवसञ्ञी. अवसा अबला अवीरियाति तेसं अत्तनो वसो वा बलं वा वीरियं वा नत्थीति दस्सेति. नियतिसङ्गतिभावपरिणताति एत्थ नियतीति. नियतता, अच्छेज्जसुत्तावुतअभेज्जमणि विय अविजहितपकतिता. सङ्गतीति छन्नं अभिजातीनं तत्थ सङ्गमो. भावोति सभावोयेव, कण्डकानं तिखिणता, कपिट्ठफलादीनं परिमण्डलादिता, मिगपक्खीनं विचित्तवण्णादिताति एवमादिको. एवं नियतिया च सङ्गतिया च भावे च परिणता नानप्पकारतं पत्ता. येन हि यथा भवितब्बं, सो तथेव भवति. येन न भवितब्बं, सो न भवतीति दस्सेति. छस्वेवाभिजातीसूति कण्हाभिजातिआदीसु छसु एव अभिजातीसु ठत्वा सुखञ्च दुक्खञ्च पटिसंवेदेन्ति, अञ्ञा सुखदुक्खभूमि नत्थीति दस्सेति. वा-सद्देन अन्तादिभेदे दिट्ठाभिनिवेसे सङ्गण्हाति.

उपपत्तिन्ति इमिना तस्मिं तस्मिं सत्तनिकाये भूतानं सहब्यतं आकङ्खतीति दस्सेति. सुखुप्पत्तिन्ति इमिना पन तत्थ तत्थ उप्पन्नस्स सुखुप्पत्तिं. एकच्चे भूते निच्चातिआदिना एकच्चसस्सतिकदिट्ठिं दस्सेति. अहम्पि भूतेसु अञ्ञतरोस्मीति इमिना पन चतुत्थं एकच्चसस्सतिकवादं दस्सेति.

यतो कुतोचीति इस्सरपुरिसादिभेदतो यतो कुतोचि. एका तण्हामञ्ञनाव लब्भतीति इधापि हेट्ठा वुत्तनयेन इतरमञ्ञनानम्पि सम्भवो निद्धारेतब्बो. वुत्तप्पकारेयेव भूते तण्हादिट्ठीहि अभिनन्दतीतिआदिना वत्तब्बत्ता आह ‘‘वुत्तनयमेवा’’ति. योजना कातब्बाति ‘‘यो भूतपञ्ञत्तिया उपादानभूते खन्धे परिजानाति, सो तीहि परिञ्ञाहि परिजानाती’’तिआदिना योजना कातब्बा. अपरे पनेत्थ भूतगामोपि भूत-सद्देन सङ्गहितोति रुक्खादिवसेनपि मञ्ञनाविभागं योजेत्वा दस्सेन्ति, तथा महाभूतवसेनपि, तं अट्ठकथायं नत्थि.

भूमिविसेसादिना भेदेनाति भूमिविसेसउपपत्तिविसेसादिविभागेन. इद्धियाति पुञ्ञविसेसनिब्बत्तेन आनुभावेन. किञ्चापि देव-सद्दो ‘‘विद्धे विगतवलाहके देवे’’तिआदीसु (सं. नि. १.११०; ३.१०२; ५.१४६-१४८; म. नि. १.४८६; अ. नि. १०.१५; इतिवु. २७) अजटाकासे आगतो, ‘‘देवो च थोकं थोकं फुसायती’’तिआदीसु मेघे, ‘‘अयञ्हि देव कुमारो’’तिआदीसु (दी. नि. २.३४, ३५, ३६) खत्तिये आगतो, ‘‘पञ्चहि कामगुणेहि समप्पितो समङ्गिभूतो परिचारेति देवो मञ्ञे’’तिआदीसु (दी. नि. १.१८३; म. नि. २.२११) विय इध उपपत्तिदेवेसु आगतो, देव-सद्देन पन वत्तब्बसत्ते अनवसेसतो उद्धरित्वा ततो इधाधिप्पेते दस्सेतुं ‘‘ते तिविधा’’तिआदि वुत्तं. सेसा छ कामावचरा इध देवाति अधिप्पेता इतरेसं पदन्तरेहि निवत्तितत्ताति अधिप्पायो. भूता देवाति गहितेसु सत्तेसु तण्हादिमञ्ञनानं पवत्ताकारेनपि तिविधलक्खणन्ति आह ‘‘भूतवारे वुत्तनयेन वेदितब्बा’’ति.

‘‘अञ्ञतरस्स उपासकस्स पजापति अभिरूपा होती’’तिआदीसु (पारा. १६८) पजापति-सद्दो घरणियं आगतो, ‘‘पजापति कामदायी सुवण्णवण्णा मे पजा होतू’’तिआदीसु दिट्ठिगतिकपरिकप्पिते, ‘‘पजापतिस्स देवराजस्स धजग्गं उल्लोकेय्याथा’’तिआदीसु (सं. नि. १.२४९) देवजेट्ठके, इध पन अधिपतीति वदन्ति, तं उपरि ब्रह्मुनो गय्हमानत्ता तेसं मतिमत्तं. देवानन्ति चातुमहाराजिकादिदेवानं. महाराजादीनन्ति आदि-सद्देन सक्कसुयामसन्तुस्सितसुनिम्मितवसवत्तिनो गहिता. तेसन्ति महाराजादीनं. सत्तसङ्खातायाति कामभूमियं सत्तसङ्खाताय. पजापतिन्ति पजापतिभावं. पजापतिभावेन हि मानं जप्पेन्तो पजापतिं मानमञ्ञनाय मञ्ञतीति वुत्तो.

एका दिट्ठिमञ्ञनाव युज्जतीति वुत्तं, पजापतिनो पन समिपतं सलोकतं वा आकङ्खतो, तथाभावाय चित्तं पणिदहतो, तथालद्धब्बाय सम्पत्तिया अत्तनो सेय्यादिभावं दहतो च तण्हामानमञ्ञनापि सम्भवन्तीति सक्का विञ्ञातुं. ये च धम्माति आयुवण्णादिके वदति. पजापतिन्ति एत्थापि हेट्ठा वुत्तनयेन इतरमञ्ञनानम्पि सम्भवो वेदितब्बो.

ब्रूहितोति परिवुद्धो. गुणविसेसेहीति झानादीहि विसिट्ठेहि गुणेहि उत्तरिमनुस्सधम्मताय. ब्रह्म-सद्दस्स सतिपि अविसेसतो विसिट्ठवाचकत्ते यत्थ यत्थ पनस्स गुणविसेसयुत्तादिरूपा पवत्ति, तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. सहस्सोति सहस्सिया लोकधातुया अधिपतिभूतो. पठमाभिनिब्बत्तोति पणीतेन पठमझानेन निब्बत्तो, पठमज्झानभूमियं वा पठमं अभिनिब्बत्तो. गहिताति वेदितब्बा पधानग्गहणेन अप्पधानानम्पि केनचि सम्बन्धेन गहितभावसिद्धितो. एत्थ च ब्रह्माति महाब्रह्मा अधिप्पेतो. सो हि वण्णवन्तताय चेव दीघायुकताय च ब्रह्मपारिसज्जादीहि महन्तो ब्रह्माति महाब्रह्मा, तस्स पन पुरोहितट्ठाने ठिताति ब्रह्मपुरोहिता, परिसायं भवा परिचारकाति ब्रह्मपारिसज्जाति वेदितब्बा. उक्कट्ठेकपुग्गलभावतो पजापतिस्मिं विय ब्रह्मनि मञ्ञना वत्ततीति वुत्तं ‘‘पजापतिवारे वुत्तनयेनेव वेदितब्बा’’ति. तथा हि बहुपुग्गलभावसामञ्ञतो आभस्सरवारादीनं भूतवारसदिसता वुत्ता.

यथावुत्तपभाय आभासनसीला वा आभस्सरा. एकतलवासिनोति इदं झानन्तरभूमीनं विय हेट्ठुपरिभावाभावतो वुत्तं, ठानानि पन नेसं परिच्छिन्नानेव. आभस्सरेहि परित्ता आभा एतेसन्ति परित्ताभा. अप्पमाणा आभा एतेसन्ति अप्पमाणाभा.

सुभाति सोभना पभा. कञ्चनपिण्डो विय सस्सिरिका कञ्चनपिण्डसस्सिरिका. तत्थ सोभनाय पभाय किण्णा सुभाकिण्णाति वत्तब्बे भा-सद्दस्स रस्सत्तं, अन्तिम-ण-कारस्स ह-कारञ्च कत्वा ‘‘सुभकिण्हा’’ति वुत्ता. सुभाति च एकग्घना निच्चला पभा वुच्चति, परित्ता सुभा एतेसन्ति परित्तसुभा. अप्पमाणा सुभा एतेसन्ति अप्पमाणसुभा.

विपुलफलाति विपुलसन्तसुखायुवण्णादिफला.

सतिपि देवब्रह्मादीनं पुञ्ञफलेन झानफलेन च पटिपक्खाभिभवे येसं पन पुथुज्जनअसञ्ञसत्तेसु अभिभूवोहारो पाकटो निरुळ्हो च, तेसं वसेनायं देसना पवत्ताति दस्सेन्तो आह ‘‘असञ्ञभवस्सेतं अधिवचन’’न्ति. यथा पजापतिवारे ‘‘इधेकच्चो पजापतिस्मिंयेवा’’तिआदिना मञ्ञनापवत्ति दस्सिता, तथा इधापि तं दस्सेतुं सक्काति आह ‘‘सेसं पजापतिवारे वुत्तनयमेवा’’ति.

भूतवारादिवण्णना निट्ठिता.

आकासानञ्चायतनवारादिवण्णना

. एवं सत्तवसेन भूमिक्कमदस्सने सुद्धावासानं अग्गहणे कारणं निद्धारेन्तो ‘‘एवं भगवा’’तिआदिमाह. तत्थ अनागामिखीणासवाति अनागामिनो च खीणासवा च. किञ्चापि सुद्धावासा अत्थेव अनेककप्पसहस्सायुका, उक्कंसपरिच्छेदतो पन सोळसकप्पसहस्सायुकाव, न ततो परन्ति आह ‘‘कतिपयकप्पसहस्सायुका’’ति. कामरूपभवेसु पवत्तमानापि आकासानञ्चायतनादिधम्मा अरूपावचरभावतो तंभूमिकवोहारं न लभन्तीति ‘‘तत्रूपपन्नायेवा’’ति अवधारेत्वा वुत्तं. अभिभूवारे वुत्तनयेन वेदितब्बा यथारहन्ति अधिप्पायो. न हेत्थ वण्णवन्ततादि सम्भवतीति. पजापतिवारे वुत्तनयेनाति एत्थ ‘‘अहमस्मि अरूपो पहीनरूपपटिघसञ्ञो’’तिआदिना मानमञ्ञना वेदितब्बा.

आकासानञ्चायतनवारादिवण्णना निट्ठिता.

दिट्ठसुतवारादिवण्णना

. रूपमुखेन मञ्ञनावत्थुदस्सनं सङ्खेपोति कत्वा वुत्तं ‘‘वित्थारतोपी’’ति. तम्पि हि ‘‘यत्थ नेव पथवी, न आपो, न तेजो, न वायो, न आकासानञ्चायतन’’न्तिआदिग्गहणं विय सङ्खेपतो पञ्चवोकारभवदस्सनं होतीति.

दिट्ठन्ति यं चक्खुद्वारेन कतदस्सनकिरियासमापनं, यञ्च चक्खु द्वयं पस्सति पस्सिस्सति सति सम्भवे पस्सेय्य, तं सब्बकालन्ति विसेसवचनिच्छाय अभावतो दिट्ठन्तेव वुत्तं यथा ‘‘दुद्ध’’न्ति. तेनाह ‘‘रूपायतनस्सेतं अधिवचन’’न्ति. अयञ्च नयो सुतादीसुपि योजेतब्बो. सत्ताति रूपादीसु सत्ता विसत्ताति सत्ता. सञ्जनट्ठेन सामञ्ञसद्दोपि चेस सत्त-सद्दो ‘‘इत्थिरूपे’’ति विसयविसेसितत्ता इध पुरिसवाचको दट्ठब्बो. रत्ताति वत्थं विय रङ्गजातेन चित्तस्स विपरिणामकारकेन छन्दरागेन रत्ता सारत्ता. गिद्धाति अभिकङ्खनसभावेन अभिगिज्झनेन गिद्धा गेधं आपन्ना. गधिताति गन्थिता विय लोभेन दुम्मोचनीयभावेन आरम्मणे पटिबद्धा. मुच्छिताति किलेसवसेन विसञ्ञीभूता विय अनञ्ञकिच्चा मुच्छं मोहं आपन्ना. अज्झोसन्नाति विसये अञ्ञसाधारणे विय कत्वा गिलित्वा परिनिट्ठापेत्वा विय ठिता. इमिनाति सुवण्णवण्णादिआकारेन. मङ्गलं अमङ्गलन्ति ईदिसं दिट्ठं मङ्गलं, ईदिसं अमङ्गलन्ति. रूपस्मिं अत्तानं समनुपस्सननयेनाति इदं वेदनादिअरूपधम्मे, रूपायतनविनिमुत्तसब्बधम्मे वा अत्ततो गहेत्वा ततो अज्झत्तिकं, बाहिरं वा रूपायतनं तस्सोकासभावेन परिकप्पेत्वा ‘‘सो खो पन मे अयं अत्ता इमस्मिं रूपायतने’’ति मञ्ञन्तो दिट्ठस्मिं मञ्ञतीति इमं नयं सन्धाय वुत्तं. ‘‘पथवितो मञ्ञती’’तिआदीसु यथा ‘‘सउपकरणस्स अत्तनो वा परस्स वा’’तिआदिमञ्ञनापवत्ति दस्सिता, एवं ‘‘दिट्ठतो मञ्ञती’’तिआदीसु सक्का तं दस्सेतुन्ति आह ‘‘तेसं पथवीवारे वुत्तनयेनेव वेदितब्ब’’न्ति.

आहच्चाति विसयं अन्वाय, पत्वाति अत्थो. तेनाह ‘‘उपगन्त्वा’’ति. अञ्ञमञ्ञसंसिलेसेति चक्खुरूपसोतसद्दा विय दुरे अहुत्वा अञ्ञमञ्ञं अल्लियने.

मनसा विञ्ञातं केवलन्ति अत्थो. इतरानिपि हि मनसा विञ्ञायन्तीति. सेसेहि सत्तहि आयतनेहि पञ्ञत्तिया असङ्गहितत्ता तम्पि सङ्गहेत्वा दस्सेतुं ‘‘धम्मारम्मणस्स वा’’ति वुत्तं. द्वीसुपि विकप्पेसु लोकुत्तरानम्पि सङ्गहो आपन्नोति आह ‘‘इध पन सक्कायपरियापन्नमेव लब्भती’’ति. वित्थारोति मञ्ञनानं पवत्तनाकारवित्थारो. एत्थाति एतेसु सुतवारादीसु.

दिट्ठसुतवारादिवण्णना निट्ठिता.

एकत्तवारादिवण्णना

. समापन्नकवारेनाति समापन्नकप्पवत्तिया, रूपावचरारूपावचरझानप्पवत्तियाति अत्थो. सा हि एकस्मिंयेव आरम्मणे एकाकारेन पवत्ततीति कत्वा ‘‘एकत्त’’न्ति वुच्चति, एवञ्च कत्वा विपाकज्झानप्पवत्तिपि इध समापन्नकवारग्गहणेनेव गहिताति दट्ठब्बा. असमापन्नकवारेनाति कामावचरधम्मप्पवत्तिया. उपचारज्झानेनपि हि चित्तं न सम्मा एकत्तं गतन्ति वुच्चतीति.

योजनाति मञ्ञनायोजना. भिन्दित्वाति विभजित्वा. सासननयेनाति पाळिनयेन. तत्थ ‘‘एकत्तं मञ्ञती’’तिआदीसु ‘‘वेदनं अत्ततो समनुपस्सती’’तिआदिना नयेन, ‘‘नानत्तं मञ्ञती’’तिआदीसु पन ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिना नयेन वुत्तविधिं अनुगन्त्वा मञ्ञना वेदितब्बा.

पथवीवारादीसु वुत्तेन च अट्ठकथानयेनाति ‘‘अहं वेदनाति मञ्ञति, मम वेदनाति मञ्ञती’’तिआदिना, ‘‘अहं रूपन्ति मञ्ञति, मम रूपन्ति मञ्ञती’’तिआदिना चाति अत्थो. तेनाह ‘‘यथानुरूपं वीमंसित्वा’’ति, एकत्तनानत्तभावेसु यो योजनानयो सम्भवति, तदनुरूपं विचारेत्वाति अत्थो. केचीति अभयगिरिवासिनो. अपरेति सारसमासाचरिया. दिट्ठाभिनिवेसं वदन्तीति सम्बन्धो. पुथुज्जनस्स मञ्ञना नाम सक्कायं भिन्दित्वाव यथाउपट्ठितविसयवसेनेव पवत्ततीति न तत्थ अयमेकत्तनयो अयं नानत्तनयोति विभागवसेनेव, एकत्तसञ्ञी अत्ता होतीतिआदीसु च अत्तनो एकत्तनानत्तसञ्ञिता वुत्ता, न पन एकत्तं नानत्तन्ति एवं पवत्तस्स दिट्ठाभिनिवेसस्स एकत्तनानत्तभावोति एवमेत्थ तदुभयस्स इध अनधिप्पेतभावो दट्ठब्बो.

यं यथावुत्तपुथुज्जनो अनवसेसतो गण्हन्तो गहेतुं सक्कोति, तं तस्स अनवसेसतो गहेतब्बतं उपादाय ‘‘सब्ब’’न्ति वुच्चतीति दस्सेन्तो ‘‘तमेवा’’ति आह, सक्कायसब्बन्ति अत्थो. सब्बस्मिम्पि तेभूमकधम्मे आदीनवदस्सने असति निब्बिदाभावतो अस्सादानुपस्सनाय तण्हा वड्ढतेवाति आह ‘‘सब्बं अस्सादेन्तो सब्बं तण्हामञ्ञनाय मञ्ञती’’ति. वुत्तञ्हेतं भगवता – ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढती’’ति (सं. नि. २.५३, ५७). ‘‘सब्बमिदं मया निम्मित’’न्ति तेन निम्मितमञ्ञनाय अत्तानं सेय्यादितो दहन्तो तेन मानेन निम्मितं मञ्ञतियेव नाम निम्मितमञ्ञनाय विना तथामानुप्पत्तिया अभावतोति आह ‘‘अत्तना निम्मितं मञ्ञन्तो सब्बं मानमञ्ञनाय मञ्ञती’’ति. सब्बं नत्थीतिआदिना नयेनाति आदि-सद्देन नियतिवादादिके सङ्गण्हाति. महा मे अत्ताति इमिना सब्बतो अत्तनो विभूतिपवत्तिवादं दस्सेति. ‘‘सब्बं सब्बत्थक’’न्ति दिट्ठिवसेन – ‘‘अहं सब्बस्मिं मय्हं किञ्चनं पलिबोधो सब्बस्मिं, परो सब्बस्मिं परस्स किञ्चनं पलिबोधो सब्बस्मि’’न्तिआदिना नयेनपेत्थ मञ्ञना सम्भवतीति दस्सेन्तो आह ‘‘सेसं पथवीवारे वुत्तनयेन वेदितब्ब’’न्ति. अपिच ‘‘सब्बोयं लोको पुरिसमयो’’ति एवंदिट्ठिको पुरिससङ्खाततो सब्बतो, अत्तनो उप्पत्तिं वा निग्गमनं वा मञ्ञन्तो दिट्ठिमञ्ञनाय सब्बतो मञ्ञति, तस्मिंयेव पन दिट्ठिमञ्ञनाय मञ्ञिते वत्थुस्मिं सिनेहं मानञ्च उप्पादयतो तण्हामञ्ञना मानमञ्ञना च वेदितब्बा. तंयेव पन सब्बं मय्हं अत्ता कत्ता सामीति वा मञ्ञन्तो ‘‘सब्बं मे’’ति मञ्ञति, तथायं दिट्ठितण्हाभिनन्दनाहि अभिनन्दन्तो सब्बं अभिनन्दतीति एवम्पेत्थ मञ्ञनानं पवत्ति वेदितब्बा.

न्ति सक्कायं. उक्कंसगतसुखसहितञ्हि खन्धपञ्चकं दिट्ठधम्मनिब्बानवादी निब्बानन्ति मञ्ञति, तं पनत्थतो सक्कायोयेवाति. एकधाति पञ्चविधम्पि निब्बानभावेन एकज्झं कत्वा वुत्तं. यतोति यस्मा. पञ्चहि कामगुणेहीति मनापियरूपादीहि पञ्चहि कामकोट्ठासेहि, बन्धनेहि वा. समप्पितो सुट्ठु अप्पितो अल्लीनो हुत्वा ठितो. समङ्गिभूतोति समन्नागतो. परिचारेतीति तेसु कामगुणेसु कामकोट्ठासेसु यथासुखं इन्द्रियानि चारेति सञ्चारेति इतो चितो च उपनेति. अथ वा लळति रमति कीळति. एत्थ द्विधा कामगुणा मानुसका चेव दिब्बा च. मानुसका च मन्धातुकामगुणसदिसा, दिब्बा परनिम्मितवसवत्तिदेवराजस्स कामगुणसदिसा. एवरूपे कामे उपगतानञ्हि ते दिट्ठधम्मनिब्बानसम्पत्तिं पञ्ञपेन्ति. तेनाह ‘‘एत्तावता खो…पे… होती’’ति. दिट्ठधम्मोति पच्चक्खधम्मो वुच्चति, तत्थ तत्थ पटिलद्धत्तभावस्सेतं अधिवचनं, दिट्ठधम्मे निब्बानं इमस्मिंयेव अत्तभावे दुक्खवूपसमनं दिट्ठधम्मनिब्बानं. परमं उत्तमं दिट्ठधम्मनिब्बानन्ति परमदिट्ठधम्मनिब्बानं, तं पत्तो होतीति अत्थो. पञ्चधा आगतन्ति यथावुत्तकामगुणसुखस्स चेव चतुब्बिधरूपावचरज्झानसुखस्स च वसेन पाळियं पञ्चप्पकारेन आगतं. निब्बानं अस्सादेन्तोति परमं सुखं निस्सरणन्ति मञ्ञनाय अस्सादेन्तो.

‘‘इमस्मिं निब्बाने पत्ते न जायति, न जीरति, न मीयती’’ति एवम्पि निब्बानस्मिं मञ्ञति. ‘‘इतो परं परमस्सासभूतं नत्थी’’ति गण्हन्तो निब्बानतो मञ्ञति. तयिदं निब्बानं मया अधिगतं, तस्मा ‘‘निब्बानं मे’’ति मञ्ञति. ततोयेव तं निब्बानं दिट्ठाभिनन्दनाय अभिनन्दति. अयं तावेत्थ दिट्ठिमञ्ञना. तस्मिंयेव पन दिट्ठिमञ्ञनाय मञ्ञिते वत्थुस्मिं सिनेहं मानञ्च उप्पादयतो तण्हामानमञ्ञनापि निद्धारेतब्बा.

यादिसोति यथारूपो, येहि जेगुच्छादिसभावेहि पस्सितब्बोति अत्थो. एसाति अयं. तेनस्स अत्तनो सुणन्तानञ्च पच्चक्खसिद्धतमाह. असुभादिसभावेन सह विज्जमानानं रूपादिधम्मानं कायो समूहोति सक्कायो, उपादानक्खन्धा. तथाति तस्स भावभूतेन पटिकूलतादिप्पकारेन. सब्बमञ्ञनाति पथवीआदिके सरूपावधारणादिविभागभिन्ने विसये पवत्तिया अनेकविहिता सब्बा तण्हामञ्ञना.

जेगुच्छोति जिगुच्छनीयो. तेनस्स असुभाजञ्ञदुग्गन्धपटिकूलभावं दस्सेति. सिदुरोति खणे खणे भिज्जनसभावो. तेनस्स अनिच्चअद्धुवखयवयपभङ्गुरसभावं दस्सेति. अयन्ति सक्कायो. दुक्खोति न सुखो. तेनस्स किच्छकसिराबाधदुक्खवुत्तितं दस्सेति. अपरिणायकोति परिणायकरहितो. तेनस्स अत्तसुञ्ञअसारवुत्तितं दस्सेति. न्ति सक्कायं. पच्चनीकतोति सभावपटिपक्खतो, सुभनिच्चसुखअत्तादितोति अत्थो. गण्हन्ति गण्हन्तो, तत्थ सुभादिगाहवसेन अभिनिविसन्तोति अत्थो.

इदानि तिस्सोपि मञ्ञना उपमाहि विभावेतुं ‘‘सुभतो’’तिआदि वुत्तं. तत्थ यथा महापरिळाहे विपुलानत्थावहे च अग्गिम्हि सलभस्स पतनं सुभसुखसञ्ञाय, एवं तादिसे सक्काये सलभस्स तण्हामञ्ञनाति इममत्थं दस्सेति ‘‘सुभतो…पे… तण्हाय मञ्ञना’’ति इमिना.

गूथादी कीटको गूथरासिं लद्धा असम्पन्नेपि तस्मिं सम्पन्नाकारं पवत्तयमानो अत्तानं उक्कंसेति, एवमनेकादीनवे एकन्तभेदिनि सक्काये निच्चसञ्ञं उपट्ठपेत्वा सम्पत्तिमदेन तत्थ बालो मानं जप्पेतीति इममत्थमाह ‘‘निच्चसञ्ञं…पे… मानेन मञ्ञना’’ति.

यथा बालो मुद्धधातुको सम्मूळ्हो कोचि आदासे अत्तनो पटिबिम्बं दिस्वा ‘‘अयं मञ्ञे आदाससामिको, यदि अहमिमं गहेत्वा तिट्ठेय्यं, अनत्थम्पि मे करेय्या’’ति छड्डेत्वा पलायन्तो तत्थ अविज्जमानमेव किञ्चि विज्जमानं कत्वा गण्हि, तथूपमो अयं बालो सक्काये अत्तत्तनियगाहं गण्हन्तोति इममत्थं दीपेति ‘‘अत्ता…पे… दिट्ठिया होति मञ्ञना’’ति इमिना.

सुखुमं मारबन्धनं वेपचित्तिबन्धनतोपि सुखुमतरत्ता. तेनाह भगवा ‘‘अहो सुखुमतरं खो, भिक्खवे, मारबन्धन’’न्ति.

बहुन्ति अतिविय, अनेकक्खत्तुं वा. विप्फन्दमानोपि सक्कायं नातिवत्तति संसारं नातिवत्तनतो. यथाह ‘‘ये ते, भिक्खवे, समणा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति, ते, सक्कायंयेव अनुपरिधावन्ति सेय्यथापि सा गद्दुलबन्धनो’’तिआदि. यथा हि सत्तसुपि उच्छेदविकप्पेसु संसारनायिकानं तण्हादिट्ठीनं पहानं सम्भवति, एवं सस्सतविकप्पेसुपीति कथञ्चि पन दिट्ठिगतिकस्स भवविप्पमोक्खो. तेन वुत्तं ‘‘सक्कायं नातिवत्तती’’ति.

ससोति सो एसो पुथुज्जनो. निच्चन्ति सब्बकालं.

न्ति तस्मा सक्कायमलीनस्स जातियादीनमनतिवत्तनतो. असाततोति दुक्खतो.

पस्सं एवमिमन्ति असुभानिच्चदुक्खानत्तसभावं तं सक्कायं वुत्तप्पकारेन यथाभूतविपस्सनापञ्ञासहिताय मग्गपञ्ञाय पस्सन्तो. पहायाति समुच्छेदवसेन सब्बा मञ्ञनायो पजहित्वा. सब्बदुक्खा पमुच्चतीति सकलस्मापि वट्टदुक्खतो पमुच्चतीति.

एकत्तवारादिवण्णना निट्ठिता.

पठमनयवण्णना निट्ठिता.

सेक्खवारदुतियनयवण्णना

. अधिप्पेतस्स अत्थस्स अनियमेत्वा वचनं उद्देसो, नियमेत्वा वचनं निद्देसोति आह ‘‘योति उद्देसवचनं, सोति निद्देसवचन’’न्ति. सम्पिण्डनत्थोति समुच्चयत्थो. सम्पिण्डनञ्च सभागतावसेन होतीति आह – ‘‘आरम्मणसभागेना’’ति, आरम्मणस्स सभागताय सदिसतायाति अत्थो. सेक्खं दस्सेति सामञ्ञजोतनाय विसेसे अवट्ठानतो, सेक्खविसयत्ता च तस्स वचनस्स.

केनट्ठेनाति यस्मा ञाणेन अरणीयतो अत्थो सभावो, तस्मा केनट्ठेन केन सभावेन केन लक्खणेन सेक्खो नाम होतीति अत्थो. यस्मा पन सेक्खधम्माधिगमेन पुग्गले सेक्खवोहारप्पवत्ति, तस्मा ‘‘सेक्खधम्मपटिलाभतो सेक्खो’’ति वुत्तं. सेक्खधम्मा नाम चतूसु मग्गेसु, हेट्ठिमेसु च तीसु फलेसु सम्मादिट्ठिआदयो. तेनाह ‘‘सेक्खाय सम्मादिट्ठिया…पे… एत्तावता खो भिक्खु सेक्खो होती’’ति. एवं अभिधम्मपरियायेन सेक्खलक्खणं दस्सेत्वा इदानि सुत्तन्तिकपरियायेनपि तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ सिक्खतीति इमिना सिक्खात्तयसमङ्गी अपरिनिट्ठितसिक्खो सेक्खोति दस्सेति. तेनाह ‘‘सिक्खती’’तिआदि. सिक्खाहि निच्चसमायोगदीपनत्थञ्चेत्थ ‘‘सिक्खति सिक्खती’’ति आमेडितवचनं. अथ वा सिक्खनं सिक्खा, सा एतस्स सीलन्ति सेक्खो. सो हि अपरियोसितसिक्खत्ता तदधिमुत्तत्ता च एकन्तेन सिक्खनसीलो, न असेक्खो विय परिनिट्ठितसिक्खो तत्थ पटिप्पस्सद्धुस्सुक्को, नापि विस्सट्ठसिक्खो पचुरजनो विय तत्थ अनधिमुत्तो. अथ वा अरियाय जातिया तीसु सिक्खासु जातो, तत्थ वा भवोति सेक्खो. अथ वा इक्खति एतायाति इक्खा, मग्गफलसम्मादिट्ठि. सह इक्खायाति सेक्खो.

अनुलोमपटिपदाय परिपूरकारीति या सा सीलादिका विपस्सनन्ता दुक्खनिरोधगामिनिया लोकुत्तराय पटिपदाय अनुलोमनतो अनुलोमपटिपदा, तस्सा सम्पादनेन परिपूरकारीति. इदानि तं पटिपदं पुग्गलाधिट्ठानेन दस्सेतुं ‘‘सीलसम्पन्नो’’तिआदि वुत्तं. तत्थ सीलसम्पन्नोति पातिमोक्खसंवरसीलेन समन्नागतो, परिपुण्णपातिमोक्खसीलो वा. पातिमोक्खसीलञ्हि इध ‘‘सील’’न्ति अधिप्पेतं पधानभावतो. रूपादिआरम्मणेसु अभिज्झादीनं पवत्तिनिवारणसङ्खातेन मनच्छट्ठानं इन्द्रियानं पिधानेन इन्द्रियेसु गुत्तद्वारो. परियेसनादिवसेन भोजने पमाणजाननेन भोजने मत्तञ्ञू. विगतथिनमिद्धो हुत्वा रत्तिन्दिवं कम्मट्ठानमनसिकारे युत्तताय जागरियानुयोगमनुयुत्तो. कथं पन जागरियानुयोगो होतीति तं दस्सेतुं ‘‘पुब्बरत्ता…पे… विहरती’’ति वुत्तं. यथाह ‘‘कथञ्च पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो होति? इध भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि चित्तं परिसोधेति, रत्तिया पठमं यामं चङ्कमेन…पे… सोधेति, एवं खो भिक्खु पुब्बरत्तापररत्तं जागरियानुयोगमनुयुत्तो होती’’ति (विभ. ५१९). इमस्मिं पनत्थेति ‘‘मञ्ञति, न मञ्ञती’’ति च वत्तब्बभावसङ्खाते अत्थे. नो पुथुज्जनो अधिप्पेतो ‘‘अप्पत्तमानसो, अनुत्तरं योगक्खेमं पत्थयमानो’’ति च वुत्तत्ता.

सम्पयुत्तत्ता मनसि भवोति रागो मानसो, मनो एव मानसन्ति कत्वा चित्तं मानसं, अनवसेसतो मानं सीयति समुच्छिन्दतीति अग्गमग्गो मानसं, तन्निब्बत्तत्ता पन अरहत्तस्स मानसता दट्ठब्बा. जनेसुताति जने सकलसत्तलोके विस्सुता, पत्थटयसाति अत्थो.

नत्थि इतो उत्तरन्ति अनुत्तरं. तं पन सब्बसेट्ठं होन्तं एकन्ततो सदिसरहितमेव होति, तस्मा वुत्तं ‘‘अनुत्तरन्ति सेट्ठं, असदिसन्ति अत्थो’’ति. पत्थयमानस्साति तण्हायन्तस्स. पजप्पितानीति मानजप्पनानि. यस्मिञ्हि वत्थुस्मिं तण्हायना पत्थयमानमञ्ञना सम्भवति, तस्मिंयेव ‘‘सेय्योहमस्मी’’तिआदीनि पजप्पितानि सम्भवन्तीति अधिप्पायो. पवेधीतन्ति परिवासितं. पकप्पितेसूति तण्हादिट्ठिकप्पेहि परिकप्पितेसु आरम्मणेसु. सोतन्ति किलेससोतं. तस्मिञ्हि छिन्ने इतरसोतं छिन्नमेवाति. विद्धस्तन्ति विनासितं. तञ्च खो लोमहंसमत्तम्पि असेसेत्वाति दस्सेन्तो आह ‘‘विनळीकत’’न्ति, विगतावसेसं कतन्ति अत्थो. अधिमुत्तिया इधाधिप्पेतपत्थना पाकटा होतीति ‘‘तन्निन्नो’’तिआदि वुत्तं, न पन कुसलच्छन्दस्स अधिमुत्तिभावतो. अधिमुच्चन्तोति ओकप्पेन्तो.

सब्बाकारविपरीतायाति ‘‘सुभं सुखं निच्च’’न्तिआदीनं सब्बेसं अत्तना गहेतब्बाकारानं वसेन तब्बिपरीतताय, अनवसेसतो धम्मसभावविपरीताकारगाहिनियाति अत्थो. अभिविसिट्ठेन ञाणेनाति असम्पजाननमिच्छाजाननानि विय न धम्मसभावं अप्पत्वा नापि अतिक्कमित्वा, अथ खो अविरज्झित्वा धम्मसभावस्स अभिमुखभावप्पत्तिया अभिविसिट्ठेन ञाणेन, ञातपरिञ्ञाधिट्ठानाय तीरणपरिञ्ञाय पहानपरिञ्ञेकदेसेन चाति अत्थो. तेनाह ‘‘पथवीति…पे… वुत्तं होती’’ति. पथवीभावन्ति पथवियं अभिञ्ञेय्यभावं. लक्खणपथवी हि इधाधिप्पेता, परिञ्ञेय्यभावो पनस्सा ‘‘अनिच्चातिपी’’तिआदिना गहितोति. अभिञ्ञत्वाति ञाततीरणपहानपरिञ्ञाहि हेट्ठिममग्गञाणेहि च अभिजानित्वा. मामञ्ञीति अप्पहीनानं मञ्ञनानं वसेन माति मञ्ञतीति मा, पहीनानं पन वसेन न मञ्ञतीति अमञ्ञी, मा च सो अमञ्ञी च मामञ्ञीति एवमेत्थ पदविभागतो अत्थो वेदितब्बो. तत्थ येन भागेन अमञ्ञी, तेन मञ्ञीति न वत्तब्बो. येन पन भागेन मञ्ञी, तेन अमञ्ञीति न वत्तब्बोति. एवं पटिक्खेपप्पधानं अत्थं दस्सेतुं अट्ठकथायं ‘‘मञ्ञी च न मञ्ञी च न वत्तब्बो’’ति वुत्तं. पटिक्खेपप्पधानता चेत्थ लब्भमानानम्पि मञ्ञनानं दुब्बलभावतो वेदितब्बा. तेनेवाह – ‘‘इतरा पन तनुभावं गता’’ति. माति च निपातपदमेतं, अनेकत्था च निपाताति अधिप्पायेन ‘‘एतस्मिञ्हि अत्थे इमं पदं निपातेत्वा वुत्त’’न्ति वुत्तं. निपातेत्वाति च पकतिआदिविभागनिद्धारणे अनुमाननयं मुञ्चित्वा यथावुत्ते अत्थे पच्चक्खतोव दस्सेत्वाति अत्थो. पुथुज्जनो वियाति एतेनस्स उपरिमग्गवज्झतण्हामानवसेन मञ्ञना न पटिक्खित्ताति दीपेति.

अथ वा मा मञ्ञीति परिकप्पकिरियापटिक्खेपवचनमेतं ‘‘मा रन्धयुं, मा जीरी’’तिआदीसु विय, न मञ्ञेय्याति वुत्तञ्होति. यथा हि पुथुज्जनो सब्बसो अप्पहीनमञ्ञनत्ता ‘‘मञ्ञति’’च्चेव वत्तब्बो, यथा च खीणासवो सब्बसो पहीनमञ्ञनत्ता न मञ्ञति एव, न एवं सेक्खो. तस्स हि एकच्चा मञ्ञना पहीना, एकच्चा अप्पहीना, तस्मा उभयभावतो उभयथापि न वत्तब्बो. ननु च उभयभावतो उभयथापि वत्तब्बोति? न. या हि अप्पहीना, तापिस्स तनुभावं गताति ताहिपि सो न मञ्ञेय्य विभूततराय मञ्ञनाय अभावतो, पगेव इतराहि. तेनाह भगवा ‘‘मा मञ्ञी’’ति. तेन वुत्तं ‘‘मा मञ्ञीति परिकप्पकिरियापटिक्खेपवचनमेतं ‘मा रन्धयुं, मा जीरी’तिआदीसु विय, न मञ्ञेय्याति वुत्तं होती’’ति. अयञ्चस्स अमञ्ञना वत्थुनो परिञ्ञेय्यत्ता, न असेक्खस्स विय परिञ्ञातत्ता. यञ्हि एकन्ततो परिजानितब्बं परिजानितुं सक्का, न तत्थ तब्बिधुरे विय पुथुज्जनस्स मञ्ञना सम्भवन्ति. तेनाह ‘‘परिञ्ञेय्यं तस्साति वदामी’’ति.

ओक्कन्तनियामत्ताति अनुपविट्ठसम्मत्तनियामत्ता, ओतिण्णमग्गसोतत्ताति अत्थो. सम्बोधिपरायणत्ताति उपरिमग्गसम्बोधिपटिसरणत्ता, तदधिगमाय निन्नपोणपब्भारभावतोति अत्थो. उभयेनपि तस्स अवस्संभाविनी सेसपरिञ्ञाति दस्सेति. परिञ्ञेय्यन्ति परिजानितब्बभावेन ठितं, परिञ्ञातुं वा सक्कुणेय्यं. तप्पटिपक्खतो अपरिञ्ञेय्यं. पुथुज्जनस्स वियाति एतेन इधाधिप्पेतपुथुज्जनस्स परिञ्ञेय्यभावासङ्का एव नत्थि अनधिकारतोति दस्सेति. ‘‘माभिनन्दी’’ति एत्थापि इमिनाव नयेन अत्थो वेदितब्बो.

सेक्खवारदुतियनयवण्णना निट्ठिता.

खीणासववारततियादिनयवण्णना

. सभागो दिट्ठसच्चतादिसामञ्ञेन. आरका किलेसेहि अरहन्ति पदस्स निरुत्तिनयेन अत्थं वत्वा तं पाळिया समानेन्तो ‘‘वुत्तञ्चेत’’न्तिआदिमाह. तत्थ पापकाति लामकट्ठेन दुग्गतिसम्पापनट्ठेन च पापका. सावज्जट्ठेन अकोसल्लसम्भूतट्ठेन च अकुसला. संकिलेसं अरहन्ति, तत्थ वा नियुत्ताति संकिलेसिका. पुनब्भवस्स करणसीला, पुनब्भवफलं अरहन्तीति वा पोनोभविका. सह दरथेन परिळाहेन पवत्तन्तीति सदरा. दुक्खो कटुको, दुक्खमो वा विपाको एतेसन्ति दुक्खविपाका. अनागते जातिया चेव जरामरणानञ्च वड्ढनेन जातिजरामरणियाति. एवमेतेसं पदानं अत्थो वेदितब्बो. कामञ्चायं सुत्तन्तवण्णना, अभिधम्मनयो पन निप्परियायोति तेन दस्सेन्तो ‘‘चत्तारो आसवा’’तिआदिमाह. समुच्छिन्ना पटिप्पस्सद्धाति न केवलं समुच्छिन्ना एव, अथ खो पटिप्पस्सद्धापीति मग्गकिच्चेन सदिसं फलकिच्चम्पि निद्धारेति.

सीलविसोधनादिना गरूनं पटिपत्तिया अनुकरणं गरुसंवासो. अरियमग्गपटिपत्ति एव अरियमग्गसंवासो. दस अरियावासा नाम पञ्चङ्गविप्पहीनतादयो. ये सन्धाय वुत्तं –

‘‘दसयिमे, भिक्खवे, अरियावासा, ये अरिया आवसिंसु वा आवसन्ति वा आवसिस्सन्ति वा. कतमे दस? इध, भिक्खवे, भिक्खु पञ्चङ्गविप्पहीनो होति छळङ्गसमन्नागतो, एकारक्खो, चतुरापस्सेनो, पनुण्णपच्चेकसच्चो, समवयसट्ठेसनो, अनाविलसङ्कप्पो, पस्सद्धकायसङ्खारो, सुविमुत्तचित्तो, सुविमुत्तपञ्ञो. इमे खो, भिक्खवे, दस अरियावासा’’ति (अ. नि. १०.१९).

वुस्सतीति वा वुसितं, अरियमग्गो, अरियफलञ्च, तं एतस्स अत्थीति अतिसयवचनिच्छावसेन अरहा ‘‘वुसितवा’’ति वुत्तो. करणीयन्ति परिञ्ञापहानभावनासच्छिकिरियमाह. तं पन यस्मा चतूहि मग्गेहि चतूसु सच्चेसु कत्तब्बत्ता सोळसविधन्ति वेदितब्बं. तेनाह ‘‘चतूहि मग्गेहि करणीय’’न्ति. सम्माविमुत्तस्साति अग्गमग्गफलपञ्ञाहि समुच्छेदपटिप्पस्सद्धीनं वसेन सुट्ठु विमुत्तस्स. सन्तचित्तस्साति ततो एव सब्बकिलेसदरथपरिळाहानं वूपसन्तचित्तस्स. भिन्नकिलेसस्स खीणासवस्स भिक्खुनो. कतस्स परिञ्ञादिकिच्चस्स पटिचयो पुन करणं नत्थि, ततो एव करणीयं न विज्जति न उपलब्भति.

भाराति ओसीदापनट्ठेन भारा वियाति भारा. वुत्तञ्हि ‘‘भारा हवे पञ्चक्खन्धा’’तिआदि (सं. नि. ३.२२). अत्तनो योनिसोमनसिकारायत्तन्ति अत्तुपनिबन्धं, ससन्तानपरियापन्नत्ता अत्तानं अविजहनं. तयिदं यदिपि सब्बस्मिं अनवज्जधम्मे सम्भवति, अकुप्पसभावापरिहानधम्मेसु पन अग्गभूते अरहत्ते सातिसयं, नेतरेसूति दस्सेन्तो आह ‘‘अत्तनो परमत्थट्ठेन वा’’ति, उत्तमट्ठभावेनाति अत्थो.

सुत्तन्तनयो नाम परियायनयोति निप्परियायनयेन संयोजनानि दस्सेन्तो ‘‘भवरागइस्सामच्छरियसंयोजन’’न्ति आह, न पन ‘‘रूपरागो’’तिआदिना. भवेसु संयोजन्तीति किलेसकम्मविपाकवट्टानं पच्चयो हुत्वा निस्सरितुं अप्पदानवसेन बन्धन्ति. सतिपि हि अञ्ञेसं तप्पच्चयभावे न विना संयोजनानि तेसं तप्पच्चयभावो अत्थि, ओरम्भागियउद्धम्भागियसङ्गहितेहि च तेहि तंतंभवनिब्बत्तककम्मनियमो भवनियमो च होति, न च उपच्छिन्नसंयोजनस्स कतानिपि कम्मानि भवं निब्बत्तेन्तीति तेसंयेव संयोजनट्ठो दट्ठब्बो.

सम्मा अञ्ञायाति आजाननभूताय अग्गमग्गपञ्ञाय सम्मा यथाभूतं दुक्खादीसु यो यथा जानितब्बो, तं तथा जानित्वा. चित्तविमुत्ति सब्बस्स चित्तसंकिलेसस्स विस्सग्गो. निब्बानाधिमुत्ति निब्बाने अधिमुच्चनं तत्थ निन्नपोणपब्भारता. न्ति पथवीआदिकं. परिञ्ञातं, न पुथुज्जनस्स विय अपरिञ्ञातं, सेक्खस्स विय परिञ्ञेय्यं वा. तस्माति परिञ्ञातत्ता.

चतुत्थपञ्चमछट्ठवारा तत्थ तत्थ किलेसनिब्बानकित्तनवसेन पवत्तत्ता निब्बानवारा नाम. तत्थ पथवीआदीनं परिञ्ञातत्ता अमञ्ञना, सा पन परिञ्ञा रागादीनं खयेन सिद्धाति इमस्स अत्थस्स दीपनवसेन पाळि पवत्ताति दस्सेन्तो ‘‘परिञ्ञातं तस्साति सब्बपदेहि योजेत्वा पुन खया रागस्स वीतरागत्ताति योजेतब्बं. एस नयो इतरेसू’’ति आह. तत्थ इतरेसूति पञ्चमछट्ठवारेसु. यदि एवं कस्मा पाळि एवं न दिस्सतीति आह ‘‘देसना पन एकत्थ वुत्तं सब्बत्थ वुत्तमेव होतीति संखित्ता’’ति.

न खया रागस्स वीतरागो सब्बसो अप्पहीनरागत्ता. विक्खम्भितरागो हि सोति. बाहिरकग्गहणञ्चेत्थ तथाभावस्सेव तेसु लब्भनतो, न तेसु एव तथाभावस्स लब्भनतो. इदानि या सा ‘‘परिञ्ञातं तस्सा’’ति सब्बपदेहि योजना वुत्ता, तं विनापि निब्बानवारअत्थयोजनं दस्सेतुं ‘‘यथा चा’’तिआदि वुत्तं. तत्थ मञ्ञनं न मञ्ञतीति मञ्ञना नप्पवत्ततीति अत्थो. मञ्ञनाय मञ्ञितब्बत्तेपि तस्सा वत्थुअन्तोगधत्ताति एवमेत्थ अत्थो दट्ठब्बो.

यदिपि परिञ्ञातपदं अग्गहेत्वा निब्बानवारदेसना पवत्ता, एवम्पि ‘‘खया’’तिआदिपदेहि परिञ्ञासिद्धि एव पकासीयतीति को तेसं विसेसोति चोदनं सन्धायाह ‘‘एत्थ चा’’तिआदि. मग्गभावनापारिपूरिदस्सनत्थं वुत्तो, मग्गकिच्चन्ता हि परिञ्ञायोति अधिप्पायो. इतरे…पे… वेदितब्बा वीतरागादिकित्तनतोति. द्वीहि वा कारणेहीति यथावुत्तकारणद्वयेन. अस्साति खीणासवस्स. अयं विसेसोति इदानि वुच्चमानो विसेसो. यदिपि खीणासवो एकन्तेन वीतरागो वीतदोसो वीतमोहो एव च होति, याय पन पुब्बभागपटिपदाय वीतरागतादयो सविसेसाति वत्तब्बतं लभन्ति, तं दस्सेन्तो ‘‘तीसु ही’’तिआदिमाह. ‘‘रत्तो अत्थं न जानाती’’तिआदिना (नेत्ति. ११) रागे आदीनवं पस्सतो ‘‘रागो च नाम सुखाभिसङ्गेन उप्पज्जति, सुखञ्च विपरिणामतो दुक्खं. पगेव इतर’’न्ति सहेतुके रागे आदीनवदस्सनं दुक्खानुपस्सनाय निमित्तं, दुक्खानुपस्सना च पणिधिया पटिपक्खभावतो अप्पणिहितविमोक्खं परिपुरेतीति आह ‘‘रागे…पे… वीतरागो होती’’ति. तथा ‘‘दुट्ठो अत्थं न जानाती’’तिआदिना (इतिवु. ८८) दोसे आदीनवं पस्सतो ‘‘दोसो च नाम दुक्खं पटिच्च उप्पज्जति, तञ्च उभयं अनवट्ठितं इत्तरं पभङ्गू’’ति सहेतुके दोसे आदीनवदस्सनं अनिच्चानुपस्सनाय निमित्तं, अनिच्चानुपस्सना च निच्चनिमित्तादीनं पटिपक्खभावतो अनिमित्तविमोक्खं परिपूरेतीति आह ‘‘दोसे…पे… होती’’ति. तथा ‘‘मूळ्हो अत्थं न जानाती’’तिआदिना (इतिवु. ८८) मोहे आदीनवं पस्सतो ‘‘मोहो नाम यथासभावग्गहणस्स परिब्भमन्तो’’ति मोहस्स विक्खम्भनं अनत्तानुपस्सनाय निमित्तं, अनत्तानुपस्सनाय च अत्ताभिनिवेसस्स पटिपक्खभावतो सुञ्ञतं विमोक्खं परिपूरेतीति आह ‘‘मोहे…पे… वीतमोहो होती’’ति.

एवं सन्तेति यदि वीतरागतादयो विमोक्खविभागेन वुत्ता, एवं सन्ते. तस्माति यस्मा विमोक्खमुखविमोक्खानं वसेन नियमेत्वा न वुत्तं, तस्मा. यं किञ्चि अरहतो सम्भवन्तं विभजित्वा वुच्चतीति वारत्तयदेसना कताति इममत्थं दस्सेति ‘‘यं अरहतो’’तिआदिना.

एवं विमुत्तिविभागेन खीणासवस्स विभागं वारत्तयदेसनानिबन्धनं दस्सेत्वा इदानि अविभागेनपि तत्थ परिञ्ञाविसयस्स अनुसयविसयस्स च विभागं तस्स निबन्धनं दस्सेन्तो ‘‘अविसेसेना’’तिआदिमाह. तत्थ उपेक्खावेदना विसेसतो सङ्खारदुक्खं सम्मोहाधिट्ठानन्ति वुत्तं ‘‘सङ्खार…पे… मोहो’’ति. सेसं वुत्तनयत्ता सुविञ्ञेय्यमेव.

खीणासववारततियादिनयवण्णना निट्ठिता.

तथागतवारसत्तमनयवण्णना

१२. येहि (दी. नि. अभि. टी. १.७.चूळसीलवण्णना; अ. नि. टी. १.१.१७०) गुणविसेसेहि निमित्तभूतेहि भगवति ‘‘तथागतो’’ति अयं समञ्ञा पवत्ता, तं दस्सनत्थं ‘‘अट्ठहि कारणेहि भगवा तथागतो’’तिआदि वुत्तं. गुणनेमित्तकानेव हि भगवतो सब्बानि नामानि. यथाह –

‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो;

गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो’’ति. (ध. स. अट्ठ. १३१३; उदा. अट्ठ. ५३; पटि. म. अट्ठ. १.७६; दी. नि. अभि. टी. १.७.चूळसीलवण्णना; अ. नि. टी. १.१.१७०) –

तथा आगतोति एत्थ आकारनियमनवसेन ओपम्मसम्पटिपादनत्थो तथा-सद्दो. सामञ्ञजोतना हि विसेसे अवतिट्ठतीति पटिपादगमनत्थो आगत-सद्दो, न ञाणगमनत्थो ‘‘तथलक्खणं आगतो’’तिआदीसु (दी. नि. अट्ठ. १.७; म. नि. अट्ठ. १.१२; सं. नि. अट्ठ. २.३.७८; अ. नि. अट्ठ. १.१.१७०; उदा. अट्ठ. १८; इतिवु. अट्ठ. ३८; थेरगा. अट्ठ. १.१.३; बु. वं. अट्ठ. २.बाहिरनिदान; महानि. अट्ठ. १४) विय, नापि कायगमनादिअत्थो ‘‘आगतो खो महासमणो, मागधानं गिरिब्बज’’न्तिआदीसु (महाव. ६३) विय. तत्थ यदाकारनियमनवसेन ओपम्मसम्पटिपादनत्थो तथा-सद्दो, तं करुणाप्पधानत्ता महाकरुणामुखेन पुरिमबुद्धानं आगमनपटिपदं उदाहरणवसेन सामञ्ञतो दस्सेन्तो यंतंसद्दानं एकन्तसम्बन्धभावतो ‘‘यथा सब्बलोक…पे… आगता’’ति साधारणतो वत्वा पुन तं पटिपदं महापदानसुत्तादीसु (दी. नि. २.४) सम्बहुलनिद्देसेन सुपाकटानं आसन्नानञ्च विपस्सीआदीनं छन्नं सम्मासम्बुद्धानं वसेन दस्सेन्तो ‘‘यथा विपस्सी भगवा’’तिआदिमाह. तत्थ येन अभिनीहारेनाति मनुस्सत्त-लिङ्गसम्पत्ति-हेतु-सत्थारदस्सन-पब्बज्जा-अभिञ्ञादिगुणसम्पत्ति-अधिकार-छन्दानं वसेन अट्ठङ्गसमन्नागतेन कायपणिधानमहापणिधानेन. सब्बेसञ्हि सम्मासम्बुद्धानं कायपणिधानं इमिनाव नीहारेन समिज्झतीति.

एवं महाभिनीहारवसेन ‘‘तथागतो’’ति पदस्स अत्थं वत्वा इदानि पारमीपूरणवसेन दस्सेतुं ‘‘अथ वा यथा विपस्सी भगवा…पे… यथा कस्सपो भगवा दानपारमिं पूरेत्वा’’तिआदि वुत्तं. इमस्मिं पन ठाने सुत्तन्तिकानं महाबोधियानपटिपदाय कोसल्लजननत्थं पारमीकथा वत्तब्बा, सा पन सब्बाकारसम्पन्ना चरियापिटकवण्णनाय (चरिया. पकिण्णककथा) वित्थारतो निद्दिट्ठा, तस्मा अत्थिकेहि तत्थ वुत्तनयेनेव वेदितब्बा. यथा पन पुब्बे विपस्सीआदयो सम्मासम्बुद्धा अभिनीहारसम्पत्तियं पतिट्ठाय सुविसुद्धाय पटिपदाय अनवसेसतो सम्मदेव सब्बा पारमियो परिपूरेसुं, एवं अम्हाकम्पि भगवा परिपूरेसीति इममत्थं सन्धायाह ‘‘समत्तिं सपारमियो पूरेत्वा’’ति. सतिपि अङ्गपरिच्चागादीनं दानपारमिभावे परिच्चागविसेसभावदस्सनत्थञ्चेव सुदुक्करभावदस्सनत्थञ्च ‘‘पञ्च महापरिच्चागे’’ति विसुं गहणं, ततोयेव च अङ्गपरिच्चागतो विसुं नयनपरिच्चागग्गहणम्पि कतं, परिग्गहपरिच्चागभावसामञ्ञेपि धनरज्जपरिच्चागतो पुत्तदारपरिच्चागग्गहणञ्च कतं.

गतपच्चागतिकवत्तपूरणादिकाय पुब्बभागपटिपदाय सद्धिं अभिञ्ञासमापत्तिनिप्फादनं पुब्बयोगो, दानादीसुयेव सातिसयपटिपत्तिनिप्फादनं पुब्बचरिया, सा चरियापिटकसङ्गहिता. अभिनीहारो पुब्बयोगो, दानादिपटिपत्ति, कायविवेकवसेन एकचरिया वा पुब्बचरियाति केचि. दानादीनञ्चेव अप्पिच्छतादीनञ्च संसारनिब्बानेसु आदीनवानिसंसानञ्च विभावनवसेन सत्तानं बोधित्तये पतिट्ठापनपरिपाचनवसेन च पवत्ता कथा धम्मक्खानं, ञातीनं अत्थचरिया ञातत्थचरिया, सापि करुणाय वसेनेव. आदि-सद्देन लोकत्थचरियादयो सङ्गण्हाति. कम्मस्सकतञाणवसेन, अनवज्जकम्मायतनसिप्पायतनविज्जाट्ठानपरिचयवसेन खन्धायतनादिपरिचयवसेन, लक्खणत्तयतीरणवसेन च ञाणचारो बुद्धिचरिया, सा पन अत्थतो पञ्ञापारमीयेव, ञाणसम्भारदस्सनत्थं विसुं गहणं. कोटीति परियन्तो, उक्कंसोति अत्थो.

चत्तारो सतिपट्ठाने भावेत्वा ब्रूहेत्वाति सम्बन्धो. तत्थ भावेत्वाति उप्पादेत्वा. ब्रूहेत्वाति वड्ढेत्वा. सतिपट्ठानादिग्गहणेन आगमनपटिपदं मत्थकं पापेत्वा दस्सेति. विपस्सनासहगता एव वा सतिपट्ठानादयो दट्ठब्बा. एत्थ च ‘‘येन अभिनीहारेना’’तिआदिना आगमनपटिपदाय आदिं दस्सेति, ‘‘दानपारमी’’तिआदिना मज्झं, ‘‘चत्तारो सतिपट्ठाने’’तिआदिना परियोसानन्ति वेदितब्बं.

सम्पतिजातोति मुहुत्तजातो मनुस्सानं हत्थतो मुत्तमत्तो, न मातुकुच्छितो निक्खन्तमत्तो. निक्खन्तमत्तञ्हि महासत्तं पठमं ब्रह्मानो सुवण्णजालेन पटिग्गण्हिंसु, तेसं हत्थतो चत्तारो महाराजानो अजिनप्पवेणिया, तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन पटिग्गण्हिंसु, मनुस्सानं हत्थतो मुच्चित्वा पथवियं पतिट्ठितोति. यथाह भगवा महापदानदेसनायं. सेतम्हि छत्तेति दिब्बसेतच्छत्ते. अनुधारीयमानेति धारीयमाने. एत्थ च छत्तग्गहणेनेव खग्गादीनि पञ्च ककुधभण्टानिपि वुत्तानेवाति दट्ठब्बं. खग्गतालवण्टमोरहत्थकवालबीजनीउण्हीसपट्टापि हि छत्तेन सह तदा उपट्ठिता अहेसुं, छत्तादीनियेव च तदा पञ्ञायिंसु, न छत्तादिग्गाहका. सब्बा च दिसाति दसपि दिसा. नयिदं सब्बदिसाविलोकनं सत्तपदवीतिहारुत्तरकालं दट्ठब्बं. महासत्तो हि मनुस्सानं हत्थतो मुच्चित्वा पुरत्थिमदिसं ओलोकेसि. तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना ‘‘महापुरिस इध तुम्हेहि सदिसोपि नत्थि, कुतो उत्तरितरो’’ति आहंसु. एवं चतस्सो दिसा, चतस्सो अनुदिसा; हेट्ठा, उपरीति सब्बा दिसा अनुविलोकेत्वा सब्बत्थ अत्तना सदिसं अदिस्वा ‘‘अयं उत्तरा दिसा’’ति तत्थ सत्तपदवीतिहारेन अगमासि. आसभिन्ति उत्तमं. अग्गोति सब्बपठमो. जेट्ठो सेट्ठोति च तस्सेव वेवचनं. अयमन्तिमा जाति, नत्थि दानि पुनब्भवोति इमस्मिं अत्तभावे पत्तब्बं अरहत्तं ब्याकासि.

अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेनाति संखित्तेन वुत्तमत्थं ‘‘यञ्ही’’तिआदिना वित्थारतो दस्सेति. तत्थ एत्थाति –

‘‘अनेकसाखञ्च सहस्समण्डलं,

छत्तं मरू धारयुमन्तलिक्खे;

सुवण्णदण्डा वीतिपतन्ति चामरा,

न दिस्सरे चामरछत्तगाहका’’ति. (सु. नि. ६९३);

इमिस्सा गाथाय. सब्बञ्ञुतञ्ञाणमेव सब्बत्थ अप्पटिहतचारताय अनावरणञाणन्ति आह ‘‘सब्बञ्ञुतानावरणञाणपटिलाभस्सा’’ति. तथा अयं भगवापि गतो…पे… पुब्बनिमित्तभावेनाति एतेन अभिजातियं धम्मतावसेन उप्पज्जनकविसेसा सब्बबोधिसत्तानं साधारणाति दस्सेति. पारमितानिस्सन्दा हि तेति.

विक्कमीति अगमासि. मरूति देवा. समाति विलोकनसमताय समा सदिसियो. महापुरिसो हि यथा एकं दिसं विलोकेसि, एवं सेसदिसापि, न कत्थचि विलोकने विबन्धो तस्स अहोसीति. समाति वा विलोकेतुं युत्ता, विसमरहिताति अत्थो. न हि तदा बोधिसत्तस्स विरूपबीभच्छविसमरूपानि विलोकेतुं अयुत्तानि दिसासु उपट्ठहन्तीति.

एवं ‘‘तथा गतो’’ति कायगमनट्ठेन गत-सद्देन तथागत-सद्दं निद्दिसित्वा इदानि ञाणगमनट्ठेन तं दस्सेतुं ‘‘अथ वा’’तिआदिमाह. तत्थ नेक्खम्मेनाति अलोभप्पधानेन कुसलचित्तुप्पादेन. कुसला हि धम्मा इध नेक्खम्मं, न पब्बज्जादयो, ‘‘पठमज्झान’’न्ति (दी. नि. अभि. टी. १.७.चूळसीलवण्णना; अ. नि. टी. १.१.१७०) च वदन्ति. पहायाति पजहित्वा. गतो अधिगतो, पटिपन्नो उत्तरिविसेसन्ति अत्थो. पहायाति वा पहानहेतु, पहानलक्खणं वा. हेतुलक्खणत्थो हि अयं पहाय-सद्दो. कामच्छन्दादिप्पहानहेतुकं ‘‘गतो’’ति हेत्थ वुत्तं गमनं अवबोधो, पटिपत्ति एव वा कामच्छन्दादिप्पहानेन च लक्खीयतीति. एस नयो पदालेत्वातिआदीसुपि. अब्यापादेनाति मेत्ताय. आलोकसञ्ञायाति विभूतं कत्वा मनसिकरणेन (दी. नि. अभि. टी. १.७.चूळसीलवण्णना) उपट्ठितआलोकसञ्चाननेन. अविक्खेपेनाति समाधिना. धम्मववत्थानेनाति कुसलादिधम्मानं याथावनिच्छयेन. ‘‘सप्पच्चयनामरूपववत्थानेना’’तिपि वदन्ति.

एवं कामच्छन्दादिनीवरणप्पहानेन ‘‘अभिज्झं लोके पहाया’’तिआदिना (विभ. ५०८) वुत्ताय पठमज्झानस्स पुब्बभागपटिपदाय भगवतो तथागतभावं दस्सेत्वा इदानि सह उपायेन अट्ठहि समापत्तीहि अट्ठारसहि च महाविपस्सनाहि तं दस्सेतुं ‘‘ञाणेना’’तिआदिमाह. नामरूपपरिग्गहकङ्खावितरणानञ्हि विनिबन्धभूतस्स मोहस्स दूरीकरणेन ञातपरिञ्ञायं ठितस्स अनिच्चसञ्ञादयो सिज्झन्ति, तथा झानसमापत्तीसु अभिरतिनिमित्तेन पामोज्जेन. तत्थ ‘‘अनभिरतिया विनोदिताय झानादीनं समधिगमो’’ति समापत्तिविपस्सनानं अरतिविनोदनअविज्जापदालनादीनि उपायो, उप्पटिपाटिनिद्देसो पन नीवरणसभावाय अविज्जाय हेट्ठा निवरणेसुपि सङ्गहदस्सनत्थन्ति दट्ठब्बं. समापत्तिविहारप्पवेसविबन्धनेन नीवरणानि कवाटसदिसानीति आह ‘‘नीवरणकवाटं उग्घाटेत्वा’’ति. ‘‘रत्तिं अनुवितक्केत्वा अनुविचारेत्वा दिवा कम्मन्ते पयोजेती’’ति (म. नि. १.२५१) वुत्तट्ठाने वितक्कविचारा धूमायनाति अधिप्पेताति आह ‘‘वितक्कविचारधूम’’न्ति. किञ्चापि पठमज्झानुपचारेयेव दुक्खं, चतुत्थज्झानुपचारे च सुखं पहीयति, अतिसयप्पहानं पन सन्धायाह ‘‘चतुत्थज्झानेन सुखदुक्खं पहाया’’ति.

अनिच्चस्स, अनिच्चन्ति च अनुपस्सना अनिच्चानुपस्सना, तेभूमकधम्मानं अनिच्चतं गहेत्वा पवत्ताय विपस्सनायेतं नामं. निच्चसञ्ञन्ति सङ्खतधम्मेसु ‘‘निच्चा सस्सता’’ति एवंपवत्तमिच्छासञ्ञं. सञ्ञासीसेन दिट्ठिचित्तानम्पि गहणं दट्ठब्बं. एस नयो इतो परेसुपि. निब्बिदानुपस्सनायाति सङ्खारेसु निब्बिज्जनाकारेन पवत्ताय अनुपस्सनाय. नन्दिन्ति सप्पीतिकतण्हं. विरागानुपस्सनायाति सङ्खारेसु विरज्जनाकारेन पवत्ताय अनुपस्सनाय. निरोधानुपस्सनायाति सङ्खारानं निरोधस्स अनुपस्सनाय. यथा वा सङ्खारा निरुज्झन्तियेव, आयतिं पुनब्भववसेन न उप्पज्जन्ति, एवं अनुपस्सना निरोधानुपस्सना. तेनेवाह ‘‘निरोधानुपस्सनाय निरोधेति, नो समुदेती’’ति. मुच्चितुकम्यता हि अयं बलप्पत्ताति. पटिनिस्सज्जनाकारेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सना, पटिसङ्खासन्तिट्ठना हि अयं. आदानन्ति निच्चादिवसेन गहणं. सन्ततिसमूहकिच्चारम्मणानं वसेन एकत्तग्गहणं घनसञ्ञा. आयूहनं अभिसङ्खरणं. अवत्थाविसेसापत्ति विपरिणामो. धुवसञ्ञन्ति थिरभावग्गहणं. निमित्तन्ति समूहादिघनवसेन सकिच्चपरिच्छेदताय च सङ्खारानं सविग्गहग्गहणं. पणिधिन्ति रागादिपणिधिं. सा पनत्थतो तण्हावसेन सङ्खारेसु निन्नता. अभिनिवेसन्ति अत्तानुदिट्ठिं.

अनिच्चदुक्खादिवसेन सब्बधम्मतीरणं अधिपञ्ञाधम्मविपस्सना. सारादानाभिनिवेसन्ति असारेसु सारग्गहणविपल्लासं. इस्सरकुत्तादिवसेन लोको समुप्पन्नोति अभिनिवेसो सम्मोहाभिनिवेसो. केचि पन ‘‘अहोसिं नु खो अहं अतीतमद्धानन्तिआदिना (म. नि. १.१८; सं. नि. २.२०) पवत्तसंसयापत्ति सम्मोहाभिनिवेसो’’ति वदन्ति. सङ्खारेसु लेणताणभावग्गहणं आलयाभिनिवेसो. ‘‘आलयरता आलयसम्मुदिता’’ति (दी. नि. २.६४, ६७; म. नि. १.२८१; २.३३७; सं. नि. १.१७२; महाव. ७, ८) वचनतो आलयो तण्हा, सायेव चक्खादीसु रूपादीसु च अभिनिविसनवसेन पवत्तिया आलयाभिनिवेसोति केचि. ‘‘एवंविधा सङ्खारा पटिनिस्सज्जीयन्ती’’ति पवत्तं ञाणं पटिसङ्खानुपस्सना. वट्टतो विगतत्ता विवट्टं, निब्बानं, तत्थ आरम्मणकरणसङ्खातेन अनुपस्सनेन पवत्तिया विवट्टानुपस्सना, गोत्रभू. संयोगाभिनिवेसन्ति संयुज्जनवसेन सङ्खारेसु निविसनं. दिट्ठेकट्ठेति दिट्ठिया सहजातेकट्ठे पहानेकट्ठे च. ओळारिकेति उपरिमग्गवज्झकिलेसे अपेक्खित्वा वुत्तं, अञ्ञथा दस्सनेन पहातब्बापि दुतियमग्गवज्झेहि ओळारिकाति. अणुसहगतेति अणुभूते. इदं हेट्ठिममग्गवज्झे अपेक्खित्वा वुत्तं. सब्बकिलेसेति अवसिट्ठसब्बकिलेसे. न हि पठमादिमग्गेहि पहीना किलेसा पुन पहीयन्तीति.

कक्खळत्तं कथिनभावो. पग्घरणं द्रवभावो. लोकियवायुना भस्तस्स विय येन वायुना तंतंकलापस्स उद्धुमायनं, थद्धभावो वा, तं वित्थम्भनं. विज्जमानेपि कलापन्तरभूतानं कलापन्तरभूतेहि सम्फुट्ठभावे तंतंभूतविवित्तता रूपपरियन्तो आकासोति येसं यो परिच्छेदो, तेहि सो असम्फुट्ठोव, अञ्ञथा भूतानं परिच्छेदसभावो न सिया ब्यापीभावापत्तितो, अब्यापिताव असम्फुट्ठताति यस्मिं कलापे भूतानं परिच्छेदो, तेहि असम्फुट्ठभावो असम्फुट्ठलक्खणं. तेनाह भगवा आकासधातुनिद्देसे (ध. स. ६३७) ‘‘असम्फुट्ठं चतूहि महाभूतेही’’ति.

विरोधिपच्चयसन्निपाते विसदिसुप्पत्ति रुप्पनं. चेतनापधानत्ता सङ्खारक्खन्धधम्मानं चेतनावसेनेतं वुत्तं ‘‘सङ्खारानं अभिसङ्खरणलक्खण’’न्ति. तथा हि सुत्तन्तभाजनीये सङ्खारक्खन्धविभङ्गे (विभ. ९२) ‘‘चक्खुसम्फस्सजा चेतना’’तिआदिना चेतनाव विभत्ता. अभिसङ्खरणलक्खणा च चेतना. यथाह ‘‘तत्थ कतमो पुञ्ञाभिसङ्खारो? कुसला चेतना कामावचरा’’तिआदि. फरणं सविप्फारिकता. अस्सद्धियेति असद्धियहेतु. निमित्तत्थे भुम्मं. एस नयो कोसज्जेतिआदीसु. उपसमलक्खणन्ति कायचित्तपरिळाहूपसमलक्खणं. लीनुद्धच्चरहिते अधिचित्ते पवत्तमाने पग्गहनिग्गहसम्पहंसनेसु अब्यावटताय अज्झुपेक्खनं पटिसङ्खानं पक्खपातुपच्छेदतो.

मुसावादादीनं विसंवादनादिकिच्चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो परिग्गाहकसभावा सम्मावाचा सिनिद्धभावतो सम्पयुत्तधम्मे सम्मावाचापच्चयसुभासितानं सोतारञ्च पुग्गलं परिग्गण्हातीति तस्सा परिग्गाहलक्खणं वुत्तं. कायिककिरिया किञ्चि कत्तब्बं समुट्ठापेति, सयञ्च समुट्ठहनं घटनं होतीति सम्माकम्मन्त सङ्खाताय विरतिया समुट्ठानलक्खणं दट्ठब्बं. सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठापनं कायिककिरियाय भारुक्खिपनं विय. जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा जीवितिन्द्रियप्पवत्तिया, आजीवस्सेव वा सुद्धि वोदानं. ससम्पयुत्तधम्मस्स चित्तस्स संकिलेसपक्खे पतितुं अदत्वा सम्मदेव पग्गण्हनं पग्गहो.

‘‘सङ्खारा’’ति इध चेतना अधिप्पेताति वुत्तं ‘‘सङ्खारानं चेतनालक्खण’’न्ति. नमनं आरम्मणाभिमुखभावो. आयतनं पवत्तनं. आयतनानं वसेन हि आयसङ्खातानं चित्तचेतसिकानं पवत्ति. तण्हाय हेतुलक्खणन्ति वट्टस्स जनकहेतुभावो, मग्गस्स पन निब्बानसम्पापकत्तन्ति अयमेतेसं विसेसो.

तथलक्खणं अविपरीतसभावो. एकरसो अञ्ञमञ्ञानतिवत्तनं अनूनानधिकभावो. युगनद्धा समथविपस्सनाव. सद्धापञ्ञा पग्गहाविक्खेपातिपि वदन्ति.

खीणोति किलेसे खेपतीति खयो, मग्गो. अनुप्पादपरियोसानताय अनुप्पादो, फलं. पस्सद्धि किलेसवूपसमो. छन्दस्साति कत्तुकामताछन्दस्स. मूललक्खणं पतिट्ठाभावो. समुट्ठानभावो समुट्ठानलक्खणं आरम्मणपटिपादकताय सम्पयुत्तधम्मानं उप्पत्तिहेतुता. समोधानं विसयादिसन्निपातेन गहेतब्बाकारो, या सङ्गतीति वुच्चति. समं सह ओदहन्ति अनेन सम्पयुत्तधम्माति वा समोधानं, फस्सो. समोसरन्ति सन्निपतन्ति एत्थाति समोसरणं. वेदनाय विना अप्पवत्तमाना सम्पयुत्तधम्मा वेदनानुभवननिमित्तं समोसटा विय होन्तीति एवं वुत्तं. गोपानसीनं कूटं विय सम्पयुत्तानं पामोक्खभावो पमुखलक्खणं. ततो, तेसं वा सम्पयुत्तधम्मानं उत्तरि पधानन्ति ततुत्तरि, पञ्ञुत्तरा हि कुसला धम्मा. विमुत्तियाति फलस्स. तञ्हि सीलादिगुणसारस्स परमुक्कंसभावेन सारं. अयञ्च लक्खणविभागो छधातुपञ्चझानङ्गादिवसेन तंतंसुत्तपदानुसारेन पोराणट्ठकथायं आगतनयेन च कतोति दट्ठब्बं. तथा हि पुब्बे वुत्तोपि कोचि धम्मो परियायन्तरपकासनत्थं पुन दस्सितो. ततो एव च ‘‘छन्दमूलका कुसला धम्मा मनसिकारसमुट्ठाना फस्ससमोधाना वेदनासमोसरणा’’ति, ‘‘पञ्ञुत्तरा कुसला धम्मा’’ति, ‘‘विमुत्तिसारमिदं ब्रह्मचरिय’’न्ति, ‘‘निब्बानोगधञ्हि आवुसो ब्रह्मचरियं निब्बानपरियोसान’’न्ति (म. नि. १.४६६) च सुत्तपदानं वसेन ‘‘छन्दस्स मूललक्खण’’न्तिआदि वुत्तं.

तथधम्मा नाम चत्तारि अरियसच्चानि अविपरीतसभावत्ता. तथानि तंसभावत्ता. अवितथानि अमुसासभावत्ता. अनञ्ञथानि अञ्ञाकाररहितत्ता. जातिपच्चयसम्भूतसमुदागतट्ठोति जातिपच्चया सम्भूतं हुत्वा सहितस्स अत्तनो पच्चयानुरूपस्स उद्धं आगतभावो, अनुपवत्तनट्ठोति अत्थो. अथ वा सम्भूतट्ठो च समुदागतट्ठो च सम्भूतसमुदागतट्ठो, न जातितो जरामरणं न होति, न च जातिं विना अञ्ञतो होतीति जातिपच्चयसम्भूतट्ठो. इत्थञ्च जातितो समुदागच्छतीति जातिपच्चयसमुदागतट्ठो, या या जाति यथा यथा पच्चयो होति, तदनुरूपं पातुभावोति अत्थो. अविज्जाय सङ्खारानं पच्चयट्ठोति एत्थापि न अविज्जा सङ्खारानं पच्चयो न होति, न च अविज्जं विना सङ्खारा उप्पज्जन्ति, या या अविज्जा येसं येसं सङ्खारानं यथा यथा पच्चयो होति, अयं अविज्जाय सङ्खारानं पच्चयट्ठो पच्चयभावोति अत्थो.

भगवा तं सब्बाकारतो जानाति पस्सतीति सम्बन्धो. तेनाति भगवता. तं विभज्जमानन्ति योजेतब्बं. न्ति रुपायतनं. इट्ठानिट्ठादीति आदि-सद्देन मज्झत्तं सङ्गण्हाति, तथा अतीतानागतपच्चुप्पन्नपरित्तअज्झत्तबहिद्धातदुभयादिभेदं. लब्भमानकपदवसेनाति ‘‘रूपायतनं दिट्ठं, सद्दायतनं सुतं, गन्धायतनं रसायतनं फोट्ठब्बायतनं मुतं, सब्बं रूपं मनसा विञ्ञात’’न्ति (ध. स. ९६६) वचनतो दिट्ठपदञ्च विञ्ञातपदञ्च रूपारम्मणे लब्भति, रूपारम्मणं इट्ठं अनिट्ठं मज्झत्तं परित्तं अतीतं अनागतं पच्चुप्पन्नं अज्झत्तं बहिद्धा दिट्ठं विञ्ञातं रूपं रूपायतनं रूपधातु वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतकन्ति एवमादीहि अनेकेहि नामेहि.

तेरसहि वारेहीति रूपकण्डे (ध. स. ६१६) आगते तेरस निद्देसवारे सन्धायाह. एकेकस्मिञ्च वारे चतुन्नं चतुन्नं ववत्थापननयानं वसेन ‘‘द्वेपञ्ञासाय नयेही’’ति आह. तथमेव अविपरीतदस्सिताय अप्पटिवत्तियदेसनताय च. ‘‘जानामि अभिञ्ञासि’’न्ति वत्तमानातीतकालेसु ञाणप्पवत्तिदस्सनेन अनागतेपि ञाणप्पवत्ति वुत्तायेवाति दट्ठब्बा. विदित-सद्दो अनामट्ठकालविसेसो वेदितब्बो ‘‘दिट्ठं सुतं मुत’’न्तिआदीसु (ध. स. ९६६) विय. न उपट्ठासीति अत्तत्तनियवसेन न उपगच्छि. यथा रूपारम्मणादयो धम्मा यंसभावा यंपकारा च, तथा ने पस्सति जानाति गच्छतीति तथागतोति एवं पदसम्भवो वेदितब्बो. केचि पन ‘‘निरुत्तिनयेन पिसोदरादिपक्खेपेन (पाणिनि ६.३.१०९) वा दस्सि-सद्दस्स लोपं, आगत-सद्दस्स चागमं कत्वा तथागतो’’ति वण्णेन्ति.

निद्दोसताय अनुपवज्जं. पक्खिपितब्बाभावेन अनूनं. अपनेतब्बाभावेन अनधिकं. अत्थब्यञ्जनादिसम्पत्तिया सब्बाकारपरिपुण्णं. नो अञ्ञथाति ‘‘तथेवा’’ति वुत्तमेवत्थं ब्यतिरेकेन सम्पादेति. तेन यदत्थं भासितं, एकन्तेन तदत्थनिप्फादनतो यथा भासितं भगवता, तथेवाति अविपरीतदेसनतं दस्सेति. गदअत्थोति एतेन तथं गदतीति तथागतोति द-कारस्स त-कारो कतो निरुत्तिनयेनाति दस्सेति.

तथा गतमस्साति तथागतो. गतन्ति च कायवाचापवत्तीति अत्थो. तथाति च वुत्ते यंतंसद्दानं अब्यभिचारिसम्बन्धिताय यथाति अयमत्थो उपट्ठितोयेव होति, कायवचीकिरियानञ्च अञ्ञमञ्ञानुलोमेन वचनिच्छायं कायस्स वाचा, वाचाय च कायो सम्बन्धीभावेन उपतिट्ठतीति इममत्थं दस्सेन्तो आह ‘‘भगवतो ही’’तिआदि. इमस्मिं पन अत्थे तथावादीताय तथागतोति अयम्पि अत्थो सिद्धो होति. सो पन पुब्बे पकारन्तरेन दस्सितोति आह ‘‘एवं तथाकारिताय तथागतो’’ति.

तिरियं अपरिमाणासु लोकधातूसूति एतेन यदेके ‘‘तिरियं विय उपरि अधो च सन्ति लोकधातुयो’’ति वदन्ति, तं पटिसेधेति. देसनाविलासोयेव देसनाविलासमयो यथा ‘‘पुञ्ञमयं, दानमय’’न्तिआदीसु.

निपातानं वाचकसद्दसन्निधाने तदत्थजोतनभावेन पवत्तनतो गत-सद्दोयेव अवगतत्थं अतीतत्थञ्च वदतीति आह ‘‘गतोति अवगतो अतीतो’’ति.

अथ वा अभिनीहारतो पट्ठाय याव सम्मासम्बोधि, एत्थन्तरे महाबोधियानपटिपत्तिया हानट्ठानसंकिलेसनिवत्तीनं अभावतो यथा पणिधानं, तथा गतो अभिनीहारानुरूपं पटिपन्नोति तथागतो. अथ वा महिद्धिकताय पटिसम्भिदानं उक्कंसाधिगमेन अनावरणञाणताय च कत्थचिपि पटिघाताभावतो यथा रुचि, तथा कायवचीचित्तानं गतानि गमनानि पवत्तियो एतस्साति तथागतो. यस्मा च लोके विध-युत्त-गत-प्पकार-सद्दा समानत्था दिस्सन्ति. तस्मा यथाविधा विपस्सीआदयो भगवन्तो, अयम्पि भगवा तथाविधोति तथागतो, यथायुत्ता च ते भगवन्तो, अयम्पि भगवा तथायुत्तोति तथागतो. अथ वा यस्मा सच्चं तच्छं तथन्ति ञाणस्सेतं अधिवचनं, तस्मा तथेन ञाणेन आगतोति तथागतो. एवम्पि तथागत-सद्दस्स अत्थो वेदितब्बो.

पहाय कामादिमले यथा गता,

समाधिञाणेहि विपस्सिआदयो;

महेसिनो सक्यमुनी जुतिन्धरो,

तथा गतो तेन मतो तथागतो.

तथञ्च धातायतनादिलक्खणं,

सभावसामञ्ञविभागभेदतो;

सयम्भुञाणेन जिनो समागतो,

तथागतो वुच्चति सक्यपुङ्गवो.

तथानि सच्चानि समन्तचक्खुना,

तथा इदप्पच्चयता च सब्बसो;

अनञ्ञनेय्येन यतो विभाविता,

याथावतो तेन जिनो तथागतो.

अनेकभेदासुपि लोकधातुसु,

जिनस्स रूपायतनादिगोचरे;

विचित्रभेदं तथमेव दस्सनं,

तथागतो तेन समन्तलोचनो.

यतो च धम्मं तथमेव भासति,

करोति वाचायनुलोममत्तनो;

गुणेहि लोकं अभिभुय्यिरीयति,

तथागतो तेनपि लोकनायको.

यथाभिनीहारमतो यथारुचि,

पवत्तवाचा तनुचित्तभावतो;

यथाविधा येन पुरा महेसिनो,

तथाविधो तेन जिनो तथागतोति. (इतिवु. अट्ठ. ३८; दी. नि. टी. १.७ चूळसीलवण्णना);

आरकत्तातिआदीनं पदानं अत्थो विसुद्धिमग्गे (विसुद्धि. १.१२५) बुद्धानुस्सतिसंवण्णनाय वुत्तनयेनेव वेदितब्बो. सम्मा सामञ्च सब्बधम्मानं बुद्धत्ताति इमिनास्स परोपदेसरहितस्स सब्बाकारेन सब्बधम्मावबोधनसमत्थस्स आकङ्खापटिबद्धवुत्तिनो अनावरणञाणसङ्खातस्स सब्बञ्ञुतञ्ञाणस्स अधिगमो दस्सितो.

ननु च (इतिवु. अट्ठ. ३८) सब्बञ्ञुतञ्ञाणतो अञ्ञं अनावरणञाणं, अञ्ञथा छ असाधारणञाणानि बुद्धञाणानीति वचनं विरुज्झेय्याति? न विरुज्झति विसयप्पवत्तिभेदवसेन अञ्ञेहि असाधारणञाणभावदस्सनत्थं एकस्सेव ञाणस्स द्विधा वुत्तत्ता. एकमेव हि तं ञाणं अनवसेससङ्खतासङ्खतसम्मुतिधम्मविसयताय सब्बञ्ञुतञ्ञाणं, तत्थ च आवरणाभावतो निस्सङ्गचारमुपादाय अनावरणञाणन्ति वुत्तं. यथाह पटिसम्भिदायं (पटि. म. १.११९) ‘‘सब्बं सङ्खतासङ्खतमनवसेसं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थावरणं नत्थीति अनावरणञाण’’न्तिआदि, तस्मा नत्थि नेसं अत्थतो भेदो, एकन्तेन चेतं एवमिच्छितब्बं, अञ्ञथा सब्बञ्ञुतानावरणञाणानं सावरणता असब्बधम्मारम्मणता च आपज्जेय्य. न हि भगवतो ञाणस्स अणुमतम्पि आवरणं अत्थि, अनावरणञाणस्स च असब्बधम्मारम्मणभावे यत्थ तं नप्पवत्तति, तत्थावरणसब्भावतो अनावरणभावोयेव न सिया. अथ वा पन होतु अञ्ञमेव अनावरणञाणं सब्बञ्ञुतञ्ञाणतो, इध पन सब्बत्थ अप्पटिहतवुत्तिताय अनावरणञाणन्ति सब्बञ्ञुतञ्ञाणमेव अधिप्पेतं, तस्स चाधिगमेन भगवा सब्बञ्ञू सब्बविदू सम्मासम्बुद्धोति च वुच्चति, न सकिमेव सब्बधम्मावबोधतो. तथा च वुत्तं पटिसम्भिदायं (पटि. म. १.१६२) ‘‘विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणस्स पटिलाभा सच्छिका पञ्ञत्ति यदिदं बुद्धो’’ति. सब्बधम्मावबोधनसमत्थञाणसमधिगमेन हि भगवतो सन्ताने अनवसेसधम्मे पटिविज्झितुं समत्थता अहोसीति.

एत्थाह – किं पनिदं ञाणं पवत्तमानं सकिंयेव सब्बस्मिं विसये पवत्तति, उदाहु कमेनाति. किञ्चेत्थ – यदि ताव सकिंयेव सब्बस्मिं विसये पवत्तति, अतीतानागतपच्चुप्पन्नअज्झत्तबहिद्धादिभेदेन भिन्नानं सङ्खतधम्मानं असङ्खतसम्मुतिधम्मानञ्च एकज्झं उपट्ठाने दूरतो चित्तपटं अवेक्खन्तस्स विय पटिविभागेनावबोधो न सिया, तथा च सति ‘‘सब्बे धम्मा अनत्ता’’ति विपस्सन्तानं अनत्ताकारेन विय सब्बे धम्मा अनिरूपितरूपेन भगवतो ञाणस्स विसया होन्तीति आपज्जति. येपि ‘‘सब्बञेय्यधम्मानं ठितलक्खणविसयं विकप्परहितं सब्बकालं बुद्धानं ञाणं पवत्तति, तेन ते सब्बविदूति वुच्चन्ति. एवञ्च कत्वा ‘चरं समाहितो नागो, तिट्ठन्तोपि समाहितो’ति इदम्पि वचनं सुवुत्तं होती’’ति वदन्ति, तेसम्पि वुत्तदोसानतिवत्ति. ठितलक्खणारम्मणताय हि अतीतानागतसम्मुतिधम्मानं तदभावतो एकदेसविसयमेव भगवतो ञाणं सिया, तस्मा सकिंयेव ञाणं पवत्ततीति न युज्जति.

अथ कमेन सब्बस्मिं विसये ञाणं पवत्तति, एवम्पि न युज्जति. न हि जातिभूमिसभावादिवसेन दिसादेसकालादिवसेन च अनेकभेदभिन्ने नेय्ये कमेन गय्हमाने तस्स अनवसेसपटिवेधो सम्भवति अपरियन्तभावतो ञेय्यस्स. ये पन ‘‘अत्थस्स अविसंवादनतो ञेय्यस्स एकदेसं पच्चक्खं कत्वा सेसेपि एवन्ति अधिमुच्चित्वा ववत्थापनेन सब्बञ्ञू भगवा, तञ्च ञाणं अननुमानिकं संसयाभावतो. संसयानुबन्धञ्हि लोके अनुमानञाण’’न्ति वदन्ति, तेसम्पि तं न युत्तं. सब्बस्स हि अप्पच्चक्खभावे अत्थस्स अविसंवादनेन ञेय्यस्स एकदेसं पच्चक्खं कत्वा सेसेपि एवन्ति अधिमुच्चित्वा ववत्थापनस्स असम्भवतो. यञ्हि तं सेसं, तं अप्पच्चक्खन्ति. अथ तम्पि पच्चक्खं, तस्स सेसभावो एव न सियाति? सब्बमेतं अकारणं. कस्मा? अविसयविचारणभावतो. वुत्तञ्हेतं भगवता ‘‘बुद्धविसयो भिक्खवे, अचिन्तेय्यो न चिन्तेतब्बो, यो चिन्तेय्य, उम्मादस्स विघातस्स भागी अस्सा’’ति (अ. नि. ४.७७). इदं पनेत्थ सन्निट्ठानं – यं किञ्चि भगवता ञातुं इच्छितं सकलमेकदेसो वा, तत्थ अप्पटिहतवुत्तिताय पच्चक्खतो ञाणं पवत्तति, निच्चसमाधानञ्च विक्खेपाभावतो, ञातुं इच्छितस्स च सकलस्स अविसयभावे तस्स आकङ्खापटिबद्धवुत्तिता न सिया, एकन्तेनेव च सा इच्छितब्बा ‘‘सब्बे धम्मा बुद्धस्स भगवतो आवज्जनपटिबद्धा आकङ्खपटिबद्धा मनसिकारपटिबद्धा चित्तुप्पादपटिबद्धा’’ति (महानि. ६९, १५६; चूळनि. ८५; पटि. म. ३.५) वचनतो. अतीतानागतविसयम्पि भगवतो ञाणं अनुमानागमतक्कगहणविरहितत्ता पच्चक्खमेव.

ननु च एतस्मिम्पि पक्खे यदा सकलं ञातुं इच्छितं, तदा सकिंयेव सकलविसयताय अनिरूपितरूपेन भगवतो ञाणं पवत्तेय्याति वुत्तदोसानतिवत्तियेवाति? न, तस्स विसोधितत्ता. विसोधितो हि सो बुद्धविसयो अचिन्तेय्योति. अञ्ञथा पचुरजनञाणसमानवुत्तिताय बुद्धानं भगवन्तानं ञाणस्स अचिन्तेय्यता न सिया, तस्मा सकलधम्मारम्मणम्पि तं एकधम्मारम्मणं विय सुववत्थापितेयेव ते धम्मे कत्वा पवत्ततीति इदमेत्थ अचिन्तेय्यं, अनन्तञ्च ञाणं ञेय्यं विय. वुत्तञ्हेतं ‘‘यावतकं ञेय्यं, तावतकं ञाणं. यावतकं ञाणं, तावतकं ञेय्यं. ञेय्यपरियन्तिकं ञाणं, ञाणपरियन्तिकं ञेय्य’’न्ति (महानि. ६९, १५६; चूळनि. ८५; पटि. म. ३.५). एवमेकज्झं, विसुं सकिं, कमेन वा इच्छानुरूपं सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो.

न्ति यथावुत्तं पथवीआदिभेदं. परिञ्ञातन्ति परितो समन्ततो सब्बाकारतो ञातं, तं परिजानितब्बभावं किञ्चि असेसेत्वा ञातन्ति अत्थो. अयमेव हि अत्थो ‘‘परिञ्ञातन्त’’न्ति इमिनापि पदेन पकासितोति दस्सेन्तो ‘‘परिञ्ञातन्तं नामा’’तिआदिमाह. तेन तेन मग्गेन किलेसप्पहानेन विसेसो नत्थीति इदं तंतंमग्गवज्झकिलेसानं बुद्धानं सावकानञ्च तेन तेन मग्गेनेव पहातब्बभावसामञ्ञं सन्धाय वुत्तं, न सावकेहि बुद्धानं किलेसप्पहानविसेसाभावतो. तथा हि सम्मासम्बुद्धा एव सवासनकिलेसे जहन्ति, न सावका. एकदेसमेवाति अत्तनो सन्तानगतमेव. ससन्ततिपरियापन्नधम्मपरिञ्ञामत्तेनपि हि चतुसच्चकम्मट्ठानभावना समिज्झति. तेनेवाह – ‘‘इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च पञ्ञपेमि लोकसमुदयञ्च पञ्ञपेमी’’तिआदि (सं. नि. १.१०७; अ. नि. ४.४५). अणुप्पमाणम्पि …पे… नत्थि, यतो छत्तिंसकोटिसतसहस्समुखेन बुद्धानं महावजिरञाणं पवत्ततीति वदन्ति.

तथागतवारसत्तमनयवण्णना निट्ठिता.

तथागतवारअट्ठमनयवण्णना

१३. पुरिमतण्हाति पुरिमतरेसु भवेसु निब्बत्ता पच्चुप्पन्नत्तभावहेतुभूता तण्हा. तग्गहणेनेव च अतीतद्धसङ्गहा अविज्जासङ्खारा सद्धिं उपादानेन सङ्गहिताति दट्ठब्बा. एत्थाति ‘‘भवा जाती’’ति एतस्मिं पदे. तेन उपपत्तिभवेनाति ‘‘भवा जाती’’ति जातिसीसेन वुत्तउपपत्तिभवेन. भूतस्साति निब्बत्तस्स. सो पन यस्मा सत्तो नाम होति, तस्मा वुत्तं ‘‘सत्तस्सा’’ति. एवञ्च जानित्वाति इमिना ‘‘भूतस्स जरामरण’’न्ति एत्थापि ‘‘इति विदित्वा’’ति इदं पदं आनेत्वा योजेतब्बन्ति दस्सेति.

यदिपि तेभूमका उपादानक्खन्धा ‘‘यं किञ्चि रूप’’न्तिआदिना (विभ. २; म. नि. १.२४४) एकादससु ओकासेसु पक्खिपितब्बा सम्मसितब्बा च, ते पन यस्मा भगवता ‘‘किम्हि नु खो सति जरामरणं होति, किंपच्चया जरामरण’’न्तिआदिना (दी. नि. २.५७; सं. नि. २.४, १०) पटिच्चसमुप्पादमुखेन सम्मसिता, पटिच्चसमुप्पादो च पवत्तिपवत्तिहेतुभावतो पुरिमसच्चद्वयमेव होति, तस्मा तदभिसमयं ‘‘मञ्ञनाभावहेतु पच्चयाकारपटिवेधो’’ति विभावेन्तो ‘‘यं बोधिरुक्खमूले…पे… दस्सेन्तो’’ति आह. संखिप्पन्ति एत्थ अविज्जादयो विञ्ञाणादयो चाति सङ्खेपा, अतीते हेतुआदयो ‘‘हेतु, फल’’न्ति एवं संखिप्पन्तीति वा सङ्खेपा, अविज्जादयो विञ्ञाणादयो च. सङ्खेप-सद्दो भागाधिवचनन्ति दट्ठब्बो. तेनाह ‘‘कोट्ठासाति अत्थो’’ति. ते पन अतीते हेतुसङ्खेपो, एतरहि फलसङ्खेपो, एतरहि हेतुसङ्खेपो, आयतिं फलसङ्खेपोति चत्तारो सङ्खेपा एतस्साति चतुसङ्खेपो, तं चतुसङ्खेपं. हेतुफलसन्धि, फलहेतुसन्धि, पुन हेतुफलसन्धीति एवं तयो सन्धी एतस्साति तिसन्धि, तं तिसन्धिं. अतीतपच्चुप्पन्नानागतभेदा तयो अद्धा एतस्साति तियद्धो, तं तियद्धं. सरूपतो अवुत्तापि तस्मिं तस्मिं सङ्खेपे आकिरीयन्ति अविज्जासङ्खारादिग्गहणेहि पकासीयन्तीति आकारा, अतीतहेतुआदीनं वा पकारा आकारा, ते एकेकसङ्खेपे पञ्च पञ्च कत्वा वीसति आकारा एतस्साति वीसताकारो, तं वीसताकारं.

एस सब्बोति एस चतुसङ्खेपादिपभेदो अनवसेसो पच्चयो. पच्चयलक्खणेनाति पच्चयभावेन अत्तनो फलस्स पटिसन्धिविञ्ञाणस्स पच्चयभावेन, अविनाभावलक्खणेनाति अत्थो. यथा हि तण्हं विना अविज्जादयो विञ्ञाणस्स पच्चया न होन्ति, एवं तण्हापि अविज्जादिके विनाति. एत्थ दुक्खग्गहणेन विञ्ञाणनामरूपसळायतनफस्सवेदनानं, भवग्गहणेन च तण्हासङ्खारुपादानानं गहितता वुत्तनया एवाति न उद्धटा.

इदानि ते वीसति आकारे पटिसम्भिदामग्गपाळिया विभावेतुं ‘‘एवमेते’’तिआदि वुत्तं. तत्थ (पटि. म. अट्ठ. १.४७) पुरिमकम्मभवस्मिन्ति पुरिमे कम्मभवे, अतीतजातियं कम्मभवे कयिरमानेति अत्थो. मोहो अविज्जाति यो तदा दुक्खादीसु मोहो, येन मूळ्हो कम्मं करोति, सा अविज्जा. आयूहना सङ्खाराति तं तं कम्मं करोन्तो दानुपकरणादि सज्जनादिवसेन या पुरिमचेतनायो, ते सङ्खारा. पटिग्गाहकानं पन हत्थे देय्यधम्मं पतिट्ठापयतो चेतना भवो. एकावज्जनजवनेसु वा पुरिमा चेतना आयूहना सङ्खारा, सत्तमा भवो. या काचि वा पन चेतना भवो, सम्पयुत्ता आयूहना सङ्खारा. निकन्ति तण्हाति यं कम्मं करोन्तस्स उपपत्तिभवे तस्स फलस्स निकामना पत्थना, सा तण्हा नाम. उपगमनं उपादानन्ति यं कम्मभवस्स पच्चयभूतं ‘‘इदं कम्मं कत्वा असुकस्मिं नाम ठाने कामे सेविस्सामि उच्छिज्जिस्सामी’’तिआदिना नयेन पवत्तं उपगमनं गहणं परामसनं, इदं उपादानं नाम. चेतना भवोति द्वीसु अत्थविकप्पेसु वुत्तस्स आयूहनस्स अवसाने वुत्तचेतना, ततिये पन आयूहनसम्पयुत्तचेतना भवो. इति इमे पञ्च धम्मा पुरिमकम्मभवस्मिं इध पटिसन्धिया पच्चयाति इमे यथावुत्ता मोहादयो पञ्च धम्मा अतीतकम्मभवसिद्धा एतरहि पटिसन्धिया पच्चयभूताति अत्थो.

इध पटिसन्धिविञ्ञाणन्ति यं भवन्तरपटिसन्धानवसेन उप्पन्नत्ता पटिसन्धीति वुच्चति, तं विञ्ञाणं. ओक्कन्ति नामरूपन्ति या गब्भे रूपारूपधम्मानं ओक्कन्ति आगन्त्वा पविसन्ती विय, इदं नामरूपं. पसादो आयतनन्ति इदं चक्खादिपञ्चायतनवसेन वुत्तं. फुट्ठो फस्सोति यो आरम्मणं फुट्ठो फुसन्तो उप्पन्नो, अयं फस्सो. वेदयितं वेदनाति यं पटिसन्धिविञ्ञाणेन वा सळायतनपच्चयेन वा फस्सेन सहुप्पन्नं विपाकवेदयितं, सा वेदना. इति इमे…पे… पच्चयाति इमे विञ्ञाणादयो पञ्च कोट्ठासिका धम्मा पुरिमभवे कतस्स कम्मस्स कम्मवट्टस्स पच्चया, पच्चयभावतो तं पटिच्च इध एतरहि उपपत्तिभवस्मिं उपपत्तिभवभावेन वा होन्तीति अत्थो.

इध परिपक्कत्ता आयतनानं मोहोति परिपक्कायतनस्स कम्मकरणकाले असम्मोहं दस्सेति. दहरस्स हि चित्तप्पवत्ति भवङ्गबहुला येभुय्येन भवन्तरजनककम्मायूहनसमत्था न होतीति. कम्मकरणकालेति च इमिना सब्बो कम्मस्स पच्चयभूतो सम्मोहो गहितो, न सम्पयुत्तोव. सेसं वुत्तनयमेव.

पदयोजनायाति ‘‘तस्मा’’तिआदीनं पदानं सम्बन्धेन सह. अत्थनिगमनन्ति इमस्मिं अट्ठमवारे देसनत्थनिगमनं. नन्दीति एवं वुत्तानं सब्बतण्हानन्ति ‘‘नन्दी दुक्खस्स मूल’’न्ति एवं नन्दनत्थसामञ्ञतो एकवचनेन वुत्तानं सब्बतण्हानं सन्तानारम्मणसम्पयुत्तधम्मप्पवत्तिआकारादिभेदेन अनेकभेदानं सब्बासं तण्हानं. खयवेवचनानेवाति समुच्छेदपहानवेवचनानेव. ‘‘अच्चन्तक्खया’’ति हि वुत्तं. चतुमग्गकिच्चसाधारणमेतन्ति चतुन्नं अरियमग्गानं पहानकिच्चस्स साधारणं सामञ्ञतो गहणं एतं खयादिवचनन्ति अत्थो. तेसं पन मग्गानं कमेन पवत्तनं किच्चकमेनेव दस्सेतुं ‘‘विरागा’’तिआदि वुत्तन्ति दस्सेन्तो ‘‘ततो…पे… योजेतब्ब’’न्ति आह. तथा सतिपि खयादिसद्दानं पहानपरियायभावे पहातब्बाय पन विसयभेदभिन्नाय तण्हाय अनवसेसतो पहीनभावदीपनत्थं खयादिपरियायन्तरग्गहणं कतन्ति दस्सेन्तो ‘‘याही’’तिआदिमाह. यथावुत्तसञ्जननादिहेतुभूताय तण्हाय पहीनत्ता तप्पहानदीपनं कत्वा वुच्चमानं खयादिवचनं न कथञ्चि धम्मतं विलोमेतीति वुत्तं ‘‘न किञ्चि विरुज्झती’’ति.

उत्तरविरहितन्ति अत्तानं उत्तरितुं समत्थत्ता उत्तरेन अधिकेन विरहितं. अयञ्चस्स उत्तरविरहता अत्तनो सेट्ठभावेनाति आह ‘‘सब्बसेट्ठ’’न्ति. यथा सम्मा-सं-सद्दा ‘‘अविपरीतं, साम’’न्ति इमेसं पदानं अत्थं वदन्ति, एवं पासंससोभनत्थेपीति आह ‘‘सम्मा सामञ्च बोधिं पसत्थं सुन्दरञ्च बोधि’’न्ति. बुज्झि एत्थ पटिविज्झि चत्तारि अरियसच्चानि, सब्बम्पि वा नेय्यन्ति रुक्खो बोधि, बुज्झति एतेनाति पन मग्गो बोधि, तथा सब्बञ्ञुतञ्ञाणं, निब्बानं पन बुज्झितब्बतो बोधीति अयमेत्थ साधनविभागो दट्ठब्बो. पण्णत्तियम्पि अत्थेव बोधि-सद्दो ‘‘बोधिराजकुमारो’’तिआदीसु (म. नि. २.३२४; चूळव. २६८). अपरेति सारसमासाचरिया. एत्थ च सउपसग्गस्स बोधि-सद्दस्स अत्थुद्धारे अनुपसग्गानं उदाहरणे कारणं हेट्ठा वुत्तमेव.

लोकुत्तरभावतो वा तत्थापि हेट्ठिममग्गानं विय ततुत्तरिमग्गाभावतो च ‘‘सिया नु खो अनुत्तरा बोधी’’ति आसङ्कं सन्धाय तं विधमितुं ‘‘सावकान’’न्तिआदि वुत्तं. अभिनीहारसम्पत्तिया फलविसेसभूतेहि ञाणविसेसेहि एकच्चेहि सकलेहि सद्धिं समिज्झमानो मग्गो अरियानं तं तं ञाणविसेसादिं देन्तो विय होतीति तस्स असब्बगुणदायकत्तं वुत्तं. तेन अनञ्ञसाधारणाभिनीहारसम्पदासिद्धस्स निरतिसय-गुणानुबन्धस्स वसेन अरहत्तमग्गो अनुत्तरा बोधि नाम होतीति दस्सेति. सावकपारमिञाणं अञ्ञेहि सावकेहि असाधारणं महासावकानंयेव आवेणिकं ञाणं. पच्चेकं सच्चानि बुद्धवन्तोति पच्चेकबुद्धा. ननु च सब्बेपि अरिया पच्चेकमेव सच्चानि पटिविज्झन्ति धम्मस्स पच्चत्तं वेदनीयभावतोति? सच्चं, नयिदमीदिसं पटिवेधं सन्धाय वुत्तं, यथा पन सावका अञ्ञसन्निस्सयेन सच्चानि पटिविज्झन्ति परतोघोसेन विना तेसं दस्सनमग्गस्स अनुप्पज्जनतो, यथा च सम्मासम्बुद्धो अञ्ञेसं निस्सयभावेन सच्चानि अभिसम्बुज्झन्ति, न एवमेते, एते पन अपरनेय्या हुत्वा अपरिणायकभावेन सच्चानि पटिविज्झन्ति. तेन वुत्तं ‘‘पच्चेकं सच्चानि बुद्धवन्तोति पच्चेकबुद्धा’’ति.

इतीति करीयति उच्चारीयतीति इतिकारो, इति-सद्दो. कारणत्थो अनियमरूपेनाति अधिप्पायो, तस्माति वुत्तं होति. तेनाह ‘‘यस्मा चा’’ति. पुब्बे पन इति-सद्दं पकारत्थं कत्वा ‘‘एवं जानित्वा’’ति वुत्तं, इधापि तं पकारत्थमेव कत्वा अथो युज्जति. कथं? विदित्वाति हि पदं हेतुअत्थे दट्ठब्बं ‘‘पञ्ञाय चस्स दिस्वा’’ति (म. नि. १.२७१), ‘‘घतं पिवित्वा बलं होती’’ति च एवमादीसु विय, तस्मा पकारत्थेपि इति-सद्दे पटिच्चसमुप्पादस्स विदितत्ताति अयं अत्थो लब्भतेव. पटिच्चसमुप्पादं विदित्वाति एत्थापि हेतुअत्थे विदित्वा-सद्दे यथावुत्ता अत्थयोजना युज्जतेव. एत्थ च पठमविकप्पे पटिच्चसमुपादस्स विदितत्थं मञ्ञनाभावस्स कारणं वत्वा तण्हामूलकस्स पटिच्चसमुप्पादस्स दस्सितत्ता एत्थ तण्हाप्पहानं सम्मासम्बोधिया अधिगमनकारणं उद्धतन्ति दस्सितं, तस्मा ‘‘पथविं न मञ्ञती’’तिआदि निगमनं दट्ठब्बं. दुतियविकप्पे पन पटिच्चसमुप्पादवेदनं तण्हाप्पहानस्स कारणं वुत्तं, तं अभिसम्बोधिया अभिसम्बोधिमञ्ञनाभावस्साति अयमत्थो दस्सितोति अयमेतेसं द्विन्नं अत्थविकप्पानं विसेसो, तस्मा ‘‘नन्दी दुक्खस्स मूल’’न्ति वुत्तं.

तं कुतो लब्भतीति चोदनं सन्धायाह ‘‘यत्थ यत्थ ही’’तिआदि. सासनयुत्ति अयं सासनेपि एवं सम्बन्धो दिस्सतीति कत्वा. लोकेपि हि यं-तं-सद्दानं अब्यभिचारिसम्बन्धता सिद्धा.

एवं अभिसम्बुद्धोति वदामीति अभिसम्बुद्धभावस्स गहितत्ता, असब्बञ्ञुना एवं देसेतुं असक्कुणेय्यत्ता च ‘‘सब्बञ्ञुतञ्ञाणं दस्सेन्तो’’तिआदिमाह.

विचित्रनयदेसनाविलासयुत्तन्ति पुथुज्जनवारादिविभागभिन्नेहि विचित्तेहि तन्ति नयेहि, लक्खणकम्मतण्हामञ्ञनादिविभागभिन्नेहि विचित्तेहि अत्थनयेहि, अभिनन्दनपच्चयाकारादिविसेसापदेससिद्धेन देसनाविलासेन च युत्तं. यथा ते न जानन्ति, तथा देसेसीति इमिनापि भगवतो देसनाविलासंयेव विभावेति. तंयेव किर पथविन्ति एत्थ पथवीगहणं उपलक्खणमत्तं आपादिवसेनपि, तथा ‘‘कीदिसा नु खो इध पथवी अधिप्पेता, कस्मा च भूतरूपानियेव गहितानि, न सेसरूपानी’’तिआदिनापि तेसं संसयुप्पत्ति निद्धारेतब्बा. अथ वा कथं नामिदन्ति एत्थ इति-सद्दो पकारत्थो. तेन इमस्मिं सुत्ते सब्बायपि तेसं संसयुप्पत्तिया परिग्गहितत्ता दट्ठब्बा. अन्तन्ति मरियादं, देसनाय अन्तं परिच्छेदन्ति अत्थो, यो अनुसन्धीति वुच्चति. कोटिन्ति परियन्तं, देसनाय परियोसानन्ति अत्थो. उभयेन सुत्ते अज्झासयानुसन्धि यथानुसन्धीति वदति.

अन्तराकथाति कम्मट्ठानमनसिकारउद्देसपरिपुच्छादीनं अन्तरा अञ्ञा एका तथा. विप्पकथाति अनिट्ठिता सिखं अप्पत्ता. कङ्खणानुरूपेनाति तस्मिं खणे धम्मसभायं सन्निपतितानं भिक्खूनं अज्झासयानुरूपेन. इदन्ति इदानि वुच्चमानं मूलपरियायजातकं.

दिसापामोक्खोति पण्डितभावेन सब्बदिसासु पमुखभूतो. ब्राह्मणोति ब्रह्मं अणतीति ब्राह्मणो, मन्ते सज्झायतीति अत्थो. तिण्णं वेदानन्ति इरुवेद-यजुवेद-सामवेदानं. पारगूति अत्थसो ब्यञ्जनसो च पारं परियन्तं गतो. सह निघण्डुना च केटुभेन चाति सनिघण्डुकेटुभा, तेसं. निघण्डूति रुक्खादीनं वेवचनप्पकासकं सत्थं. केटुभन्ति किरियाकप्पविकप्पो, कवीनं उपकारावहं सत्थं. सह अक्खरप्पभेदेनाति साक्खरप्पभेदा, तेसं, सिक्खानिरुत्तिसहितानन्ति अत्थो. इतिहासपञ्चमानन्ति आथब्बणवेदं चतुत्थं कत्वा ‘‘इतिह अस, इतिह असा’’ति ईदिसवचनपटिसंयुत्तो पुराणकथासङ्खातो इतिहासो पञ्चमो एतेसन्ति इतिहासपञ्चमा, तेसं. पदं तदवसेसञ्च ब्याकरणं कायति अज्झेति वेदेति चाति पदको, वेय्याकरणो. लोकायतं वुच्चति वितण्डसत्थं. महापुरिसानं बुद्धादीनं लक्खणदीपनगन्थो महापुरिसलक्खणं. तेसु अनूनो परिपूरकारीति अनवयो.

मन्तेति वेदे. यदिपि वेदो ‘‘मन्तो, ब्रह्मं, कप्पो’’ति तिविधो, मन्तो एव पन मूलवेदो, तदत्थविवरणं ब्रह्मं, तत्थ वुत्तनयेन यञ्ञकिरियाविधानं कप्पो. तेन वुत्तं ‘‘मन्तेति वेदे’’ति. पण्डिताति पञ्ञावन्तो. तथा हि ते पुथुपञ्ञाताय बहुं सहस्सद्विसहस्सादिपरिमाणं गन्थं पाकटं कत्वा गण्हन्ति उग्गण्हन्ति, जवनपञ्ञताय लहुं सीघं गण्हन्ति, तिक्खपञ्ञताय सुट्ठु अविरज्झन्ता उपधारेन्ति, सतिनेपक्कसम्पत्तिया गहितञ्च नेसं न विनस्सति न सम्मुस्सतीति. सब्बम्पि सिप्पन्ति अट्ठारसविज्जाट्ठानादिभेदं सिक्खितब्बट्ठेन सिप्पन्ति सङ्ख्यं गतं सब्बं बाहिरकसत्थं मोक्खावहसम्मतम्पि न मोक्खं आवहतीति आह ‘‘दिट्ठधम्मसम्परायहित’’न्ति. सम्पिण्डिता हुत्वाति यथा मित्ता, तथा पिण्डितवसेन सन्निपतिता हुत्वा. ‘‘एवं गय्हमाने आदिना विरुज्झेय्य, एवं अन्तेना’’ति चिन्तेन्ता ञातुं इच्छितस्स अत्थस्स पुब्बेनापरं अविरुद्धं निच्छयं गहेतुं असक्कोन्ता न आदिं, न अन्तं अद्दसंसु.

लोमसानीति लोमवन्तानि, घनकेसमस्सुवानीति अत्थो. केसापि हि लोमग्गहणेन गय्हन्ति यथा ‘‘लोमनखं फुसित्वा सुद्धि कातब्बा’’ति. कण्णं वियाति कण्णं, पञ्ञा, ताय सुत्वा कातब्बकिच्चसाधनतो वुत्तं ‘‘कण्णवाति पञ्ञवा’’ति.

यस्मा सत्तानं गच्छन्ते गच्छन्ते काले आयुवण्णादिपरिक्खयो होति, तस्मा तं कालेन कतं विय कत्वा वुत्तं ‘‘नेसं आयु…पे… खादतीति वुच्चती’’ति.

अभिञ्ञायाति कुसलादिभेदं खन्धादिभेदञ्च देसेतब्बं धम्मं, वेनेय्यानञ्च आसयानुसयचरियाविमुत्तिआदिभेदं, तस्स च नेसं देसेतब्बप्पकारं याथावतो अभिजानित्वा. धम्मं देसेमीति दिट्ठधम्मिकसम्परायिकनिब्बानहितावहं सद्धम्मं कथयामि. नो अनभिञ्ञायाति यथा बाहिरका असम्मासम्बुद्धत्ता वुत्तविधिं अजानन्तायं किञ्चि तक्कपरियाहतं वीमंसानुचरितं सयंपटिभानं कथेन्ति, एवं न देसेमीति अत्थो. सनिदानन्ति सकारणं, वेनेय्यानं अज्झासयवसेन वा पुच्छाय वा अट्ठुप्पत्तिया वा सनिमित्तं हेतुउदाहरणसहितञ्चाति अत्थो. सप्पाटिहारियन्ति सनिस्सरणं सप्पटिहरणं, पच्चनीकपटिहरणेन सप्पाटिहारियमेव कत्वा देसेमीति अत्थो. अपरे पन ‘‘यथारहं इद्धिआदेसनानुसासनिपाटिहारियसहित’’न्ति वदन्ति, अनुसासनिपाटिहारियहिता पन देसना नत्थीति. हितूपदेसना ओवादो, सा एव अनुसासनी. अनोतिण्णवत्थुविसयो वा ओवादो, ओतिण्णवत्थुविसया अनुसासनी. पठमूपदेसो वा ओवादो, इतरा अनुसासनी. अलञ्च पनाति युत्तमेव. निट्ठमगमासीति अत्थसिद्धिं गता.

तथागतवारअट्ठमनयवण्णना निट्ठिता.

अयं तावेत्थ अट्ठकथाय लीनत्थवण्णना.

नेत्तिनयवण्णना

इदानि (दी. नि. टी. १.१४९; सं. नि. टी. १.१.नेत्तिनयवण्णना; अ. नि. टी. नेत्तिनयवण्णना) पकरणनयेन पाळिया अत्थवण्णनं करिस्साम. सा पनायं अत्थवण्णना यस्मा देसनाय समुट्ठानपयोजनभाजनेसु पिण्डत्थेसु च निद्धारितेसु सुतरा होति सुविञ्ञेय्या च, तस्मा सुत्तदेसनाय समुट्ठानादीनि पठमं निद्धारयिस्साम. तत्थ समुट्ठानं ताव परियत्तिं निस्साय मानुप्पादो, पयोजनंमानमद्दनं. वुत्तञ्हि अट्ठकथायं ‘‘सुतपरियत्तिं…पे… आरभी’’ति. अपिच वेनेय्यानं पथवीआदिभूतादिभेदभिन्ने सक्काये पुथुज्जनस्स सेक्खादिअरियस्स च सद्धिं हेतुना मञ्ञनामञ्ञनवसेन पवत्तिविभागानवबोधो समुट्ठानं, यथावुत्तविभागावबोधो पयोजनं, वेनेय्यानञ्हि वुत्तप्पकारे विसये यथावुत्तानं पुग्गलानं सद्धिं हेतुना मञ्ञनामञ्ञनवसेन पवत्तिविभागावबोधो पयोजनं.

अपिच समुट्ठानं नाम देसनानिदानं. तं साधारणं असाधारणन्ति दुविधं. तत्थ साधारणम्पि अज्झत्तिकबाहिरभेदतो दुविधं. तत्थ साधारणं अज्झत्तिकसमुट्ठानं नाम लोकनाथस्स महाकरुणा. ताय हि समुस्साहितस्स भगवतो वेनेय्यानं धम्मदेसनाय चित्तं उदपादि. तं सन्धाय वुत्तं ‘‘सत्तेसु च कारुञ्ञतं पटिच्च बुद्धचक्खुना लोकं वोलोकेसी’’तिआदि (म. नि. १.२८३; सं. नि. १.१७२; महाव. ९). एत्थ च हेतावत्थायपि महाकरुणाय सङ्गहो दट्ठब्बो यावदेव संसारमहोघतो सद्धम्मदेसनाहत्थदानेहि सत्तसन्तारणत्थं तदुप्पत्तितो. यथा च महाकरुणा, एवं सब्बञ्ञुतञ्ञाणं दसबलञाणादीनि च देसनाय अब्भन्तरसमुट्ठानभावे वत्तब्बानि. सब्बम्पि हि ञेय्यधम्मं, तेसं देसेतब्बप्पकारं, सत्तानञ्च आसयानुसयादिं याथावतो जानन्तो भगवा ठानाट्ठानादीसु कोसल्लेन वेनेय्यज्झासयानुरूपं विचित्तनयदेसनं पवत्तेसीति. बाहिरं पन साधारणं समुट्ठानं दससहस्सब्रह्मपरिवारितस्स सहम्पतिमहाब्रह्मुनो अज्झेसनं. तदज्झेसनुत्तरकालञ्हि धम्मगम्भीरतापच्चवेक्खणाजनितं अप्पोस्सुक्कतं पटिप्पस्सम्भेत्वा धम्मस्सामी धम्मदेसनाय उस्साहजातो अहोसि. असाधारणम्पि अम्भन्तरबाहिरभेदतो दुविधमेव. तत्थ अब्भन्तरं याय महाकरुणाय येन च देसनाञाणेन इदं सुत्तं पवत्तितं, तदुभयं वेदितब्बं. बाहिरं पन पञ्चसतानं ब्राह्मणजातिकानं भिक्खूनं परियत्तिं निस्साय मानुप्पादनं, वुत्तमेव तं अट्ठकथायं.

पयोजनम्पि साधारणं असाधारणन्ति दुविधं. तत्थ साधारणं अनुक्कमेन याव अनुपादापरिनिब्बानं विमुत्तिरसत्ता भगवतो देसनाय. तेनेवाह ‘‘एतदत्था तथा, एतदत्था मन्तना’’तिआदि (परि. ३६६). एतेनेव च संसारचक्कनिवत्ति सद्धम्मचक्कप्पवत्ति सस्सतादिमिच्छावादनिराकरणं सम्मावादपुरेक्खारो अकुसलमूलसमूहननं कुसलमूलसंरोपनं अपायद्वारपिदहनं सग्गमोक्खद्वारविवरणं परियुट्ठानवूपसमनं अनुसयसमुग्घातनं ‘‘मुत्तो मोचेस्सामी’’ति (उदा. अट्ठ. १८; इतिवु. अट्ठ. ३८) पुरिमपटिञ्ञाअविसंवादनं तप्पटिपक्खमारमनोरथविसंवादनं तित्थियधम्मनिम्मथनं बुद्धधम्मपतिट्ठापनन्ति एवमादीनम्पि पयोजनानं सङ्गहो दट्ठब्बो. असाधारणं पन तेसं भिक्खूनं मानमद्दनं. वुत्तञ्चेतं अट्ठकथायं (म. नि. अट्ठ. १.१) ‘‘देसनाकुसलो भगवा मानभञ्जनत्थं ‘सब्बधम्ममूलपरियाय’न्ति देसनं आरभी’’ति. उभयम्पेतं बाहियमेव. सचे पन वेनेय्यसन्तानगतम्पि देसनाबलसिद्धिसङ्खातं पयोजनं अधिप्पायसमिज्झनभावतो यथाधिप्पेतत्थसिद्धिया यथाकारुणिकस्स भगवतोपि पयोजनमेवाति गण्हेय्य, इमिना परियायेनस्स अब्भन्तरतापि वेदितब्बा.

अपिच वेनेय्यानं पथवीआदिभूतादिविभागभिन्ने सक्काये पुथुज्जनस्स सेक्खादिअरियस्स च सद्धिं हेतुना मञ्ञनामञ्ञनवसेन पवत्तिविभागानवबोधो समुट्ठानं, इमस्स सुत्तस्स यथावुत्तविभागावबोधो पयोजनन्ति वुत्तोवायमत्थो. वेनेय्यानञ्हि वुत्तप्पकारे विसये यथावुत्तानं पुग्गलानं सद्धिं हेतुना मञ्ञनामञ्ञनानं वसेन पवत्तिविभागावबोधो इमं देसनं पयोजेति ‘‘तन्निप्फादनपरायं देसना’’ति कत्वा. यञ्हि देसनाय साधेतब्बं फलं, तं आकङ्खितब्बत्ता देसकं देसनाय पयोजेतीति पयोजनन्ति वुच्चति. तथा वेनेय्यानं सब्बसो एकदेसतो च मञ्ञनानं अप्पहानं, तत्थ च आदीनवादस्सनं, निरङ्कुसानं मञ्ञनानं अनेकाकारवोहारस्स सक्काये पवत्तिविसेसस्स अजाननं, तत्थ च पहीनमञ्ञनानं पटिपत्तिया अजाननं, तण्हामुखेन पच्चयाकारस्स च अनवबोधोति एवमादीनि च पयोजनानि इध वेदितब्बानि.

भूमित्तयपरियापन्नेसु असङ्खातधम्मविप्पकतपरिञ्ञादिकिच्चसङ्खातधम्मानं सम्मासम्बुद्धस्स च पटिपत्तिं अजानन्ता असद्धम्मस्सवनधारणपरिचयमनसिकारपरा सद्धम्मस्सवन-धारणपरिचयपटिवेधविमुखा च वेनेय्या इमिस्सा देसनाय भाजनं. पिण्डत्था पन ‘‘अस्सुतवा’’तिआदिना अयोनिसोमनसिकारबहुलीकारो अकुसलमूल-समायोगो ओलीयनातिधावनापरिग्गहो उपायविनिबद्धानुब्रूहना मिच्छाभिनिवेससमन्नागमो अविज्जातण्हा-परिसुद्धि वट्टत्तयानुपरमो आसवोघयोगगन्थागतितण्हुप्पादुपादानावियोगो चेतोखिल-चेतोविनिबद्धअभिनन्दन-नीवरणसङ्गानतिक्कमो विवादमूलापरिच्चागो अनुसयानुपच्छेदो मिच्छत्तानतिवत्तनं तण्हामूलधम्मसन्निस्सयता अकुसलकम्मपथानुयोगो सब्बकिलेस-परिळाहसारद्धकायचित्तताति एवमादयो दीपिता होन्ति. ‘‘पथविं पथवितो सञ्जानाती’’तिआदिना तण्हाविचरितनिद्देसो मानजप्पना विपरियेसाभिनिवेसो संकिलेसो सक्कायपरिग्गहो बाललक्खणापदेसो वङ्कत्तयविभावनानुयोगो बहुकारपटिपक्खदीपना तिविधनिस्सयसंसूचना आसवक्खयकथनन्ति एवमादयो दीपिता होन्ति.

सोळसहारवण्णना

१. देसनाहारवण्णना

तत्थ ये उपादानक्खन्धधम्मे उपादाय पथवीआदिभूतादिभेदा पञ्ञत्ति, ते पञ्ञत्तिपटिपादनभावेन जातिजरामरणविसेसनदुक्खपरियायेन च वुत्ता तण्हावज्जा तेभूमकधम्मा दुक्खसच्चं. मञ्ञनाभिनन्दननन्दीपरियायेहि वुत्ता तण्हा समुदयसच्चं. अयं ताव सुत्तन्तनयो. अभिधम्मनये पन यथावुत्ततण्हाय सद्धिं ‘‘अस्सुतवा’’तिआदिना दीपिता अविज्जादयो, मञ्ञनापरियायेन गहिता मानदिट्ठियो, भवपदेन गहितो कम्मभवो चाति सब्बेपि किलेसाभिसङ्खारा समुदयसच्चं. उभिन्नं अप्पवत्ति निरोधसच्चं. अरियधम्मग्गहणेन, परिञ्ञाभिक्खुसेक्खाभिञ्ञागहणेहि, रागादिखयवचनेहि, सम्मासम्बोधिगहणेन च मग्गसच्चं. केचि पन तण्हाक्खयादिवचनेहि निरोधसच्चं उद्धरन्ति, तं अट्ठकथाय विरुज्झति तत्थ तण्हाक्खयादीनं मग्गकिच्चभावस्स उद्धटत्ता.

तत्थ समुदयेन अस्सादो, दुक्खेन आदीनवो, मग्गनिरोधेहि निस्सरणं, तेसं भिक्खूनं मानभञ्जनं फलं, तथा ‘‘यथावुत्तविभागावबोधो’’तिआदिना वुत्तं पयोजनञ्च. तस्स निप्फत्तिकारणत्ता देसनाय विचित्तता चतुन्नं पुग्गलानं याथावतो सभावूपधारणञ्च उपायो, पथवीआदीसु पुथुज्जनादीनं पवत्तिदस्सनापदेसेन पथवीआदयो एकन्ततो परिजानितब्बा, मञ्ञना च पहातब्बाति अयमेत्थ भगवतो आणत्तीति. अयं देसनाहारो.

२. विचयहारवण्णना

मञ्ञनानं सक्कायस्स अविसेसहेतुभावतो, कस्सचिपि तत्थ असेसितब्बतो च सब्बगहणं, सभावधारणतो निस्सत्तनिज्जीवतो च धम्मग्गहणं, पतिट्ठाभावतो आवेणिकहेतुभावतो च मूलग्गहणं, कारणभावतो देसनत्थसम्भवतो च परियायग्गहणं, सम्मुखभावतो सम्पदानत्थसम्भवतो च ‘‘वो’’ति वचनं, तथारूपगुणयोगतो अभिमुखीकरणतो च ‘‘भिक्खवे’’ति आलपनं. देसेतुं समत्थभावतो तेसं सतुप्पादनत्थञ्च ‘‘देसेस्सामी’’ति पटिजाननं, देसेतब्बताय पटिञ्ञातभावतो, यथापटिञ्ञञ्च देसनतो ‘‘त’’न्ति पच्चामसनं, सोतब्बभावतो, सवनत्थस्स च एकन्तेन निप्फादनतो ‘‘सुणाथा’’ति वुत्तं. सक्कातब्बतो, सक्कच्चकिरियाय एव च तदत्थसिद्धितो ‘‘साधुक’’न्ति वुत्तं. धम्मस्स मनसिकरणीयतो तदधीनत्ता च सब्बसम्पत्तीनं ‘‘मनसि करोथा’’ति वुत्तं यथापरिञ्ञाताय देसनाय परिब्यत्तभावतो वित्थारत्थसम्भवतो च ‘‘भासिस्सामी’’ति वुत्तं. भगवतो सदेवकेन लोकेन सिरसा सम्पटिच्छितब्बवचनत्ता, तस्स च यथाधिप्पेतत्थसाधनतो ‘‘एव’’न्ति वुत्तं. सत्थु उत्तमगारवट्ठानभावतो, तत्थ च गारवस्स उळारपुञ्ञभावतो ‘‘भन्ते’’ति वुत्तं. भिक्खूनं तथाकिरियाय निच्छितभावतो वचनालङ्कारतो च ‘‘खो’’ति वुत्तं. सवनस्स पटिजानितब्बतो, तथा तेहि पटिपन्नत्ता च ‘‘पच्चस्सोसु’’न्ति वुत्तं पच्चक्खभावतो, सकलस्सपि एकज्झं करणतो ‘‘एत’’न्ति वुत्तं.

वुच्चमानस्स पुग्गलस्स लोकपरियापन्नत्ता लोकाधारत्ता च लोकं उपादाय ‘‘इधा’’ति वुत्तं. पटिवेधबाहुसच्चाभावतो परियत्तिबाहुसच्चाभावतो च ‘‘अस्सुतवा’’ति वुत्तं. पुथूसु, पुथु वा जनभावतो ‘‘पुथुज्जनो’’ति वुत्तं. अनरियधम्मविरहतो अरियधम्मसमन्नागमतो च ‘‘अरियान’’न्ति वुत्तं. अरियभावकराय पटिपत्तिया अभावतो, तत्थ कोसल्लदमथाभावतो ‘‘अरियानं अदस्सावी’’तिआदि वुत्तं. असन्तधम्मस्सवनतो सन्तधम्मसमन्नागमतो सब्भि पासंसियतो च ‘‘सप्पुरिसान’’न्ति वुत्तं. सप्पुरिसभावकराय पटिपत्तिया अभावतो, तत्थ च कोसल्लदमथाभावतो ‘‘सप्पुरिसानं अदस्सावी’’तिआदि वुत्तं. पथवीवत्थुकानं मञ्ञनानं, उपरि वुच्चमानानञ्चमञ्ञनानं मूलकत्ता पपञ्चसङ्खानं ‘‘पथविं पथवितो सञ्जानाती’’ति वुत्तं. अन्धपुथुज्जनस्स अहंकार-ममंकारानं कत्थचिपि अप्पहीनत्ता ‘‘पथविं मञ्ञती’’तिआदि वुत्तं.

पुब्बे अग्गहितत्ता, सामञ्ञतो च गय्हमानत्ता, पुग्गलस्स पथवीआदिआरम्मणसभागताय लब्भमानत्ता च ‘‘योपी’’ति वुत्तं. ‘‘यो’’ति अनियमेन गहितस्स नियमेतब्बतो पटिनिद्दिसितब्बतो च; ‘‘सो’’ति वुत्तं सातिसयं संसारे भयस्स इक्खनतो किलेसभेदनसम्भवतो च ‘‘भिक्खू’’ति वुत्तं. सिक्खाहि समन्नागमतो सेक्खधम्मपटिलाभतो च ‘‘सेक्खो’’ति वुत्तं. मनसा लद्धब्बस्स अरहत्तस्स अनधिगतत्ता अधिगमनीयतो च ‘‘अप्पत्तमानसो’’ति वुत्तं. अपरेन अनुत्तरणीयतो, परं अनुच्छविकभावेन उत्तरित्वा ठितत्ता च ‘‘अनुत्तर’’न्ति वुत्तं. योगेन भावनाय कामयोगादितो च खेमं सिवं अनुपद्दवन्ति ‘‘योगक्खेम’’न्ति वुत्तं. छन्दप्पवत्तिया उस्सुक्कापत्तिया च ‘‘पत्थयमानो’’ति वुत्तं. तदत्थस्स सब्बसो सब्बइरियापथविहारस्स समथविपस्सनाविहारस्स दिब्बविहारस्स च वसेन ‘‘विहरती’’ति वुत्तं. सेक्खस्स सब्बसो अभिञ्ञेय्यभावञ्चेव परिञ्ञेय्यभावञ्च ञाणेन अभिभवित्वा जाननतो ‘‘अभिजानाती’’ति वुत्तं. सेक्खस्स सब्बसो अप्पहीनमञ्ञनताय अभावतो ‘‘मा मञ्ञी’’ति वुत्तं. सेसं वुत्तनयानुसारेन वेदितब्बं. इमिना नयेन इतो परं सब्बपदेसु विनिच्छयो कातब्बो. सक्का हि अट्ठकथं तस्सा लीनत्थवण्णनञ्च अनुगन्त्वा अयमत्थो विञ्ञूहि विभावेतुन्ति अतिवित्थारभयेन न वित्थारयिम्ह. इति अनुपदविचयतो विचयो हारो.

३. युत्तिहारवण्णना

सक्कायस्स सब्बमञ्ञनानं मूलभावो युज्जति परिकप्पमत्तकत्ता लोकविचित्तस्स. ब्याहुसच्चद्वयरहितस्स अन्धपुथुज्जनभावो युज्जति पुथुकिलेसाभिसङ्खारजननादिसभावत्ता. यथावुत्तपुथुज्जनस्स वा वुत्तप्पकारबाहुसच्चाभावो युज्जति तस्मिं सति सब्भावतो. तत्थ अस्सुतवतो पुथुज्जनस्स अरियानं सप्पुरिसानञ्च अदस्सावितादि युज्जति अरियकरधम्मानं अरियभावस्स च तेन अदिट्ठत्ता अप्पटिपन्नत्ता च तथा तस्स पथविया ‘‘अहं पथवी, मम पथवी, परो पथवी’’ति सञ्जाननं युज्जति अहंकारममंकारानं सब्बेन सब्बं अप्पहीनत्ता. तथा सञ्जानतो चस्स पथविं कम्मादिकरणादिवसेन गहेत्वा नानप्पकारतो मञ्ञनापवत्ति युज्जति सञ्ञानिदानत्ता पपञ्चसङ्खानं. यो मञ्ञति, तस्स अपरिञ्ञातवत्थुकता युज्जति परिञ्ञाय विना मञ्ञनापहानाभावतो. ‘‘आपं आपतो सञ्जानाती’’तिआदीसुपि एसेव नयो. अपरियोसितसिक्खस्स अप्पत्तमानसता युज्जति कतकिच्चताभावतो. सेक्खस्स सतो योगक्खेमपत्थना युज्जति तदधिमुत्तभावतो. तथा तस्स पथविया अभिजानना युज्जति परिञ्ञापहानेसु मत्तसो कारिभावतो. ततो एव चस्स ‘‘मा मञ्ञी’’ति वत्तब्बता युज्जति वत्थुपरिञ्ञाय विय मञ्ञनापहानस्सपि विप्पकतभावतो. सेक्खस्स पथविया परिञ्ञेय्यता युज्जति परिञ्ञातुं सक्कुणेय्यत्ता सब्बसो अपरिञ्ञातत्ता च. ‘‘आपं आपतो’’तिआदीसुपि एसेव नयो. अरहत्तादियुत्तस्स पथवियादीनं अभिजानना मञ्ञनाभावो च युज्जति सङ्खातधम्मत्ता, सब्बसो किलेसानं पहीनत्ता, ततो एव चस्स वीतरागादिभावो ततो सम्मदेव च पटिच्चसमुप्पादस्स पटिविद्धताति. अयं युत्तिहारो.

४. पदट्ठानहारवण्णना

किस्सोपि मञ्ञना सक्कायस्स पदट्ठानं, मञ्ञनानं अयोनिसोमनसिकारो पदट्ठानं, सुतद्वयविरहो अन्धपुथुज्जनभावस्स पदट्ठानं, सो अरियानं अदस्साविताय पदट्ठानं, सा अरियधम्मस्स अकोविदताय पदट्ठानं, सा अरियधम्मे अविनीतताय पदट्ठानं. ‘‘सप्पुरिसानं अदस्सावी’’ति एत्थापि एसेव नयो. सञ्ञाविपल्लासो मञ्ञनानं पदट्ठानं. सञ्ञानिदाना हि पपञ्चसङ्खाति. मञ्ञनासु च तण्हामञ्ञना इतरमञ्ञनानं पदट्ठानं ‘‘तण्हागतानं परितस्सितविप्फन्दित’’न्ति, (दी. नि. १.१०५-१०९) ‘‘तण्हापच्चया उपादान’’न्ति (म. नि. ३.१२६; महाव. १) च वचनतो, तण्हागतस्सेव च ‘‘सेय्योहमस्मि’’न्तिआदिना मानजप्पनासब्भावता. सब्बापि वा मञ्ञना सब्बासं मञ्ञनानं पदट्ठानं. ‘‘उपादानपच्चया तण्हा’’ति हि वचनतो दिट्ठिपि तण्हाय पदट्ठानं. ‘‘अहमस्मि ब्रह्मा महाब्रह्मा’’ति (दी. नि. १.४२; ३.३९) आदिवचनतो मानोपि दिट्ठिया पदट्ठानं. तथा ‘‘अस्मीति सति इत्थंस्मीति होति, एवंस्मीति होति, अञ्ञथास्मीति होती’’तिआदिवचनतो मानस्सपि तण्हाय पदट्ठानता लब्भतेव. सेक्खा धम्मा सप्पदेसतो मञ्ञनापहानस्स पदट्ठानं. असेक्खा निप्पदेसतो मञ्ञनापहानस्स पदट्ठानं. कम्मभवो च जातिया पदट्ठानं. जाति जरामरणस्स पदट्ठानं. पच्चयाकारस्स यथाभूतावबोधो सम्मासम्बोधिया पदट्ठानन्ति. अयं पदट्ठानो हारो.

५. लक्खणहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ मूलग्गहणेन मूलपरियायग्गहणेन वा यथा तण्हामानदिट्ठियो गय्हन्ति, एवं दोसमोहादीनम्पि सक्कायमूलधम्मानं सङ्गहो दट्ठब्बो सक्कायस्स मूलभावेन एकलक्खणत्ता. ‘‘अस्सुतवा’’ति इमिना यथा तस्स पुग्गलस्स परियत्तिपटिवेधसद्धम्मानं अभावो गय्हति, एवं पटिपत्तिसद्धम्मस्सपि अभावो गय्हति सद्धम्मभावेन एकलक्खणत्ता. अरियानं अदस्सनकामतादिलक्खणा. ‘‘अरियधम्मस्स अकोविदो’’ति इमिना अरियधम्माधिगमस्स विबन्धभूतं अञ्ञाणं. ‘‘अरियधम्मे अविनीतो’’ति इमिना अरियविनयाभावो. सो पनत्थतो अरियविनये अप्पटिपत्ति एव वाति तीहिपि पदेहि यथावुत्तविसया मिच्छादिट्ठि विचिकिच्छा च गहिताव होन्ति. तग्गहणेन च सब्बेपि अकुसला धम्मा सङ्गहिताव होन्ति संकिलेसलक्खणेन एकलक्खणत्ता. ‘‘सप्पुरिसानं अदस्सावी’’ति एत्थापि एसेव नयो.

‘‘पथविं पथवितो सञ्जानाती’’ति इदं दिट्ठिमञ्ञनादीनं सञ्ञाय कारणभावदस्सनं. तत्थ यथा सञ्ञा, एवं वितक्कफस्साविज्जाअयोनिसोमनसिकारादयोपि तासं कारणन्ति अत्थतो तेसम्पेत्थ सङ्गहो वुत्तो होति मञ्ञनानं कारणभावेन एकलक्खणत्ता. ‘‘मञ्ञती’’ति इमिना मञ्ञनाकिच्चेन तण्हामानदिट्ठियो गहिता तासं किलेससभावत्ता. तग्गहणेनेव विचिकिच्छादिनम्पि सङ्गहो दट्ठब्बो किलेसलक्खणेन एकलक्खणत्ता. तथा तण्हाय हेतुसभावत्ता तग्गहणेनेव अवसिट्ठाकुसलहेतूनं सङ्गहो दट्ठब्बो हेतुलक्खणेन एकलक्खणत्ता. तथा तण्हादिट्ठीनं आसवादिसभावत्ता तग्गहणेनेव अवसिट्ठासवोघयोगगन्थनीवरणादीनम्पि सङ्गहो दट्ठब्बो आसवादिसभावत्ता एकलक्खणत्ता. तथा ‘‘पथविं मञ्ञती’’तिआदिना पथवीआदीनं रूपसभावत्ता तब्बिसयानञ्च मञ्ञनानं रूपविसयत्ता तग्गहणेनेव सकलरूपक्खन्धविसयापि मञ्ञना दस्सिता होन्ति रूपविसयलक्खणेन आसं एकलक्खणत्ता. एवं चक्खायतनादिविसयापि मञ्ञना निद्धारेतब्बा. ‘‘अपरिञ्ञात’’न्ति परिञ्ञापटिक्खेपेन तप्पटिबद्धकिलेसानं पहानपटिक्खेपोति दट्ठब्बो मग्गकिच्चभावेन परिञ्ञापहानानं एकलक्खणत्ता. इमिना नयेन सेसेसुपि यथारहं एकलक्खणा निद्धारेतब्बाति. अयं लक्खणो हारो.

६. चतुब्यूहहारवण्णना

पथवीआदीसु वत्थूसु ब्यञ्जनच्छायाय अत्थं गहेत्वा धम्मगम्भीरतं असल्लक्खेत्वा असद्धम्मस्सवनादिना वञ्चिता हुत्वा सद्धम्मस्सवनधारणपरिचयमनसिकारविमुखा पथवीआदीसु वत्थूसु पुथुज्जनसेक्खासेक्खतथागतानं पटिपत्तिविसेसं अजानन्ता च वेनेय्या इमिस्सा देसनाय निदानं. ते ‘‘कथं नु खो यथावुत्तदोसविनिमुत्ता यथावुत्तञ्च विसेसं जानन्ता सम्मापटिपत्तिया उभयहितपरायणा सवेय्यु’’न्ति अयमेत्थ भगवतो अधिप्पायो. पदनिब्बचनं निरुत्तं, तं ‘‘एव’’न्तिआदिनिदानपदानं, ‘‘सब्बधम्ममूलपरियाय’’न्तिआदिपाळिपदानञ्च अट्ठकथायं, तस्सा लीनत्थवण्णनायञ्चेव वुत्तनयेन सुविञ्ञेय्यत्ता अतिवित्थारभयेन न वित्थारयिम्ह.

पदपदत्थदेसनानिक्खेपसुत्तसन्धिवसेन पञ्चविधा सन्धि. तत्थ पदस्स पदन्तरेन सम्बन्धो पदसन्धि, तथा पदत्थस्स पदत्थन्तरेन सम्बन्धो पदत्थसन्धि, यो ‘‘किरियाकारकसम्बन्धो’’ति वुच्चति. नानानुसन्धिकस्स सुत्तस्स तंतंअनुसन्धीहि सम्बन्धो, एकानुसन्धिकस्स पन पुब्बापरसम्बन्धो देसनासन्धि. या अट्ठकथायं ‘‘पुच्छानुसन्धि अज्झासयानुसन्धि यथानुसन्धी’’ति तिधा विभत्ता. अज्झासयो चेत्थ अत्तज्झासयो परज्झासयोति द्विधा वेदितब्बो. यं पनेत्थ वत्तब्बं, तं हेट्ठा निदानवण्णनायं वुत्तमेव. निक्खेपसन्धि चतुन्नं सुत्तनिक्खेपानं वसेन वेदितब्बो. सुत्तसन्धि इध पठमनिक्खेपवसेनेव वेदितब्बो. कस्मा पनेत्थ मूलपरियायसुत्तमेव पठमं निक्खित्तन्ति? नायमनुयोगो कत्थचि नप्पवत्तति, अपिच यस्मा मञ्ञनामूलकं सक्कायं, सब्बमञ्ञना च तत्थ एव अनेकभेदभिन्ना पवत्तति, न तस्सा सविसयाय लेसमत्तम्पि सारं अत्थीति पथवीआदिविभागभिन्नेसु मञ्ञनासु च सातिसयं निब्बेधविरागसञ्जननी उपरि सेक्खासेक्खतथागतगुणविभावनी च अयं देसना. सुत्तन्तदेसना च विसेसतो दिट्ठिविनिवेठनकथा, तस्मा सनिस्सयस्स दिट्ठिग्गाहस्स आदितो असारभावदीपनं उपरि च सब्बेसं अरियानं गुणविसेसविभावनमिदं सुत्तं पठमं निक्खित्तं. किञ्च सक्काये मञ्ञनामञ्ञनामुखेन पवत्तिनिवत्तीसु आदीनवानिसंसविभावनतो सब्बेसं पुग्गलानं पटिपत्तिविभागतो च इदमेव सुत्तं पठमं निक्खित्तं.

यं पन एकिस्सा देसनाय देसनन्तरेन सद्धिं संसन्दनं, अयम्पि देसनासन्धि, सा एवं वेदितब्बा. ‘‘अस्सुतवा पुथुज्जनो…पे… निब्बानं अभिनन्दती’’ति अयं देसना. ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्जनो…पे… सप्पुरिसधम्मे अविनीतो मनसिकरणीये धम्मे नप्पजानाति, अमनसिकरणीये च धम्मे नप्पजानाति, सो मनसिकरणीये धम्मे अप्पजानन्तो अमनसिकरणीये च धम्मे अप्पजानन्तो ये धम्मा न मनसिकरणीया, ते धम्मे मनसि करोति…पे… अनुप्पन्नो वा कामासवो उप्पज्जति, उप्पन्नो वा कामासवो पवड्ढति. अनुप्पन्नो वा भवासवो उप्पज्जति, उप्पन्नो वा भवासवो पवड्ढति, अनुप्पन्नो वा अविज्जासवो उप्पज्जति, उप्पन्नो वा अविज्जासवो पवड्ढती’’ति (म. नि. १.१७) इमाय देसनाय संसन्दति. तथा ‘‘तस्सेतं पाटिकङ्खं सुभनिमित्तं मनसि करिस्सति, तस्स सुभनिमित्तस्स मनसिकारा रागो चित्तं अनुद्धंसेस्सति, सो सरागो सदोसो समोहो साङ्गणो संकिलिट्ठचित्तो कालं करिस्सती’’ति (म. नि. १.५९) इमाय देसनाय संसन्दति. तथा ‘‘चक्खुञ्चावुसो पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना. यं वेदेति तं सञ्जानाति, यं सञ्जानाति तं वितक्केति, यं वितक्केति तं पपञ्चेति, यं पपञ्चेति ततोनिदानं पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ती’’ति (म. नि. १.२०४) इमाय देसनाय संसन्दति. तथा ‘‘इध, भिक्खवे, असुतवा पुथुज्जनो…पे… सप्पुरिसधम्मे अविनीतो रूपं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति. वेदनं…पे…, सञ्ञं…पे…, सङ्खारे…पे…, विञ्ञाणं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति. यम्पि तं दिट्ठं…पे… यम्पि तं दिट्ठिट्ठानं, सो लोको सो अत्ता सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सामीति, तम्पि ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सती’’ति (म. नि. १.२४१) इमाय देसनाय संसन्दति.

‘‘योपि सो, भिक्खवे, भिक्खु…पे… निब्बानं माभिनन्दी’’ति अयं देसना. ‘‘इध, देवानमिन्द, भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति, एवञ्चेतं, देवानमिन्द, भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति, सो सब्बं धम्मं अभिजानाति, सब्बं धम्मं अभिञ्ञाय सब्बं धम्मं परिजानाति, सब्बं धम्मं परिञ्ञाय यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तासु वेदनासु अनिच्चानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरती’’ति (म. नि. १.३९०) इमाय देसनाय संसन्दति. ‘‘योपि सो, भिक्खवे, भिक्खु अरहं…पे… अभिसम्बुद्धोति वदामी’’ति अयं देसना ‘‘सुतवा च खो, भिक्खवे, अरियसावको…पे… सप्पुरिसधम्मे सुविनीतो रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति, वेदनं…पे…, सञ्ञं…पे…, सङ्खारे…पे…, विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति. यम्पि तं दिट्ठं सुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तम्पि ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति. यम्पि तं दिट्ठिट्ठानं, सो लोको सो अत्ता सो पेच्च भविस्सामि ‘निच्चो धुवो सस्सतो अपि परिणामधम्मो सस्सतिसमं तथेव ठस्सामी’ति, तम्पि ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति. सो एवं समनुपस्सन्तो न परितस्सती’’ति (म. नि. १.२४१) एवमादिदेसनाहि संसन्दतीति, अयं चतुब्यूहो हारो.

७. आवत्तहारवण्णना

‘‘अस्सुतवा पुथुज्जनो’’ति इमिना योनिसोमनसिकारपटिक्खेपमुखेन अयोनिसोमनसिकारपरिग्गहो दीपितो. ‘‘अरियानं अदस्सावी’’तिआदिना सप्पुरिसूपनिस्सयादिपटिक्खेपमुखेन असप्पुरिसूपनिस्सयादिपरिग्गहो दीपितो. तेसु पुरिमनयेन आसयविपत्ति कित्तिता, दुतियेन पयोगविपत्ति. पुरिमेन चस्स किलेसवट्टं, तञ्च यतो विपाकवट्टन्ति सकलं संसारचक्कमावत्तति. ‘‘पथविं मञ्ञती’’तिआदिना तत्थ तिस्सो मञ्ञना वुत्ता. तासु तण्हामञ्ञना ‘‘एतं ममा’’ति तण्हाग्गाहो, मानमञ्ञना ‘‘एसोहमस्मी’’ति मानग्गाहो, दिट्ठिमञ्ञना ‘‘एसो मे अत्ता’’ति दिट्ठिग्गाहो. तत्थ तण्हाग्गाहेन ‘‘तण्हं पटिच्चपरियेसना’’तिआदिका (दी. नि. २.१०३; दी. नि. ३.३५९; अ. नि. ३.२३; विभ. ९६३) नव तण्हामूलका धम्मा आवत्तन्ति. मानग्गाहेन ‘‘सेय्योहमस्मी’’तिआदिका नव मानविधा आवत्तन्ति. दिट्ठिग्गाहेन ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिका (सं. नि. ४.३४५) वीसतिवत्थुका सक्कायदिट्ठि आवत्तति. तीसु च गाहेसु याय सञ्ञाय तण्हाग्गाहस्स विक्खम्भना, सा दुक्खसञ्ञा दुक्खानुपस्सना. याय सञ्ञाय मानग्गाहस्स विक्खम्भना, सा अनिच्चसञ्ञा अनिच्चानुपस्सना. याय पन सञ्ञाय दिट्ठिग्गाहस्स विक्खम्भना, सा अनत्तसञ्ञा अनत्तानुपस्सना. तत्थ पठमग्गाहविसभागतो अप्पणिहितविमोक्खमुखं आवत्तति, दुतियग्गाहविसभागतो अनिमित्तविमोक्खमुखं आवत्तति, ततियग्गाहविसभागतो सुञ्ञतविमोक्खमुखं आवत्तति.

सेक्खग्गहणेन अरियाय सम्मादिट्ठिया सङ्गहो, ततो च परतोघोसयोनिसोमनसिकारा दीपिता होन्ति. परतोघोसेन च सुतवा अरियसावकोति आवत्तति, योनिसोमनसिकारेन नव योनिसोमनसिकारमूलका धम्मा आवत्तन्ति, चतुब्बिधञ्च सम्पत्तिचक्कं. ‘‘मा मञ्ञी’’ति मञ्ञनानं विप्पकतप्पहानतागहणेन एकच्चासवपरिक्खयो दीपितो होति, तेन च सद्धाविमुत्तदिट्ठिप्पत्तकायसक्खिभावा आवत्तन्ति. ‘‘अरहं खीणासवो’’तिआदिना असेक्खा सीलक्खन्धादयो दस्सिता होन्ति, सीलक्खन्धादिपारिपूरिया च दस नाथकरणा धम्मा आवत्तन्ति. ‘‘न मञ्ञती’’ति मञ्ञनापटिक्खेपेन पञ्चसु उपादानक्खन्धेसु ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति सम्मापटिपत्ति दस्सिता, ताय च सातिसया निकन्तिपरियादानमानसमुग्घाटनदिट्ठिउग्घाटनानि पकासितानीति अप्पणिहितानिमित्त-सुञ्ञतविमोक्खा आवत्तन्ति.

‘‘तथागतो’’तिआदिना सब्बञ्ञुगुणा विभाविताति तदविनाभावतो दसबल-चतुवेसारज्जअसाधारणञाणआवेणिकबुद्धधम्मा आवत्तन्ति. ‘‘नन्दी दुक्खस्स मूल’’न्तिआदिना सद्धिं हेतुना वट्टविवट्टं कथितन्ति पवत्तिनिवत्तितदुभयहेतुविभावनेन चत्तारि अरियसच्चानि आवत्तन्ति. ‘‘तण्हानं खया’’तिआदिना तण्हप्पहानापदेसेन तदेकट्ठभावतो दियड्ढस्स किलेससहस्सस्स पहानं आवत्तति. ‘‘सब्बसो तण्हानं खया सम्मासम्बोधिं अभिसम्बुद्धो’’ति च वुत्तत्ता ‘‘नन्दी दुक्खस्स मूल’’न्ति, ‘‘इति विदित्वा’’तिआदिना वुत्तस्स मञ्ञनाभावहेतुभूतस्स पच्चयाकारवेदनस्स सावकेहि असाधारणञाणचारभावो दस्सितो, तेन चतुवीसतिकोटिसतसहस्ससमापत्तिसञ्चारि भगवतो महावजिरञाणं आवत्ततीति. अयं आवत्तो हारो.

८. विभत्तिहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मा नाम तेभूमका धम्मा सक्कायस्स अधिप्पेतत्ता. तेसं मञ्ञना पदट्ठानं पपञ्चसङ्खानिमित्तत्ता लोकविचित्तस्स. तयिमे कुसला अकुसला अब्याकताति तिविधा. तेसु कुसलानं योनिसोमनसिकारादि पदट्ठानं, अकुसलानं अयोनिसोमनसिकारादि, अब्याकतानं कम्मभवआवज्जनभूतरूपादि पदट्ठानं. तत्थ कुसला कामावचरादिवसेन भूमितो तिविधा, तथा अब्याकता चित्तुप्पादसभावा, अचित्तुप्पादसभावा पन कामावचराव तथा अकुसला. परियत्तिपटिपत्तिपटिवेधसुतकिच्चाभावेन तिविधो अस्सुतवा. अन्धकल्याणविभागेन दुविधो पुथुज्जनो. सम्मासम्बुद्धपच्चेकबुद्धसावकभेदेन तिविधा अरिया. मंसचक्खुदिब्बचक्खुपञ्ञाचक्खूहि दस्सनाभावेन तिविधो अदस्सावी. मग्गफलनिब्बानभेदेन तिविधो, नवविधो वा अरियधम्मो. सवनधारणपरिचयमनसिकारपटिवेधवसेन पञ्चविधा अरियधम्मस्स कोविदता. तदभावतो अकोविदो. संवरपहानभेदेन दुविधो, दसविधो वा अरियधम्मविनयो, तदभावतो अरियधम्मे अविनीतो. एत्थ पदट्ठानविभागो हेट्ठा दस्सितोयेव. ‘‘सप्पुरिसानं अदस्सावी’’तिआदीसुपि एसेव नयो. ‘‘पथविं मञ्ञती’’तिआदीसु मञ्ञनावत्थुविभागो पाळियं आगतोव, तथा अज्झत्तिकबाहिरादिको च अन्तरविभागो.

मञ्ञना पन तण्हामानदिट्ठिवसेन सङ्खेपतो तिविधा, वित्थारतो पन तण्हामञ्ञना ताव कामतण्हादिवसेन अट्ठसतविधा, तथा ‘‘अस्मीति सति इत्थंस्मीति होती’’तिआदिना. एवं मानमञ्ञनापि. ‘‘अस्मीति सति इत्थंस्मीति होती’’तिआदिना पपञ्चत्तयं उद्दिट्ठं निद्दिट्ठञ्चाति. एतेन दिट्ठिमञ्ञनायपि अट्ठसतविधता वुत्ताति वेदितब्बा. अपिच सेय्यस्स ‘‘सेय्योहमस्मी’’तिआदिना मानमञ्ञनाय नवविधता तदन्तरभेदेन अनेकविधता च वेदितब्बा. अयञ्च अत्थो हीनत्तिकत्थवण्णनाय विभावेतब्बो. दिट्ठिमञ्ञनाय पन ब्रह्मजाले आगतनयेन द्वासट्ठिविधता तदन्तरभेदेन अनेकविधता च वेदितब्बा. ‘‘अपरिञ्ञात’’न्ति एत्थ ञातपरिञ्ञादिवसेन चेव रूपमुखादिअभिनिवेसभेदादिवसेन च परिञ्ञानं अनेकविधता वेदितब्बा. तथा अट्ठमकादिवसेन सेक्खविभागो पञ्ञाविमुत्तादिवसेन असेक्खविभागो च. अयमेत्थ धम्मविभागो. पदट्ठानविभागो च भूमिविभागो च वुत्तनयानुसारेन वेदितब्बाति. अयं विभत्तिहारो.

९. परिवत्तहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ ‘‘सब्बधम्मा’’ति पञ्चुपादानक्खन्धा गहिता, तेसं मूलकारणन्ति च तण्हामानदिट्ठियो. तथा अस्सुतवा पुथुज्जनो…पे… सप्पुरिसधम्मे अविनीतोति. यावकीवञ्च पञ्चसु उपादानक्खन्धेसु सुभतो सुखतो निच्चतो अत्ततो समनुपस्सनवसेन ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति तण्हामानदिट्ठिगाहा न समुच्छिज्जन्ति, ताव नेसं पबन्धूपरमो सुपिनन्तेपि न केनचि लद्धपुब्बो. यदा पन नेसं असुभतो दुक्खतो अनिच्चतो अनत्ततो समनुपस्सनवसेन ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति पवत्तमाना अप्पणिहितानिमित्तसुञ्ञतानुपस्सना उस्सक्कित्वा अरियमग्गाधिगमाय संवत्तन्ति, अथ नेसं पबन्धूपरमो होति अच्चन्तअप्पञ्ञत्तिकभावूपगमनतो. तेन वुत्तं ‘‘सब्बधम्माति पञ्चुपादानक्खन्धा गहिता, तेसं मूलकारणन्ति च तण्हामानदिट्ठियो’’ति. तथा अस्सुतवा पुथुज्जनो…पे… सप्पुरिसधम्मे अविनीतो तीहिपि मञ्ञनाहि पथविं मञ्ञति याव निब्बानं अभिनन्दति, तीहिपि परिञ्ञाहि तस्स तं वत्थु अपरिञ्ञातन्ति कत्वा. यस्स पन तं वत्थु तीहि परिञ्ञाहि परिञ्ञातं, न सो इतरो विय तं मञ्ञति. तेनाह भगवा ‘‘सुतवा च खो, भिक्खवे, अरियसावको…पे… सप्पुरिसधम्मे सुविनीतो रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति, वेदनं…पे… असति न परितस्सती’’ति (म. नि. १.२४१). सेक्खो पथविं मा मञ्ञि, याव निब्बानं माभिनन्दि, अरहा सम्मासम्बुद्धो च पथविं न मञ्ञति, याव निब्बानं नाभिनन्दति, मञ्ञनामञ्ञितेसु वत्थूसु मत्तसो सब्बसो च परिञ्ञाभिसमयसंसिद्धिया पहानाभिसमयनिब्बत्तितो. यस्स पन तेसु वत्थूसु सब्बसो मत्तसो वा परिञ्ञा एव नत्थि, कुतो पहानं, सो यथापरिकप्पं निरङ्कुसाहि मञ्ञनाहि ‘‘एतं ममा’’तिआदिना मञ्ञतेव. तेनाह भगवा ‘‘इध, भिक्खवे, अस्सुतवा पुथुज्जनो…पे… सप्पुरिसधम्मे अविनीतो रूपं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति, वेदनं…पे…, सञ्ञ…पे…’’न्तिआदि (म. नि. १.२४१). अयं परिवत्तो हारो.

१०. वेवचनहारवण्णना

‘‘सब्बधम्मा सकलधम्मा अनवसेसधम्मा’’ति परियायवचनं, ‘‘मूलपरियायं मूलकारणं असाधारणहेतु’’न्ति परियायवचनं, ‘‘मूलपरियायन्ति वा मूलदेसनं कारणतथन’’न्ति परियायवचनं, ‘‘वो तुम्हाकं तुम्ह’’न्ति परियायवचनं, ‘‘भिक्खवे, समणा तपस्सिनो’’ति परियायवचनं, ‘‘देसेस्सामी कथेस्सामी पञ्ञपेस्सामी’’ति परियायवचनं, ‘‘सुणाथ सोतं ओदहथ सोतद्वारानुसारेन उपधारेथा’’ति परियायवचनं, ‘‘साधुकं सम्मा सक्कच्च’’न्ति परियायवचनं, ‘‘मनसि करोथ चित्ते ठपेथ समन्नाहरथा’’ति परियायवचनं, ‘‘भासिस्सामि ब्यत्तं कथेस्सामि विभजिस्सामी’’ति परियायवचनं, ‘‘एवं, भन्ते, साधु सुट्ठु भन्ते’’ति परियायवचनं, ‘‘पच्चस्सोसुं सम्पटिच्छिंसु सम्पटिग्गहेसु’’न्ति परियायवचनं. इमिना नयेन सब्बपदेसु वेवचनं वत्तब्बन्ति. अयं वेवचनो हारो.

११. पञ्ञत्तिहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मा नाम सक्कायधम्मा, ते खन्धवसेन पञ्चधा पञ्ञत्ता, आयतनवसेन द्वादसधा, धातुवसेन अट्ठारसधा पञ्ञत्ता. ‘‘मूल’’न्ति वा ‘‘मूलपरियाय’’न्ति वा मञ्ञना वुत्ता, ता तण्हामानदिट्ठिवसेन तिधा अन्तरभेदेन अनेकधा च पञ्ञत्ता. अथ वा ‘‘सब्बधम्मा’’ति तेभूमकधम्मानं सङ्गहपञ्ञत्ति, ‘‘मूलपरियाय’’न्ति तेसं पभवपञ्ञत्ति, ‘‘वो’’ति सम्पदानपञ्ञति, ‘‘देसेस्सामि भासिस्सामी’’ति पटिञ्ञापञ्ञत्ति, ‘‘सुणाथ साधुकं मनसि करोथा’’ति च आणापनपञ्ञत्ति, ‘‘अस्सुतवा’’ति पटिवेधविमुखतापञ्ञत्ति चेव परियत्तिविमुखतापञ्ञत्ति च, ‘‘पुथुज्जनो’’ति अनरियपञ्ञत्ति, सा अरियधम्मपटिक्खेपपञ्ञत्ति चेव अरियधम्मविरहपञ्ञत्ति च, ‘‘अरियान’’न्ति असमपञ्ञत्ति चेव समपञ्ञत्ति च. तत्थ असमपञ्ञत्ति तथागतपञ्ञत्ति, समपञ्ञत्ति पच्चेकबुद्धानञ्चेव उभतोभागविमुत्तादीनञ्च वसेन अट्ठविधा वेदितब्बा. ‘‘अरियानं अदस्सावी’’तिआदि दस्सनभावनापटिक्खेपपञ्ञत्ति, ‘‘पथविं मञ्ञती’’तिआदि पञ्चन्नं उपादानक्खन्धानं द्वादसन्नं आयतनानं अट्ठारसन्नं धातूनं सम्मसनुपगानं इन्द्रियानं निक्खेपपञ्ञत्ति चेव पभवपञ्ञत्ति च, तथा विपल्लासानं किच्चपञ्ञत्ति परियुट्ठानं दस्सनपञ्ञत्ति किलेसानं फलपञ्ञत्ति अभिसङ्खारानं विरूहनपञ्ञत्ति तण्हाय अस्सादनपञ्ञत्ति दिट्ठिया विप्फन्दनपञ्ञत्ति, ‘‘सेक्खा’’ति सद्धानुसारीसद्धाविमुत्तदिट्ठिप्पत्तकायसक्खीनं दस्सनपञ्ञत्ति चेव भावनापञ्ञत्ति च ‘‘अप्पत्तमानसो’’ति सेक्खधम्मानं ठितिपञ्ञत्ति, ‘‘अनुत्तरं योगक्खेमं पत्थयमानो’’ति पञ्ञाय अभिनिब्बिदापञ्ञत्ति, ‘‘अभिजानाती’’ति अभिञ्ञेय्यधम्मानं अभिञ्ञापञ्ञत्ति, दुक्खस्स परिञ्ञापञ्ञत्ति, समुदयस्स पहानपञ्ञत्ति, निरोधस्स सच्छिकिरियापञ्ञत्ति, मग्गस्स भावनापञ्ञत्ति, ‘‘मा मञ्ञी’’ति मञ्ञनानं पटिक्खेपपञ्ञत्ति, समुदयस्स पहानपञ्ञत्ति. इमिना नयेन सेसपदेसुपि वित्थारेतब्बं. अयं पञ्ञत्ति हारो.

१२. ओतरणहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मा नाम लोकिया पञ्चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो द्वे सच्चानि एकूनविसति इन्द्रियानि द्वादसपदिको पच्चयाकारोति, अयं सब्बधम्मग्गहणेन खन्धादिमुखेन देसनाय ओतरणं. ‘‘मूल’’न्ति वा ‘‘मूलपरियाय’’न्ति वा मञ्ञना वुत्ता, ता अत्थतो तण्हा मानो दिट्ठि चाति तेसं सङ्खारक्खन्धसङ्गहोति अयं खन्धमुखेन ओतरणं. तथा ‘‘धम्मायतनधम्मधातूहि सङ्गहो’’ति अयं आयतनमुखेन धातुमुखेन च ओतरणं. ‘‘अस्सुतवा’’ति इमिना सुतस्स विबन्धभूता अविज्जादयो गहिता, ‘‘पुथुज्जनो’’ति इमिना येसं किलेसाभिसङ्खारानं जननादिना पुथुज्जनोति वुच्चति, ते किलेसाभिसङ्खारादयो गहिता, ‘‘अरियानं अदस्सावी’’तिआदिना येसं किलेसधम्मानं वसेन अरियानं अदस्साविआदिभावो होति, ते दिट्ठिमानाविज्जादयो गहिताति सब्बेहि तेहि सङ्खारक्खन्धसङ्गहोति पुब्बे वुत्तनयेनेव ओतरणं वेदितब्बं. ‘‘सञ्जानाति मञ्ञति अभिजानाति न मञ्ञती’’ति एत्थापि सञ्जाननमञ्ञनाअभिजाननानुपस्सनानं सङ्खारक्खन्धपरियापन्नत्ता वुत्तनयेनेव ओतरणं वेदितब्बं. तथा सेक्खग्गहणेन सेक्खा, ‘‘अरह’’न्तिआदिना असेक्खा सीलक्खन्धादयो गहिताति एवम्पि खन्धमुखेन ओतरणं, आयतनधातादिमुखेन च ओतरणं वेदितब्बं. तथा ‘‘न मञ्ञती’’ति तण्हागाहादिपटिक्खेपेन दुक्खानुपस्सनादयो गहिता, तेसं वसेन अप्पणिहितविमोक्खमुखादीहि ओतरणं वेदितब्बं. ‘‘परिञ्ञात’’न्ति इमिना परिजाननकिच्चेन पवत्तमाना बोधिपक्खियधम्मा गय्हन्तीति सतिपट्ठानादिमुखेन ओतरणं वेदितब्बं. नन्दिग्गहणेन भवग्गहणेन तण्हागहणेन च समुदयसच्चं, दुक्खग्गहणेन जातिजरामरणग्गहणेन च दुक्खसच्चं, ‘‘तण्हानं खया’’तिआदिना निरोधसच्चं, अभिसम्बोधिया गहणेन मग्गसच्चं गहितन्ति अरियसच्चेहि ओतरणन्ति. अयं ओतरणो हारो.

१३. सोधनहारवण्णना

‘‘सब्बधम्ममूलपरियायं वो, भिक्खवे…पे… इध, भिक्खवे, अस्सुतवा…पे… पथविं पथवितो सञ्जानाती’’ति आरम्भो. ‘‘पथविं पथविया सञ्ञत्वा पथविं मञ्ञती’’ति पदसुद्धि, नो आरम्भसुद्धि. तथा ‘‘पथविया मञ्ञति पथवितो मञ्ञति पथविं मेति मञ्ञति पथविं अभिनन्दती’’ति पदसुद्धि, नो आरम्भसुद्धि. ‘‘तं किस्स हेतु अपरिञ्ञातं तस्साति वदामी’’ति पदसुद्धि चेव आरम्भसुद्धि च. सेसवारेसुपि एसेव नयोति. अयं सोधनो हारो.

१४. अधिट्ठानहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मग्गहणं सामञ्ञतो अधिट्ठानं. ‘‘पथविं आप’’न्तिआदि पन तं अविकप्पेत्वा विसेसवचनं. तथा ‘‘मूलपरियाय’’न्ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘पथविं मञ्ञति…पे… अभिनन्दती’’ति. ‘‘पथविं मञ्ञती’’ति च सामञ्ञतो अधिट्ठानं तण्हादिग्गाहानं साधारणत्ता मञ्ञनाय, तं अविकप्पेत्वा विसेसवचनं ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति, एवं सुत्तन्तरपदानिपि आनेत्वा विसेसवचनं निद्धारेतब्बं. सेसवारेसुपि एसेव नयो. ‘‘सेक्खो’’ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘कायसक्खी दिट्ठिप्पत्तो सद्धाविमुत्तो सद्धानुसारी धम्मानुसारी’’ति. तथा ‘‘सेक्खो’’ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘इध, भिक्खवे, भिक्खु सेक्खाय सम्मादिट्ठिया समन्नागतो होति…पे… सेक्खेन सम्मासमाधिना समन्नागतो होती’’ति (सं. नि. ५.१३). ‘‘अरह’’न्ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘उभतोभागविमुत्तो पञ्ञाविमुत्तो (पु. प. १३.२; १५.१ मातिका), तेविज्जो छळभिञ्ञो’’ति (पु. प. ७.२६, २७ मातिका) च. ‘‘खीणासवो’’ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘कामासवापि चित्तं विमुच्चित्थ, भवासवापि चित्तं विमुच्चित्था’’तिआदि (पारा. १४). सेसपदेसुपि एसेव नयो. ‘‘अभिजानाती’’ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘मञ्ञती’’ति. मञ्ञनाभावो हिस्स पहानपटिवेधसिद्धो, पहानपटिवेधो च परिञ्ञासच्छिकिरियाभावनापटिवेधेहि न विनाति सब्बेपि अभिञ्ञाविसेसा मञ्ञनापटिक्खेपेन अत्थतो गहिताव होन्तीति. तथा ‘‘अरह’’न्ति सामञ्ञतो अधिट्ठानं, तं अविकप्पेत्वा विसेसवचनं ‘‘वीतरागत्ता वीतदोसत्ता वीतमोहत्ता’’ति. इमिना नयेन सेसपदेसुपि सामञ्ञविसेसनिद्धारणा वेदितब्बा. अयं अधिट्ठानो हारो.

१४. परिक्खारहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मा नाम परियापन्नधम्मा, ते कुसलाकुसलाब्याकतभेदेन तिविधा. तेसु कुसलानं योनिसोमनसिकारो अलोभादयो च हेतू, अकुसलानं अयोनिसोमनसिकारो लोभादयो च हेतू, अब्याकतेसु विपाकानं यथासकं कम्मं, इतरेसं भवङ्गमावज्जनसमन्नाहारादि च हेतू. एत्थ च सप्पुरिसूपनिस्सयादिको पच्चयो हेतुम्हि एव समवरुळ्हो, सो तत्थ आदि-सद्देन सङ्गहितोति दट्ठब्बो. ‘‘मूल’’न्ति वुत्तानं मञ्ञनानं हेतुभावो पाळियं वुत्तो एव. मञ्ञनासु पन तण्हामञ्ञनाय अस्सादानुपस्सना हेतु. ‘‘सञ्ञोजनियेसु धम्मेसु अस्सादानुपस्सिनो तण्हा पवड्ढती’’ति (सं. नि. २.५२) हि वुत्तं. मानमञ्ञनाय दिट्ठिविप्पयुत्तलोभो हेतु केवलं संसग्गवसेन ‘‘अहमस्मी’’ति पवत्तनतो. दिट्ठिमञ्ञनाय एकत्तनयादीनं अयाथावग्गाहो हेतु, अस्सुतभावो पुथुज्जनभावस्स हेतु, सो अरियानं अदस्सनसीलताय, सा अरियधम्मस्स अकोविदताय, सा अरियधम्मे अविनीतताय हेतु, सब्बा चायं हेतुपरम्परा पथवीआदीसु ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति तिस्सन्नं मञ्ञनानं हेतु, सेक्खारहादिभावा पन मत्तसो सब्बसो च मञ्ञनाभावस्स हेतूति. अयं परिक्खारो हारो.

१६. समारोपनहारवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्तिआदीसु मूलपरियायग्गहणेन अस्सुतवागहणेन सञ्जाननमञ्ञनापरिञ्ञागहणेहि च संकिलेसधम्मा दस्सिता, ते च सङ्खेपतो तिविधा तण्हासंकिलेसो दिट्ठिसंकिलेसो दुच्चरितसंकिलेसोति. तत्थ तण्हासंकिलेसो तण्हासंकिलेसस्स, दिट्ठिसंकिलेसस्स, दुच्चरितसंकिलेसस्स च पदट्ठानं, तथा दिट्ठिसंकिलेसो दिट्ठिसंकिलेसस्स, तण्हासंकिलेसस्स, दुच्चरितसंकिलेसस्स च पदट्ठानं, दुच्चरितसंकिलेसोपि दुच्चरितसंकिलेसस्स, तण्हासंकिलेसस्स, दिट्ठिसंकिलेसस्स च पदट्ठानं. तेसु तण्हासंकिलेसो अत्थतो लोभोव, यो ‘‘लोभो लुब्भना लुब्भितत्तं सारागो सारज्जना सारज्जितत्त’’न्तिआदिना (ध. स. ३८९) अनेकेहि परियायेहि विभत्तो. तथा दिट्ठियेव दिट्ठिसंकिलेसो, यो ‘‘दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकं दिट्ठिविप्फन्दित’’न्तिआदिना (ध. स. ११०५) अनेकेहि परियायेहि, ‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा’’तिआदिना (दी. नि. १.३०) द्वासट्ठिया पभेदेहि च विभत्तो. दुच्चरितसंकिलेसो पन अत्थतो दुस्सील्यचेतना चेव चेतनासम्पयुत्तधम्मा च, या ‘‘कायदुच्चरितं वचीदुच्चरितं कायविसमं वचीविसम’’न्ति (विभ. ९१३, ९२४), ‘‘पाणातिपातो अदिन्नादान’’न्ति (विभ. ९१३) च आदिना अनेकेहि परियायेहि, अनेकेहि पभेदेहि च विभत्ता.

तेसु तण्हासंकिलेसस्स समथो पटिपक्खो, दिट्ठिसंकिलेसस्स विपस्सना, दुच्चरितसंकिलेसस्स सीलं पटिपक्खो. ते पन सीलादयो धम्मा इध परिञ्ञागहणेन सेक्खग्गहणेन ‘‘अरह’’न्तिआदिना अरियतादिग्गहणेन च गहिता. तत्थ सीलेन दुच्चरितसंकिलेसप्पहानं सिज्झति, तथा तदङ्गप्पहानं वीतिक्कमप्पहानञ्च, समथेन तण्हासंकिलेसप्पहानं सिज्झति, तथा विक्खम्भनप्पहानं परियुट्ठानप्पहानञ्च. विपस्सनाय दिट्ठिसंकिलेसप्पहानं सिज्झति, तथा समुच्छेदप्पहानं अनुसयप्पहानञ्च. तत्थ पुब्बभागे सीले पतिट्ठितस्स समथो, समथे पतिट्ठितस्स विपस्सना, मग्गक्खणे पन समकालमेव भवन्ति. पुब्बेयेव हि सुपरिसुद्धकायवचीकम्मस्स सुपरिसुद्धाजीवस्स च समथविपस्सना आरद्धा गब्भं गण्हन्तियो परिपाकं गच्छन्तियो वुट्ठानगामिनिविपस्सनं परिब्रूहेन्ति, वुट्ठानगामिनिविपस्सना भावनापारिपूरिं गच्छन्ती मग्गेन घटेन्ति मग्गक्खणे समथविपस्सना परिपूरेति. अथ मग्गक्खणे समथविपस्सनाभावनापारिपूरिया अनवसेससंकिलेसधम्मं समुच्छिन्दन्तियो निरोधं निब्बानं सच्छिकरोन्तीति. अयं समारोपनो हारो.

सोळसहारवण्णना निट्ठिता.

पञ्चविधनयवण्णना

१. नन्दियावट्टनयवण्णना

‘‘सब्बधम्ममूलपरियाय’’न्तिआदीसु सब्बधम्ममूलग्गहणेन मञ्ञनागहणेन च तण्हामानदिट्ठियो गहिता. मञ्ञनानम्पि हि मञ्ञना कारणन्ति दस्सितोयमत्थो. ‘‘अस्सुतवा’’तिआदिना अविज्जामानदिट्ठियो गहिता, सब्बेपि वा संकिलेसधम्मा, तथा सञ्ञाअपरिञ्ञातग्गहणेन. ‘‘खीणासवो परिक्खीणभवसञ्ञोजनो’’ति एत्थ पन आसवा सञ्ञोजनानि च सरूपतो गहितानि, तथा नन्दिग्गहणेन तण्हागहणेन च तण्हा, एवम्पेत्थ सरूपतो परियायतो च तण्हा अविज्जा तप्पक्खियधम्मा च गहिता. तत्थ तण्हाय विसेसतो रूपधम्मा अधिट्ठानं, अविज्जाय अरूपधम्मा, ते पन सब्बधम्मग्गहणेन पथवीआदिग्गहणेन च दस्सिता एव. तासं समथो विपस्सना च पटिपक्खो, तेसमेत्थ गहेतब्बाकारो हेट्ठा दस्सितो एव. समथस्स चेतोविमुत्ति फलं, विपस्सनाय पञ्ञाविमुत्ति. तथा हि ता ‘‘रागविरागा’’तिआदिना विसेसेत्वा वुच्चन्ति, इमासमेत्थ गहणं सम्मदञ्ञाविमुत्तवीतरागादिवचनेहि वेदितब्बं. तत्थ तण्हाविज्जा समुदयसच्चं, तप्पक्खियधम्मा पन तग्गहणेनेव गहिताति वेदितब्बा. तेसं अधिट्ठानभूता वुत्तप्पभेदा रूपारूपधम्मा दुक्खसच्चं, तेसं अप्पवत्ति निरोधसच्चं, निरोधपजानना पटिपदा मग्गसच्चं. तण्हागहणेन चेत्थ माया-साठेय्य-मानातिमान-मदप्पमाद-पापिच्छता-पापमित्तता-अहिरिकानोत्तप्पादिवसेन अकुसलपक्खो नेतब्बो, अविज्जागहणेन विपरीतमनसिकार-कोधूपनाह-मक्ख-पळास-इस्सा-मच्छरिय- सारम्भदोवचस्सता-भवदिट्ठि-विभवदिट्ठिआदिवसेन अकुसलपक्खो नेतब्बो, वुत्तविपरियायेन अमायाअसाठेय्यादिअविपरीतमनसिकारादिवसेन, तथा समथपक्खियानं सद्धिन्द्रियादीनं विपस्सनापक्खियानं अनिच्चसञ्ञादीनञ्च वसेन वोदानपक्खो नेतब्बोति. अयं नन्दियावट्टस्स न यस्स भूमि.

२. तिपुक्खलनयवण्णना

तथा वुत्तनयेन सरूपतो परियायतो च गहितेसु तण्हाविज्जातप्पक्खियधम्मेसु तण्हा लोभो, अविज्जा मोहो, अविज्जाय सम्पयुत्तो लोहिते सति पुब्बो विय तण्हाय सति सिज्झमानो आघातो दोसो, इति तीहि अकुसलमूलेहि गहितेहि, तप्पटिपक्खतो मञ्ञनापटिक्खेपपरिञ्ञागहणादीहि च कुसलमूलानि सिद्धानियेव होन्ति. इधापि ‘‘लोभो सब्बानि वा सासवकुसलाकुसलमूलानि समुदयसच्चं, तेहि निब्बत्ता, तेसं अधिट्ठानगोचरभूता च उपादानक्खन्धा दुक्खसच्च’’न्तिआदिना सच्चयोजना वेदितब्बा. फलं पनेत्थ तयो विमोक्खा, तीहि पन अकुसलमूलेहि तिविधदुच्चरित-संकिलेसमल-विसमअकुसल-सञ्ञा-वितक्कादिवसेन अकुसलपक्खो नेतब्बो. तथा तीहि कुसलमूलेहि तिविधसुचरित-समकुसल-सञ्ञा-वितक्क-सद्धम्म-समाधि-विमोक्खमुख-विमोक्खा-दिवसेन कुसलपक्खो नेतब्बोति. अयं तिपुक्खलस्स नयस्स भूमि.

३. सीहविक्कीळितनयवण्णना

तथा वुत्तनयेन सरूपतो परियायतो च गहितेसु तण्हाविज्जातप्पक्खियधम्मेसु विसेसतो तण्हादिट्ठीनं वसेन असुभे ‘‘सुभ’’न्ति, दुक्खे ‘‘सुख’’न्ति च विपल्लासा, अविज्जादिट्ठीनं वसेन अनिच्चे ‘‘निच्च’’न्ति, अनत्तनि ‘‘अत्ता’’ति च विपल्लासा वेदितब्बा. तेसं पटिपक्खतो मञ्ञनापटिक्खेपपरिञ्ञागहणादिसिद्धेहि सतिवीरियसमाधिपञ्ञिन्द्रियेहि चत्तारि सतिपट्ठानानि सिद्धानेव होन्ति. तत्थ चतूहि इन्द्रियेहि चत्तारो पुग्गला निद्दिसितब्बा. कथं? दुविधो हि तण्हाचरितो मुदिन्द्रियो तिक्खिन्द्रियोति, तथा दिट्ठिचरितो. तेसं पठमो असुभे ‘‘सुभ’’न्ति विपरियासग्गाही सतिबलेन यथाभूतं कायसभावं सल्लक्खेन्तो तं विपल्लासं समुग्घाटेत्वा सम्मत्तनियामं ओक्कमति. दुतियो असुखे ‘‘सुख’’न्ति विपरियासग्गाही ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिना (दी. नि. ३.३१०; म. नि. १.२६; अ. नि. ४.१४, ११४; अ. नि. ६.५८) वुत्तेन वीरियसंवरभूतेन वीरियबलेन तं विपल्लासं विधमेन्तो सम्मत्तनियामं ओक्कमति. ततियो अनिच्चे ‘‘निच्च’’न्ति अयाथावग्गाही समाधिबलेन समाहितचित्तो सङ्खारानं खणिकभावसल्लक्खणेन तं विपल्लासं समुग्घाटेन्तो अरियभूमिं ओक्कमति. चतुत्थो सन्ततिसमूहकिच्चारम्मणघनवञ्चितताय फस्सादिधम्मपुञ्जमत्ते अनत्तनि ‘‘अत्ता’’ति मिच्छाभिनिवेसी चतुकोटिकसुञ्ञतामनसिकारेन तं मिच्छाभिनिवेसं विद्धंसेन्तो सामञ्ञफलं सच्छिकरोति.

इधापि सुभसञ्ञासुखसञ्ञाहि चतूहिपि वा विपल्लासेहि समुदयसच्चं, तेसं अधिट्ठानारम्मणभूता पञ्चुपादानक्खन्धा दुक्खसच्चन्तिआदिना सच्चयोजना वेदितब्बा. फलं पनेत्थ चत्तारि सामञ्ञफलानि, चतूहि चित्तविपल्लासेहि चतुरासवोघ-योग-कायगन्थ-अगति-तण्हुप्पाद-सल्लुपादान-विञ्ञाणट्ठिति-अपरिञ्ञादिवसेन अकुसलपक्खो नेतब्बो. तथा चतूहि सतिपट्ठानेहि चतुब्बिधझान-विहाराधिट्ठान-सुखभागियधम्म-अप्पमञ्ञा-सम्मप्पधान-इद्धिपादा- दिवसेन वोदानपक्खो नेतब्बोति. अयं सीहविक्कीळितस्स नयस्स भूमि.

४-५. दिसालोचन-अङ्कुसनयद्वयवण्णना

इमेसं पन तिण्णं अत्थनयानं सिद्धिया वोहारेन नयद्वयं सिद्धमेव होति. तथा हि अत्थनयानं दिसाभूतधम्मानं समालोचनं दिसालोचनं, तेसं समानयनं अङ्कुसोति पञ्चपि नया नियुत्ताति वेदितब्बा.

पञ्चविधनयवण्णना निट्ठिता.

सासनपट्ठानवण्णना

इदञ्च सुत्तं सोळसविधे सुत्तन्तपट्ठाने संकिलेसनिब्बेधासेक्खभागियं, सब्बभागियमेव वा ‘‘सब्बधम्ममूलपरियाय’’न्ति एत्थ सब्बधम्मग्गहणेन लोकियकुसलानम्पि सङ्गहितत्ता. अट्ठवीसतिविधेन पन सुत्तन्तपट्ठाने लोकियलोकुत्तरसब्बधम्माधिट्ठानं ञाणञेय्यं दस्सनभावनं सकवचनं विस्सज्जनीयं कुसलाकुसलं अनुञ्ञातं पटिक्खित्तं चाति वेदितब्बं.

नेत्तिनयवण्णना निट्ठिता.

मूलपरियायसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

२. सब्बासवसुत्तवण्णना

१४. अपुब्बपदवण्णनाति अत्थसंवण्णनावसेन हेट्ठा अग्गहितताय अपुब्बस्स अभिनवस्स पदस्स वण्णना अत्थविभजना. ‘‘हित्वा पुनप्पुनागतमत्थ’’न्ति हि वुत्तं. निवासट्ठानभूता भूतपुब्बनिवासट्ठानभूता, निवासट्ठाने वा भूता निब्बत्ता निवासट्ठानभूता, तत्थ मापिताति अत्थो. यथा काकन्दी माकन्दी कोसम्बीति यथा काकन्दस्स इसिनो निवासट्ठाने मापिता नगरी काकन्दी, माकन्दस्स निवासट्ठाने मापिता माकन्दी, कुसम्बस्सनिवासट्ठाने मापिता कोसम्बीति वुच्चति, एवं सावत्थीति दस्सेति. उपनेत्वा समीपे कत्वा भुञ्जितब्बतो उपभोगो, सविञ्ञाणकवत्थु. परितो सब्बदा भुञ्जितब्बतो परिभोगो, निवासनपारुपनादि अविञ्ञाणकवत्थु. सब्बमेत्थ अत्थीति निरुत्तिनयेन सावत्थी-सद्दसिद्धिमाह. सत्थसमायोगेति सत्थस्स नगरिया समागमे, सत्थे तं नगरं उपगतेति अत्थो. पुच्छिते सत्थिकजनेहि.

समोहितन्ति सन्निचितं. रम्मन्ति अन्तो बहि च भूमिभागसम्पत्तिया चेव आरामुय्यानसम्पत्तिया च रमणीयं. दस्सनेय्यन्ति विसिखासन्निवेससम्पत्तिया चेव पासादकूटागारादिसम्पत्तिया च दस्सनीयं पस्सितब्बयुत्तं. उपभोगपरिभोगवत्थुसम्पत्तिया चेव निवाससुखताय च निबद्धवासं वसन्तानं इतरेसञ्च सत्तानं मनं रमेतीति मनोरमं. दसहि सद्देहीति हत्थिसद्दो, अस्स-रथ-भेरि-सङ्ख-मुदिङ्ग-वीणा-गीत सम्मताळसद्दो, अस्नाथ-पिवथ-खादथाति-सद्दोति इमेहि दसहि सद्देहि. अविवित्तन्ति न विवित्तं, सब्बकालं घोसितन्ति अत्थो.

वुद्धिं वेपुल्लतं पत्तन्ति तन्निवासी सत्तवुद्धिया वुद्धिं, ताय परिवुद्धितायेव विपुलभावं पत्तं, बहुजनं आकिण्णमनुस्सन्ति अत्थो. वित्तूपकरणसमिद्धिया इद्धं. सब्बकालं सुभिक्खभावेन फीतं. अन्तमसो विघासादे उपादाय सब्बेसं कपणद्धिकवनिब्बकयाचकानम्पि इच्छि तत्थनिप्फत्तिया मनुञ्ञं जातं, पगेव इस्सरिये ठितानन्ति दस्सनत्थं पुन ‘‘मनोरम’’न्ति वुत्तं. अळकमन्दावाति आटानाटादीसु दससु वेस्सवणमहाराजस्स नगरीसु अळकमन्दा नाम एका नगरी, या लोके अळाका एव वुच्चति. सा यथा पुञ्ञकम्मीनं आवासभूता आरामरामणेय्यकादिना सोभग्गप्पत्ता, एवं सावत्थीपीति वुत्तं ‘‘अळकमन्दावा’’ति. देवानन्ति वेस्सवणपक्खियानं चातुमहाराजिकदेवानं.

जिनातीति इमिना सोत-सद्दो विय कत्तुसाधनो जेत-सद्दोति दस्सेति. रञ्ञाति पसेनदिकोसलराजेन. राजगतं जयं आरोपेत्वा कुमारो जितवाति जेतोति वुत्तो. मङ्गलकब्यतायातिआदिना ‘‘जेय्यो’’ति एतस्मिं अत्थे ‘‘जेतो’’ति वुत्तन्ति दस्सेति. सब्बकामसमिद्धितायाति सब्बेहि उपभोगपरिभोगवत्थूहि फीतभावेन विभवसम्पन्नतायाति अत्थो. समिद्धापि मच्छरिनो किञ्चि न देन्तीति आह ‘‘विगतमलमच्छेरताया’’ति, रागदोसादिमलानञ्चेव मच्छरियस्स च अभावेनाति अत्थो. समिद्धा अमच्छरिनोपि च करुणासद्धादिगुणविरहिता अत्तनो सन्तकं परेसं न ददेय्युन्ति आह ‘‘करुणादिगुणसमङ्गिताय चा’’ति. तेनाति अनाथानं पिण्डदानेन. सद्दत्थतो पन दातब्बभावेन सब्बकालं उपट्ठपितो अनाथानं पिण्डो एतस्स अत्थीति अनाथपिण्डिको. पञ्चविधसेनासनङ्गसम्पत्तियाति ‘‘नातिदूरं नच्चासन्नं गमनागमनसम्पन्न’’न्ति एकं अङ्गं, ‘‘दिवा अप्पाकिण्णं रत्तिं अप्पसद्दं अप्पनिग्घोस’’न्ति एकं, ‘‘अप्पडंसमकसवातातपसरीसपसम्फस्स’’न्ति एकं, ‘‘तस्मिं खो पन सेनासने विहरन्तस्स अप्पकसिरेन उप्पज्जन्ति चीवर…पे… परिक्खारा’’ति एकं, ‘‘तस्मिं खो पन सेनासने थेरा भिक्खू विहरन्ति बहुस्सुता’’ति एकं, एवमेतेहि पञ्चविधसेनासनङ्गेहि सम्पन्नताय. यदि जेतवनं तथं अनाथपिण्डिकस्स आरामोति आह ‘‘सो ही’’तिआदि.

कीतकालतो पट्ठाय अनाथपिण्डिकस्सेव तं वनं, अथ कस्मा उभिन्नं परिकित्तनन्ति आह ‘‘जेतवने’’तिआदि. ‘‘यदिपि सो भूमिभागो कोटिसन्थरेन महासेट्ठिना कीतो, रुक्खा पन जेतेन न विक्कीताति जेतवनन्ति वत्तब्बतं लभी’’ति वदन्ति.

कस्मा इदं सुत्तमभासीति कथेतुकम्यताय सुत्तनिक्खेपं पुच्छति. सामञ्ञतो हि भगवतो देसनाकारणं पाकटमेवाति. को पनायं सुत्तनिक्खेपोति? अत्तज्झासयो. परेहि अनज्झिट्ठो एव हि भगवा अत्तनो अज्झासयेन इमं सुत्तं देसेतीति आचरिया. यस्मा पनेस भिक्खूनं उपक्किलिट्ठचित्ततं विदित्वा ‘‘इमे भिक्खू इमाय देसनाय उपक्किलेसविसोधनं कत्वा आसवक्खयाय पटिपज्जिस्सन्ती’’ति अयं देसना आरद्धा, तस्मा परज्झासयोति अपरे. उभयम्पि पन युत्तं. अत्तज्झासयादीनञ्हि संसग्गभेदस्स सम्भवो हेट्ठा दस्सितोवाति. तेसं भिक्खूनन्ति तदा धम्मपटिग्गाहतभिक्खूनं. उपक्किलेसविसोधनन्ति समथविपस्सनुपक्किलेसतो चित्तस्स विसोधनं. पठमञ्हि भगवा अनुपुब्बिकथादिना पटिपत्तिया संकिलेसं नीहरित्वा पच्छा सामुक्कंसिकं देसनं देसेति खेत्ते खाणुकण्टकगुम्बादिके अवहरित्वा कसनं विय, तस्मा कम्मट्ठानमेव अवत्वा इमाय अनुपुब्बिया देसना पवत्ताति अधिप्पायो.

संवरभूतन्ति सीलसंवरादिसंवरभूतं संवरणसभावं कारणं, तं पन अत्थतो दस्सनादि एवाति वेदितब्बं. संवरिताति पवत्तितुं अप्पदानवसेन सम्मा, सब्बथा वा वारिता. एवंभूता च यस्मा पवत्तिद्वारपिधानेन पिहिता नाम होन्ति, तस्मा वुत्तं ‘‘विदहिता हुत्वा’’ति. एवं अच्चन्तिकस्स संवरस्स कारणभूतं अनच्चन्तिकं संवरं दस्सेत्वा इदानि अच्चन्तिकमेव संवरं दस्सेन्तो यस्मिं दस्सनादिम्हि सति उप्पज्जनारहा आसवा न उप्पज्जन्ति, सो तेसं अनुप्पादो निरोधो खयो पहानन्ति च वुच्चमानो अत्थतो अप्पवत्तिमत्तन्ति तस्स च दस्सनादि कारणन्ति आह ‘‘येन कारणेन अनुप्पादनिरोधसङ्खातं खयं गच्छन्ति पहीयन्ति नप्पवत्तन्ति, तं कारणन्ति अत्थो’’ति.

चक्खुतोपि…पे… मनतोपीति (ध. स. मूलटी. १४-१९) चक्खुविञ्ञाणादिवीथीसु तदनुगतमनोविञ्ञाणवीथीसु च किञ्चापि कुसलादीनम्पि पवत्ति अत्थि, कामासवादयो एव पन वणतो यूसं विय पग्घरणकअसुचिभावेन सन्दन्ति, तस्मा ते एव ‘‘आसवा’’ति वुच्चन्ति. तत्थ हि पग्घरणअसुचिम्हि निरुळ्हो आसव-सद्दोति. धम्मतो याव गोत्रभुन्ति ततो परं मग्गफलेसु अप्पवत्तनतो वुत्तं. एते हि आरम्मणवसेन धम्मे गच्छन्ता ततो परं न गच्छन्ति. ननु ततो परं भवङ्गादीनिपि गच्छन्तीति चे? न, तेसम्पि पुब्बे आलम्बितेसु लोकियधम्मेसु सासवभावेन अन्तोगधत्ता ततो परताभावतो. एत्थ च गोत्रभुवचनेन गोत्रभुवोदानफलसमापत्तिपुरेचारिकपरिकम्मानि वुत्तानीति वेदितब्बानि. पठममग्गपुरेचारिकमेव वा गोत्रभु अवधिनिदस्सनभावेन गहितं, ततो परं पन मग्गफलसमानताय अञ्ञेसु मग्गेसु मग्गवीथियं समापत्तिवीथियं निरोधानन्तरञ्च पवत्तमानेसु फलेसु निब्बाने च आसवानं पवत्ति निवारिताति वेदितब्बं. सवन्तीति गच्छन्ति, आरम्मणकरणवसेन पवत्तन्तीति अत्थो. अवधिअत्थो आ-कारो, अवधि च मरियादाभिविधिभेदतो दुविधो. तत्थ मरियादं किरियं बहि कत्वा पवत्तति यथा ‘‘आपाटलिपुत्ता वुट्ठो देवो’’ति. अभिविधि पन किरियं ब्यापेत्वा पवत्तति यथा ‘‘आभवग्गा भगवतो यसो पवत्तती’’ति. अभिविधिअत्थो चायं आ-कारो इध गहितोति वुत्तं ‘‘अन्तोकरणत्थो’’ति.

मदिरादयोति आदि-सद्देन सिन्धवकादम्बरिकापोतिकादीनं सङ्गहो दट्ठब्बो. चिरपारिवासियट्ठो विरपरिवुत्थता पुराणभावो. अविज्जा नाहोसीतिआदीति एत्थ आदि-सद्देन ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति भवतण्हाया’’ति (अ. नि. १०.६२) इदं सुत्तं सङ्गहितं. अविज्जासवभवासवानं चिरपरिवुत्थताय दस्सिताय तब्भावभाविनो कामासवस्स चिरपरिवुत्थता दस्सिताव होति. अञ्ञेसु च यथावुत्ते धम्मे ओकासञ्च आरम्मणं कत्वा पवत्तमानेसु मानादीसु विज्जमानेसु अत्तत्तनियादिग्गाहवसेन अभिब्यापनं मदकरणवसेन आसवसदिसता च एतेसंयेव, न अञ्ञेसन्ति एतेस्वेव आसव-सद्दो निरुळ्होति दट्ठब्बो. न चेत्थ दिट्ठासवो नागतोति गहेतब्बं भवतण्हाय विय भवदिट्ठियापि भवासवग्गहणेनेव गहितत्ता. आयतं अनादिकालिकत्ता. पसवन्तीति फलन्ति. न हि तं किञ्चि संसारदुक्खं अत्थि, यं आसवेहि विना उप्पज्जेय्य. पुरिमानि चेत्थाति एत्थ एतेसु चतूसु अत्थवितप्पेसु पुरिमानि तीणि. यत्थाति येसु सुत्ताभिधम्मपदेसेसु. तत्थ युज्जन्ति किलेसेसुयेव यथावुत्तस्स अत्थत्तयस्स सम्भवतो. पच्छिमं ‘‘आयतं वा संसारदुक्खं सवन्ती’’ति वुत्तनिब्बचनं. कम्मेपि युज्जति दुक्खप्पसवनस्स किलेसकम्मसाधारणत्ता.

दिट्ठधम्मा वुच्चन्ति पच्चक्खभूता खन्धा, दिट्ठधम्मे भवा दिट्ठधम्मिका. विवादमूलभूताति विवादस्स मूलकारणभूता कोधूपनाह-मक्ख-पळास-इस्सा-मच्छरिय-माया-साठेय्य-थम्भ-सारम्भ-मानातिमाना.

येन देवूपपत्यस्साति येन कम्मकिलेसप्पकारेन आसवेन देवेसु उपपत्ति निब्बत्ति अस्स मय्हन्ति सम्बन्धो. गन्धब्बो वा विहङ्गमो आकासचारी अस्सन्ति विभत्तिं परिणामेत्वा योजेतब्बं. एत्थ च यक्खगन्धब्बताय विनिमुत्ता सब्बा देवगति देवग्गहणेन गहिता. अवसेसा च अकुसला धम्माति अकुसलकम्मतो अवसेसा अकुसला धम्मा आसवाति आगताति सम्बन्धो.

पटिघातायाति पटिसेधनाय. परूपवा…पे… उपद्दवाति इदं यदि भगवा सिक्खापदं न पञ्ञपेय्य, ततो असद्धम्मप्पटिसेवनअदिन्नादानपाणातिपातादिहेतु ये उप्पज्जेय्युं परूपवादादयो दिट्ठधम्मिका नानप्पकारा अनत्था, ये च तन्निमित्ता एव निरयादीसु निब्बत्तस्स पञ्चविधबन्धनकम्मकारणादिवसेन महादुक्खानुभवादिप्पकारा अनत्था, ते सन्धाय वुत्तं. ते पनेतेति एते कामरागादिकिलेस-तेभूमककम्मपरूपवादादिउपद्दवप्पकारा आसवा. यत्थाति यस्मिं विनयादिपाळिपदेसे. यथाति येन दुविधादिप्पकारेन अञ्ञेसु च सुत्तन्तेसु आगताति सम्बन्धो.

निरयं गमेन्तीति निरयगामिनिया. छक्कनिपाते आहुनेय्यसुत्ते. तत्थ हि आसवा छधा आगता आसव-सद्दाभिधेय्यस्स अत्थस्स पभेदोपचारेन आसव-पदे पभेदोति वुत्तो, कोट्ठासत्थो वा पद-सद्दोति आसवपदेति आसवप्पकारे सद्दकोट्ठासे अत्थकोट्ठासे वाति अत्थो.

तथा हीति तस्मा संवरणं पिदहनं पवत्तितुं अप्पदानं, तेनेव कारणेनाति अत्थो. सीलादिसंवरे अधिप्पेते पवत्तितुं अप्पदानवसेन थकनभावसामञ्ञतो द्वारं संवरित्वाति गेहद्वारसंवरणम्पि उदाहटं. सीलसंवरोतिआदि हेट्ठा मूलपरियायवण्णनाय वुत्तम्पि इमस्स सुत्तस्स अत्थवण्णनं परिपुण्णं कत्वा वत्तुकामो पुन वदति. युत्तं ताव सीलसतिञाणानं संवरत्थो पाळियं तथा आगतत्ता, खन्तिवीरियानं पन कथन्ति आह ‘‘तेसञ्चा’’तिआदि. तस्सत्थो – यदिपि ‘‘खमो होति…पे… सीतस्स उप्पन्नं कामवितक्कं नाधिवासेती’’तिआदिनिद्देसे खन्तिवीरियानं संवरपरियायो नागतो, उद्देसे पन सब्बासवसंवरपरियायन्ति संवरपरियायेन गहितत्ता अत्थेव तेसं संवरभावोति.

पुब्बे सीलसतिञाणानं पाठन्तरेन संवरभावो दस्सितोति इदानि तं इमिनापि सुत्तेन गहितभावं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. खन्तिवीरियसंवरा वुत्तायेव ‘‘खमो होति सीतस्सा’’तिआदिना (म. नि. १.१४) पाळिया दस्सनवसेन. ‘‘तञ्च अनासनं, तञ्च अगोचर’’न्ति अयं पनेत्थ सीलसंवरोति तञ्च ‘‘यथारूपे’’तिआदिना वुत्तं अयुत्तं अनियतवत्थुकं रहो पटिच्छन्नासनं, तञ्च यथावुत्तं अयुत्तं वेसियादिगोचरं, ‘‘पटिसङ्खायोनिसो परिवज्जेती’’ति आगतं यं परिवज्जनं, अयं पन एत्थ एतस्मिं सुत्ते आगतो सीलसंवरोति अत्थो. अनासनपरिवज्जनेन हि अनाचारपरिवज्जनं वुत्तं, अनाचारागोचरपरिवज्जनं चारित्तसीलतायसीलसंवरो. तथा हि भगवता ‘‘पातिमोक्खसंवरसंवुतो विहरती’’ति (विभ. ५०८) सीलसंवरविभजने आचारगोचरसम्पत्तिं दस्सेन्तेन ‘‘अत्थि अनाचारो, अत्थि अगोचरो’’तिआदिना (विभ. ५१३, ५१४) अनाचारागोचरा विभजित्वा दस्सिता. इदञ्च एकदेसेन समुदायनिदस्सनं दट्ठब्बं समुद्दपब्बतनिदस्सनं विय.

सब्बत्थ पटिसङ्खा ञाणसंवरोति एत्थ ‘‘योनिसोमनसिकारो, पटिसङ्खा ञाणसंवरो’’ति वत्तब्बं. न हि दस्सनपहातब्बनिद्देसे पटिसङ्खागहणं अत्थि, ‘‘योनिसो मनसि करोती’’ति पन वुत्तं. योनिसोमनसिकरणम्पि अत्थतो पटिसङ्खा ञाणसंवरमेवाति एवं पन अत्थे गय्हमाने युत्तमेतं सिया. केचि पन ‘‘यत्थ यत्थ ‘इध पटिसङ्खा योनिसो’ति आगतं, तं सब्बं सन्धाय ‘सब्बत्थ पटिसङ्खा ञाणसंवरो’ति वुत्त’’न्ति वदन्ति. तेसं मतेन ‘‘इदं दुक्खन्ति योनिसो मनसि करोती’’तिआदिकस्स ञाणसंवरेन च असङ्गहो सिया, ‘‘दस्सनं पटिसेवना भावना च ञाणसंवरो’’ति च वचनं विरुज्झेय्य, तस्मा वुत्तनयेनेवेत्थ अत्थो वेदितब्बो. ‘‘सब्बत्थ पटिसङ्खा ञाणसंवरो’’ति इमिना सत्तसुपि ठानेसु यं ञाणं, सो ञाणसंवरोति परिवज्जनादिवसेन वुत्ता सीलादयो सीलसंवरादयोति अयमत्थो दस्सितो. एवं सति संवरानं सङ्करो विय होतीति ते असङ्करतो दस्सेतुं ‘‘अग्गहितग्गहणेना’’ति वुत्तं परिवज्जनविसेससंवराधिवासनविनोदनानं सीलसंवरादिभावेन गहितत्ता, तथा अग्गहितानं गहणेनाति अत्थो. ते पन अग्गहिते सरूपतो दस्सेन्तो ‘‘दस्सनं पटिसेवना भावना’’ति आह.

एतेन सीलसंवरादिना करणभूतेन, कारणभूतेन वा. धम्माति कुसलाकुसलधम्मा. सीलसंवरादिना हि सहजातकोटिया, उपनिस्सयकोटिया वा पच्चयभूतेन अनुप्पन्ना कुसला धम्मा उप्पत्तिं गच्छन्ति उप्पज्जन्ति, तथा अनिरुद्धा अकुसला धम्मा निरोधं गच्छन्ति निरुज्झन्तीति अत्थो. पाळियं पन ‘‘अनुप्पन्ना चेव आसवा न उप्पज्जन्ति, उप्पन्ना च आसवा पहीयन्ती’’ति अकुसलधम्मानं अनुप्पादपहानानि एव वुत्तानि, न कुसलधम्मानं उप्पादादयोति? नयिदमेवं दट्ठब्बं, ‘‘योनिसो च खो, भिक्खवे, मनसिकरोतो’’तिआदिना कुसलधम्मानम्पि उप्पत्ति पकासिताव आसवसंवरणस्स पधानभावेन गहितत्ता. तथा हि परियोसानेपि ‘‘ये आसवा दस्सना पहातब्बा, ते दस्सना पहीना होन्ती’’तिआदिना (म. नि. १.२८) आसवप्पहानमेव पधानं कत्वा निगमितं.

१५. जानतो पस्सतोति एत्थ दस्सनम्पि पञ्ञाचक्खुनाव दस्सनं अधिप्पेतं, न मंसचक्खुना दिब्बचक्खुना वाति आह ‘‘द्वेपि पदानि एकत्थानी’’ति. एवं सन्तेपीति पदद्वयस्स एकत्थत्थेपि. ञाणलक्खणन्ति ञाणस्स सभावं, विसयस्स यथासभावावबोधनन्ति अत्थो. तेनाह ‘‘जाननलक्खणञ्हि ञाण’’न्ति. ञाणप्पभावन्ति ञाणानुभावं, ञाणकिच्चं विसयोभासनन्ति अत्थो. तेनेवाह ‘‘ञाणेन विवटे धम्मे’’ति. ‘‘जानतो पस्सतो’’ति च जाननदस्सनमुखेन पुग्गलाधिट्ठाना देसना पवत्ताति आह ‘‘ञाणलक्खणं ञाणप्पभावं उपादाय पुग्गलं निद्दिसती’’ति. जानतो पस्सतोति ‘‘योनिसो च मनसिकारं अयोनिसो च मनसिकार’’न्ति वक्खमानत्ता योनिसोमनसिकारविसयजाननं, अयोनिसोमनसिकारविसयदस्सनं. तञ्च खो पन नेसं आसवानं खयूपायसभावस्स अधिप्पेतत्ता उप्पादनानुप्पादनवसेन न आरम्मणमत्तेनाति अयमत्थो युत्तोति आह ‘‘योनिसोमनसिकारं…पे… अयमेत्थ सारो’’ति.

‘‘जानतो’’ति वत्वा जाननञ्च अनुस्सवाकारपटिवितक्कमत्तवसेन न इधाधिप्पेतं, अथ खो रूपादि विय चक्खुविञ्ञाणेन योनिसोमनसिकारायोनिसोमनसिकारे पच्चक्खे कत्वा तेसं उप्पादवसेन दस्सनन्ति इममत्थं विभावेतुं ‘‘पस्सतो’’ति वुत्तन्ति एवं वा एत्थ अत्थो दट्ठब्बो. अञ्ञत्थापि हि ‘‘एवं जानतो एवं पस्सतो (इतिवु. १०२), जानं जानाति पस्सं पस्सति (म. नि. १.२०३), एवं जानन्ता एवं पस्सन्ता (म. नि. १.४०७), अजानतं अपस्सत’’न्ति च आदीसु ञाणकिच्चस्स सामञ्ञविसेसदीपनवसेनेतं पदद्वयं आगतन्ति. केचीति अभयगिरिवासिसारसमासाचरिया. ते हि ‘‘समाधिना जानतो विपस्सनाय पस्सतो जानं जानाति पस्सं पस्सति, एवं जानना समथो, पस्सना विपस्सना’’ति च आदिना पपञ्चेन्ति. तेति पपञ्चा. इमस्मिं अत्थेति ‘‘जानतो’’तिआदिनयप्पवत्ते इमस्मिं सुत्तपदअत्थे निद्धारियमाने. न युज्जन्ति जाननदस्सनानं योनिसोमनसिकारायोनिसोमनसिकारविसयभावस्स पाळियं वुत्तत्ता.

आसवप्पहानं आसवानं अच्चन्तप्पहानं. सो पन नेसं अनुप्पादो सब्बेन सब्बं खीणता अभावो एवाति आह ‘‘आसवानं अच्चन्तखयमसमुप्पादं खीणाकारं नत्थिभाव’’न्ति. उजुमग्गानुसारिनोति किलेसवङ्कस्स कायवङ्कादीनञ्च पहानेन उजुभूते सविपस्सने हेट्ठिममग्गे अनुस्सरन्तस्स. तदेव हिस्स सिक्खनं. खयस्मिं पठमं ञाणं. ततो अञ्ञा अनन्तराति खयसङ्खाते अग्गमग्गे तप्परियापन्नमेव ञाणं पठमं उप्पज्जति, तदनन्तरं पन अञ्ञं अरहत्तन्ति. यदिपि गाथायं ‘‘खयस्मिं’’इच्चेव वुत्तं, समुच्छेदवसेन पन आसवेहि खीणोतीति मग्गो खयोति वुच्चतीति आह ‘‘मग्गो आसवक्खयोति वुत्तो’’ति. समणोति समितपापो अधिप्पेतो. सो पन खीणासवो होतीति ‘‘आसवानं खया’’ति इमस्स फलपरियायता वुत्ता, निप्परियायेन पन आसवक्खयो मग्गो, तेन पत्तब्बतो फलं. एतेनेव निब्बानस्सपि आसवक्खयभावो वुत्तोति वेदितब्बो.

‘‘जानतो पस्सतो’’ति जानतो एव पस्सतो एवाति एवमेत्थ नियमो इच्छितो, न अञ्ञथा विसेसाभावतो अनिट्ठसाधनतो चाति तस्स नियमस्स फलं दस्सेतुं ‘‘नो अजानतो नो अपस्सतो’’ति वुत्तन्ति आह ‘‘यो पन न जानाति न पस्सति, तस्स नेव वदामीति अत्थो’’ति. इमिना दूरीकतायोनिसोमनसिकारो इधाधिप्पेतो, योनिसोमनसिकारो च आसवक्खयस्स एकन्तिककारणन्ति दस्सेति. एतेनाति ‘‘नो अजानतो नो अपस्सतो’’ति वचनेन. ते पटिक्खित्ताति के पन तेति? ‘‘बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति (दी. नि. १.१६८; म. नि. २.२२८), अहेतू अपच्चया सत्ता विसुज्झन्ती’’ति (दी. नि. १.१६८; म. नि. २.२२७) एवमादिवादा. तेसु हि केचि अभिजातिसङ्कन्तिमत्तेन भवसङ्कन्तिमत्तेन च संसारसुद्धिं पटिजानन्ति, अञ्ञे इस्सरपजापतिकालादिवसेन, तयिदं सब्बं ‘‘संसारादीही’’ति एत्थेव सङ्गहितन्ति दट्ठब्बं.

पुरिमेन वा पदद्वयेनाति ‘‘जानतो, पस्सतो’’ति इमिना पदद्वयेन. उपायो वुत्तो ‘‘आसवक्खयस्सा’’ति अधिकारतो विञ्ञायति. इमिनाति ‘‘नो अजानतो, नो अपस्सतो’’ति इमिना पदद्वयेन. अनुपायो एव हि आसवानं खयस्स यदिदं योनिसो च अयोनिसो च मनसिकारस्स अजाननं अदस्सनञ्च, तेन तथत्ताय अप्पटिपत्तितो मिच्छापटिपत्तितो च. ननु ‘‘पस्सतो’’ति इमिना अयोनिसोमनसिकारो यथा न उप्पज्जति, एवं दस्सने अधिप्पेते पुरिमेनेव अनुपायपटिसेधो वुत्तो होतीति? न होति, अयोनिसोमनसिकारानुप्पादनस्सपि उपायभावतो सतिबलेन संवुतचक्खुन्द्रियादिता विय सम्पजञ्ञबलेनेव निच्चादिवसेन अभूतजाननाभावो होतीति. तेनाह ‘‘सङ्खेपेन…पे… होती’’ति. तत्थ सङ्खेपेनाति समासेन, अन्वयतो ब्यतिरेकतो च वित्थारं अकत्वाति अत्थो. ञाणं…पे… दस्सितं होति ‘‘जानतो’’तिआदिना ञाणस्सेव गहितत्ता. यदि एवं ‘‘स्वायं संवरो’’तिआदि कथं नीयतीति? ञाणस्स पधानभावदस्सनत्थं एवमयं देसना कताति नायं दोसो, तथा अञ्ञत्थापि ‘‘अरियं वो भिक्खवे सम्मासमाधिं देसेस्सामि सउपनिसं सपरिक्खार’’न्ति (म. नि. ३.१३६) वित्थारो.

दब्बजातिकोति दब्बरूपो. सो हि द्रब्योति वुच्चति ‘‘द्रब्यं विनस्सति नाद्रब्य’’न्तिआदीसु. दब्बजातिको वा सारसभावो, सारुप्पसीलाचारोति अत्थो. यथाह ‘‘न खो दब्ब दब्बा एवं निब्बेठेन्ती’’ति (पारा. ३८४, ३९१; चूळव. १९३). वत्तसीसे ठत्वाति वत्तं उत्तमङ्गं, धुरं वा कत्वा. यो हि परिसुद्धाजीवो कातुं अजानन्तानं सब्रह्मचारीनं, अत्तनो वा वातातपादिपटिबाहनत्थं छत्तादीनि करोति, सो वत्तसीसे ठत्वा करोति नाम. पदट्ठानं न होतीति न वत्तब्बा नाथकरणधम्मभावेन उपनिस्सयभावतो. वुत्तञ्हि ‘‘यानि तानि सब्रह्मचारीनं उच्चावचानि किच्चकरणीयानि, तत्थ दक्खो होती’’तिआदि (म. नि. १.४९७).

उपायमनसिकारोति कुसलधम्मप्पवत्तिया कारणभूतो मनसिकारो. पथमनसिकारोति तस्सा एव मग्गभूतो मनसिकारो. अनिच्चादीसु अनिच्चन्तिआदिनाति अनिच्चदुक्खअसुभअनत्तसभावेसु धम्मेसु ‘‘अनिच्चं दुक्खं असुभं अनत्ता’’तिआदिना एव नयेन, अविपरीतसभावेनाति अत्थो. सच्चानुलोमिकेन वाति सच्चाभिसमयस्स अनुलोमवसेन. चित्तस्स आवट्टनातिआदिना आवट्टनाय पच्चयभूता ततो पुरिमुप्पन्ना मनोद्वारिका कुसलजवनप्पवत्ति फलवोहारेन तथा वुत्ता. तस्सा हि वसेन सा कुसलुप्पत्तिया उपनिस्सयो होति. आवज्जना हि भवङ्गचित्तं आवट्टयतीति आवट्टना. अनु अनु आवट्टेतीति अन्वावट्टना. भवङ्गारम्मणतो अञ्ञं आभुजतीति आभोगो. समन्नाहरतीति समन्नाहारो. तदेवारम्मणं अत्तानं अनुबन्धित्वा उप्पज्जमानं मनसि करोति ठपेतीति मनसिकारो. अयं वुच्चतीति अयं उपायपथमनसिकारलक्खणो योनिसोमनसिकारो नाम वुच्चति, यस्स वसेन पुग्गलो दुक्खादीनि सच्चानि आवज्जितुं सक्कोति. अयोनिसोमनसिकारे सच्चपटिकूलेनाति सच्चाभिसमयस्स अननुलोमवसेन. सेसं योनिसोमनसिकारे वुत्तविपरियायेन वेदितब्बं.

युत्तिन्ति उपपत्तिसाधनयुत्तिं, हेतुन्ति अत्थो. तेनेवाह ‘‘यस्मा’’तिआदि. एत्थाति ‘‘अयोनिसो भिक्खवे…पे… पहीयन्ती’’ति एतस्मिं पाठे. तत्थाति वाक्योपञ्ञासनं. कस्मा पनेत्थ अयमुद्देसनिद्देसो परिवत्तोति चोदनं सन्धायाह ‘‘योनिसो’’तिआदि. तत्थ मनसिकारपदं द्विन्नं साधारणन्ति अधिप्पायेन ‘‘योनिसो अयोनिसोति इमेहि ताव द्वीहि पदेही’’ति वुत्तं. योनिसोति हि योनिसोमनसिकारो, अयोनिसोति च अयोनिसोमनसिकारो तत्थ अनुवत्तनतो वक्खमानत्ता च. सतिपि अनत्थुप्पत्तिसामञ्ञे भवादीसु पुग्गलस्स बहुलिसामञ्ञं दस्सेत्वा तं परिवत्तित्वा विसेसदस्सनत्तं नावादि उपमात्तयग्गहणं दट्ठब्बं. चक्कयन्तं आहटघटीयन्तन्ति वदन्ति.

अनुप्पन्नाति अनिब्बत्ता. आरम्मणविसेसवसेन तस्स अनुप्पत्ति वेदितब्बा, न रूपारम्मणादिआरम्मणसामञ्ञेन, नापि आसववसेन. तेनाह ‘‘अननुभूतपुब्बं आरम्मणं…पे… अञ्ञथा हि अनमतग्गे संसारे अनुप्पन्ना नाम आसवा न सन्ती’’ति. वत्थुन्ति सविञ्ञाणकाविञ्ञाणकप्पभेदं आसवुप्पत्तिकारणं. आरम्मणं आरम्मणपच्चयभूतरूपादीनि. इदानि आसववसेनपि अनुप्पन्नपरियायो लब्भतीति दस्सेतुं ‘‘अनुभूतपुब्बेपी’’तिआदि वुत्तं. पकतिसुद्धियाति पुब्बचरियतो किलेसदूरीभावसिद्धाय सुद्धिपकतिताय. पाळिया उद्दिसनं उद्देसो, अत्थकथनं परिपुच्छा. अज्झयनं परियत्ति, चीवरसिब्बादि नवकम्मं, समथविपस्सनानुयोगो योनिसोमनसिकारो. तादिसेनाति यादिसेन ‘‘मनुञ्ञवत्थू’’तिमनसिकारादिना कामासवादयो सम्भवेय्युं, तादिसेन. आसवानं वड्ढि नाम परियुट्ठानतिब्बताय वेदितब्बा, सा च अभिण्हुप्पत्तिया बहुलीकारतोति ते लद्धासेवना बहुलभावं पत्ता मद्दन्ता फरन्ता छादेन्ता अन्धाकारं करोन्ता अपरापरं उप्पज्जमाना एकसन्ताननयेन ‘‘उप्पन्ना पवड्ढन्ती’’ति वुच्चन्ति. तेन वुत्तं ‘‘पुनप्पुनं उप्पज्जमाना उप्पन्ना पवड्ढन्तीति वुच्चन्ती’’ति. इतो अञ्ञथाति इतो अपरापरुप्पन्नानं एकत्तग्गहणतो अञ्ञथा वड्ढि नाम नत्थि खणिकभावतो.

सो च जानातीति धम्मुद्धच्चविग्गहाभावमाह. कारकस्सेवाति युत्तयोगस्सेव. यस्स पनातिआदिना अनुद्देसिकं कत्वा वुत्तमत्थं पुरातनस्स पुरिसातिसयस्स पटिपत्तिदस्सनेन पाकटतरं कातुं ‘‘मण्डलारामवासीमहातिस्सभूतत्थेरस्स विया’’तिआदि वुत्तं. तञ्हि सब्रह्मचारीनं आयतिं तथापटिपत्तिकारणं होति, यतो एदिसं वत्थु वुच्चति. तस्मिं येवाति मण्डलारामेयेव. आचरियं आपुच्छित्वाति अत्तनो उद्देसाचरियं कम्मट्ठानग्गहणत्थं गन्तुं आपुच्छित्वा. आचरियं वन्दित्वाति कम्मट्ठानदायकं महारक्खितत्थेरं वन्दित्वा. उद्देसमग्गन्ति यथाआरद्धं उद्देसपबन्धं. तदा किर मुखपाठेनेव बहू एकज्झं उद्दिसापेत्वा मनोसज्झायवसेन धम्मं सज्झायन्ति. तत्थायं थेरो पञ्ञवन्तताय उद्देसं गण्हन्तानं भिक्खूनं धोरय्हो, सो ‘‘इदानाहं अनागामी, किं मय्हं उद्देसेना’’ति सङ्कोचं अनापज्जित्वा दुतियदिवसे उद्देसकाले आचरियं उपसङ्कमि. ‘‘उप्पन्ना पहीयन्ती’’ति एत्थ उप्पन्नसदिसा ‘‘उप्पन्ना’’ति वुत्ता, न पच्चुप्पन्ना. न हि पच्चुप्पन्नेसु आसवेसु मग्गेन पहानं सम्भवतीति आह ‘‘ये पन…पे… नत्थी’’ति. वत्तमानुप्पन्ना खणत्तयसमङ्गिनो. तेसं पटिपत्तिया पहानं नत्थि उप्पज्जनारहानं पच्चयघातेन अनुप्पादनमेव ताय पहानन्ति.

१६. यदि एवं दुतियपदं किमत्थियन्ति? पदद्वयग्गहणं आसवानं उप्पन्नानुप्पन्नभावसम्भवदस्सनत्थञ्चेव पहायकविभागेन पहातब्बविभागदस्सनत्थञ्च. तेनाह ‘‘इदमेव पदं गहेत्वा’’ति. अञ्ञम्पीति ञाणतो अञ्ञम्पि सतिसंवरादिं. दस्सनाति इदं हेतुम्हि निस्सक्कवचनन्ति दस्सनेनाति हेतुम्हि करणवचनेन तदत्थं विवरति. एस नयोति तमेवत्थं अतिदिसति. दस्सनेनाति सोतापत्तिमग्गेन. सो हि पठमं निब्बानदस्सनतो ‘‘दस्सन’’न्ति वुच्चति. यदिपि तं गोत्रभु पठमतरं पस्सति, दिस्वा पन कत्तब्बकिच्चस्स किलेसप्पहानस्स अकरणतो न तं दस्सनन्ति वुच्चति. आवज्जनट्ठानियञ्हि तं ञाणं मग्गस्स, निब्बानारम्मणत्तसामञ्ञेन चेतं वुत्तं, न निब्बानपटिविज्झनेन, तस्मा धम्मचक्खु पुनप्पुनं निब्बत्तनेन भावनं अप्पत्तं दस्सनं नाम, धम्मचक्खुञ्च परिञ्ञादिकिच्चकरणवसेन चतुसच्चधम्मदस्सनं तदभिसमयोति नुत्थेत्थ गोत्रभुस्स दस्सनभावप्पत्ति. अयञ्च विचारो परतो अट्ठकथायमेव (म. नि. अट्ठ. १.२२) आगमिस्सति. सब्बत्थाति ‘‘संवरा पहातब्बा’’तिआदीसु. संवराति संवरेन, ‘‘संवरो’’ति चेत्थ सतिसंवरो वेदितब्बो. पटिसेवति एतेनाति पटिसेवनं, पच्चयेसु इदमत्थिकताञाणं. अधिवासेति खमति एतायाति अधिवासना, सीतादीनं खमनाकारेन पवत्तो अदोसो, तप्पधाना वा चत्तारो कुसलक्खन्धा. परिवज्जेति एतेनाति परिवज्जनं, वाळमिगादीनं परिहरणवसेन पवत्ता चेतना, तथापवत्ता वा चत्तारो कुसलक्खन्धा. कामवितक्कादिके विनोदेति वितुदति एतेनाति विनोदनं, कुसलवीरियं. पठममग्गेन दिट्ठे चतुसच्चधम्मे भावनावसेन उप्पज्जनतो भावना, सेसमग्गत्तयं. न हि तं अदिट्ठपुब्बं किञ्चि पस्सति, एवं दस्सनादीनं वचनत्थो वेदितब्बो.

दस्सनापहातब्बआसववण्णना

१७. कुसलाकुसलधम्मेहि आलम्बियमानापि आरम्मणधम्मा आवज्जनमुखेनेव तब्भावं गच्छन्तीति दस्सेन्तो ‘‘मनसिकरणीये’’ति पदस्स ‘‘आवज्जितब्बे’’ति अत्थमाह. हितसुखावहभावेन मनसिकरणं अरहन्तीति मनसिकरणीया, तप्पटिपक्खतो अमनसिकरणीयाति आह ‘‘अमनसिकरणीयेति तब्बिपरीते’’ति. सेसपदेसूति ‘‘मनसिकरणीये धम्मे अप्पजानन्तो’’तिआदीसु. यस्मा कुसलधम्मेसुपि सुभसुखनिच्चादिवसेन मनसिकारो अस्सादनादिहेतुताय सावज्जो अहितदुक्खावहो अकुसलधम्मेसुपि अनिच्चादिवसेन मनसिकारो निब्बिदादिहेतुताय अनवज्जो हितसुखावहो, तस्मा ‘‘धम्मतो नियमो नत्थी’’ति वत्वा ‘‘आकारतो पन अत्थी’’ति आह.

वा-सद्दो येभुय्येन ‘‘ममं वा हि भिक्खवे (दी. नि. १.५, ६), देवो वा भविस्सामि देवञ्ञतरो वा’’तिआदीसु (म. नि. १.१८६; म. नि. २.७९, ८०) विकप्पत्थो दिट्ठो, न समुच्चयत्थोति तत्थ समुच्चयत्थे पयोगं दस्सेतुं ‘‘यथा’’तिआदि वुत्तं. एवञ्च कत्वा समुच्चयत्थदीपकं पनेतं सुत्तपदं समुदाहटं.

कामासवोति पञ्चकामगुणसङ्खाते कामे आसवो कामासवो. तेनाह ‘‘पञ्चकामगुणिको रागो’’ति. भवासवं पन ठपेत्वा सब्बो लोभो कामासवोति युत्तं सिया. रूपारूपभवेति कम्मुपपत्तिभेदतो दुविधेपि रूपारूपभवे छन्दरागो. झाननिकन्तीति झानस्सादो. ‘‘सुन्दरमिदं ठानं निच्चं धुव’’न्तिआदिना अस्सादेन्तस्स उप्पज्जमानो सस्सतुच्छेददिट्ठिसहगतो रागो भवे आसवोति भवासवो. एवन्ति सब्बदिट्ठीनं सस्सतुच्छेददिट्ठिसङ्गहतो भवासवेनेव दिट्ठासवो गहितो तंसहगतरागतायाति अधिप्पायो. अपरे पन ‘‘दिट्ठासवो अविज्जासवेन च सङ्गहितो’’ति वदन्ति. एत्थ च ‘‘भवासवो चतूसु दिट्ठिगतविप्पयुत्तलोभसहगतचित्तुप्पादेसु उप्पज्जती’’ति (ध. स. १४६५) वचनतो दिट्ठिसम्पयुत्तरागस्स भवासवभावो विचारेतब्बो, अथ ‘‘कामसहगता सञ्ञामनसिकारा’’तिआदीसु (सं. नि. ४.३३२) विय आरम्मणकरणत्थो सहगतत्थो, एवं सति भवासवे दिट्ठासवस्स समोधानगमनं कतं न सिया. न हि तम्पयोगतब्भावादिके असति तंसङ्गहो युत्तो, तस्मा यथावुत्तपाळिं अनुसारेन दिट्ठिगतसम्पयुत्तलोभोपि कामासवोति युत्तं सिया. दिट्ठधम्मिकसम्परायिकदुक्खानञ्हि कारणभूता कामासवादयोपि द्विधा वुत्ता.

अभिधम्मे (ध. स. ११०३) च कामासवनिद्देसे ‘‘कामेसूति कामरागदिट्ठिरागादीनं आरम्मणभूतेसु तेभूमकेसु वत्थुकामेसू’’ति अत्थो सम्भवति. तत्थ हि उप्पज्जमाना सा तण्हा सब्बापि न कामच्छन्दादिनामं न लभतीति. यदि पन लोभो कामासवभवासवविनिमुत्तोपि सिया, सो यदा दिट्ठिगतविप्पयुत्तेसु चित्तेसु उप्पज्जति, तदा तेन सम्पयुत्तो अविज्जासवो आसवविप्पयुत्तोति दोमनस्सविचिकिच्छुद्धच्चसम्पयुत्तस्स विय तस्सपि आसवविप्पयुत्तता वत्तब्बा सिया ‘‘चतूसु दिट्ठिगतविप्पयुत्तलोभसहगतचित्तुप्पादेसु उप्पन्नो मोहो सिया आसवसम्पयुत्तो, सिया आसवविप्पयुत्तो’’ति. ‘‘कामासवो अट्ठसु लोभसहगतचित्तुप्पादेसु उप्पज्जती’ति (ध. स. १४६५), ‘‘कामासवं पटिच्च दिट्ठासवो अविज्जासवो’’ति (पट्ठा. ३.३.१०९) च वचनतो दिट्ठिसहगतरागो कामासवो न होतीति न सक्का वत्तुं. किञ्च अभिज्झाकामरागानं विसेसो आसवद्वयएकासवभावो सिया, न अभिज्झाय च नोआसवभावोति नोआसवलोभस्स सब्भावो विचारेतब्बो. न हि अत्थि अभिधम्मे ‘‘आसवो च नोआसवो च धम्मा आसवस्स धम्मस्स आसवस्स च नोआसवस्स च धम्मस्स हेतुपच्चयो’’ति (पट्ठा. ३.३.१६-१७) सत्तमो नवमो च पञ्हो. गणनायञ्च ‘‘हेतुया सत्ता’’ति (पट्ठा. ३.३.४०) वुत्तं, नो ‘‘नवा’’ति. दिट्ठिसम्पयुत्ते पन लोभे नोआसवे विज्जमाने सत्तमनवमापि पञ्हा विस्सज्जनं लभेय्युं, गणनाय च ‘‘हेतुया नवा’’ति वत्तब्बं सिया, न पन वुत्तं. दिट्ठिविप्पयुत्ते च लोभे नोआसवे विज्जमाने वत्तब्बं वुत्तमेव. यस्मा पन सुत्तन्तदेसना नाम परियायकथा, न अभिधम्मदेसना विय निप्परियायकथा, तस्मा बलवकामरागस्सेव कामासवं दस्सेतुं ‘‘कामासवोति पञ्चकामगुणिको रागो’’ति वुत्तं, तथा भवाभिनन्दनन्ति.

सामञ्ञेन भवासवो दिट्ठासवं अन्तोगधं कत्वा इध तयो एव आसवा वुत्ताति तस्स तदन्तोगधतं दस्सेतुं ‘‘एवं दिट्ठासवो’’तिआदि वुत्तं. तथा हि वक्खति भवासवस्स अनिमित्तविमोक्खपटिपक्खतं. चतूसु सच्चेसु अञ्ञाणन्ति इदं सुत्तन्तनयं निस्साय वुत्तं. सुत्तन्तसंवण्णना हेसाति, तदन्तोगधत्ता वा पुब्बन्तादीनं. यथा अत्थतो कामासवादयो ववत्थापिता, तथा नेसं उप्पादवड्ढियो दस्सेन्तो ‘‘कामगुणे’’तिआदिमाह. अस्सादतो मनसिकरोतोति ‘‘सुभसुखा’’तिआदिना अस्सादनवसेन मनसि करोन्तस्स. चतुविपल्लासपदट्ठानभावेनाति सुभसञ्ञादीनं वत्थुभावेन. वुत्तनयपच्चनीकतोति ‘‘कामा नामेते अनिच्चा दुक्खा विपरिणामधम्मा’’तिआदिना कामगुणेसु आदीनवदस्सनपुब्बकनेक्खम्मपटिपत्तिया छन्दरागं विक्खम्भयतो समुच्छिन्दन्तस्स च अनुप्पन्नो च कामासवो न उप्पज्जति, उप्पन्नो च पहीयति. तथा महग्गतधम्मेसु चेव सकलतेभूमकधम्मेसु च आदीनवदस्सनपुब्बकअनिच्चादिमनसिकारवसेन निस्सरणपटिपत्तिया अनुप्पन्ना च भवासवअविज्जासवा न उप्पज्जन्ति, उप्पन्ना च पहीयन्तीति एवं तण्हापक्खे वुत्तस्स नयस्स पटिपक्खतो सुक्कपक्खे वित्थारो वेदितब्बो.

तयो एवाति अभिधम्मे विय ‘‘चत्तारो’’ति अवत्वा कस्मा तयो एव आसवा इध इमिस्सं दस्सनापहातब्बकथायं वुत्ता? तत्थ कामासवस्स तण्हापणिधिभावतो अप्पणिहितविमोक्खपटिपक्खता वेदितब्बा. भवेसु निच्चग्गाहानुसारतो येभुय्यतो भवरागसम्पत्तितो भवासवस्स अनिमित्तविमोक्खपटिपक्खता, भवदिट्ठिया पन भवासवभावे वत्तब्बमेव नत्थि, अनत्तसञ्ञाय ञाणानुभावसिद्धितो अविज्जासवस्स सुञ्ञतविमोक्खपटिपक्खता. एत्थाति एतिस्सं आसवकथायं. वण्णितन्ति कथितं. अभेदतोति सामञ्ञतो.

१८. कामासवादीनन्ति मनुस्सलोकदेवलोकगमनीयानं कामासवादीनं. निरयादिगमनीया पन कामासवादयो ‘‘दस्सना पहातब्बे आसवे’’ति एत्थेव समारुळ्हा. अथ वा यदग्गेन सो पुग्गलोदस्सनापहातब्बानं आसवानं अधिट्ठानं, तदग्गेन कामासवादीनम्पि अधिट्ठानं. न हि समञ्ञाभेदेन वत्थुभेदो अत्थीति दस्सेतुं ‘‘एत्तावता’’तिआदि वुत्तं. तेनेवाह ‘‘सामञ्ञतो वुत्तान’’न्ति. कस्मा पनेत्थ दस्सनापहातब्बेसु आसवेसु दस्सेतब्बेसु ‘‘अहोसिं नु खो अह’’न्तिआदिना विचिकिच्छा दस्सिताति आह ‘‘विचिकिच्छासीसेन चेत्था’’तिआदि. एवन्ति यथा सोळसवत्थुका विचिकिच्छा उप्पज्जति, एवं अयोनिसोमनसिकारोति.

विज्जमानतं अविज्जमानतञ्चाति (सं. नि. टी. २.२.२०) सस्सतासङ्कं निस्साय ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्ति अतीते अत्तनो विज्जमानतं, अधिच्चसमुप्पत्तिआसङ्कं निस्साय ‘‘यतो पभुति अहं, ततो पुब्बे न नु खो अहोसि’’न्ति अतीते अत्तनो अविज्जमानतञ्च कङ्खति. कस्मा? विचिकिच्छाय आकारद्वयावलम्बनतो. तस्सा पन अतीतवत्थुताय गहितत्ता सस्सताधिच्चसमुप्पत्तिआकारनिस्सयता दस्सिता. एवं आसप्पनपरिसप्पनापवत्तिकं कत्थचिपि अप्पटिवत्तिहेतुभूतं विचिकिच्छं कस्मा उप्पादेतीति न चोदेतब्बमेतन्ति दस्सेन्तो आह ‘‘किं कारणन्ति न वत्तब्ब’’न्ति. स्वेव पुथुज्जनभावो एव. यदि एवं तस्स अयोनिसोमनसिकारेनेव भवितब्बन्ति आपन्नन्ति आह ‘‘ननु च पुथुज्जनोपि योनिसो मनसि करोती’’ति. तत्थाति योनिसोमनसिकरणे.

जातिलिङ्गूपपत्तियोति खत्तियब्राह्मणादिजातिं गहट्ठपब्बजितादिलिङ्गं देवमनुस्सादिउपपत्तिञ्च. निस्सायाति उपादाय.

तस्मिं काले सत्तानं मज्झिमप्पमाणं, तेन युत्तो पमाणिको, तदभावतो, ततो अतीतभावतो वा अप्पमाणिको वेदितब्बो. केचीति सारसमासाचरिया. ते हि ‘‘कथं नु खोति इस्सरेन वा ब्रह्मुना वा पुब्बकतेन वा अहेतुतो वा निब्बत्तोति चिन्तेती’’ति आहु. तेन वुत्तं ‘‘हेतुतो कङ्खतीति वदन्ती’’ति. अहेतुतो निब्बत्तिकङ्खापि हि हेतुपरामसनमेवाति.

परम्परन्ति पुब्बापरप्पवत्तिं. अद्धानन्ति कालाधिवचनं, तञ्च भुम्मत्थे उपयोगवचनं दट्ठब्बं.

विज्जमानतं अविज्जमानतञ्चाति सस्सतासङ्कं निस्साय ‘‘भविस्सामि नु खो अहमनागतमद्धान’’न्ति अनागते अत्तनो विज्जमानतं, उच्छेदासङ्कं निस्साय ‘‘यस्मिञ्च अत्तभावे अहं, ततो परं न नु खो भविस्सामी’’ति अनागते अत्तनो अविज्जमानतञ्च कङ्खतीति हेट्ठा वुत्तनयेन योजेतब्बं.

पच्चुप्पन्नमद्धानन्ति अद्धापच्चुप्पन्नस्स इधाधिप्पेतत्ता ‘‘पटिसन्धिं आदिं कत्वा’’तिआदि वुत्तं. ‘‘इदं कथं इदं कथ’’न्ति पवत्तनतो कथंकथा, विचिकिच्छा, सा अस्स अत्थीति कथंकथीति आह ‘‘विचिकिच्छो होती’’ति. का एत्थ चिन्ता, उम्मत्तको विय हि बालपुथुज्जनोति पटिकच्चेव वुत्तन्ति अधिप्पायो. तं महामाताय पुत्तं. मुण्डेसुन्ति मुण्डेन अनिच्छन्तं जागरणकाले न सक्काति सुत्तं मुण्डेसुं कुलधम्मताय यथा तं एकच्चे कुलतापसा, राजभयेनाति च वदन्ति.

सीतिभूतन्ति इदं मधुरकभावप्पत्तिया कारणवचनं. ‘‘सेतिभूत’’न्तिपि पाठो, उदके चिरट्ठानेन सेतभावं पत्तन्ति अत्थो.

अत्तनो खत्तियभावं कङ्खति कण्णो विय सूतपुत्तसञ्ञी. जातिया विभावियमानाय ‘‘अह’’न्ति तस्स अत्तनो परामसनं सन्धायाह ‘‘एवञ्हि सिया कङ्खा’’ति. मनुस्सापि च राजानो वियाति मनुस्सापि केचि एकच्चे राजानो वियाति अधिप्पायो.

वुत्तनयमेव ‘‘सण्ठानाकारं निस्साया’’तिआदिना. एत्थाति ‘‘कथं नु खोस्मी’’ति पदे. अब्भन्तरे जीवोति परपरिकप्पितं अन्तरत्तानं वदति. सोळसंसादीनन्ति आदि-सद्देन सरीर-परिमाण-परिमण्डल-अङ्गुट्ठयवपरमाणु-परिमाणतादिके सङ्गण्हाति.

‘‘सत्तपञ्ञत्ति जीवविसया’’ति दिट्ठिगतिकानं मतिमत्तं, परमत्थतो पन सा अत्तभावविसयावाति आह ‘‘अत्तभावस्स आगतिगतिट्ठान’’न्ति, यतायं आगतो, यत्थ च गमिस्सति, तं ठानन्ति अत्थो.

१९. यथा अयं विचिकिच्छा उप्पज्जतीति अयं वुत्तप्पभेदा विचिकिच्छा यथा उप्पज्जति, एवं अयोनिसो मनसिकरोतो. एतेन विचिकिच्छाय अत्ताभिनिवेससन्निस्सयतमाह. यथा हि विचिकिच्छा अत्ताभिनिवेसं निस्साय पवत्तति, यतो सा सस्सताधिच्चसमुप्पत्तिसस्सतुच्छेदाकारावलम्बिनी वुत्ता, एवं अत्ताभिनिवेसोपि तं निस्साय पवत्तति ‘‘अहोसिं नु खो अह’’न्तिआदिना अन्तोगधाहंकारस्स कथंकथिभावस्स अत्तग्गाहसन्निस्सयभावतो. तेनेवाह ‘‘सविचिकिच्छस्स अयोनिसोमनसिकारस्स थामगतत्ता’’ति. विकप्पत्थोति अनियमत्थो. ‘‘अञ्ञतरा दिट्ठि उप्पज्जती’’ति हि वुत्तं. सुट्ठु दळ्हभावेनाति अभिनिवेसस्स अतिविय थामगतभावेन. तत्थ तत्थाति तस्मिं भवे. पच्चुप्पन्नमेवाति अवधारणेन अनागते अत्थिभावं निवत्तेति, न अतीते तत्थपि सति अत्थिताय उच्छेदग्गाहस्स सब्भावतो. अतीते एव नत्थि, न अनागतेपीति अधिप्पायो.

सञ्ञाक्खन्धसीसेनाति सञ्ञाक्खन्धपमुखेन, सञ्ञाक्खन्धं पमुखं कत्वाति अत्थो. खन्धेति पञ्चपि खन्धे. अत्ताति गहेत्वाति ‘‘सञ्जाननसभावो मे अत्ता’’ति अभिनिविस्स. पकासेतब्बं वत्थुं विय, अत्तानम्पि पकासेन्तो पदीपो विय, सञ्जानितब्बं नीलादिआरम्मणं विय अत्तानम्पि सञ्जानातीति एवंदिट्ठितोपि दिट्ठिगतितो होतीति वुत्तं ‘‘अत्तनाव अत्तानं सञ्जानामी’’ति. स्वायमत्थो सञ्ञं तदञ्ञतरधम्मे च ‘‘अत्ता अनत्ता’’ति च गहणवसेन होतीति वुत्तं ‘‘सञ्ञाक्खन्धसीसेना’’तिआदि. एत्थ च खन्धविनिमुत्तो अत्ताति गण्हतो सस्सतदिट्ठि, खन्धं पन ‘‘अत्ता’’ति गण्हतो उच्छेददिट्ठीति आह ‘‘सब्बापि सस्सतुच्छेददिट्ठियोवा’’ति.

अभिनिवेसाकाराति विपरियेसाकारा. वदतीति इमिना कारकवेदकसत्तानं हितसुखावबोधनसमत्थतं अत्तनो दीपेति. तेनाह ‘‘वचीकम्मस्स कारको’’ति. वेदेतीति वेदियो, वेदियोव वेदेय्यो. ईदिसानञ्हि पदानं बहुला कत्तुसाधनतं सद्दसत्थविदू मञ्ञन्ति. उप्पादवतो एकन्तेनेव वयो इच्छितब्बो, सति च उदयब्बयत्ते नेव निच्चताति ‘‘निच्चो’’ति वदन्तस्स अधिप्पायं विवरन्तो आह ‘‘उप्पादवयरहितो’’ति. सारभूतोति निच्चताय एव सारभावो. सब्बकालिकोति सब्बस्मिं काले विज्जमानो. पकतिभावन्ति सभावभूतं पकतिं, ‘‘वदो’’तिआदिना वा वुत्तं पकतिसङ्खातं सभावं. सस्सतिसमन्ति सस्सतिया समं सस्सतिसमं, थावरं निच्चकालन्ति अत्थो. तथेव ठस्सतीति येनाकारेन पुब्बे अट्ठासि, एतरहि तिट्ठति, तथेव तेनाकारेन अनागतेपि ठस्सतीति अत्थो.

पच्चक्खनिदस्सनं इदं-सद्दस्स आसन्नपच्चक्खभावं कत्वा. दिट्ठियेव दिट्ठिगतन्ति गत-सद्दस्स पदवड्ढनमत्ततं आह. दिट्ठीसुगतन्ति मिच्छादिट्ठीसु परियापन्नन्ति अत्थो. तेनेवाह ‘‘द्वासट्ठिदिट्ठिअन्तोगधत्ता’’ति. दिट्ठिया गमनमत्तन्ति दिट्ठिया गहणमत्तं. यथा पन पब्बतजलविदुग्गानि दुन्निग्गमनानि, एवं दिट्ठिग्गाहोपीति आह ‘‘दुन्निग्गमनट्ठेन गहन’’न्ति. तं नाम उदकं, तं गहेत्वा तं अतिक्कमितब्बतो कन्तारो, निरुदकवनं, तं पवनन्तिपि वुच्चति. अञ्ञो पन अरञ्ञपदेसो दुरतिक्कमनट्ठेन कन्तारो वियाति, एवं दिट्ठिपीति आह ‘‘दुरतिक्कमनट्ठेना’’तिआदि. विनिविज्झनं वितुदनं. विलोमनं विपरिणामभावो. अनवट्ठितसभावताय विचलितं विप्फन्दितन्ति आह ‘‘कदाची’’तिआदि. अन्दुबन्धनादि विय निस्सरितुं अप्पदानवसेन असेरिभावकरणं बन्धनट्ठो, किलेसकम्मविपाकवट्टानं पच्चयभावेन दूरगतम्पि आकड्ढित्वा संयोजनं संयोजनट्ठो, दिट्ठिपि तथारूपाति वुत्तं ‘‘दिट्ठिसंयोजन’’न्ति. बन्धनत्थं दस्सेन्तो किच्चसिद्धियाति अधिप्पायो. तेनेवाह ‘‘दिट्ठिसंयोजनेन…पे… मुच्चती’’ति. तत्थ एतेहीति इमिना जातिआदिदुक्खस्स पच्चयभावमाह. जातिआदिके दुक्खधम्मे सरूपतो दस्सेत्वापि ‘‘न परिमुच्चति दुक्खस्मा’’ति वदन्तेन भगवता दिट्ठिसंयोजनं नाम सब्बानत्थकरं महासावज्जं सब्बस्सपि दुक्खस्स मूलभूतन्ति अयमत्थो विभावितोति दस्सेतुं ‘‘किं वा बहुना, सकलवट्टदुक्खतोपि न मुच्चती’’ति वुत्तं.

२०. ननु चेत्थ दिट्ठिसंयोजनदस्सनेन सीलब्बतपरामासोपि दस्सेतब्बो, एवञ्हि दस्सनेन पहातब्बा आसवा अनवसेसतो दस्सिता होन्तीति चोदनं सन्धायाह ‘‘यस्मा’’तिआदि. सीलब्बतपरामासो कामासवादिग्गहणेनेव गहितो होति कामासवादिहेतुकत्ता तस्स. अप्पहीनकामरागादिको हि कामसुखत्थं वा भवसुद्धत्थं वा एवं भवविसुद्धि होतीति सीलब्बतानि परामसन्ति, ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’’ति (म. नि. १.१८६; म. नि. २.७९), ‘‘तत्थ निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सामी’’ति (म. नि. १.१९), ‘‘सीलेन सुद्धि वतेन सुद्धि सीलब्बतेन सुद्धी’’ति (ध. स. १२२२) च सुत्तेवुत्तं सीलब्बतं परामसन्ति. तत्थ भवसुखभवविसुद्धिअत्थन्ति भवसुखत्थञ्च भवविसुद्धिअत्थञ्च. तस्स गहितत्ताति सीलब्बतपरामासस्स दिट्ठिग्गहणेन गहितत्ता यथा ‘‘दिट्ठिगतानं पहानाया’’तिआदीसु (ध. स. २७७). तेसन्ति दस्सनपहातब्बानं. दस्सेतुं पुग्गलाधिट्ठानाय देसनाय. तब्बिपरीतस्साति योनिसोमनसिकरोतो कल्याणपुथुज्जनस्स.

तस्साति ‘‘सुतवा’’तिआदिपाठस्स. तावाति ‘‘सुतवा’’ति इतो पट्ठाय याव ‘‘सो इदं दुक्ख’’न्ति पदं, ताव इमं पदं अवधिं कत्वाति अत्थो. हेट्ठा वुत्तनयेनाति अरियसप्पुरिस-अरियधम्म-सप्पुरिसधम्म-मनसिकरणीय-अमनसिकरणीयपदानं यथाक्कमं मूलपरियाये इध गहेत्वा वुत्तनयेन अत्थो वेदितब्बोति सम्बन्धो. वुत्तपच्चनीकतोति ‘‘सुतवा अरियसावको, अरियानं दस्सावी, सप्पुरिसानं दस्सावी’’ति एतेसं पदानं सब्बाकारेन वुत्तविपरीततो अत्थो वेदितब्बो, कोविदविनीतपदानं पन न सब्बप्पकारेन वुत्तविपरीततो. अरहा हि निप्परियायेन अरियधम्मे कोविदो अरियधम्मे सुविनीतो च नाम. तेनाह ‘‘पच्चनीकतो च सब्बाकारेन…पे… अरियसावकोति वेदितब्बो’’ति. सङ्खारुपेक्खाञाणं सिखाप्पत्तविपस्सना. केचि पन ‘‘भङ्गञाणतो पट्ठाय सिखापत्तविपस्सना’’ति वदन्ति, तदयुत्तं. तदनुरूपेन अत्थेनाति तस्स पुग्गलस्स अनुरूपेन अरियट्ठेन, न पटिवेधवसेनाति अधिप्पायो. कल्याणपुथुज्जनो हि अयं. यथा चस्स ‘‘योपि कल्याणपुथुज्जनो’’ति आरभित्वा ‘‘सोपि वुच्चति सिक्खतीति सेक्खो’’ति परियायेन सेक्खसुत्ते (सं. नि. ५.१३) सेक्खभावो वुत्तो, एवं इध अरियसावकभावो वुत्तो. वुट्ठानगामिनीविपस्सनालक्खणेहि ये अरियसप्पुरिसधम्मविनयसङ्खाता बोधिपक्खियधम्मा तिस्सो सिक्खा एव वा सम्भवन्ति, तेसं वसेन इमस्स अरियसावकादिभावो वुत्तो. तेनाह ‘‘तदनुरूपेन अत्थेना’’ति. अरियस्स सावकोति वा अरियसावकत्थेन एव वुत्तो यथा ‘‘अगमा राजगहं बुद्धो’’ति (सु. नि. ४१०). सिखाप्पत्तविपस्सनाग्गहणञ्चेत्थ विपस्सनं उस्सुक्कापेत्वा अनिवत्तिपटिपदायं ठितस्स गहणत्थन्ति यथावुत्ता अत्थसंवण्णना सुट्ठुतरं युज्जतेव.

२१. यथा धातुमुखेन विपस्सनं अभिनिविट्ठो धातुकम्मट्ठानिको आयतनादिमुखेन अभिनिविट्ठो आयतनादिकम्मट्ठानिको, एवं सच्चमुखेन अभिनिविट्ठोति वुत्तं ‘‘चतुसच्चकम्मट्ठानिको’’ति. चतुरोघनित्थरणत्थिकेहि कातब्बतो कम्मं, भावना. कम्ममेव विसेसाधिगमस्स ठानं कारणन्ति, कम्मे वा यथावुत्तनट्ठेन ठानं अवट्ठानं भावनारम्भोकम्मट्ठानं, तदेव चतुसच्चमुखेन पवत्तं एतस्स अत्थीति चतुसच्चकम्मट्ठानिको. उभयं नप्पवत्तति एत्थाति अप्पवत्ति. उग्गहितचतुसच्चकम्मट्ठानोति च चतुसच्चकम्मट्ठानं पाळितो अत्थतो च उग्गहेत्वा मनसिकारयोग्गं कत्वा ठितो. विपस्सनामग्गं समारुळ्होति सप्पच्चयनामरूपदस्सने पतिट्ठाय तदेव नामरूपं अनिच्चादितो सम्मसन्तो. समन्नाहरतीति विपस्सनावज्जनं सन्धायाह, तस्मा यथा ‘‘इदं दुक्ख’’न्ति विपस्सनाञाणं पवत्तति, एवं समन्नाहरति आवज्जतीति अत्थो. कथं पनेत्थ ‘‘मनसि करोती’’ति इमिना ‘‘विपस्सती’’ति अयमत्थो वुत्तो होतीति आह ‘‘एत्थ…पे… वुत्ता’’ति. एत्थाति च इमस्मिं सुत्तेति अत्थो. विपस्सतीति च यथा उपरि विसेसाधिगमो होति, एवं ञाणचक्खुना विपस्सति, ओलोकेतीति अत्थो. मग्गोपि वत्तब्बो. पुरिमञ्हि सच्चद्वयं गम्भीरत्ता दुद्दसं, इतरं दुद्दसत्ता गम्भीरं.

अभिनिवेसोति विपस्सनाभिनिवेसो विपस्सनापटिपत्ति. तदारम्मणेति तं रूपक्खन्धं आरम्मणं कत्वा पवत्ते. याथावसरसलक्खणं ववत्थपेत्वाति अविपरीतं अत्तनो आरम्मणं सभावच्छेदनादिकिच्चञ्चेव अञ्ञाणादिलक्खणञ्च असङ्करतो हदये ठपेत्वा. इमिना पुब्बे नामरूपपरिच्छेदे कतेपि धम्मानं सलक्खणववत्थापनं पच्चयपरिग्गहेन सुववत्थापितं नाम होतीति दस्सेति यथा ‘‘द्विक्खत्तुं बद्धं सुबद्ध’’न्ति. एवञ्हि ञातपरिञ्ञाय किच्चं सिद्धं नाम होति. पच्चयतो पच्चयुप्पन्नतो च ववत्थापितत्ता पाकटभावेन सिद्धेनपि सिद्धभावो पाकटो होतीति वुत्तं ‘‘अहुत्वा होन्ती’’ति. अनिच्चलक्खणं आरोपेतीति असतो हि उप्पादेन भवितब्बं, न सतो, उप्पादवन्ततो च नेसं एकन्तेन इच्छितब्बा पच्चयायत्तवुत्तिभावतो, सति उप्पादे अवस्संभावी निरोधोति नत्थेव निच्चतावकासोति. सूपट्ठितानिच्चताय च उदयब्बयधम्मेहि अभिण्हपटिपीळनतो दुक्खमनट्ठेन दुक्खं. तेनाह ‘‘उदयब्बयपटिपीळितत्ता दुक्खाति दुक्खलक्खणं आरोपेती’’ति. कत्थचिपि सङ्खारगते ‘‘मा जीरि मा ब्याधियी’’ति अलब्भनतो नत्थि वसवत्तनन्ति आह ‘‘अवसवत्तनतो अनत्ताति अनत्तलक्खणं आरोपेती’’ति. पटिपाटियाति उदयब्बयञाणादिपरम्पराय.

तस्मिं खणेति सोतापत्तिमग्गक्खणे. एकपटिवेधेनेवाति एकञाणेनेव पटिविज्झनेन. पटिवेधो पटिघाताभावेन विसये निस्सङ्गचारसङ्खातं निब्बिज्झनं. अभिसमयो अविरज्झित्वा विसयस्स अधिगमसङ्खातो अवबोधो. ‘‘इदं दुक्खं, एत्तकं दुक्खं, न इतो भिय्यो’’ति परिच्छिन्दित्वा जाननमेव वुत्तनयेन पटिवेधोति परिञ्ञापटिवेधो. अयं यथा ञाणे पवत्ते पच्छा दुक्खस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्तिं गहेत्वा वुत्तो, न पन मग्गञाणस्स ‘‘इदं दुक्ख’’न्तिआदिनापि वत्तनतो. तेनाह ‘‘न हिस्स तस्मिं समये’’तिआदि. पहीनस्स पुन अप्पहातब्बताय पकट्ठं हानं चजनं समुच्छिन्दनं पहानं, पहानमेव वुत्तनयेन पटिवेधोति पहानपटिवेधो. अयम्पि येन किलेसेन अप्पहीयमानेन मग्गभावनाय न भवितब्बं, असति च मग्गभावनाय यो उप्पज्जेय्य, तस्स किलेसस्स पदघातं करोन्तस्स अनुप्पत्तिधम्मतं आपादेन्तस्स ञाणस्स तथापवत्तिया पटिघाताभावेन निस्सङ्गचारं उपादाय एवं वुत्तो. सच्छिकिरिया पच्चक्खकरणं, अनुस्सवाकारपरिवितक्कादिके मुञ्चित्वा सरूपतो आरम्मणकरणं इदं तन्ति यथासभावतो गहणं, सा एव वुत्तनयेन पटिवेधोति सच्छिकिरियापटिवेधो. अयं पन यस्स आवरणस्स असमुच्छिन्दनतो ञाणं निरोधं आलम्बितुं न सक्कोति, तस्स समुच्छिन्दनतो तं सरूपतो विभावितमेव पवत्ततीति एवं वुत्तो.

भावना उप्पादना वड्ढना च, तत्थ पठममग्गे उप्पादनट्ठेन, दुतियादीसु वड्ढनट्ठेन, उभयत्थापि वा उभयथापि वेदितब्बं. पठममग्गोपि हि यथारहं वुट्ठानगामिनियं पवत्तं परिजाननादिं वड्ढेन्तो पवत्तोति तत्थापि वड्ढनट्ठेन भावना सक्का विञ्ञातुं. दुतियादीसुपि अप्पहीनकिलेसप्पहानतो पुग्गलन्तरसाधनतो उप्पादनट्ठेन भावना, सा एव वुत्तनयेन पटिवेधोति भावना पटिवेधो. अयम्पि हि यथा ञाणे पवत्ते पच्छा मग्गधम्मानं सरूपपरिच्छेदे सम्मोहो न होति, तथा पवत्तिमेव गहेत्वा वुत्तो, तिट्ठतु ताव यथाधिगतमग्गधम्मं यथापवत्तेसु फलधम्मेसुपि अयं यथाधिगतसच्चधम्मेसु विय विगतसम्मोहोव होति. तेन वुत्तं ‘‘दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो’’ति (दी. नि. १.२९९, ३५६; महाव. २७, ५७). यतो चस्स धम्मतासञ्चोदिता यथाधिगतसच्चधम्मावलम्बिनियो मग्गवीथितो परतो मग्गफलपहीनावसिट्ठकिलेसनिब्बानानं पच्चवेक्खणा पवत्तन्ति. दुक्खसच्चधम्मा हि सक्कायदिट्ठिआदयो. अयञ्च अत्थवण्णना ‘‘परिञ्ञाभिसमयेना’’तिआदीसुपि विभावेतब्बा. एकाभिसमयेन अभिसमेतीति वुत्तमेवत्थं विभूततरं कत्वा दस्सेतुं ‘‘नो च खो अञ्ञमञ्ञेन ञाणेना’’तिआदि वुत्तं.

वितण्डवादी पनाह ‘‘अरियमग्गञाणं चतूसु सच्चेसु नानाभिसमयवसेन किच्चकरणं, न एकाभिसमयवसेन. तञ्हि कालेन दुक्खं पजानाति, कालेन समुदयं पजहति, कालेन निरोधं सच्छिकरोति, कालेन मग्गं भावेति, अञ्ञथा एकस्स ञाणस्स एकस्मिं खणे चतुकिच्चकरणं न युज्जति. न हिदं कत्थचि दिट्ठम्पि सुत्तं अत्थी’’ति. सो वत्तब्बो – यदि अरियमग्गञाणं नानाभिसमयवसेन सच्चानि अभिसमेति, न एकाभिसमयवसेन, एवं सन्ते पच्चेकम्पि सच्चेसु नानक्खणेनेव पवत्तेय्य, न एकक्खणेन, तथा सति दुक्खादीनं एकदेसेकदेसमेव परिजानाति पजहतीति आपज्जतीति नानाभिसमये पठममग्गादीहि पहातब्बानं सञ्ञोजनत्तयादीनं एकदेसेकदेसप्पहानं सियाति एकदेससोतापत्तिमग्गट्ठादिता, ततो एव एकदेससोतापन्नादिता च आपज्जति अनन्तरफलत्ता लोकुत्तरकुसलानं, न च तं युत्तं. न हि कालभेदेन विना सो एव सोतापन्नो च असोतापन्नो चाति सक्का विञ्ञातुं.

अपिचायं नानाभिसमयवादी एवं पुच्छितब्बो ‘‘मग्गञाणं सच्चानि पटिविज्झन्तं किं आरम्मणतो पटिविज्झति, उदाहु किच्चतो’’ति? जानमानो ‘‘किच्चतो’’ति वदेय्य, ‘‘किच्चतो पटिविज्झन्तस्स किं नानाभिसमयेना’’ति वत्वा पटिपाटियानिदस्सनेन सञ्ञापेतब्बो. अथ ‘‘आरम्मणतो’’ति वदेय्य, एवं सन्ते तस्स ञाणस्स विपस्सनाञाणस्स विय दुक्खसमुदयानं अच्चन्तपरिञ्ञासमुच्छेदा न युत्ता अनिस्सटत्ता. तथा मग्गदस्सनं. न हि मग्गो सयमेव अत्तानं आरब्भ पवत्ततीति युत्तं, मग्गन्तरपरिकप्पनाय पन अनवट्ठानं आपज्जति, तस्मा तीणि सच्चानि किच्चतो, निरोधं किच्चतो च आरम्मणतो च पटिविज्झतीति एवं असम्मोहतो पटिविज्झन्तस्स मग्गञाणस्स नत्थेव नानाभिसमयो. वुत्तञ्हेतं ‘‘यो भिक्खवे दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सती’’तिआदि. न चेतं कालन्तरदस्सनं सन्धाय वुत्तं ‘‘यो नु खो, आवुसो, दुक्खं पस्सति, दुक्खसमुदयम्पि …पे… दुक्खनिरोधगामिनिपटिपदम्पि सो पस्सती’’ति (सं. नि. ५.११००) एकच्चदस्सनसमङ्गिनो अञ्ञसच्चदस्सनसमङ्गिभावविचारणायं तदत्थसाधनत्थं आयस्मता गवम्पतित्थेरेन आभतत्ता, पच्चेकञ्च सच्चत्तयदस्सनस्स योजितत्ता, अञ्ञथा पुरिमदिट्ठस्स पुन अदस्सनतो समुदयादिदस्सनमयोजनियं सिया. न हि लोकुत्तरमग्गो लोकियमग्गो विय कतकारीभावेन पवत्तति समुच्छेदकत्ता, तथा योजनेन च सब्बदस्सनं दस्सनन्तरपरमन्ति दस्सनानुपरमो सियाति एवं आगमतो युत्तितो च नानाभिसमयो न युज्जतीति सञ्ञापेतब्बो. एवं चे सञ्ञत्तिं गच्छति, इच्चेतं कुसलं. नो चे गच्छति, अभिधम्मे (कथा. २७४) ओधिसोकथाय सञ्ञापेतब्बोति.

निरोधं आरम्मणतोति निरोधमेव आरम्मणतोति नियमो गहेतब्बो, न आरम्मणतोवाति. तेन निरोधे किच्चतोपि पटिवेधो सिद्धो होति. तस्मिं समयेति सच्चानं अभिसमये. वीसतिवत्थुकातिआदि ‘‘तीणि सञ्ञोजनानी’’ति वुत्तानं सरूपदस्सनं. चतूसु आसवेसूति इदं अभिधम्मनयेन वुत्तं, न सुत्तन्तनयेन. न हि सुत्ते कत्थचि चत्तारो आसवा आगता अत्थि. यदि विचिकिच्छा न आसवो, अथ कस्मा ‘‘सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो, इमे वुच्चन्ति, भिक्खवे, आसवा दस्सना पहातब्बा’’ति वुत्तन्ति आह ‘‘दस्सना पहातब्बा’’तिआदि. एत्थ परियापन्नत्ताति एतेन सम्मासङ्कप्पस्स विय पञ्ञाक्खन्धे किच्चसभागताय इध विचिकिच्छाय आसवसङ्गहो कतोति दस्सेति.

सब्बो अत्तग्गाहो सक्कायदिट्ठिविनिमुत्तो नत्थीति वुत्तं ‘‘छन्नं दिट्ठीनं…पे… विभत्ता’’ति. सा हि दिट्ठि एकस्मिं चित्तुप्पादे सन्ताने च ठितं एकट्ठं, तत्थ पठमं सहजातेकट्ठं, इतरं पहानेकट्ठं, तदुभयम्पि निद्धारेत्वा दस्सेतुं ‘‘दिट्ठासवेही’’तिआदि वुत्तं. सब्बथापीति सब्बप्पकारेन, सहजातेकट्ठपहानेकट्ठप्पकारेहीति अत्थो. अवसेसाति दिट्ठासवतो अवसिट्ठा. तयोपि आसवाति कामासवभवासवअविज्जासवा. तथा हि पुब्बे ‘‘चतूसु आसवेसू’’ति वुत्तं. तस्माति यस्मा बहू एवेत्थ आसवा पहातब्बा, तस्मा बहुवचननिद्देसो कतो ‘‘इमे वुच्चन्ति, भिक्खवे, आसवा दस्सना पहातब्बा’’ति. पोराणानन्ति अट्ठकथाचरियानं, ‘‘पुरातनानं मज्झिमभाणकान’’न्ति च वदन्ति.

दस्सना पहातब्बातिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव.

दस्सनापहातब्बआसववण्णना निट्ठिता.

संवरापहातब्बआसववण्णना

२२. संवरादीहीति संवरपटिसेवनअधिवासनपरिवज्जनविनोदनेहि. सब्बेसम्पीति चतुन्नम्पि अरियमग्गानं. अयन्ति संवरापहातब्बादिकथा पुब्बभागपटिपदाति वेदितब्बा. तथा हि हेट्ठा ‘‘उपक्किलेसविसोधनं आदिं कत्वा आसवक्खयपटिपत्तिदस्सनत्थ’’न्ति सुत्तन्तदेसनाय पयोजनं वुत्तं. न हि सक्का आदितो एव अरियमग्गं भावेतुं, अथ खो समादिन्नसीलो इन्द्रियेसु गुत्तद्वारो ‘‘सङ्खायेकं पटिसेवति, सङ्खायेकं अधिवासेति, सङ्खायेकं परिवज्जेति, सङ्खायेकं विनोदेती’’ति (दी. नि. ३.३४८; म. नि. २.१६८) एवं वुत्तं चतुरापस्सेनपटिपत्तिं पटिपज्जमानो सम्मसनविधिं ओतरित्वा अनुक्कमेन विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया आसवे खेपेति. तेनाह भगवा ‘‘सेय्यथापि, भिक्खवे, महासमुद्दो अनुपुब्बनिन्नो अनुपुब्बपोणो अनुपुब्बपब्भारो, न आयतकेनेव पपातो, एवं खो, भिक्खवे, इमस्मिं धम्मविनये अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बपटिपदा, न आयतकेनेव अञ्ञापटिवेधो’’ति (अ. नि. ८.२०; उदा. ४५; चूळव. ३८५).

इधाति अयं इध-सद्दो सब्बाकारतो इन्द्रियसंवरसंवुतस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनो, अञ्ञसासनस्स तथाभावपटिसेधनो चाति वुत्तं ‘‘इमस्मिं सासने’’ति. आदीनवपटिसङ्खाति आदीनवपच्चवेक्खणा. सम्पलिमट्ठन्ति (अ. नि. टी. ३.६.५८) घंसितं. अनुब्यञ्जनसोति हत्थपादहसितकथितविलोकितादिप्पकारभागसो. तञ्हि अयोनिसो मनसिकरोतो किलेसानं अनु अनु ब्यञ्जनतो ‘‘अनुब्यञ्जन’’न्ति वुच्चति. निमित्तग्गाहोति इत्थिपुरिसनिमित्तादिकस्स वा किलेसवत्थुभूतस्स वा निमित्तस्स गाहो. आदित्तपरियायनयेनाति आदित्तपरियाये (सं. नि. ४.२८; महाव. ५४) आगतनयेन वेदितब्बा आदीनवपटिसङ्खाति योजना. यथा इत्थिया इन्द्रियन्ति इत्थिन्द्रियं, न एवमिदं, इदं पन चक्खुमेव इन्द्रियन्ति चक्खुन्द्रियन्ति. तित्थकाको वियाति तित्थे काको तित्थकाको, नदिया समतिक्कमनतित्थे नियतट्ठितिको. आवाटकच्छपोतिआदीसुपि एसेव नयो.

एवं तप्पटिबद्धवुत्तिताय चक्खुन्द्रिये नियतट्ठानो संवरो चक्खुन्द्रियसंवरो. मुट्ठस्सच्चं सतिपटिपक्खा अकुसलधम्मा. यदिपि अञ्ञत्थ असङ्खेय्यम्पि भवङ्गचित्तं निरन्तरं उप्पज्जति, पसादघट्टनावज्जनुप्पादानं पन अन्तरे द्वे एव भवङ्गचित्तानि उप्पज्जन्तीति अयं चित्तनियामोति आह भवङ्गे ‘‘द्विक्खत्तुं उप्पज्जित्वा निरुद्धे’’ति.

जवनक्खणे पन सचे दुस्सील्यं वातिआदि (विसुद्धि. टी. १.१५; ध. स. मूलटी. १३५२) पुन अवचनत्थं इधेव सब्बं वुत्तन्ति छसु द्वारेसु यथासम्भवं योजेतब्बं. न हि पञ्चद्वारे कायवचीदुच्चरितसङ्खातो दुस्सील्यसंवरो अत्थीति सो मनोद्वारवसेन, इतरो छन्नम्पि द्वारानं वसेन योजेतब्बो. मुट्ठस्सच्चादीनञ्हि सतिपटिपक्खादिलक्खणानं अकुसलधम्मानं सिया पञ्चद्वारे उप्पत्ति, न त्वेव कायिकवाचसिकवीतिक्कमभूतस्स दुस्सील्यस्स तत्थ उप्पत्ति पञ्चद्वारिकजवनानं अविञ्ञत्तिजनकत्ताति.

यथा किन्ति येन पकारेन जवने उप्पज्जमानो असंवरो ‘‘चक्खुद्वारे असंवरो’’ति वुच्चति, तं निदस्सनं किन्ति अत्थो. यथातिआदिना नगरद्वारे असंवरे सति तंसम्बन्धानं घरादीनं असंवुतता विय जवने असंवरे सति तंसम्बन्धानं द्वारादीनं असंवुतताति अञ्ञासंवरे अञ्ञासंवुततासामञ्ञमेव निदस्सेति, न पुब्बापरसामञ्ञं, अन्तोबहिसामञ्ञं वा. सम्बन्धो च जवनेन द्वारादीनं एकसन्ततिपरियापन्नताय एव दट्ठब्बो. पच्चयभावेन पुरिमनिप्फन्नं जवनकाले असन्तम्पि भवङ्गादि फलनिप्फत्तिया चक्खादि विय सन्तंयेव नाम. न हि धरमानंयेव ‘‘सन्त’’न्ति वुच्चति, तस्मा सति द्वारभवङ्गादिके पच्छा उप्पज्जमानं जवनं बाहिरं विय कत्वा नगरद्वारसमानं वुत्तं. इतरञ्च अन्तोनगरघरादिसमानं. जवनस्स हि परमत्थतो असतिपि बाहिरभावे इतरस्स च अब्भन्तरभावे ‘‘पभस्सरमिदं, भिक्खवे, चित्तं, तञ्च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति (अ. नि. १.४९) आदिवचनतो आगन्तुकभूतस्स कदाचि कदाचि उप्पज्जमानस्स जवनस्स बाहिरभावो, तब्बिधुरसभावस्स इतरस्स अब्भन्तरभावो च परियायतो वेदितब्बो. जवने वा असंवरे उप्पन्ने ततो परं द्वारभवङ्गादीनं असंवरहेतुभावापत्तितो नगरद्वारसदिसेन जवनेन पविसित्वा दुस्सील्यादिचोरानं द्वारभवङ्गादीसु मुसनं कुसलभण्डविनासनं दट्ठब्बं. उप्पन्ने हि असंवरे द्वारादीनं तस्स हेतुभावो पञ्ञायति, सो च उप्पज्जमानोयेव द्वारादीनं संवरूपनिस्सयभावं पटिबाहेन्तोयेव पवत्ततीति अयञ्हेत्थ असंवरादीनं पवत्तिनयो. पञ्चद्वारे रूपादिआरम्मणे आपाथगते यथापच्चयं अकुसलजवने उप्पज्जित्वा भवङ्गं ओतिण्णे मनोद्वारिकजवनं तंयेव आरम्मणं कत्वा भवङ्गं ओतरति, पुन तस्मिंयेव द्वारे ‘‘इत्थी पुरिसो’’तिआदिना विसयं ववत्थपेत्वा जवनं भवङ्गं ओतरति, पुन वारे रज्जनादिवसेन जवनं जवति, पुनपि यदि तादिसं आरम्मणं आपाथमागच्छति, तंसदिसमेव पञ्चद्वारे रूपादीसु जवनं उप्पज्जति. तं सन्धाय वुत्तं ‘‘एवमेव जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्त’’न्तिआदि. अयं ताव असंवरपक्खे अत्थवण्णना.

संवरपक्खेपि इमिनाव नयेन अत्थो वेदितब्बो. संवरेन समन्नागतो पुग्गलो संवुतोति वुत्तोति आह ‘‘उपेतोति वुत्तं होती’’ति. एकज्झं कत्वाति ‘‘पातिमोक्खसंवरसंवुतो’’ति पदञ्च अत्थतो अभिन्नं समानं कत्वा. अयमेव चेत्थ अत्थो सुन्दरतरो उपरिपाळिया संसन्दनतो. तेनाह ‘‘तथाही’’तिआदि. यन्ति आदेसोति इमिना लिङ्गविपल्लासेन सद्धिं वचनविपल्लासो कतोति दस्सेति, निपातपदं वा एतं पच्चत्तपुथुवचनत्थं. विघातकराति चित्तविघातकरणा चित्तदुक्खनिब्बत्तका च. यथावुत्तकिलेसहेतुका दाहानुबन्धा विपाका एव विपाकपरिळाहा. यथा पनेत्थ आसवा अञ्ञे च विघातकरा किलेसविपाकपरिळाहा सम्भवन्ति, तं दस्सेतुं ‘‘चक्खुद्वारेही’’तिआदि वुत्तं, तं सुविञ्ञेय्यमेव. एत्थ च संवरणूपायो, संवरितब्बं, संवरो, यतो सो संवरो, यत्थ संवरो, यञ्च संवरफलन्ति अयं विभागो वेदितब्बो. कथं? पटिसङ्खा योनिसोति हि संवरणूपायो. चक्खुन्द्रियं संवरितब्बं. संवरग्गहणेन गहिता सति संवरो. असंवुतस्साति संवरणावधि. असंवरतो हि संवरणं. संवरितब्बग्गहणेन सिद्धो इध संवरविसयो. चक्खुन्द्रियञ्हि संवरञाणं रूपारम्मणे संवरीयतीति अवुत्तसिद्धोयमत्थो. आसवतन्निमित्तकिलेसादिपरिळाहाभावो फलं. एवं सोतद्वारादीसुपि योजेतब्बं. सब्बत्थेवाति मनोद्वारे पञ्चद्वारे चाति सब्बस्मिं द्वारे.

संवरापहातब्बआसववण्णना निट्ठिता.

पटिसेवनापहातब्बआसववण्णना

२३. पटिसङ्खा योनिसो चीवरन्तिआदीसु ‘‘सीतस्स पटिघाताया’’तिआदिना वुत्तं पच्चवेक्खणमेव योनिसो पटिसङ्खा. ईदिसन्ति एवरूपं इट्ठारम्मणं. भवपत्थनाय अस्सादयतोति भवपत्थनामुखेन भावितं आरम्मणं अस्सादेन्तस्स. चीवरन्ति निवासनादि यं किञ्चि चीवरं. पटिसेवतीति निवासनादिवसेन परिभुञ्जति. यावदेवाति पयोजनपरिमाणनियमनं. सीतपटिघातादियेव हि योगिनो चीवरपटिसेवने पयोजनं. सीतस्साति धातुक्खोभतो वा उतुपरिणामतो वा उप्पन्नसीतस्स. पटिघातायाति पटिबाहनत्थं तप्पच्चयस्स विकारस्स विनोदनत्थं. उण्हस्साति अग्गिसन्तापतो उप्पन्नस्स उण्हस्स. डंसादयो पाकटायेव. पुन यावदेवाति नियतपयोजनपरिमाणनियमनं. नियतञ्हि पयोजनं चीवरपटिसेवनस्स हिरिकोपीनपटिच्छादनं, इतरं कदाचि कदाचि. हिरिकोपीनन्ति सम्बाधट्ठानं. यस्मिञ्हि अङ्गे विवटे हिरीकुप्पति विनस्सति, तं हिरिया कोपनतो हिरिकोपीनं, तस्स पटिच्छादनत्थं चीवरं पटिसेवति.

पिण्डपातन्ति यं किञ्चि आहारं. सो हि पिण्डोल्येन भिक्खनाय पत्ते पतनतो तत्थ तत्थ लद्धभिक्खापिण्डानं पातो सन्निपातोति ‘‘पिण्डपातो’’ति वुच्चति. नेव दवायाति न कीळनाय. न मदायाति न बलमदमानमदपुरिसमदत्थं. न मण्डनायाति न अङ्गपच्चङ्गानं पीणनभावत्थं. न विभूसनायाति न तेसंयेव सोभनत्थं, छविसम्पतिअत्थन्ति अत्थो. इमानि च पदानि यथाक्कमं मोह-दोस-सण्ठान-वण्ण-रागूपनिस्सय-पहानत्थानि वेदितब्बानि. पुरिमं वा द्वयं अत्तनो अत्तनो संकिलेसुप्पत्तिनिसेधनत्थं, इतरं परस्सपि. चत्तारिपि कामसुखल्लिकानुयोगस्स पहानत्थं वुत्तानीति वेदितब्बानि. कायस्साति रूपकायस्स. ठितिया यापनायाति पबन्धट्ठितत्थञ्चेव पवत्तिया अविच्छेदनत्थञ्च चिरकालट्ठितत्थं जीवितिन्द्रियस्स पवत्तापनत्थं. विहिंसूपरतियाति जिघच्छादुक्खस्स उपरमणत्थं. ब्रह्मचरियानुग्गहायाति सासनमग्गब्रह्मचरियानं अनुग्गहत्थं. इतीति एवं इमिना उपायेन. पुराणञ्च वेदनं पटिहङ्खामीति पुराणं अभुत्तपच्चया उप्पज्जनकवेदनं पटिहनिस्सामि. नवञ्च वेदनं न उप्पादेस्सामीति नवं भुत्तपच्चया उप्पज्जनकवेदनं न उप्पादेस्सामीति. तस्सा हि अनुप्पन्नाय अनुप्पज्जनत्थमेव आहारं परिभुञ्जति. एत्थ च अभुत्तपच्चया उप्पज्जनकवेदना नाम यथापवत्ता जिघच्छानिमित्ता वेदना. सा हि अभुञ्जन्तस्स भिय्यो भिय्यो पवड्ढनवसेन उप्पज्जति, भुत्तपच्चया उप्पज्जनकवेदनापि खुदानिमित्ताव अङ्गदाहसूलादिवेदना अप्पवत्ता. सा हि भुत्तपच्चया अनुप्पन्नाव न उप्पज्जिस्सतीति. विहिंसानिमित्तता चेतासं विहिंसाय विसेसो.

यात्रा च मे भविस्सतीति यापना च मे चतुन्नं इरियापथानं भविस्सति. यापनायाति इमिना जीवितिन्द्रिययापना वुत्ता, इध चतुन्नं इरियापथानं अविच्छेदसङ्खाता यापनाति अयमेतासं विसेसो. अनवज्जता च फासुविहारो चाति अयुत्तपरियेसनपटिग्गहणपरिभोगपरिवज्जनेन अनवज्जता, परिमितपरिभोगेन फासुविहारो. असप्पायापरिमितभोजनपच्चया अरतितन्दीविजम्भिताविञ्ञुगरहादिदोसाभावेन वा अनवज्जता, सप्पायपरिमितभोजनपच्चया कायबलसम्भवेन फासुविहारो. यावदत्थउदरावदेहकभोजनपरिवज्जनेन सेय्यसुखपस्ससुखमिद्धसुखादीनं अभावतो अनवज्जता, चतुपञ्चालोपमत्तञ्ञीनभोजनेन चतुइरियापथयोग्यतापादनतो फासुविहारो. वुत्तञ्हेतं –

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३);

एत्तावता पयोजनपरिग्गहो, मज्झिमा च पटिपदा दीपिता होति.

सेनासनन्ति सयनञ्च आसनञ्च. यत्थ हि विहारादिके सेति निपज्जति, आसति निसीदति, तं सेनासनं. उतुपरिस्सयविनोदनपटिसल्लानारामत्थन्ति उतुयेव परिसहनट्ठेन परिस्सयो, सरीराबाधचित्तविक्खेपकरो, अथ वा यथावुत्तो उतु च सीहब्यग्घादिपाकटपरिस्सयो च रागदोसादिपटिच्छन्नपरिस्सयो च उतुपरिस्सयो, तस्स विनोदनत्थञ्चेव एकीभावसुखत्थञ्च. इदञ्च चीवरपटिसेवने हिरिकोपीनपटिच्छादनं विय तस्स नियतपयोजनन्ति पुन ‘‘यावदेवा’’ति वुत्तं.

गिलानपच्चयभेसज्जपरिक्खारन्ति रोगस्स पच्चनीकप्पवत्तिया गिलानपच्चयो, ततो एव भिसक्कस्स अनुञ्ञातवत्थुताय भेसज्जं, जीवितस्स परिवारसम्भारभावेहि परिक्खारो चाति गिलानपच्चयभेसज्जपरिक्खारो, तं. उप्पन्नानन्ति जातानं निब्बत्तानं. वेय्याबाधिकानन्ति ब्याबाधतो धातुक्खोभतो च तन्निब्बत्तरोगतो च जातानं. वेदनानन्ति दुक्खवेदनानं. अब्याबज्झपरमतायाति निद्दुक्खपरमभावाय पटिसेवामीति योजना. एवमेत्थ सङ्खेपेनेव पाळिवण्णना वेदितब्बा. नववेदनुप्पादनतोपीति न केवलं आयतिं एव विपाकपरिळाहा, अथ खो अतिभोजनपच्चया अलंसाटकादीनं विय नववेदनुप्पादनतोपि वेदितब्बाति अत्थो.

पटिसेवनापहातब्बआसववण्णना निट्ठिता.

अधिवासनापहातब्बआसववण्णना

२४. खमोति खमनको. कम्मट्ठानिकस्स चलनं नाम कम्मट्ठानपरिच्चागोति आह ‘‘चलति कम्पति कम्मट्ठानं विजहती’’ति. अधिमत्तम्पि उण्हं सहति, सहन्तो च न नग्गसमणादयो विय सहति, अथ खो कम्मट्ठानाविजहनेनाति आह ‘‘स्वेव थेरो विया’’ति. बहिचङ्कमेति लेणतो बहि चङ्कमे. उण्हभयेनेवाति नरकग्गिउण्हभयेनेव. तेनाह ‘‘अवीचिमहानिरयं पच्चवेक्खित्वा’’ति, तम्पि ‘‘मया अनेकक्खत्तुं अनुभूतं, इदं पन ततो मुदुतर’’न्ति एवं पच्चवेक्खित्वा. एत्थाति एतस्मिं ठाने. अग्गिसन्तापोव वेदितब्बो सूरियसन्तापस्स परतो वुच्चमानत्ता.

परिसुद्धसीलोहमस्मीति सब्बथापि ‘‘विसुद्धसीलोहमस्मी’’ति मरणं अग्गहेत्वा अविप्पटिसारमूलिकं पीतिं उप्पादेसि. सह पीतुप्पादाति फरणपीतिया उप्पादेन सहेव. विसं निवत्तित्वाति पीतिवेगेन अज्झोत्थतं दट्ठमुखेनेव भस्सित्वा. तत्थेवाति सप्पेन दट्ठट्ठानेयेव. चित्तेकग्गतं लभित्वाति ‘‘पीतिमनस्स कायो पस्सम्भती’’तिआदिना (दी. नि. १.४६६; ३.३५९; सं. नि. ५.३७६; अ. नि. ३.९६; ११.१२) नयेन समाधानं पापुणित्वा.

पच्चयेसु सन्तोसो भावनाय च आरमितब्बट्ठानताय आरामो अस्साति पच्चयसन्तोसभावनारामो, तस्स भावो पच्चय…पे… रामता, ताय. महाथेरोति वुड्ढतरो थेरो. वचनमेव तदत्थं ञापेतुकामानं पथोति वचनपथो.

असुखट्ठेन वा तिब्बा. यञ्हि न सुखं, तं अनिट्ठं ‘‘तिब्ब’’न्ति वुच्चति. एवंसभावोति ‘‘अधिवासनजातियो’’ति पदस्स अत्थमाह. मुहुत्तेन खणेव वाते हदयं फालेतुं आरद्धेयेव. अनागामी हुत्वा परिनिब्बायीति अरहत्तं पत्वा परिनिब्बायि.

एवं सब्बत्थाति ‘‘उण्हेन फुट्ठस्स सीतं पत्थयतो’’तिआदिना सब्बत्थ उण्हादिनिमित्तं कामासवुप्पत्ति वेदितब्बा, सीतं वा उण्हं वा अनिट्ठन्ति अधिप्पायो. अत्तग्गाहे सति अत्तनियग्गाहोति आह ‘‘मय्हं सीतं उण्हन्ति गाहो दिट्ठासवो’’ति. सीतादिके उपगते सहन्ती खमन्ती ते अत्तनो उपरि वासेन्ती विय होतीति वुत्तं ‘‘आरोपेत्वा वासेतियेवा’’ति. न निरस्सतीति न विधुनति. यो हि सीतादिके न सहति, सो ते निरस्सन्तो विधुनन्तो विय होतीति.

अधिवासनापहातब्बआसववण्णना निट्ठिता.

परिवज्जनापहातब्बआसववण्णना

२५. अहं समणोति (अ. नि. टी. ३.६.५८) ‘‘अहं समणो, किं मम जीवितेन वा मरणेन वा’’ति एवं अचिन्तेत्वाति अधिप्पायो. पच्चवेक्खित्वाति गामप्पदेसं पयोजनादिञ्च पच्चवेक्खित्वा. पटिक्कमतीति हत्थिआदीनं समीपगमनतो अपक्कमति. कण्टका यत्थ तिट्ठन्ति, तं कण्टकट्ठानं. अमनुस्सदुट्ठानीति अमनुस्ससञ्चारेन दूसितानि, सपरिस्सयानीति अत्थो. समानन्ति समं, अविसमन्ति अत्थो. अकासि वा तादिसं अनाचारं.

सीलसंवरसङ्खातेनाति ‘‘कथं परिवज्जनं सील’’न्ति यदेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव. अपिच ‘‘चण्डं हत्थिं परिवज्जेती’’ति वचनतो हत्थिआदिपरिवज्जनम्पि भगवतो वचनानुट्ठानन्ति कत्वा आचारसीलमेवाति वेदितब्बं.

परिवज्जनापहातब्बआसववण्णना निट्ठिता.

विनोदनापहातब्बआसववण्णना

२६. इतिपीति इमिना कारणेन, अयोनिसोमनसिकारसमुट्ठितत्तापि लोभादिसहगतत्तापि कुसलपटिपक्खतोपीतिआदीहि कारणेहि अयं वितक्को अकुसलोति अत्थो. इमिना नयेन सावज्जोतिआदीसुपि अत्थो वेदितब्बो. एत्थ च अकुसलोतिआदिना दिट्ठधम्मिकं कामवितक्कस्स आदीनवं दस्सेति, दुक्खविपाकोति इमिना सम्परायिकं. अत्तब्याबाधाय संवत्ततीतिआदीसुपि इमिनाव नयेन आदीनवविभावना वेदितब्बा. उप्पन्नस्स कामवितक्कस्स अनधिवासनं नाम पुन तादिसस्स अनुप्पादनं, तं पनस्स पहानं विनोदनं ब्यन्तिकरणं अनभावगमनन्ति च वत्तुं वट्टतीति पाळियं ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’ति वत्वा ‘‘पजहती’’तिआदि वुत्तन्ति तमत्थं दस्सेन्तो ‘‘अनधिवासेन्तो किं करोतीति पजहती’’तिआदिमाह. पहानञ्चेत्थ विक्खम्भनमेव, न समुच्छेदोति दस्सेतुं ‘‘विनोदेती’’तिआदि वुत्तन्ति विक्खम्भनवसेनेव अत्थो दस्सितो.

कामवितक्कोति सम्पयोगतो आरम्मणतो च कामसहगतो वितक्को. तेनाह ‘‘कामपटिसंयुत्तो तक्को’’तिआदि. कामपटिसंयुत्तोति हि कामरागसङ्खातेन कामेन सम्पयुत्तो वत्थुकामसङ्खातेन पटिबद्धो च. उप्पन्नुप्पन्नेति तेसं पापवितक्कानं उप्पादावत्थागहणं वा कतं सिया अनवसेसग्गहणं वा. तेसु पठमं सन्धायाह ‘‘उपन्नमत्ते’’ति, सम्पतिजातेति अत्थो. अनवसेसग्गहणं ब्यापनिच्छाय होतीति दस्सेतुं ‘‘सतक्खत्तुम्पि उप्पन्ने’’ति वुत्तं. ञातिवितक्कोति ‘‘अम्हाकं ञातयो सुखजीविनो सम्पत्तियुत्ता’’तिआदिना गेहस्सितपेमवसेन ञातके आरब्भ उप्पन्नवितक्को. जनपदवितक्कोति ‘‘अम्हाकं जनपदो सुभिक्खो सम्पन्नसस्सो रमणीयो’’तिआदिना गेहस्सितपेमवसेनेव जनपदं आरब्भ उप्पन्नवितक्को. उक्कुटिकप्पधानादीहि दुक्खे निज्जिण्णे सम्पराये अत्ता सुखी होति अमरोति दुक्करकारिकाय पटिसंयुत्तो अमरत्थाय वितक्को, तं वा आरब्भ अमराविक्खेपदिट्ठिसहगतो अमरो च सो वितक्को चाति अमरवितक्को. परानुद्दयतापटिसंयुत्तोति परेसु उपट्ठाकादीसु सहनन्दिकादिवसेन पवत्तो अनुद्दयतापतिरूपको गेहस्सितपेमेन पटिसंयुत्तो वितक्को. लाभसक्कारसिलोकपटिसंयुत्तोति चीवरादिलाभेन चेव सक्कारेन च कित्तिसद्देन च आरम्मणकरणवसेन पटिसंयुत्तो. अनवञ्ञत्तिपटिसंयुत्तोति ‘‘अहो वत मं परे न अवजानेय्युं, न हेट्ठा कत्वा मञ्ञेय्युं, पासाणच्छत्तं विय गरुं करेय्यु’’न्ति उप्पन्नवितक्को.

कामवितक्को कामसङ्कप्पनसभावत्ता कामसङ्कप्पपवत्तिया सातिसयत्ता च कामनाकारोति आह ‘‘कामवितक्को पनेत्थ कामासवो’’ति. तब्बिसेसोति कामासवविसेसो, रागसहवुत्तीति अधिप्पायो. कामवितक्कादिके विनोदेति अत्तनो सन्तानतो नीहरति एतेनाति विनोदनं, वीरियन्ति आह ‘‘वीरियसंवरसङ्खातेन विनोदनेना’’ति.

विनोदनापहातब्बआसववण्णना निट्ठिता.

भावनापहातब्बआसववण्णना

२७. ‘‘सत्त बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तियो परिपूरेन्ती’’ति (सं. नि. ५.१८७) वचनतो विज्जाविमुत्तीनं अनधिगमो ततो च सकलवट्टदुक्खानतिवत्ति अभावनाय आदीनवो, वुत्तविपरियायेन भगवतो ओरसपुत्तभावादिवसेन च भावनाय आनिसंसो वेदितब्बो. उपरिमग्गत्तयसमयसम्भूताति दुतियादिमग्गक्खणे जाता, भावनाधिकारतो दुतियमग्गादिपरियापन्नाति अत्थो. ननु च ते लोकुत्तरा एव, कस्मा विसेसनं कतन्ति? नयिदं विसेसनं, विसेसितब्बं पनेतं, लोकुत्तरबोज्झङ्गा एव अधिप्पेता, ते च खो उपरिमग्गत्तयसमयसम्भूताति. बोज्झङ्गेसु असम्मोहत्थन्ति विपस्सनाझानमग्गफलबोज्झङ्गेसु सम्मोहाभावत्थं. मिस्सकनयेन हि बोज्झङ्गेसु वुच्चमानेसु तदङ्गादिविवेकदस्सनवसेन विपस्सनाबोज्झङ्गादयो विभजित्वा वुच्चन्ति, न निब्बत्तितलोकुत्तरबोज्झङ्गा एवाति बोज्झङ्गेसु सम्मोहो न होति बोज्झङ्गभावनापटिपत्तिया च सम्मदेव पकासितत्ता. इध पनाति इमस्मिं सुत्ते, इमस्मिं वा अधिकारे. लोकुत्तरनयो एव गहेतब्बो भावनामग्गस्स अधिकतत्ता.

आदिपदानन्ति (अ. नि. टी. १.१.४१८) ‘‘सतिसम्बोज्झङ्ग’’न्ति एवमादीनं तस्मिं तस्मिं वाक्ये आदिभूतानं पदानं. अत्थतोति विसेसवसेन सामञ्ञवसेन च पदत्थतो. लक्खणादीहीति लक्खणरसपच्चुपट्ठानतो. कमतोति अनुपुब्बितो. अनूनाधिकतोति तावत्तकतो. विभाविनाति विञ्ञुना.

सतिसम्बोज्झङ्गेति सतिसम्बोज्झङ्गपदे. सरणट्ठेनाति अनुस्सरणट्ठेन. चिरकतादिभेदं आरम्मणं उपगन्त्वा ठानं, अनिस्सज्जनं वा उपट्ठानं. उदके अलाबु विय पिलवित्वा गन्तुं अदत्वा पासाणस्स विय निच्चलस्स आरम्मणस्स ठपनं सारणं असम्मुट्ठताकरणं अपिलापनं. वुत्तम्पि हेतं मिलिन्दपञ्हे. भण्डागारिकोति भण्डगोपको. अपिलापे करोति अपिलापेति. थेरेनाति नागसेनत्थेरेन. सम्मोसपच्चनीकं किच्चं असम्मोसो, न सम्मोसाभावमत्तं. गोचराभिमुखभावपच्चुपट्ठानाति कायादिआरम्मणाभिमुखभावपच्चुपट्ठाना.

बोधिया धम्मसामग्गिया, अङ्गो अवयवो, बोधिस्स वा अरियसावकस्स अङ्गो कारणं. पतिट्ठानायूहना ओघतरणसुत्तवण्णनायं (सं. नि. अट्ठ. १.१.१) –

‘‘किलेसवसेन पतिट्ठानं, अभिसङ्खारवसेन आयूहना. तण्हादिट्ठीहि पतिट्ठानं, अवसेसकिलेसाभिसङ्खारेहि आयूहना. तण्हावसेन पतिट्ठानं, दिट्ठिवसेन आयूहना. सस्सतदिट्ठिया पतिट्ठानं, उच्छेददिट्ठिया आयूहना. लीनवसेन पतिट्ठानं, उद्धच्चवसेन आयूहना. कामसुखानुयोगवसेन पतिट्ठानं, अत्तकिलमथानुयोगवसेन आयूहना. सब्बाकुसलाभिसङ्खारवसेन पतिट्ठानं, सब्बलोकियकुसलाभिसङ्खारवसेन आयूहना’’ति –

वुत्तेसु पकारेसु इध अवुत्तानं वसेन वेदितब्बा. या हि अयं बोधीति वुच्चतीति योजेतब्बं. ‘‘बुज्झती’’ति पदस्स पटिबुज्झतीति अत्थोति आह ‘‘किलेससन्ताननिद्दाय उट्ठहती’’ति. तं पन पटिबुज्झनं अत्थतो चतुन्नं सच्चानं पटिवेधो, निब्बानस्सेव वा सच्छिकिरियाति आह ‘‘चत्तारी’’तिआदि. झानङ्गमग्गङ्गादयो वियाति यथा अङ्गानि एव झानमग्गा, न अङ्गविनिमुत्ता, एवमिधापीति अत्थो. सेनङ्गरथङ्गादयो वियाति एतेन पुग्गलपञ्ञत्तिया अविज्जमानपञ्ञत्तिभावं दस्सेति.

बोधाय संवत्तन्तीति बोज्झङ्गाति इदं कारणत्थो अङ्ग-सद्दोति कत्वा वुत्तं. बुज्झन्तीति बोधियो, बोधियो एव अङ्गाति बोज्झङ्गाति वुत्तं ‘‘बुज्झन्तीति बोज्झङ्गा’’ति. अनुबुज्झन्तीति विपस्सनादीनं कारणानं बुज्झितब्बानञ्च सच्चानं अनुरूपं बुज्झन्ति. पटिबुज्झन्तीति किलेसनिद्दाय उट्ठहनतो पच्चक्खभावेन वा पटिमुखं बुज्झन्ति. सम्बुज्झन्तीति अविपरीतभावेन सम्मा च बुज्झन्ति. एवं उपसग्गानं अत्थविसेसदीपनता दट्ठब्बा. बोधि-सद्दो हि सब्बविसेसयुत्तं बुज्झनं सामञ्ञेन गहेत्वा ठितो.

विचिनातीति ‘‘तयिदं दुक्ख’’न्तिआदिना वीमंसति. ओभासनं धम्मानं यथाभूतसभावपटिच्छादकस्स सम्मोहस्स विद्धंसनं यथा आलोको अन्धकारस्स. यस्मिं धम्मे सति वीरो नाम होति, सो धम्मो वीरभावो. ईरयितब्बतोति पवत्तेतब्बतो. कोसज्जपक्खतो पतितुं अप्पदानवसेन सम्पयुत्तानं पग्गण्हनं पग्गहो. उपत्थम्भनं अनुबलप्पदानं. ओसीदनं लयापत्ति, तप्पटिपक्खतो अनोसीदनं दट्ठब्बं. पीणयतीति तप्पेति वड्ढेति वा. फरणं पणीतरूपेहि कायस्स ब्यापनं. तुट्ठि नाम पीति. उदग्गभावो ओदग्यं, कायचित्तानं उक्खिपनन्ति अत्थो. कायचित्तदरथपस्सम्भनतोति कायदरथस्स चित्तदरथस्स च पस्सम्भनतो वूपसमनतो. कायोति चेत्थ वेदनादयो तयो खन्धा. दरथो सारम्भो, दुक्खदोमनस्सपच्चयानं उद्धच्चादिकिलेसानं, तप्पधानानं वा चतुन्नं खन्धानं अधिवचनं. उद्धच्चादिकिलेसपटिपक्खभावो दट्ठब्बो, एवञ्चेत्थ पस्सद्धिया अपरिप्फन्दनसीतिभावो दट्ठब्बो असारद्धभावतो. तेनाह भगवा ‘‘पस्सद्धो कायो असारद्धो’’ति (म. नि. १.५२).

समाधानतोति सम्मा चित्तस्स आधानतो ठपनतो. अविक्खेपो सम्पयुत्तानं अविक्खित्तता, येन ससम्पयुत्ता धम्मा अविक्खित्ता होन्ति, सो धम्मो अविक्खेपोति. अविसारो अत्तनो एव अविसरणसभावो. सम्पिण्डनं सम्पयुत्तानं अविप्पकिण्णभावापादनं न्हानीयचुण्णानं उदकं विय. चित्तट्ठितिपच्चुपट्ठानोति ‘‘चित्तस्स ठिती’’ति (ध. स. ११) वचनतो चित्तस्स पबन्धठितिपच्चुपट्ठानो. अज्झुपेक्खनतोति उदासीनभावतो. साति बोज्झङ्गउपेक्खा. समप्पवत्ते धम्मे पटिसञ्चिक्खति उपपत्तितो इक्खति तदाकारा हुत्वा पवत्ततीति पटिसङ्खानलक्खणा, एवञ्च कत्वा ‘‘पटिसङ्खा सन्तिट्ठना गहणे मज्झत्तता’’ति उपेक्खाकिच्चाधिमत्तताय सङ्खारुपेक्खा वुत्ता. सम्पयुत्तधम्मानं यथासककिच्चकरणवसेन समं पवत्तनपच्चयता समवाहिता. अलीनानुद्धतप्पवत्तिपच्चयता ऊनाधिकतानिवारणं. सम्पयुत्तानं असमप्पवत्तिहेतुकपक्खपातं उपच्छिन्दन्ती विय होतीति वुत्तं ‘‘पक्खपातुपच्छेदरसा’’ति. अज्झुपेक्खनमेव मज्झत्तभावो.

सब्बस्मिं लीनपक्खे उद्धच्चपक्खे च अत्थिका पत्थनीया इच्छितब्बाति सब्बत्थिका, तं सब्बत्थिकं. समानक्खणपवत्तीसु सत्तसुपि सम्बोज्झङ्गेसु वाचाय कमप्पवत्तितो पटिपाटिया वत्तब्बेसु यं किञ्चि पठमं अवत्वा सतिसम्बोज्झङ्गस्सेव पठमं वचनस्स कारणं सब्बेसं उपकारकत्तन्ति वुत्तं ‘‘सब्बेस’’न्तिआदि. सब्बेसन्ति च लीनुद्धच्चपक्खिकानं, अञ्ञथा सब्बेपि सब्बेसं पच्चयाति.

‘‘कस्मा सत्तेव बोज्झङ्गा वुत्ता’’ति चोदको सद्धालोभादीनम्पि बोज्झङ्गभावं आसङ्कति, इतरो सतिआदीनंयेव भावनाय उपकारतं दस्सेन्तो ‘‘लीनुद्धच्चपटिपक्खतो सब्बत्थिकतो चा’’तिआदिमाह. तत्थ लीनस्साति अतिसिथिलवीरियतादीहि भावनावीथिं अनोतरित्वा संकुटितस्स चित्तस्स. तदा हि पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गा न भावेतब्बा. तञ्हि एतेहि अल्लतिणादीहि विय परित्तो अग्गि दुस्समुट्ठापियं होतीति. तेनाह भगवा ‘‘सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुकामो अस्स, सो तत्थ अल्लानि चेव तिणानि पक्खिपेय्या’’तिआदि (सं. नि. ५.२३४). धम्मविचयवीरियपीतिसम्बोज्झङ्गा पन भावेतब्बा, सुक्खतिणादीहि विय परित्तो अग्गि लीनं चित्तं एतेहि सुसमुट्ठापियं होतीति. तेन वुत्तं ‘‘यस्मिञ्च खो’’तिआदि. तत्थ यथासकं आहारवसेन धम्मविचयसम्बोज्झङ्गादीनं भावना वेदितब्बा. वुत्तञ्हेतं ‘‘अत्थि, भिक्खवे, कुसलाकुसला धम्मा…पे… पीतिसम्बोज्झङ्गस्स भिय्योभावाय…पे… संवत्तती’’ति (सं. नि. ५.२३२). तत्थ सभावसामञ्ञलक्खणपटिवेधवसेन पवत्तमनसिकारो…पे… धम्मविचयसम्बोज्झङ्गादयो भावेति नाम.

उद्धच्चस्साति चित्तस्स अच्चारद्धवीरियतादीहि सीतिभावपतिट्ठितभावं अनोतिण्णताय, तदा धम्मविचयवीरियपीतिसम्बोज्झङ्गा न भावेतब्बा. तञ्हि एतेहि सुक्खतिणादीहि विय अग्गिक्खन्धो दुवूपसमयं होति. तेनाह भगवा ‘‘सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्या’’तिआदि (सं. नि. ५.२३४). पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गा पन भावेतब्बा, अल्लतिणादीहि विय अग्गिक्खन्धो उद्धतं चित्तं एतेहि सुवूपसमयं होति. तेन वुत्तं ‘‘यस्मिञ्च खो’’तिआदि. एत्थापि यथासकं आहारवसेन पस्सद्धिसम्बोज्झङ्गादीनं भावना वेदितब्बा. वुत्तञ्हेतं ‘‘अत्थि, भिक्खवे, कायपस्सद्धि चित्तपस्सद्धि…पे… उपेक्खासम्बोज्झङ्गस्स भिय्योभावाय संवत्तती’’ति (सं. नि. ५.२३२). तत्थ यथास्स पस्सद्धिआदयो उप्पन्नपुब्बा, तं आकारं सल्लक्खेत्वा तेसं उप्पादनवसेन तथा मनसिकरोन्तोव पस्सद्धिसम्बोज्झङ्गादयो भावेति नाम. सतिसम्बोज्झङ्गो पन सब्बत्थ बहूपकारो. सो हि चित्तं लीनपक्खिकानं पस्सद्धिआदीनं वसेन लयापत्तितो, उद्धच्चपक्खिकानञ्च धम्मविचयादीनं वसेन उद्धच्चपाततो रक्खति, तस्मा सो लोणधूपनं विय सब्बब्यञ्जनेसु सब्बकम्मिकअमच्चो विय च राजकिच्चेसु सब्बत्थ इच्छितब्बो. तेनाह ‘‘सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति (सं. नि. ५.२३४).

ञत्वा ञातब्बाति (सं. नि. टी. १.१.१२९) सम्बन्धो. वड्ढि नाम वेपुल्लं भिय्योभावो पुनप्पुनं उप्पादो एवाति आह ‘‘पुनप्पुनं जनेती’’ति. अभिवुद्धिं पापेन्तो निब्बत्तेति. विवित्तताति विवित्तभावो. यो हि विवेचनीयतो विविच्चति, यं विविच्चित्वा ठितं, तदुभयं इध विवित्तभावसामञ्ञेन ‘‘विवित्तता’’ति वुत्तं. तेसु पुरिमो विवेचनीयतो विविच्चमानताय विवेकसङ्खाताय विविच्चनकिरियाय समङ्गी धम्मसमूहो ताय एव विविच्चनकिरियाय वसेन विवेकोति गहितो. इतरो सब्बसो ततो ततो विवित्तसभावताय. तत्थ यस्मिं धम्मपुञ्जे सतिसम्बोज्झङ्गो विविच्चनकिरियाय पवत्तति, तं यथावुत्ताय विविच्चमानताय विवेकसङ्खातं निस्सायेव पवत्तति, इतरं पन तन्निन्नतातदारम्मणताहीति वुत्तं ‘‘विवेके निस्सित’’न्ति. यथा वा विवेकवसेन पवत्तं झानं ‘‘विवेकज’’न्ति वुत्तं, एवं विवेकवसेन पवत्तो बोज्झङ्गो ‘‘विवेकनिस्सितो’’ति दट्ठब्बो. निस्सयट्ठो च विपस्सनामग्गानं वसेन मग्गफलानं वेदितब्बो. असतिपि पुब्बापरभावे ‘‘पटिच्चसमुप्पादा’’ति एत्थ पच्चयानं समुप्पादनं विय अभिन्नधम्माधारा निस्सयनभावना सम्भवन्तीति. अयमेवाति विवेको एव. विवेको हि पहानविनयविरागनिरोधा च समानत्था.

तदङ्गसमुच्छेदनिस्सरणविवेकनिस्सिततं वत्वा पटिपस्सद्धिविवेकनिस्सितताय अवचनं ‘‘सतिसम्बोज्झङ्गं भावेती’’तिआदिना भावेतब्बानं बोज्झङ्गानं इध वुत्तत्ता. भावितब्बोज्झङ्गस्स हि ये सच्छिकातब्बा फलबोज्झङ्गा, तेसं किच्चं पटिपस्सद्धिविवेको. अज्झासयतोति ‘‘निब्बानं सच्छिकरिस्सामी’’ति महन्तअज्झासयतो. यदिपि विपस्सनाक्खणे सङ्खारारम्मणं चित्तं, सङ्खारेसु पन आदीनवं सुट्ठु दिस्वा तप्पटिपक्खे निब्बाने अधिमुत्तताय अज्झासयतो निस्सरणविवेकनिस्सितता दाहाभिभूतस्स पुग्गलस्स सीतनिन्नचितत्ता विय. न पटिसिद्धा विपस्सनापादकेसु कसिणारम्मणादिझानेसु सतिआदीनं निब्बेधभागियत्ता. अनुद्धरन्ता पन विपस्सना विय बोधिया मग्गस्स आसन्नकारणं झानं न होति, नापि तथा एकन्तिकं कारणं, न च विपस्सनाकिच्चस्स विय झानकिच्चस्स निट्ठानं मग्गोति कत्वा न उद्धरन्ति. एत्थ च कसिणग्गहणेन तदायत्तानि आरुप्पानिपि गहितानीति दट्ठब्बानि. तानिपि हि विपस्सनापादकानि निब्बेधभागियानि च होन्तीति वत्तुं वट्टति तन्निन्नभावसब्भावतो. यदग्गेन हि निब्बाननिन्नता, तदग्गेन फलनिन्नतापि सिया. ‘‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरेय्य’’न्ति (म. नि. १.४६५) आदिवचनम्पेतस्स अत्थस्स साधकं.

वोस्सग्ग-सद्दो परिच्चागत्थो पक्खन्दनत्थो चाति वोस्सग्गस्स दुविधता वुत्ता. वोस्सज्जनञ्हि पहानं, विस्सट्ठभावेन निरासङ्कपवति च, तस्मा विपस्सनाक्खणे तदङ्गवसेन, मग्गक्खणे समुच्छेदवसेन पटिपक्खस्स पहानं वोस्सग्गो, तथा विपस्सनाक्खणे तन्निन्नभावेन, मग्गक्खणे आरम्मणकरणेन विस्सट्ठसभावतो वोस्सग्गोति वेदितब्बं. यथावुत्तेन पकारेनाति तदङ्गसमुच्छेदपकारेन तन्निन्नतदारम्मणकरणपकारेन च. पुब्बे वोस्सग्ग-पदस्सेव अत्थस्स वुत्तत्ता आह ‘‘सकलेन वचनेना’’ति. परिणमन्तं विपस्सनाक्खणे, परिणतं मग्गक्खणे. परिणामो नाम परिपाकोति आह ‘‘परिपच्चन्तं परिपक्कञ्चा’’ति. परिपाको च आसेवनलाभेन आहितसामत्थियस्स किलेसस्स परिच्चजितुं निब्बानञ्च पक्खन्दितुं तिक्खविसदसभावो. तेनाह ‘‘अयञ्ही’’तिआदि. एस नयोति य्वायं ‘‘तदङ्गविवेकनिस्सित’’न्तिआदिना सतिसम्बोज्झङ्गे वुत्तो, सेसेसु धम्मविचयसम्बोज्झङ्गादीसुपि एस नयोति एवं तत्थ नेतब्बन्ति अत्थो.

एवं आदिकम्मिकानं बोज्झङ्गेसु असम्मोहत्थं मिस्सकनयं वत्वा इदानि निब्बत्तितलोकुत्तरबोज्झङ्गवसेन अत्थं विभावेतुं ‘‘इध पना’’तिआदि वुत्तं. इध पनाति इमस्मिं सब्बासवसुत्तन्ते. मग्गो एव वोस्सग्गविपरिणामी भावनामग्गस्स इध अधिप्पेतत्ता. तञ्च खोति सतिसम्बोज्झङ्गं. समुच्छेदतोति समुच्छिन्दनतो.

दिट्ठासवस्स पठममग्गवज्झत्ता ‘‘तयो आसवा’’ति वुत्तं. तेपि अनपायगमनीया एव वेदितब्बा अपायगमनीयानं दस्सनेनेव पहीनत्ता. सतिपि सम्बोज्झङ्गानं येभुय्येन मग्गभावे तत्थ तत्थ सम्बोज्झङ्गसभावानं मग्गधम्मानं वसेन वुत्तमग्गत्तयसम्पयुत्ता बोज्झङ्गाति पच्चेकबोज्झङ्गे ‘‘बोज्झङ्गभावनाया’’ति इमिना गण्हन्तो ‘‘मग्गत्तयसम्पयुत्ताया’’ति आह.

भावनापहातब्बआसववण्णना निट्ठिता.

२८. थोमेन्तोति आसवप्पहानस्स सुदुक्करत्ता ताय एव दुक्करकिरियाय तं अभित्थवन्तो. अस्साति पहीनासवभिक्खुनो. आनिसंसन्ति तण्हाच्छेदादिदुक्खक्खयपरियोसानं उद्रयं. एतेहि पहानादिसंकित्तनेहि. उस्सुक्कं जनेन्तोति एवं धम्मस्सामिनापि अभित्थवनीयं महानिसंसञ्च आसवप्पहानन्ति तत्थ आदरसहितं उस्साहं उप्पादेन्तो. दस्सनेनेव पहीनाति दस्सनेन पहीना एव. तेन वुत्तं ‘‘न अप्पहीनेसुयेव पहीनसञ्ञी’’ति.

सब्ब-सद्देन आसवानं, आसवसंवरानञ्च सम्बन्धवसेन दुतियपठमविकप्पानं भेदो दट्ठब्बो. दस्सनाभिसमयाति परिञ्ञाभिसमया परिञ्ञाकिच्चसिद्धिया. तेनाह ‘‘किच्चवसेना’’ति, असम्मोहपटिवेधेनाति अत्थो. समुस्सयो कायो, अत्तभावो वा.

अनवज्जपीतिसोमनस्ससहितं चित्तं ‘‘अत्तनो’’ति वत्तब्बतं अरहति अत्थावहत्ता, न तब्बिपरीतं अनत्थावहत्ताति पीतिसम्पयुत्तचित्ततं सन्धायाह ‘‘अत्तमनाति सकमना’’ति. तेनाह ‘‘तुट्ठमना’’ति. अत्तमनाति वा पीतिसोमनस्सेहि गहितमना. यस्मा पन तेहि गहितता सम्पयुत्तताव, तस्मा वुत्तं ‘‘पीतिसोमनस्सेहि वा सम्पयुत्तमना’’ति. यदेत्थ अत्थतो न विभत्तं, तं वुत्तनयत्ता सुविञ्ञेय्यत्ता चाति वेदितब्बं.

सब्बासवसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

३. धम्मदायादसुत्तवण्णना

२९. तस्मा तं दस्सेत्वाति यस्मा सुत्तन्तवण्णना सुत्तनिक्खेपं दस्सेत्वा वुच्चमाना पाकटा होति, यस्मा चस्स धम्मदायादसुत्तस्स अट्ठुप्पत्तिको निक्खेपो, तस्मा तं निक्खेपं दस्सेत्वा, कथेत्वाति अत्थो. लाभसक्कारेति (सं. नि. टी. २.२.६३) लाभसक्कारसङ्खाताय अट्ठुप्पत्तियाति केचि, लाभसक्कारे वा अट्ठुप्पत्तियाति अपरे. या हि लाभसक्कारनिमित्तं तदा भिक्खूसु पच्चयबाहुल्लिकता जाता, तं अट्ठुप्पत्तिं कत्वा भगवा इमं देसेसीति. यमकमहामेघोति हेट्ठाओलम्बनउपरिउग्गमनवसेन सतपटलो सहस्सपटलो युगळमहामेघो. तिट्ठन्ति चेव भगवति कत्थचि निबद्धवासं वसन्ते, चारिकं पन गच्छन्ते अनुबन्धन्ति च. भिक्खूनम्पि येभुय्येन कप्पसतसहस्सं ततो भिय्योपि पूरितदानपारमिसञ्चयत्ता तदा महालाभसक्कारो उप्पज्जीति वुत्तं ‘‘एवं भिक्खुसङ्घस्सपी’’ति.

सक्कतोति सक्कारप्पतो. गरुकतोति गरुकारप्पत्तो. मानितोति बहुमतो मनसा पियायितो च. पूजितोति मालादिपूजाय चेव चतुपच्चयाभिपूजाय च पूजितो. अपचितोति अपचायनप्पत्तो. यस्स हि चत्तारो पच्चये सक्कत्वापि अभिसङ्खते पणीतपणीते उपनेन्ति, सो सक्कतो. यस्मिं गरुभावं पच्चुपट्ठपेत्वा ते देन्ति, सो गरुकतो. यं मनसा पियायन्ति बहुमञ्ञन्ति च, सो बहुमतो. यस्स सब्बमेतं पूजावसेन करोन्ति, सो पूजितो. यस्स अभिवादनपच्चुट्ठानञ्जलिकम्मादिवसेन परमनिपच्चकारं करोन्ति, सो अपचितो. भगवति भिक्खुसङ्घे च लोको एवं पटिपन्नो. तेन वुत्तं ‘‘तेन खो पन…पे… परिक्खारान’’न्ति. लाभग्गयसग्गपत्तन्ति लाभस्स च यसस्स च अग्गं उक्कंसं पत्तं.

पच्चया चीवरादयो गरुकातब्बा एतेसन्ति पच्चयगरुका, आमिसचक्खुकाति अत्थो. पच्चयेसु गिद्धा गधिता पच्चयानं बहुलभावाय पटिपन्नाति पच्चयबाहुलिका. भगवतोपि पाकटा अहोसि पकतिचारित्तवसेनाति अधिप्पायो अञ्ञथा अपाकटस्सेव अभावतो. धम्मसभावचिन्तावसेन पवत्तं सहोत्तप्पञाणं धम्मसंवेगो, इध पन सो भिक्खूनं लाभगरुताधम्मवसेन वेदितब्बो. समणधम्मवुत्तीति समणधम्मकरणं. साति धम्मदायाददेसना. पटिबिम्बदस्सनवसेन सब्बकायस्स दस्सनयोग्गो आदासोति सब्बकायिकआदासो.

पितु-दायं, तेन दातब्बं, ततो लद्धब्बं अरहभावेन आदियन्तीति दायादा, पुत्ता. तञ्च लोके आमिसमेव, सासने पन धम्मोपीति तत्थ यं सावज्जं अनिय्यानिकञ्च, तं पटिक्खिपित्वा, यं निय्यानिकं अनवज्जञ्च, तत्थ भिक्खू नियोजेन्तो भगवा अवोच ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’ति. धम्मस्स मे दायादाति मम धम्मस्स ओगाहिनो, धम्मभागभागिनोति अत्थो. तथा हि वक्खति ‘‘धम्मकोट्ठासस्सेव सामिनो’’ति (म. नि. अट्ठ.१.२९). निब्बत्तितधम्मोति असंकिलेसिकानुत्तरादिभावेन धम्मसामञ्ञतो निद्धारितधम्मो. परियायेति सभावतो परिवत्तेत्वा ञापेति एतेनाति परियायो, लेसो, लेसकारणं वा. तदभावतो निप्परियायधम्मो मग्गप्पत्तिया अपायपतनादितो अच्चन्तमेव वारणतो. इतरो वुत्तविपरियायतो परियायधम्मो अच्चन्तं अपायदुक्खवट्टदुक्खपातनतो परम्पराय वारणतो. यथा हि लोकियं कुसलं दानसीलादि विवट्टं उद्दिस्स निब्बत्तितं, अयं तं असम्पादेन्तम्पि तं सम्पापकस्स धम्मस्स निब्बत्तकारणभावपरियायेन परियायधम्मो नाम होति, एवं तं वट्टं उद्दिस्स निब्बत्तितं, यं तण्हादीहि सविसेसं आमसितब्बतो आमिसन्ति लोके पाकटं अच्छादनभोजनादि, तस्स, तंसदिसस्स च फलविसेसस्स निमित्तभावपरियायेन परियायामिसन्ति वुच्चतीति दस्सेन्तो आह ‘‘यं पनिदं…पे… इदं परियायामिसं नामा’’ति.

‘‘सकलमेव हिदं, आनन्द, ब्रह्मचरियस्स यदिदं कल्याणमित्तता’’ति (सं. नि. ५.२, ३) आदिवचनतो सावकेहि अधिगतोपि लोकुत्तरधम्मो सत्थुयेवाति वत्तब्बतं अरहतीति वुत्तं ‘‘निप्परियायधम्मोपि भगवतोयेव सन्तको’’ति. सावकानञ्हि धम्मदिट्ठिपच्चयस्सपि योनिसोमनसिकारस्स विसेसपच्चयो परतोघोसो च तथागताधीनोति तेहि पटिविद्धोपि धम्मो धम्मस्सामिनोयेवाति वत्तुं युत्तं. तेनाह ‘‘भगवता ही’’तिआदि. तत्थ अनुप्पन्नस्स मग्गस्साति कस्सपस्स भगवतो सासनन्तरधानतो पभुति याव इमस्मा बुद्धुप्पादा असम्बोधवसेन न उप्पन्नस्स अरियमग्गस्स. उप्पादेताति निब्बत्तेता. तं पनेतं मग्गस्स भगवतो निब्बत्तनं, न पच्चेकबुद्धानं विय ससन्तानेयेव, अथ खो परसन्तानेपीति दस्सेतुं ‘‘असञ्जातस्स मग्गस्स सञ्जनेता, अनक्खातस्स मग्गस्स अक्खाता’’ति वुत्तं. तयिदं मग्गस्स उप्पादनं सञ्जाननञ्च अत्थतो जाननञ्ञेव असम्मोहपटिवेधभावतोति वुत्तं ‘‘मग्गञ्ञू मग्गविदू’’ति. अक्खानं पनस्स सुकुसलभावेनाति वुत्तं ‘‘मग्गकोविदो’’ति. सत्थारा यथागतं मग्गं अनुगच्छन्तीति मग्गानुगा भगवतो एव तं मग्गं सुट्ठु अधिगमनतो. पच्छा परतो सम्मा अनु अनु आगता पटिपन्नाति पच्छा समन्नागता.

जानं जानातीति जानितब्बमेव अभिञ्ञेय्यादिभेदं जानाति एकन्तहितपटिपत्तितो. पस्सं पस्सतीति तथा पस्सितब्बमेव पस्सति. अथ वा जानं जानातीति सब्बञ्ञुतञ्ञाणेन जानितब्बं जानातियेव. न हि पदेसञाणेन जानितब्बं सब्बं एकन्ततो जानाति. पस्सं पस्सतीति दिब्बचक्खु पञ्ञाचक्खु धम्मचक्खु बुद्धचक्खु समन्तचक्खुसङ्खातेहि पञ्चहि चक्खूहि पस्सितब्बं पस्सतियेव. अथ वा जानं जानातीति यथा अञ्ञे सविपल्लासा कामरूपपरिञ्ञावादिनो जानन्तापि विपल्लासवसेन जानन्ति, न एवं भगवा. भगवा पन पहीनविपल्लासत्ता जानन्तो जानातियेव, दिट्ठिदस्सनस्स च अभावा पस्सन्तो पस्सतियेवाति अत्थो. चक्खुभूतोति पञ्ञाचक्खुमयत्ता तस्स च पत्तत्ता सत्तेसु च तदुप्पादनतो दस्सनपरिणायकट्ठेन लोकस्स चक्खु विय भूतो. ञाणभूतोति एतस्स च एवमेव अत्थो दट्ठब्बो. धम्मा बोधिपक्खिया, ब्रह्मा मग्गो, तेहि उप्पन्नत्ता, तेसंवा पत्तत्ता अधिगतत्ता, लोकस्स च तदुप्पादनतो ‘‘धम्मभूतो, ब्रह्मभूतो’’ति च वेदितब्बो. वत्ताति चतुसच्चधम्मं वदतीति वत्ता. चिरं सच्चप्पटिवेधं पवत्तेन्तो वदतीति पवत्ता. अत्थस्स निन्नेताति धम्मतासङ्खातं परमत्थं निब्बानञ्च निद्धारेत्वा दस्सेता, पापयिता वा. अमतस्स दाताति अमतं सच्छिकिरियं सत्तेसु उप्पादेन्तो अमतं ददातीति अमतस्स दाता. बोधिपक्खियधम्मानं तदायत्तभावतो धम्मस्सामी.

‘‘या च निब्बानसम्पत्ति, सब्बमेतेन लब्भति;

सुखो विपाको पुञ्ञानं, अधिप्पायो समिज्झति. (पेटको. २३);

निब्बानपटिसंयुत्तो, सब्बसम्पत्तिदायको’’ति –

एवमादिं भगवतो वचनं सुत्वा एव भिक्खू दानादिपुञ्ञानं विवट्टसन्निस्सयतं जानन्ति, न अञ्ञथाति वुत्तं ‘‘परियायधम्मोपि…पे… पटिलभती’’ति. ‘‘एदिसं परिभुञ्चितब्ब’’न्ति कप्पियस्स च चीवरादिपच्चयस्स भगवतो वचनेन विना पटिग्गहोपि भिक्खूनं न सम्भवति, कुतो परिभोगोति आह ‘‘निप्परियायामिसम्पी’’तिआदि.

परियायामिसस्स भगवतो सन्तकभावो परियायधम्मस्स तब्भावेनेव दीपितो. तदेव सामिभावं दस्सेन्तोति सम्बन्धो. तस्माति अत्ताधीनपटिलाभपटिग्गहताय अत्तनो सन्तकत्ता च. तत्थाति तस्मिं धम्मामिसे.

पच्चया चीवरादयो परमा पापुणितब्बभावेन उत्तममरियादा एतस्स न उत्तरिमनुस्सधम्मा अप्पिच्छतादयो चाति पच्चयपरमो, लाभगरूति अत्थो. तण्हुप्पादेसूति ‘‘चीवरहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, पिण्डपातसेनासनइतिभवाभवहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जती’’ति (दी. नि. ३.३११; अ. नि. ४.९; इतिवु. १०५) एवं वुत्तेसु चतूसु तण्हुप्पत्तिकोट्ठासेसु. अप्पिच्छतासन्तुट्ठिसल्लेखपविवेकादयो अप्पिच्छतादयो.

तत्थाति तस्मिं ओवादे, तेसु वा धम्मपटिग्गाहकेसु भिक्खूसु. भविस्सति वा येसं तत्थाति योजना. इमस्मिं पक्खे तत्थाति तस्मिं ओवादे इच्चेव अत्थो दट्ठब्बो. अधिप्पायो आमिसदायादताय उप्पज्जनकअनत्थानुप्पादस्स धम्मदायादताय उप्पज्जनकअट्ठुप्पत्तिया च आकङ्खा. तेनाह ‘‘पस्सती’’तिआदि. तत्थ आमिसे उपक्खलितानन्ति आमिसहेतु विप्पटिपन्नानं. अतीतकालेति कस्सपसम्मासम्बुद्धकाले. कपिलस्स भिक्खुनो वत्थु कपिलसुत्तेन, ‘‘सङ्घाटिपिआदित्ता होती’’तिआदिना लक्खणसुत्तेन (सं. नि. २.२१८) च विभावेतब्बं. आमिसगरुको अप्पग्घभावेन कूटकहापणो विय नित्तेजो समणतेजेन अनुज्जलतो निब्बुतङ्गारो विय निप्पभो च होतीति योजना. ततोति पच्चयगरुकभावतो. विवत्तितचित्तोति विनिवत्तितमानसो, सल्लेखवुत्तीति अत्थो.

धम्मदायादाति एत्तावता अन्तोगधावधारणं वचनन्ति तेन अवधारणेन निवत्तितमत्थं विभावेतुं ‘‘मा आमिसदायादा’’ति पटिक्खेपो दस्सितो. तथेव च विभावेतुं अधिप्पायानिसंसविभावनेसुपि दस्सितो, तथा आदीनवविभावनेन धम्मदायादतापटिक्खेपो. अपदिसितब्बाति हेट्ठा कत्वा वत्तब्बाति. आदियाति एत्थ यस्मा -कारो मरियादत्थो, तस्मा धम्मदायादताविधुरेन आमिसदायादभावेन हेतुभूतेन, करणभूतेन वा आदियं विवेचनं विञ्ञूहि विसुं करणं ववत्थानस्स होतीति आह ‘‘विसुं कातब्बा’’ति. तेनाह ‘‘विञ्ञूहि गारय्हा भवेय्याथाति वुत्तं होती’’ति.

‘‘अत्थि मे तुम्हेसु अनुकम्पा…पे… नो आमिसदायादा’’ति भिक्खूसु अत्तनो करुणायनाकित्तनं तेसं मुदुकरणं, ‘‘अहम्पि तेना’’तिआदि पन ततोपि सविसेसं मुदुकरणन्ति आह ‘‘अतीव मुदुकरणत्थ’’न्ति.

नाळकपटिपदादयो नाळकसुत्तादीसु (सु. नि. ६८४-७२८) आगतपटिपत्तियो. ता पन यस्मा नाळकत्थेरादीहि पटिपन्ना परमसल्लेखवुत्तिभूता अतिउक्कट्ठपटिपत्तियो, तस्मा इध धम्मदायादपटिपदाय उदाहरणभावेन उद्धटा. सक्खिभूताति ताय पटिपत्तिया वुच्चमानाय ‘‘किं मे विना पटिपज्जनको अत्थी’’ति असद्दहन्तानं पच्चक्खकरणेन सक्खिभूता. इमस्मिन्ति ‘‘तुम्हे च मे भिक्खवे धम्मदायादा’’तिआदिके वाक्ये. सेसन्ति ‘‘तुम्हे च मे’’तिआदिकं सुक्कपक्खे आगतं पाळिपदं. वुत्तनयपच्चनीकेनाति ‘‘तेन धम्मदायादभावेन नो आमिसदायादभावेना’’ति एवं कण्हपक्खे वुत्तनयस्स पटिपक्खेन.

३०. थोमनं सुत्वाति पटिपज्जनकस्स पुग्गलस्स पसंसनं सुत्वा यथा तं सपरिसस्स आयस्मतो उपसेनस्स पटिपत्तिया सीलथोमनं सुत्वा. निपातपदन्ति इमिना इध-सद्दस्स अनत्थकतमाह. पवारितोति पटिक्खेपितो. यो हि भुञ्जन्तो भोजनेन तित्तो परिवेसकेन उपनीतभोजनं पटिक्खिपति, सो तेन पवारितेन पटिक्खेपितो नाम होति. तेनाह ‘‘पवारितोति…पे… वुत्तं होती’’ति. पकारेहि दिट्ठादीहि वारेति सङ्घादिके याचापेति भत्ते करोति एतायाति पवारणा, आपत्तिविसोधनाय अत्तवोस्सग्गो ओकासदानं. सा पन यस्मा येभुय्येन वस्संवुत्थेहि कातब्बा वुत्ता, तस्मा ‘‘वस्संवुत्थपवारणा’’ति वुत्तं. पवारेति पच्चये इच्छापेति एतायाति पवारणा, चीवरादीहि उपनिमन्तना. पकारयुत्ता वारणाति पवारणा, विप्पकतभोजनतादिचतुरङ्गसहितो भोजनपटिक्खेपो. सा पन यस्मा अनतिरित्तभोजननिमित्ताय आपत्तिया कारणं होति, तस्मा ‘‘अनतिरित्तपवारणा’’ति वुत्ता. यावदत्थभोजनस्स पवारणा यावदत्थपवारणा, परियोसितभोजनस्स उपनीताहारपटिक्खेपोति अत्थो.

‘‘भुत्तावी’’ति वचनतो भोजनपारिपूरिता इधाधिप्पेताति आह ‘‘परिपुण्णोति भोजनेन परिपुण्णो’’ति. परियोसितोति एत्थापि एसेव नयो ‘‘भोजनेन भोजनकिरियाय परियोसितो’’ति. अट्ठकथायं पन अधिप्पेतत्थं पाकटं कत्वा दस्सेतुं भोजन-सद्दस्स लोपो वुत्तो. धातोति तित्तो. साधकानीति ञापकानि. परियोसितभोजनं सुहितयावदत्थतागहणेहि भुत्तावितादयो, भुत्तावितादिग्गहणेहि वा इतरे बोधिता होन्तीति अञ्ञमञ्ञं नेसं ञापकञापेतब्बतं दस्सेतुं ‘‘यो ही’’तिआदि वुत्तं. एवं छहिपि पदेहि उदरावदेहकं भोजनं दस्सितं, तञ्च खो परिकप्पनावसेन. न हि भगवा एवं भुञ्जति. तेनाह ‘‘सब्बञ्चेतं परिकप्पेत्वा वुत्त’’न्ति.

‘‘सिया एव, नापि सिया’’ति च इदं अत्थद्वयम्पि इध सम्भवतीति वुत्तं ‘‘इध उभयम्पि वट्टती’’ति. अथाति अनन्तरं, मम भोजनसमनन्तरमेवाति अत्थो. तं पन यस्मा यथावुत्तकालपच्चामसनं होति, तस्मा ‘‘तम्हि काले’’ति वुत्तं. अप्परुळ्हहरितेति रुहमानतिणादिहरितरहिते. अभावत्थो च अयं अप्प-सद्दो ‘‘अप्पिच्छो’’तिआदीसु (म. नि. १.२५२, ३३६; सं. नि. २.१४८) विय.

कथितेपीति पि-सद्दो अवुत्तसमुच्चयत्थो. तेन वापसमीकरणादिं सङ्गण्हाति. तथा हेस वुत्त-सद्दो ‘‘नो च खो पटिवुत्त’’न्तिआदीसु (पारा. २८९) वापसमीकरणे दिस्सति, ‘‘पन्नलोमो परदत्तवुत्तो’’तिआदीसु (चूळव. ३३२) जीवितवुत्तियं, ‘‘पण्डुपलासो बन्धना पवुत्तो’’तिआदीसु (पारा. ९२; पाचि. ६६६; महाव. १२९; म. नि. ३.५९) अपगमे, ‘‘गीतं पवुत्तं समिहित’’न्तिआदीसु (दी. नि. १.२८५) पावचनभावेन पवत्तिते, लोके पन ‘‘वुत्तं परायण’’न्तिआदीसु (महाभास ७.२.२६) अज्झेने दिस्सतीति.

न एत्थ पिण्डपातभोजनेन धम्मदायादता निवारिता, पिण्डपातभोजनं पन अनादरित्वा धम्मानुधम्मपटिपत्तीति एत्थ कारणं दस्सेन्तो आह ‘‘पिण्डपातं…पे… वीतिनामेय्या’’ति. तत्थ वीतिनामेय्याति कम्मट्ठानानुयोगेन खेपेय्य. तेनाह ‘‘आदित्तसीसूपमं पच्चवेक्खित्वा’’ति. आदित्तसीसूपमन्तिआदित्तसीसूपमसुत्तं.

किञ्चापीति अयं ‘‘यदिपी’’ति इमिना समानत्थो निपातो. निपातो च नाम यत्थ यत्थ वाक्ये पयुज्जति, तेन तेन वत्तब्बत्थजोतको होतीति इध ‘‘पिण्डपात’’न्तिआदिना अनुञ्ञापसंसावसेन वुच्चमानस्स अत्थस्स जोतकोति अधिप्पायेन ‘‘अनुजाननपसंसनत्थे निपातो’’ति वुत्तं, अनुञ्ञापसंसारम्भे पन ‘‘असम्भावनत्थे’’ति वुत्तं सिया पुरिमेयेव सम्भावनाविभावनतो अधिकत्तानुलोमतो च.

एकवारं पवत्तं पिण्डपातपटिक्खिपनं कथं दीघरत्तं अप्पिच्छतादीनं कारणं होतीति चोदनं सन्धायाह ‘‘तस्स ही’’तिआदि. तत्थ अत्रिच्छताति अत्र इच्छतीति अत्रिच्छो, तस्स भावो अत्रिच्छता, अत्थतो परलाभपत्थना. तथा हि वुत्तं ‘‘पुरिमेयेव सकलाभेन असन्तुट्ठि, परलाभे च पत्थना, एतं अत्रिच्छतालक्खण’’न्ति (विभ. अट्ठ. ८४९). पापिच्छताति असन्तगुणसम्भावनाधिप्पायता. पापा इच्छा एतस्साति पापिच्छो, तस्स भावो पापिच्छता. यथाह ‘‘असन्तगुणसम्भावनता पटिग्गहणे च अमत्तञ्ञुता, एतं पापिच्छलक्खण’’न्ति (विभ. अट्ठ. ८५१). महन्तानि वत्थूनि इच्छति, महती वा तस्स इच्छाति महिच्छो, तस्स भावो महिच्छता. यं सन्धाय वुत्तं ‘‘सन्तगुणसम्भावनता पटिग्गहणे च अमत्तञ्ञुता, एतं महिच्छलक्खण’’न्ति. पच्चवेक्खमानो निवारेस्सतीति योजना. अस्स भिक्खुनो संवत्तिस्सति पिण्डपातपटिक्खेपो.

महिच्छो पुग्गलो यथा पच्चयदानवसेन पच्चयदायकेहि भरितुं असक्कुणेय्यो, एवं पच्चयपरियेसनवसेन अत्तनापीति वुत्तं ‘‘अत्तनोपि उपट्ठाकानम्पि दुब्भरो होती’’ति. सद्धादेय्यस्स विनिपातवसेन पवत्तिया अञ्ञस्स घरे छड्डेन्तो. रित्तपत्तोवाति येसु कुलेसु पटिपिण्डवसेन पवत्तति, तेसं सब्बपच्छिमं अत्तनो यथालद्धं दत्वा तत्थ किञ्चि अलद्धा रित्तपत्तो विहारं पविसित्वा निपज्जति जिघच्छादुब्बल्येनाति अधिप्पायो. यथालद्धपच्चयपरिभोगेन, पुन परियेसनानापज्जनेन अत्तनो सुभरता, यथालद्धपच्चयेन अवञ्ञं अकत्वा सन्तोसापत्तिया उपट्ठाकानं सुभरता वेदितब्बा.

कथावत्थूनीति अप्पिच्छतादिपटिसंयुत्तानं कथानं वत्थूनीति कथावत्थूनि, अप्पिच्छतादयो एव. तीणीति तीणि कथावत्थूनि. अभिसल्लेखिकाति अतिविय किलेसे सल्लिखतीति अभिसल्लेखो, अप्पिच्छ तादिगुणसमुदायो, सो एतिस्सा अत्थीति अभिसल्लेखिका, महिच्छतादीनं तनुभावाय युत्तरूपा अप्पिच्छतादिपटिसंयुत्तता. चेतोविनीवरणसप्पायाति कुसलचित्तुप्पत्तिया निवारकानं नीवरणानं दूरीभावकरणेन चेतोविनीवरणसङ्खातानं समथविपस्सनानं सप्पाया. समथविपस्सनाचित्तस्सेव वा विभूतिभावकरणाय सप्पाया उपकारिकाति चेतोविनीवरणसप्पाया. एकन्तनिब्बिदायातिआदि येन निब्बिदादिआनिसंसेन अयं कथा अभिसल्लेखिका चेतोविनीवरणसप्पाया च नाम होति, तं दस्सेतुं वुत्तं. तत्थ एकन्तनिब्बिदायाति एकंसेन वट्टदुक्खतो निब्बिन्दनत्थाय. विरागाय निरोधायाति तस्सेव विरज्जनत्थञ्च निरुज्झनत्थञ्च. उपसमायाति सब्बकिलेसवूपसमाय. अभिञ्ञायाति सब्बस्सपि अभिञ्ञेय्यस्स अभिजाननाय. सम्बोधायाति चतुमग्गसम्बोधाय. निब्बानायाति अनुपादिसेसनिब्बानाय. एतेसु हि आदितो तीहि विपस्सना वुत्ता, पुन तीहि मग्गो, इतरेन निब्बानं. तेन समथविपस्सना आदिं कत्वा निब्बानपरियोसानो अयं सब्बो उत्तरिमनुस्सधम्मो दसकथावत्थुलाभिनो सम्भवतीति दस्सेति. परिपूरेस्सन्तीति तंसभावतो उपकारतो च संवत्तिस्सन्ति. अप्पिच्छतादयो हि एकवारउप्पन्ना उपरि तदत्थाय संवत्तिस्सन्ति. कथावत्थुपरिपूरणं सिक्खापरिपूरणञ्च वुत्तनयेनेव वेदितब्बं.

अमतं निब्बानन्ति अनुपादिसेसनिब्बानधातुं. इतरा पन सेक्खासेक्खधम्मपारिपूरिया परिपुण्णा. निब्बानपारिपूरि चेत्थ तदावहधम्मपारिपूरिवसेन परियायतो वुत्ताति वेदितब्बा. इदानि यायं अप्पिच्छतादीनं अनुक्कमपरिवुद्धिया गुणपारिपूरिता, तं उपमाय साधेन्तो ‘‘सेय्यथापी’’तिआदिमाह. तत्थ पावुस्सकोति वस्सानमासे उट्ठितो. सो हि चिरानुप्पवत्ति होति. पब्बतकन्दरा पब्बतेसु उपच्चकाधिच्चकापभवनिज्झरादिनदियो. सरसाखाति यत्थ उपरिउन्नतपदेसतो उदकं आगन्त्वा तिट्ठति चेव सन्दति च, ते. कुसोब्भा खुद्दकतळाका. कुन्नदियोति पब्बतपादतो निक्खन्ता खुद्दकनदियो. ता हि महानदियो ओतरन्तियो परिपूरेन्ति. परमधम्मदायादन्ति परमं उत्तमं धम्मदायादभावं, परमं धम्मदायज्जं वा. ते भिक्खूति ते धम्मपटिग्गाहके भिक्खू. सन्नियोजेन्तोति मूलगुणेहि अप्पिच्छतादीहि योजेन्तो.

उग्गहेत्वाति अत्थतो ब्यञ्जनतो च उपधारणवसेन गहेत्वा अविपरीतं गहेत्वा. संसन्देत्वाति मम देसनानुसारेन ममज्झासयं अविरज्झित्वा. यथा इधेव चिन्तेसीति यथा इमिस्सा धम्मदायाददेसनाय चिन्तेसि, एवं अञ्ञत्थापि धम्मथोमनत्थं गन्धकुटिं पविसन्तो चिन्तेसि. एकज्झासयायाति समानाधिप्पायाय. मतियाति पञ्ञाय. अयं देसना अग्गातिआदि भगवा धम्मसेनापतिं गुणतो एव पग्गण्हातीति कत्वा वुत्तं.

चित्तगतियाति चित्तवसेन कायस्स परिणामनेन ‘‘अयं कायो इदं चित्तं विय होतू’’ति कायस्स चित्तेन समानगतिकताधिट्ठानेन. कथं पन कायो दन्धप्पवत्तिको लहुपरिवत्तनचित्तेन समानगतिको होतीति? न सब्बथा समानगतिको. यथेव हि कायवसेन चित्तपरिणामने चित्तं सब्बथा कायेन समानगतिकं न होति. न हि तदा चित्तं सभावसिद्धेन अत्तनो खणेन अवत्तित्वा दन्धवुत्तिकस्स रूपधम्मस्स खणेन वत्तितुं सक्कोति, ‘‘इदं चित्तं अयं कायो विय होतू’’ति पन अधिट्ठानेन दन्धगतिकस्स कायस्स अनुवत्तनतो याव इच्छितट्ठानप्पत्ति, ताव कायगतिं अनुलोमेन्तमेव हुत्वा सन्तानवसेन पवत्तमानं चित्तं कायगतिकं कत्वा परिणामितं नाम होति, एवं ‘‘अयं कायो इदं चित्तं विय होतू’’ति अधिट्ठानेन पगेव लहुसञ्ञाय सुखुमसञ्ञाय च सम्पादितत्ता अभावितिद्धिपादानं विय दन्धं अवत्तित्वा यथा लहुं कतिपयचित्तवारेहेव इच्छितट्ठानप्पत्ति होति, एवं पवत्तमानो कायो चित्तगतिकभावेनेव परिणामितो नाम होति, न एकचित्तक्खणेनेव पवत्तिया. एवञ्च कत्वा बाहुसमिञ्जनप्पसारणूपमापि उपचारेन विना सुट्ठुतरं युत्ता होति, अञ्ञथा धम्मताविलोमिता सिया. न हि धम्मानं लक्खणञ्ञथत्तं इद्धिबलेन कातुं सक्का, भावञ्ञथत्तमेव पन सक्काति.

३१. भगवतो अधिप्पायानुरूपं भिक्खूनञ्च अज्झासयं ञत्वाति वचनसेसो. देसकाले विय भाजनम्पि ओलोकेत्वा एव महाथेरो धम्मं कथेति. पक्कन्तस्साति इदं अनादरे सामिवचनन्ति दस्सेन्तो ‘‘पक्कन्तस्स सतो’’तिआदिमाह. कित्तकेनाति केन परिमाणेन. तं पन परिमाणं यस्मा परिमेय्यस्स अत्थस्स परिच्छिन्दनं होति, तस्मा ‘‘कित्तावताति परिच्छेदवचन’’न्ति आह. नुकारो पुच्छायन्ति अयं नु-सद्दो इधेव पुच्छायं आगतोति कत्वा वुत्तं. नु-सद्देन हेत्थ जोतियमानो अत्थो किं-सद्देन परिमाणो अत्थो परिमेय्यत्थो च. एत्थ संकिलेसपक्खो विवेकस्स अननुसिक्खनं आमिसदायादता, वोदानपक्खो तस्स अनुसिक्खनं धम्मदायादताति. तीहि विवेकेहीति विवेकत्तयग्गहणं तदन्तोगधत्ता विवेकपञ्चकस्स. विवेकपञ्चकग्गहणे पनस्स सरूपेन कायविवेको गहितो न सिया, तदायत्तत्ता वा सत्थारा तदा पयुज्जमानविवेकदस्सनवसेन ‘‘तीहि विवेकेही’’तिआदि वुत्तं. अञ्ञतरम्पीति कस्मा वुत्तं. न हि कायविवेकमत्तेन धम्मदायादभावो सिज्झतीति? न, विवेकद्वयसन्निस्सयस्सेव कायविवेकस्स इधाधिप्पेतत्ता. एवञ्च कत्वा चित्तविवेकग्गहणम्पि समत्थितं होति. न हि लोकियज्झानाधिगममत्तेन निप्परियायतो सत्थुधम्मदायादभावो इच्छितो, निब्बानाधिगमेन पन सो इच्छितो, तस्मा सब्बापि सासने विवेकानुसिक्खना निब्बानपोणा निब्बानपब्भारा निब्बानोगधा चाति वुत्तं ‘‘तिण्णं विवेकानं अञ्ञतरम्पी’’ति. असति आलोके अन्धकारो विय असति धम्मदायादताय एकंसिया आमिसदायादताति आह ‘‘आमिसदायादाव होन्ती’’ति. एस नयो सुक्कपक्खेपीति कण्हपक्खतो साधारणवसेन लब्भमानं अत्थसामञ्ञं अतिदिसति, न अत्थविसेसं तस्स विसदिसत्ता, अत्थविसेसमेव वा अतिदिसति विसदिसूदाहरणूपायञायेन. ‘‘तिण्णं विवेकानं अञ्ञतर’’न्ति इदं इध न लब्भति. तयोपि हि विवेका, तेसु एको वा इतरद्वयसन्निस्सयो इध लब्भति.

दूरतोपीति दूरट्ठानतोपि. तेनाह ‘‘तिरोरट्ठतोपी’’तिआदि. कामं ‘‘पटिभातू’’ति एत्थ पटि-सद्दापेक्खाय ‘‘सारिपुत्त’’न्ति उपयोगवचनं, अत्थो पन सामिवचनवसेनेव वेदितब्बोति दस्सेन्तो आह ‘‘आयस्मतोयेव सारिपुत्तस्सा’’ति. भागो होतूति इमिनाभागत्थो पटि-सद्दोति दस्सेति लक्खणादिअत्थानं इध अयुज्जनतो. तेनाह ‘‘एवं सद्दलक्खणेन समेती’’ति. दिस्सतूति ञाणेन दिस्सतु, पस्सतूति वा अत्थो. उपट्ठातूति ञाणस्स पच्चुपतिट्ठतु. उग्गहेस्सन्तीति वाचुग्गतं करिस्सन्ति. वाचुग्गतकरणञ्हि उग्गहो. परियापुणिस्सन्तीति तस्सेव वेवचनं. पुरिपुच्छनादिना वा अत्थस्स चित्ते आपादनं पट्ठपनं परियापुणनं. कारणवचनन्ति यथावुत्तस्स कारणभावेन वचनं ‘‘हेतुम्हि करणवचन’’न्ति कत्वा. वुत्तत्थपच्चामसनं तं-सद्देन करीयतीति. तेनाह ‘‘यस्मा’’तिआदि.

एकेनेवाकारेनाति आमिसदायादतासिद्धेन आदियतासङ्खातेन एकेनेव पकारेन. तमेव हि आकारं सन्धायाह ‘‘भगवता वुत्तमत्थ’’न्ति. अञ्ञथा ‘‘सत्थु पविवित्तस्स विहरतो सावका विवेकं नानुसिक्खन्ती’ति एकेनेव आकारेन सो अत्थो थेरेनपि वुत्तो. तीहि आकारेहीति आमिसदायादपटिपदाभूतेहि तिण्णं विवेकानं अननुसिक्खनाकारेहि. एत्तावताति ‘‘इधावुसो…पे… नानुसिक्खन्ती’’ति एत्तकेन कण्हपक्खे उद्देसपाठेन.

वित्थारतो सुविभत्तो होति अनवसेसतो सम्मदेव निद्दिट्ठत्ता. ननु च उद्देसे सत्थुनोपि आदियता भगवता गहिता, सा न निद्दिट्ठाति अनुयोगं सन्धायाह ‘‘सो च खो’’तिआदि. सावके अनुग्गण्हन्तस्साति ‘‘आमिसदायादा सत्थु सावका’’ति सत्थु परप्पवादपरिहरणत्थम्पि ‘‘तुम्हेहि धम्मदायादेहि भवितब्ब’’न्ति एवं सावके अनुकम्पमानस्स. सावकानं तं न युत्तं सामीचिअभावतोति योजना. एस नयोति यदिदं ‘‘एत्तावतायं भगवा’’तिआदिना कण्हपक्खे उद्देसस्स अत्थविभागदस्सनमुखेन सम्बन्धदस्सनं, एस नयो सुक्कपक्खेपि सम्बन्धदस्सनेति अधिप्पायो. तेनाह ‘‘अयं तावेत्थ अनुसन्धिक्कमयोजना’’ति, सत्थारा देसिताय उद्देसदेसनाय महाथेरेन देसिताय च अनुसन्धिक्कमेन सम्बन्धोति अत्थो. यथानुसन्धि एव चेत्थ अनुसन्धि वेदितब्बो.

अच्चन्तपविवित्तस्साति एकन्तउपधिविवेको विय इतरेपि विवेको सत्थु एकन्तिकावाति. अनुसिक्खनं नाम अनु अनु पूरणन्ति तप्पटिक्खेपेन आह ‘‘न परिपूरेन्ती’’ति, न परिब्रूहेन्तीति अत्थो, न परिपूरेन्तीति वा न परिपालेन्तीति अत्थो. यदग्गेन हि विवेकं नानुसिक्खन्ति, तदग्गेन न परिब्रूहेन्ति, न परिपालेन्तीति वा वत्तब्बतं लभन्तीति. कस्मा पनेत्थ ‘‘विवेकं नानुसिक्खन्ती’’ति उद्देसे विय अविसेसवचने कायविवेकस्सेव गहणं कतन्ति चोदनं सन्धायाह ‘‘यदि पना’’तिआदि. पुच्छायाति पुच्छातो अविसेसो सिया विभागस्स अलब्भमानत्ता विस्सज्जनस्स. ननु च ‘‘विवेकं नानुसिक्खन्ती’’ति अविसेसवचनतो पाळियं विभागो न लब्भतेवाति? न, पदन्तरेन विभावितत्ता. तेनाह ‘‘येसञ्च धम्मान’’न्तिआदि. ब्याकरणपक्खोति विस्सज्जनपक्खो. विस्सज्जनञ्च न पुच्छा विय अविसेसजोतना, अथ खो यथाधिप्पेतत्थविभजनन्ति अधिप्पायो. इमिना पदेनाति ‘‘विवेकं नानुसिक्खन्ती’’ति इमिना पदेन कायविवेकं अपरिपूरियमानं दस्सेतीति अधिप्पायो. चित्तविवेकं उपधिविवेकन्ति एत्थापि एसेव नयो.

एत्थ च नप्पजहन्तीति पहातब्बधम्मानं पहानाभाववचनं पहानलक्खणविवेकाभावदीपनं, तं वत्वा पुन ‘‘विवेके निक्खित्तधुरा’’ति वचनं ततो सातिसयविवेकाभावदीपनन्ति तदुभयविवेकाभावदस्सनेन ‘‘येसञ्च धम्मान’’न्तिआदिनाव पारिसेसञायेन ‘‘विवेकं नानुसिक्खन्ती’’ति इमिना विवेकद्वयमूलभूतकायविवेकाभावदस्सनं कतन्ति दट्ठब्बं. अविगततण्हताय तं तं परिक्खारजातं बहुं लन्ति आदियन्तीति बहुला, बहुला एव बाहुलिका यथा ‘‘वेनयिको’’ति (म. नि. १.२४६; अ. नि. ८.११; पारा. ८). ते पन यस्मा पच्चयबहुलभावाय युत्तप्पयुत्ता नाम होन्ति, तस्मा आह ‘‘चीवरादिबाहुल्लाय पटिपन्ना’’ति. सिक्खाय आदरभावाभावतो सिथिलं अदळ्हं गण्हन्तीति ‘‘साथलिका’’ति वुत्तं. सिथिलन्ति भावनपुंसकनिद्देसो, सिथिल-सद्देन वा समानत्थस्स साथल-सद्दस्स वसेन ‘‘साथलिका’’ति पदसिद्धि वेदितब्बा. अवगमनट्ठेनाति अधोगमनट्ठेन, ओरम्भागियभावेनाति अत्थो. उपधिविवेकेति सब्बूपधिपटिनिस्सग्गताय उपधीहि विवित्ते. ओरोपितधुराति उज्झितुस्साहा.

अनियमेनेवाति किञ्चि विसेसं अनामसित्वा ‘‘सावका’’ति अविसेसेनेव. नियमेन्तो‘‘थेरा’’तिआदिना. दसवस्से उपादायाति दसवस्सतो पट्ठाय. इस्सरियेति ‘‘सेट्ठिट्ठानं सेनापतिट्ठान’’न्तिआदीसु विय. अचिरक्खणोभासेन लक्खवेधको अक्खणवेधि. ठितियन्ति अवट्ठाने. ठानसोति तङ्खणेयेव. तिट्ठतीति आधाराधेय्यभावेनाति आह ‘‘तदायत्तवुत्तिभावेना’’ति. उपेक्खानुब्रूहना सत्तसङ्खारेसु उदासीनतापि असङ्खताधिगमस्स उपायोति तब्बिपरियायतो चीवरादिमण्डना न उपधिविवेकपारिपूरिया संवत्ततीति आह ‘‘चीवरपत्त…पे… अपूरयमाना’’ति. तत्थाति थेरवारे. इधाति मज्झिमनवकवारेसु. तथा हि ‘‘मज्झिमथेरकाले’’तिआदि वुत्तं.

३२. इमस्मिञ्च कण्हपक्खेति इमस्मिञ्च निद्देसवारे कण्हपक्खे, न उद्देसवारे कण्हपक्खे. उद्देसवारे पन कण्हपक्खे वुत्तविपरियायेन गहेतब्बत्थो ‘‘एस नयो सुक्कपक्खेपी’’ति अतिदेसेन दस्सितो. वुत्तपच्चनीकनयेनाति ‘‘कायविवेकं नानुसिक्खन्ति न परिपूरेन्ती’’तिआदिना वुत्तस्स अत्थस्स पच्चनीकनयेन, ‘‘कायविवेकं अनुसिक्खन्ति परिपूरेन्ती’’तिआदिना नयेन. एत्थाति एतस्मिं सुक्कपक्खे. सङ्खेपोति अत्थसङ्खेपो. योजनपरम्परायाति गामन्ततो दूरभावेन एकं द्वे तीणीति एवं योजनानं पटिपाटिया. अरञ्ञवनपत्थानीति अरञ्ञेसु वनसण्डभूतानि. पन्तानीति परियन्तानि. उपगन्तुं युत्तकालो जराजिण्णकालो गोचरगामे दूरे गमनागमनसमत्थताभावतो. ‘‘एवं गुणवन्तेसु दिन्नं अहो सुदिन्न’’न्ति पच्चयदायकानं पसादं जनेन्ति. पासंसाति पसंसितब्बा. अयम्पि महाथेरोतिआदि एकं अप्पमादविहारिनं वुद्धतरं निद्दिसित्वा वदन्तानं वसेन वुत्तं. पविट्ठो विवेकट्ठानं. सायं निक्खमति योनिसोमनसिकारं उपब्रूहेत्वाति अधिप्पायो. कसिणपरिकम्मं करोति, न यं किञ्चि किच्चन्तरं. समापत्तियो निब्बत्तेति, न मोघमनसिकारं. सब्बथातिआदितो ताव तदङ्गवसेन किलेसेहि चित्तं विवेचेन्तो ततो विक्खम्भनवसेन समुच्छेदवसेन पटिपस्सद्धिवसेनाति सब्बप्पकारेन चित्तविवेकं पूरेति. पंसुकूलानि धारेतीति इमिना बाहुलिकताभावं दस्सेति, असिथिलं सासनं गहेत्वाति इमिना साथलिकताभावं, विगतनीवरणोति इमिना ओक्कमने निक्खित्तधुरतं, फलसमापत्तिन्तिआदिना पविवेकपुब्बङ्गमतं दस्सेति.

३३. तत्रावुसोति एत्थ इति-सद्दो आदिअत्थो. तेन ‘‘लोभो च पापको’’तिआदिनयप्पवत्तं उपरिदेसनं अनवसेसतो परियादियति. को अनुसन्धीति या सा भगवता संकिलेसपक्खेन सह धम्मदायादपटिपत्तिभाविनी ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’तिआदिना देसना उद्दिट्ठा, तं ‘‘सत्थु पविवित्तस्स विहरतो’’तिआदिना आरभित्वा अट्ठारसवारपटिमण्डिताय निद्देसदेसनाय विभजित्वा ततो परं ‘‘तत्रावुसो लोभो च पापको’’तिआदिनयाय उपरिदेसनाय सम्बन्धं पुच्छति. एवन्ति संकिलेसपक्खे ‘‘नप्पजहन्ती’’ति पहानाभावदस्सनवसेन, वोदानपक्खे ‘‘पजहन्ती’’ति पहानसब्भावदस्सनवसेनाति एवं. अनिद्धारितसरूपा यं-तं-सद्देहि धम्म-सद्देन सामञ्ञतो ये पहातब्बधम्मा वुत्ता, ते सरूपतो दस्सेतुन्ति योजना. इमे तेति एत्थ कस्मा लोभादयो एव पहातब्बधम्मा वुत्ता, ननु इतो अञ्ञेपि मोहदिट्ठिविचिकिच्छादयो पहातब्बधम्मा सन्तीति? सच्चं सन्ति, ते पन लोभादीहि तदेकट्ठता गहिता एव होन्तीति वुत्ता. अथ वा इमेसंयेवेत्थ गहणे कारणं परतो आवि भविस्सति.

इदानि उपचयेन अनुसन्धिं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ सावकानं यस्स धम्मस्स दायादभावो सत्थु अभिरुचितो, सो ‘‘चत्तारो सतिपट्ठाने भावेती’’तिआदिना अकत्थेत्वा ‘‘विवेकं अनुसिक्खन्ति, ते च धम्मे पजहन्ति, न च बाहुलिका’’तिआदिना कथितत्ता हेट्ठा परियायेनेव धम्मो कथितोति वुत्तं. ‘‘ते च धम्मे नप्पजहन्ति, ओक्कमने पुब्बङ्गमा’’तिआदिना आमिसं परियायेनपि कथितं. ‘‘सिया च मे पिण्डपातो’’तिआदिना, ‘‘बाहुलिका च होन्ती’’तिआदिना च आमिसं निप्परियायेनपि कथितं. अथ वा यायं भगवता आमिसदायादपटिक्खेपना धम्मदायादता वुत्ता, यञ्च तदत्थं विभजन्तेन महाथेरेन अत्तना विवेकानुसिक्खनादि वुत्तं, तदुभयं हेतुवसेन विभावेतुं ‘‘तत्रावुसो, लोभो चा’’तिआदि वुत्तं. हेतुनिरोधेन हि संकिलेसपक्खस्स, निरोधहेतुसम्पादनेन च वोदानपक्खस्स तप्पापकता.

अतीतदेसनानिदस्सनन्ति अतीताय थेरेन यथादेसिताय देसनाय च पच्चामसनं. तेनेवाह ‘‘सत्थु पविवित्तस्स…पे… देसनायन्ति वुत्तं होती’’ति. तत्थाति यं वुत्तं विसेसतो ‘‘येसं धम्मानं सत्था पहानमाहा’’ति, एतस्मिं पदे. तत्थ हि पहातब्बधम्मा लोभादयो सामञ्ञतो वुत्ता. लामकाति निहीना. लोभदोसा हि हेतुतो पच्चयतो सभावतो फलतो निस्सन्दतो संकिलिट्ठपकतिका, आयतिं दुक्खस्स पापनट्ठेन वा पापका. लुब्भनलक्खणोति आरम्मणस्स अभिगिज्झनलक्खणो. तथा हि सो लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति ‘‘लोभो’’ति वुच्चति. रसादीसु अभिसङ्गरसो, अपरिच्चागपच्चुपट्ठानो, संयोजनियेसु धम्मेसु अस्साददस्सनपदट्ठानो. दुस्सनलक्खणोति आरम्मणे ब्यापज्जनलक्खणो. तथा हि सो दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति ‘‘दोसो’’ति वुच्चति. रसादीसु विसप्पनरसो, सनिस्सयदहनरसो वा, दुस्सनपच्चुपट्ठानो, आघातवत्थुपदट्ठानो.

तेसूतिआदिना दस्सनेन लोभदोसानं एकन्ततो पहातब्बतादस्सनं. आमिसदायादस्स पच्चयानं लाभे होतीति इदं लोभस्स आरम्मणग्गहणसभावतं सन्धाय वुत्तं, तण्हाय वसेन पन अनुगिज्झनं सन्धाय ‘‘अलद्धं पत्थेती’’ति आह. अलाभे पच्चयानं आमिसदायादस्स होतीति आनेत्वा योजना. अलभन्तोति एत्थ ‘‘पच्चये’’ति विभत्तिं परिणामेत्वा योजेतब्बं. विघातवाति ‘‘यम्पिच्छं न लभति, तम्पि दुक्ख’’न्ति (म. नि. १.१२०; विभ. १९०) वचनतो इच्छाविघातवा. लोभो च देय्यधम्मे होति आमिसदायादस्साति सम्बन्धो. एस नयो अनन्तरपदेपि. देय्यधम्मेति च इदं निदस्सनमत्तं सत्तकेलायनादिवसेनपि तस्स लोभुप्पत्तिसब्भावतो. ‘‘तण्हं पटिच्च परियेसना, परियेसनं पटिच्च लाभो’’ति एवमादयो नव तण्हामूलका. परिपूरेति आमिसदायादोति विभत्तिविपरिणामो वेदितब्बो. आवासमच्छरियादीनि पञ्च मच्छरियानि.

मग्गन्ति अरियमग्गं. सो हि किलेसे मारेन्तो गच्छति, निब्बानत्थिकेहि च मग्गीयति, सयं वा सच्छिकिरियाभिसमयवसेन निब्बानं मग्गतीति निप्परियायेन ‘‘मग्गो’’ति वुच्चति. एको अन्तोति इतरेन असम्मिस्सो एको कोट्ठासो, हीनताय वा लामकट्ठेन एको अन्तो. कामं अञ्ञेपि कुसलधम्मा एते अन्ते असम्पयोगतो न उपेन्ति, तेहि विमुत्ता एव, अयं पन अच्चन्तविमुत्तिया न उपेतीति आह ‘‘विमुत्तो एतेहि अन्तेही’’ति. तस्माति अन्तद्वयविमुत्तत्ता. एतेसं मज्झे भवत्ताति इदं मग्गस्स उभयन्तविमुत्तताय एव वुत्तं, न तप्परियापन्नताय, वट्टदुक्खनिस्सरणत्थिकेहि पटिपज्जितब्बतो च. तथाति यथा इतरेन असम्मिस्सट्ठेन लामकट्ठेन च लोभो एको अन्तो, तथा कामसुखल्लिकानुयोगोति अत्थो. एस नयो सेसेसुपि. मग्गस्स अनुपगमनञ्च नेसं अन्तानं सब्बसो अप्पवत्तिकरणेनेव दट्ठब्बं. पुरिमनयेनाति ‘‘एते द्वे अन्ते न उपेती’’तिआदिना पुब्बे वुत्तनयेन.

सच्चानन्ति चतुन्नं अरियसच्चानं. दस्सनपरिणायकट्ठेनाति दस्सनस्स परिञ्ञाभिसमयादिभेदस्स परितो सब्बथा नयनट्ठेन पवत्तनट्ठेन. चक्खुकरणीति धम्मचक्खुस्स करणी निप्फादिका. तयिदं सतिपि पटिपदाय धम्मचक्खुतो अनञ्ञत्ते अवयववसेन सिज्झमानो अत्थो समुदायेन कतो नाम होतीति उपचारवसेन वुत्तन्ति दट्ठब्बं. तथा हि वक्खति ‘‘मग्गोयेव हि मग्गत्थाय संवत्तति मग्गेन कातब्बकिच्चकरणतो’’ति. ञाणायाति याथावतो जाननाय. तेनाह ‘‘विदितकरणट्ठेना’’ति. विसेसञातभावापादनञ्हि विदितकरणं. वूपसमनतोति समुच्छिन्दनवसेन वूपसमनतो. दुक्खादीनं परिञ्ञेय्यादिभावो विय अभिञ्ञेय्यभावोपि मग्गवसेनेव पाकटो होतीति आह ‘‘चतुन्नम्पि सच्चानं अभिञ्ञेय्यभावदस्सनतो’’ति, विभावनतोति अत्थो. सम्बोधोति मग्गो ‘‘सम्बुज्झति एतेना’’ति कत्वा. तस्सत्थायाति मग्गकिच्चत्थाय. न हि मग्गतो अञ्ञो मग्गकिच्चकरो अत्थि. तेनाह ‘‘मग्गोयेव ही’’तिआदि. अथ वा सम्मादिट्ठि उप्पज्जमाना सहजातादिपच्चयभावेन इतरे उप्पादेति, एवं सेसमग्गधम्मापीति एवम्पि मग्गत्थाय संवत्तनं वेदितब्बं. सच्छिकिरियाय पच्चक्खकम्मायाति सच्छिकरणसङ्खातपच्चक्खकम्माय. निब्बानायाति वा अनुपादिसेसनिब्बानाय. उपसमायाति इमिना सउपादिसेसनिब्बानं गहितन्ति. अयन्ति ‘‘सा हि सच्चान’’न्तिआदिना यथावुत्तो अत्थनयो. एत्थाति ‘‘चक्खुकरणी’’तिआदीसु पदेसु. सारो सुन्दरो अनपनीतो. इतो अञ्ञथाति ‘‘दुक्खस्स परिञ्ञाय दिट्ठिविसुद्धिं करोतीति चक्खुकरणी’’तिआदिना अत्थवण्णनापपञ्चो केवलं वित्थारत्थाय.

अयमेवाति एत्थ अयन्ति इमिना अत्तनो अञ्ञेसञ्च तस्सं परिसायं अरियानं मग्गस्स पच्चक्खभावं दस्सेति. आसन्नपच्चक्खवाची हि अयं-सद्दो. अञ्ञमग्गपटिसेधनत्थन्ति अञ्ञस्स निब्बानगामिमग्गस्स अत्थिभावपटिसेधनत्थं. सत्तापटिक्खेपो हि इध पटिसेधनं अलब्भमानत्ता अञ्ञस्स मग्गस्स. बुद्धादीनं साधारणभावो अनञ्ञता. तेनाह ब्रह्मा सहम्पति –

‘‘एकायनं जातिखयन्तदस्सी,

मग्गं पजानाति हितानुकम्पी;

एतेन मग्गेन तरिंसु पुब्बे,

तरिस्सन्ति ये च तरन्ति ओघ’’न्ति. (सं. नि. ५.३८४, ४०९; महानि. १९१; चूळनि. १०७, १२१; नेत्ति. १७०);

आरकत्ताति इमिना निरुत्तिनयेन अरिय-सद्दसिद्धिमाह. अरिपहानायाति अत्थवचनमत्तं. अरयो पापधम्मा यन्ति अपगमन्ति एतेनाति अरियो. अरियेन देसितोति एत्थ अरियस्स भगवतो अयन्ति अरियो. अरियभावप्पटिलाभायाति एत्थ अरियकरो अरियोति उत्तरपदलोपेन अरिय-सद्दसिद्धि वेदितब्बा. यस्मा मग्गङ्गसमुदाये मग्गवोहारो होति, समुदायो च समुदायीहि समन्नागतो नाम होतीति आह ‘‘अट्ठहि अङ्गेहि उपेतत्ता’’ति, तस्मा अत्तनो अवयवभूतानि अट्ठ अङ्गानि एतस्स सन्तीति अट्ठङ्गिको. यस्मा पन परमत्थतो अङ्गानियेव मग्गो, तस्मा वुत्तं ‘‘न च अङ्गविनिमुत्तो’’ति यथा ‘‘छळङ्गो वेदो’’ति. सदिसूदाहरणं पन दस्सेन्तो ‘‘पञ्चङ्गिकतूरियादीनि विया’’ति आह. आदि-सद्देन चतुरङ्गिनी सेनाति एवमादीनं सङ्गहो. मारेन्तो गच्छतीति निरुत्तिनयेन सद्दसिद्धिमाह. मग्गतीति गवेसति. अरियमग्गो हि निब्बानं आरम्मणं करोन्तो तं गवेसन्तो विय होतीति. मग्गीयति निब्बानत्थिकेहि विवट्टूपनिस्सयपुञ्ञकरणतो पट्ठाय तदत्थं पटिपत्तितो. गम्मतीति एतेन आदिअन्तविपरियायेन सद्दसिद्धिमाह यथा ‘‘ककू’’ति. ‘‘सेय्यथिदन्ति निपातो’’ति वत्वा तस्स सब्बलिङ्गविभत्तिवचनसाधारणताय ‘‘कतमानि तानि अट्ठङ्गानी’’ति वुत्तं. ननु च अङ्गानि समुदितानि मग्गो अन्तमसो सत्तङ्गविकलस्स अरियमग्गस्स अभावतोति? सच्चमेतं सच्चपटिवेधेन, मग्गपच्चयताय पन यथासकं किच्चकरणेन पच्चेकम्पि तानि मग्गोयेवाति आह ‘‘एकमेकञ्हि अङ्गं मग्गोयेवा’’ति, अञ्ञथा समुदितानम्पि नेसं मग्गकिच्चं न सम्भवेय्याति. इदानि तमेवत्थं पाळिया समत्थेतुं ‘‘सम्मादिट्ठिमग्गो चेव हेतु चा’’ति वुत्तं.

सम्मा अविपरीतं परिञ्ञाभिसमयादिवसेन चतुन्नं सच्चानं दस्सनं पटिविज्झनं लक्खणं एतिस्साति सम्मादस्सनलक्खणा. सम्मा अविपरीतं सम्पयुत्तधम्मे निब्बानारम्मणे अभिनिरोपनं अप्पनालक्खणं एतस्साति सम्माअभिनिरोपनलक्खणो मुसावादादीनं विसंवादनादिकिच्चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो सिनिद्धसभावत्ता सम्पयुत्तधम्मे, सम्मावाचप्पच्चयसुभासितसोतारञ्च जनं सम्मदेव परिग्गण्हातीति सम्मावाचा सम्मापरिग्गहो लक्खणं एतिस्साति सम्मापरिग्गहलक्खणा. यथा कायिका किरिया किञ्चि कत्तब्बं समुट्ठापेति, सयञ्च समुट्ठहनं घटनं होति, तथा सम्माकम्मन्तसङ्खाता विरतिपीति सम्मासमुट्ठानलक्खणो सम्माकम्मन्तो. सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठानं कायिककिरियाय भारुक्खिपनं विय. जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा सुद्धि वोदानं, आजीवस्सेव वा जीवितप्पवत्तिया सुद्धि वोदानं एतेनाति सम्मावोदानलक्खणो सम्माआजीवो. कोसज्जपक्खे पतितुं अदत्वा सम्पयुत्तधम्मानं पग्गण्हनं अनुबलप्पदानं पग्गहो. आरम्मणं उपगन्त्वा ठानं, तस्स वा अनिस्सज्जनं उपट्ठानं. आरम्मणे सम्पयुत्तधम्मानं सम्मा, समं वा आधानं समाधानं. सम्मा सङ्कप्पेति सम्पयुत्तधम्मे आरम्मणे अभिनिरोपेतीति सम्मासङ्कप्पो. सम्मा वदति एतायाति सम्मावाचा. सम्मा करोति एतेनाति सम्माकम्मं, तदेव सम्माकम्मन्तो. सम्मा आजीवति एतेनाति सम्माआजीवो. सम्मा वायमति उस्सहति एतेनाति सम्मावायामो. सम्मा सरति अनुस्सरतीति सम्मासति. सम्मा समाधियति चित्तं एतेनाति सम्मासमाधीति एवं सम्मासङ्कप्पादीनं निब्बचनं वेदितब्बं.

मिच्छादिट्ठिन्ति सब्बम्पि मिच्छादस्सनं. तप्पच्चनीयकिलेसेति एत्थ तं-सद्देन सम्मादिट्ठि. न हि मिच्छादिट्ठिया किलेसा पच्चनीया, अथ खो सम्मादिट्ठिया. अविज्जञ्चाति अविज्जाग्गहणं तस्सा संकिलेसधम्मानं पमुखभावतो. तेनाह ‘‘अविज्जा, भिक्खवे, पुब्बङ्गमा अकुसलानं धम्मानं समापत्तिया’’ति (सं. नि. ५.१). दस्सननिवारकस्स सम्मोहस्स समुग्घातेन असम्मोहतो. एत्थ च मिच्छादिट्ठिं…पे… पजहतीति एतेन पहानाभिसमयं, निब्बानं आरम्मणं करोतीति एतेन सच्छिकिरियाभिसमयं, सम्पयुत्तधम्मेतिआदिना भावनाभिसमयं सम्मादिट्ठिकिच्चं दस्सेति. परिञ्ञाभिसमयो पन नानन्तरियताय अत्थतो वुत्तो एव होतीति दट्ठब्बो.

कथं पन एकमेव ञाणं एकस्मिं खणे चत्तारि किच्चानि साधेन्तं पवत्तति. न हि तादिसं लोके दिट्ठं, न आगमो वा तादिसो अत्थीति न वत्तब्बं. यथा हि पदीपो एकस्मिंयेव खणे वट्टिं दहति, स्नेहं परियादियति, अन्धकारं विधमति, आलोकञ्च विदंसेति, एवमेतं ञाणन्ति दट्ठब्बं. मग्गसमङ्गिस्स ञाणं दुक्खेपेतं ञाणं, दुक्खसमुदयेपेतं ञाणं, दुक्खनिरोधेपेतं ञाणं, दुक्खनिरोधगामिनिया पटिपदायपेतं ञाणन्ति सुत्तपदं (विभ. ७५४) एत्थ उदाहरितब्बं. यथा च सम्मादिट्ठि पुब्बभागे दुक्खादीसु विसुं विसुं पवत्तित्वा मग्गक्खणे एकाव चतुन्नं ञाणानं किच्चं साधेन्ती पवत्तति, एवं सम्मासङ्कप्पादयो पुब्बभागे नेक्खम्मसङ्कप्पादिनामका हुत्वा कामसङ्कप्पादीनं पजहनवसेन विसुं विसुं पवत्तित्वा मग्गक्खणे तिण्णं चतुन्नञ्च किच्चं साधेन्ता पवत्तन्ति. सम्मासमाधि पन पुब्बभागेपि मग्गक्खणेपि नानायेव हुत्वा पवत्ततीति कामञ्चेत्थ सम्मादिट्ठिया सब्बेपि पापधम्मा पटिपक्खा, उजुविपच्चनीकतादस्सनवसेन पन सम्मादिट्ठिया किच्चनिद्देसे मिच्छादिट्ठिग्गहणं कतं. तेनेव च ‘‘तप्पच्चनीयकिलेसे चा’’ति वुत्तं.

येसं किलेसानं अनुपच्छिन्दने सम्मादिट्ठि न उप्पज्जेय्य, ते मिच्छादिट्ठिया सहजेकट्ठताय तदेकट्ठाव तप्पच्चनीयकिलेसा दट्ठब्बा. सम्मासङ्कप्पादीनं किच्चनिद्देसेपि एसेव नयो. सोतापत्तिमग्गादिवसेन चत्तारो लोकुत्तरमग्गभावसामञ्ञेन एकतो कत्वा. लोभदोसा समुदयसच्चं, यस्स पन सो समुदयो तं दुक्खसच्चं, पहानभावो मग्गसच्चं, यत्थ तं पहानं, तं निरोधसच्चन्ति इमानि चत्तारि सच्चानि. कस्मा पनेत्थ लोभदोसानं विसुं आदितो च गहणं? विसुं गहणं ताव तथाबुज्झनकानं पुग्गलानं अज्झासयवसेन, इमेहि लोभदोसेहि आमिसदायादता, तप्पहानेन च धम्मदायादताति दस्सनत्थं, तदनुसारेन चतुसच्चयोजनाय एवं एकेकस्स निय्यानमुखं होतीति दस्सनत्थञ्च. सेसवारेसुपि एसेव नयो. आदितो गहणं पन अतिविय ओळारिकताय सुपाकटभावतो वक्खमानानं अञ्ञेसञ्च पापधम्मानं मूलभावतो तदेकट्ठताय च वेदितब्बं.

कुज्झनलक्खणोति कुप्पनसभावो, चित्तस्स ब्यापज्जनाति अत्थो. चण्डिक्कं लुद्दता, कुरुरभावोति अत्थो. आघातकरणरसोति ‘‘अनत्थं मे अचरी’’तिआदिना चित्ते आघातस्स करणरसो. दुस्सनपच्चुपट्ठानोति सपरसन्तानस्स विनासनपच्चुपट्ठानो लद्धोकासो विय सपत्तो. उपनन्धनं नानप्पकारस्स उपरूपरि नन्धनं विय होतीति कत्वा. तथा हेस ‘‘वेरअप्पटिनिस्सज्जनरसो, कोधानुपबन्धभावपच्चुपट्ठानो’’ति च वुत्तो. अपरकाले उपनाहोतिआदीति आदि-सद्देन ‘‘उपनय्हना उपनय्हितत्तं आठपना ठपना सण्ठपना अनुसंसन्दना अनुप्पबन्धना दळ्हीकम्म’’न्तिआदीनं (विभ. ८९१) निद्देसपदानं अत्थवण्णनं सङ्गय्हति. उपनाहसमङ्गी हि पुग्गलो वेरस्स अनिस्सज्जनतो आदित्तपूतिअलातं विय जलति एव, चित्तञ्चस्स धोवियमानं अच्छचम्मं विय, मसिमक्खितपिलोतिका विय च न सुज्झतेव.

परगुणमक्खनलक्खणोति उदकपुञ्छनिया उदकं विय परेसं गुणानं मक्खनसभावो. तथाभूतो चायं अत्तनो कारकं गूथेन पहरन्तं गूथो विय पठमतरं मक्खेति एवाति दट्ठब्बो. तथा हेस्स सपरसन्तानेसु गुणं मक्खेतीति मक्खोति वुच्चति. युगग्गाहो समधुरग्गहणं असमानस्सपि अभूतस्स समारोपनं. समभावकरणं समीकरणं. परेसं गुणप्पमाणेन अत्तनो गुणानं उपट्ठानं पच्चुपट्ठपेतीति आह ‘‘परेसं गुणप्पमाणेन उपट्ठानपच्चुपट्ठानो’’ति. तथा हेस परेसं गुणे डंसित्वा विय अत्तनो गुणेहि समे करोतीति पळासोति वुच्चति.

परसम्पत्तिखीयनं परसम्पत्तिया उसूयनं. इस्सति परसम्पत्तिं न सहतीति इस्सा. तथा हेसा ‘‘परसम्पत्तिया अक्खमनलक्खणा’’ति वुच्चति. तत्थाति परसम्पत्तियं. अनभिरतिरसा अभिरतिपटिपक्खकिच्चा. विमुखभावपच्चुपट्ठाना परसम्पत्तिं पस्सितुम्पि अप्पदानतो. निगूहनलक्खणं अत्तनो सम्पत्तिया परेहि साधारणभावासहनतो. असुखायनं न सुखनं दुक्खनं, अरोचनन्ति अधिप्पायो.

कतस्स कायदुच्चरितादिपापस्स पटिच्छादनं कतपापपटिच्छादनं. तस्स पापस्स आवरणभावेन पच्चुपतिट्ठतीति तदावरणपच्चुपट्ठाना, माया, याय समन्नागतो पुग्गलो भस्मछन्नो विय अङ्गारो, उदकछन्नो विय खाणु, पिलोतिकपटिच्छादितं विय च सत्थं होति. अविज्जमानगुणप्पकासनं अत्तनि अविज्जमानसीलादिगुणविभावनं, येन साठेय्येन समन्नागतस्स पुग्गलस्स असन्तगुणसम्भावनेन चित्तानुरूपकिरियाविहरतो ‘‘एवंचित्तो, एवंकिरियो’’ति दुब्बिञ्ञेय्यत्ता कुच्छिं वा पिट्ठिं वा जानितुं न सक्का. यतो –

‘‘वामेन सूकरो होति, दक्खिणेन अजामिगो;

सरेन नेलको होति, विसाणेन जरग्गवो’’ति. (दी. नि. अट्ठ. २.२९६; विभ. अट्ठ. ८९४; महानि. अट्ठ. १६६) –

एवं वुत्तयक्कसूकरसदिसो होति.

चित्तस्स उद्धुमातभावो थद्धलूखभावो. अप्पतिस्सयवुत्तीति अनिवातवुत्ति. अमद्दवाकारेन पच्चुपतिट्ठति, अमद्दवतं वा पच्चुपट्ठपेतीति अमद्दवतापच्चुपट्ठानो, थम्भो, येन समन्नागतो पुग्गलो गिलितनङ्गलसीसो विय अजगरो, वातभरितभस्ता विय च थद्धो हुत्वा गरुट्ठानिये च दिस्वा ओनमितुम्पि न इच्छति, परियन्तेनेव चरति. करणस्स उत्तरकिरिया करणुत्तरियं. विसेसतो पच्चनीकभावो विपच्चनीकता. परेन हि किस्मिञ्चि कते तद्दिगुणं करणवसेन सारम्भो पवत्तति.

सेय्यादिआकारेहि उन्नमनं उन्नति. ओमानोपि हि एवं करणमुखेन सम्पग्गहवसेनेव पवत्तति. ‘‘अहमस्मि सेय्यो’’तिआदिना अहंकरणं सम्पग्गहो अहङ्कारो. परे अभिभवित्वा अधिकं उन्नमनं अब्भुन्नति. यं सन्धाय वुत्तं ‘‘पुब्बकाले अत्तानं हीनतो दहति अपरकाले सेय्यतो’’ति (विभ. ८७७).

मत्तभावो जातिआदिं पटिच्च चित्तस्स मज्जनाकारो, यस्स वा धम्मस्स वसेन पुग्गलो मत्तो नाम होति, सो धम्मो मत्तभावो. मदग्गाहणरसो मदस्स गाहणकिच्चो. मदो हि अत्तनो मज्जनाकारं सम्पयुत्तधम्मे गाहेन्तो विय पवत्तमानो तंसमङ्गिं पुग्गलम्पि तथा करोन्तो विय होति. अहङ्कारवसेन पुग्गलं अनिट्ठं करोन्तो चित्तस्स उम्मादभावो विय होतीति उम्मादपच्चुपट्ठानो. सतिया अनिग्गण्हित्वा चित्तस्स वोस्सज्जनं चित्तवोस्सग्गो, सतिविरहितोति अत्थो. यथावुत्तस्स वोस्सग्गस्स अनुप्पदानं पुनप्पुनं विस्सज्जनं वोस्सग्गानुप्पदानं. इमेसं कोधादीनं लोभादीनम्पि वा. लक्खणादीनीति लक्खणरसपच्चुपट्ठानानि. पदट्ठानं पन धम्मन्तरताय न गहितं. निब्बचनं ‘‘कुज्झतीति कोधो, उपनय्हतीति उपनाहो’’तिआदिना सुविञ्ञेय्यमेवाति न वुत्तं, अत्थतो पन कोधो दोसो एव, तथा उपनाहो. पवत्तिआकारमत्ततो हि कतो नेसं भेदो, मक्खपळाससारम्भा तदाकारप्पवत्ता पटिघसहगतचित्तुप्पादधम्मा, मायासाठेय्यथम्भमदप्पमादा तदाकारप्पवत्ता लोभसहगतचित्तुप्पादधम्मा. थम्भो वा मानविसेसो चित्तस्स थद्धभावेन गहेतब्बतो, तथा मदो. तथा हि सो ‘‘मानो मञ्ञना’’तिआदिना विभङ्गे (विभ. ८७८) निद्दिट्ठो. इध पन मानातिमानानं विसुं गहितत्ता मज्जनाकारेन पवत्तधम्मा एव ‘‘मदो’’ति गहेतब्बा. सेसानं धम्मन्तरभावो पाकटो एव.

कस्मा पनेत्थ एते एव अट्ठ दुका गहिता, किमितो अञ्ञेपि किलेसधम्मा नत्थीति? नो नत्थि, इमे पन आमिसदायादस्स सविसेसं किलेसाय संवत्तन्तीति तं विसेसं विभावेन्तेन आमिसदायादस्स लोभादीनं पवत्तनाकारं दस्सेतुं ‘‘विसेसतो’’तिआदि आरद्धं. तत्थ एत्थाति एतेसु लोभादीसु. अलभन्तो आमिसन्ति अधिप्पायो. ततुत्तरि उप्पन्नो कोधोति आनेत्वा सम्बन्धितब्बं. सन्तेपीति विज्जमानेपि. इस्सतीति इस्सं जनेति. पदुस्सतीति तस्सेव वेवचनं. तथा हि सा ‘‘इस्सति दुस्सति पदुस्सती’’तिआदिना निद्दिट्ठा. यस्मा वा इस्सं जनेन्तो एकंसतो पदुट्ठचित्तो एव होति, तस्मा ‘‘पदुस्सती’’ति वुत्तं. अस्साति आमिसदायादस्स. एवं पटिपन्नोति एवं असन्तगुणप्पकासनं पटिपदं पटिपन्नो. ओवदितुं असक्कुणेय्योति एतेन थम्भो नाम दोवचस्सकरणो धम्मोति दस्सेति. किञ्चि वदति ओवाददानवसेन. थम्भेन…पे… मञ्ञन्तोति इमिना च थम्भस्स मानविसेसभावं दस्सेति, थम्भेन वा हेतुनाति अत्थो. मत्तो समानोति मत्तो होन्तो. काम…पे… पमज्जतीति एतेन मदवसेन एकंसतो पमादमापज्जतीति दस्सेति.

एवन्ति इमिना आमिसदायादस्स लोभादीनं उप्पत्तिक्कमदस्सनेनेव इध पाळियं नेसं देसनाक्कमोपि दस्सितोति दट्ठब्बो. न केवलं इमेहेव, अथ खो अञ्ञेहि च एवरूपेहि पापकेहि धम्मेहि अपरिमुत्तो होतीति सम्बन्धो. के पन तेति? अत्रिच्छतामहिच्छतादयोति. एवं महादीनवा आमिसदायादताति ततो बलवतरो संवेगो जनेतब्बोति अयमेत्थ ओवादो वेदितब्बो. एत्थाति एतस्मिं सुत्ते. सब्बत्थाति सब्बेसु वारेसु. निब्बिसेसोयेवाति एतेनेव पठमतरं इध दस्सितसच्चयोजनानयेन सब्बवारेसु योजेतब्बोति वेदितब्बो.

ञाणपरिचयपाटवत्थन्ति मग्गस्स अट्ठङ्गसत्तङ्गतादिविसेसविभावनाय ञाणस्स आसेवनट्ठेन परिचयो ञाणपरिचयो, तस्स पटुभावत्थं कोसल्लत्थं. एत्थाति अरियमग्गे. भेदोति विसेसो. कमोति अङ्गानं देसनानुपुब्बी. भावनानयोति भावनाविधि. ‘‘कदाचि अट्ठङ्गिको, कदाचि सत्तङ्गिको’’ति सङ्खेपतो वुत्तमत्थं विवरन्तो पुन ‘‘अयं ही’’तिआदिमाह. तत्थ लोकुत्तरपठमज्झानवसेनाति लोकुत्तरस्स पठमज्झानस्स वसेन. एत्थ च केचि झानधम्मा मग्गसभावाति एकन्ततो झानं मग्गतो विसुं कत्वा वत्तुं न सक्काति ‘‘लोकुत्तरपठमज्झानसहितो’’ति अवत्वा ‘‘लोकुत्तरपठमज्झानवसेन’’इच्चेव वुत्तं. अथ वा लोकुत्तरपठमज्झानवसेनाति लोकुत्तरा हुत्वा पठमज्झानस्स वसेनाति एवमेत्थ अत्थो वेदितब्बो. अरियमग्गो हि विपस्सनाय पादकभूतस्स, सम्मसितस्स वा पठमज्झानस्स वसेन अट्ठङ्गिको होति. अथ वा अझानलाभिनो सुक्खविपस्सकस्स, झानलाभिनो वा पादकमकत्वा पठमज्झानस्स, पकिण्णकसङ्खारानं वा सम्मसने उप्पन्नो अरियमग्गो अट्ठङ्गिको होति, स्वास्स अट्ठङ्गिकभावो पठमज्झानिकभावेनाति दस्सेन्तो ‘‘पठमज्झानवसेना’’ति आह. एवं ‘‘अवसेसज्झानवसेना’’ति एत्थाति यथारहं अत्थो वेदितब्बो.

यदि अरियमग्गो सत्तङ्गिकोपि होति, अथ कस्मा पाळियं ‘‘अट्ठङ्गिको’’इच्चेव वुत्तन्ति आह ‘‘उक्कट्ठनिद्देसतो’’तिआदि. यथा चेत्थ पटिपदाय मग्गवसेन अट्ठङ्गिकसत्तङ्गिकभेदो, एवं बोज्झङ्गवसेन सत्तङ्गिकछळङ्गिकभेदो वेदितब्बो अप्पीतिकज्झानवसेन छळङ्गिकत्ता, मग्गवसेन पन देसना आगताति स्वायं भेदो अट्ठकथायं न उद्धटो. इतो परन्ति इतो अट्ठङ्गतो परं उक्कंसतो, अवकंसतो पन सत्तङ्गतो परं मग्गङ्गं नाम नत्थीति. ननु मग्गविभङ्गे (विभ. ४९३-५०२) पञ्चङ्गिकवारे पञ्चेव मग्गङ्गानि उद्धटानि, महासळायतने (म. नि. ३.४३१) च ‘‘या तथाभूतस्स दिट्ठि, यो तथाभूतस्स सङ्कप्पो, यो तथाभूतस्स वायामो, या तथाभूतस्स सति, यो तथाभूतस्स समाधि, स्वास्स होति सम्मासमाधी’’ति वत्वा पुब्बभागवसेन पन ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति सम्मावाचादयो आगताति? सच्चमेतं, तं पन सम्मादिट्ठिआदीनं पञ्चन्नं कारापकङ्गानं अतिरेककिच्चदस्सनवसेन वुत्तं, तस्मा न अरियमग्गो सम्मावाचादिविरहितो अत्थीति ‘‘इतो परञ्हि मग्गङ्गं नत्थी’’ति सुवुत्तमेतन्ति दट्ठब्बं.

सब्बकुसलानन्ति सब्बेसं कुसलधम्मानं. निद्धारणे चेतं सामिवचनं. कामावचरादिवसेन तंतंकुसलधम्मेसु सा सम्मादिट्ठि सेट्ठा. तस्सा सेट्ठभावेन हि ‘‘पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति (सं. नि. १.२४६; सु. नि. १८४) वुत्तं, मग्गसम्मादिट्ठिया पन सब्बसेट्ठभावे वत्तब्बमेव नत्थि. कुसलवारेति कुसलुप्पत्तिसमये. पुब्बङ्गमा कुसलादिधम्मानं याथावसभावबोधेन सम्पयुत्तधम्मानं परिणायकभावतो. तेनेवाह ‘‘सम्मादिट्ठिं सम्मादिट्ठीति पजानाती’’तिआदि. सा सम्मादिट्ठि पभवो एतस्साति तप्पभवो, सम्मासङ्कप्पो. सम्मादस्सनवसेन हि सम्मासङ्कप्पो होति. ततो अभिनिब्बत्तानीति तप्पभवाभिनिब्बत्तानि. तप्पभवाभिनिब्बत्तानिपि ‘‘तदभिनिब्बत्तानी’’ति वुच्चन्ति कारणकारणेपि कारणूपचारतोति आह ‘‘तप्पभवाभिनिब्बत्तानि सेसङ्गानी’’ति. तेनाह ‘‘सम्मादिट्ठिस्सा’’तिआदि. यथा हि सम्मादस्सनं सम्मावितक्कनस्स विसेसपच्चयो, एवं सम्मावितक्कनं सम्मापरिग्गहस्स सम्मापरिग्गहो सम्मासमुट्ठानस्स, सम्मासमुट्ठानं सम्मावोदानस्स, सम्मावोदानं सम्मावायामस्स, सम्मावायामो सम्माउपट्ठानस्स, सम्माउपट्ठानं सम्माधानस्स विसेसपच्चयो, तस्मा ‘‘पुरिमं पुरिमं पच्छिमस्स पच्छिमस्स विसेसपच्चयो होती’’ति इमिना विसेसपच्चयभावदस्सनत्थेन कमेन एतानि सम्मादिट्ठिआदीनि अङ्गानि वुत्तानीति दस्सितानि.

भावनानयोति समथविपस्सनानं युगनद्धभावेन पवत्तो भावनाविधि. अयञ्हि अरियमग्गक्खणे भावनाविधि. तस्स पन पुब्बभागे भावनानयो कस्सचि समथपुब्बङ्गमो होति, कस्सचि विपस्सनापुब्बङ्गमोति. तं विधिं दस्सेतुं ‘‘कोची’’तिआदि आरद्धं. तत्थ पठमो समथयानिकस्स वसेन वुत्तो, दुतियो विपस्सनायानिकस्स. तेनाह ‘‘इधेकच्चो’’तिआदि. न्ति समथं समाधिं, झानधम्मेति वा अत्थो. तंसम्पयुत्तेति समाधिसम्पयुत्ते, झानसम्पयुत्ते वा धम्मे. अयञ्च नयो येभुय्येन समथयानिका अरूपमुखेन, तत्थापि झानमुखेन विपस्सनाभिनिवेसं करोन्तीति कत्वा वुत्तो. विपस्सनं भावयतोति पटिपदाञाणदस्सनविसुद्धिं आरभित्वा यथाधिगतं तरुणविपस्सनं वड्ढेन्तस्स. मग्गो सञ्जायतीति पुब्बभागियो लोकियमग्गो उप्पज्जति. आसेवति निब्बिदानुपस्सनावसेन. भावेति मुञ्चितुकम्यतावसेन. बहुलीकरोति पटिसङ्खानुपस्सनावसेन. आसेवति वा भयतूपट्ठानञाणवसेन. बहुलीकरोति वुट्ठानगामिनिविपस्सनावसेन. संयोजनानि पहीयन्ति, अनुसया ब्यन्ती होन्ति मग्गपटिपाटिया.

समथं अनुप्पादेत्वावाति अवधारणेन उपचारसमाधिं निवत्तेति, न खणिकसमाधिं. न हि खणिकसमाधिं विना विपस्सना सम्भवति. विपस्सनापारिपूरियाति विपस्सनाय परिपुण्णताय वुट्ठानगामिनिभावप्पत्तिया. तत्थजातानन्ति तस्मिं अरियमग्गक्खणे उप्पन्नानं सम्मादिट्ठिआदीनं धम्मानं. निद्धारणे चेतं सामिवचनं. ववस्सग्गारम्मणतोति ववस्सग्गस्स आरम्मणताय. ववस्सग्गो वोस्सग्गो पटिनिस्सग्गोति च अपवग्गोति च अत्थतो एकं, निब्बानन्ति वुत्तं होति, तस्मा निब्बानस्स आरम्मणकरणेनाति अत्थो. चित्तस्स एकग्गताति मग्गसम्मासमाधिमाह. अरियमग्गो हि एकन्त समाहितो असमाधानहेतूनं किलेसानं समुच्छेदनतो. सेसं वुत्तनयमेव.

युगनद्धाव होन्ति तदा समाधिपञ्ञानं समरसताय इच्छितब्बतो. मग्गक्खणे हि न समथभावनायं विय समाधि, विपस्सनाभावनायं विय च पञ्ञा किच्चतो अधिका इच्छितब्बा, समरसताय पन अञ्ञमञ्ञस्स अनतिवत्तनट्ठेन द्वेपि युगनद्धा विय पवत्तन्ति. तेन वुत्तं ‘‘समथविपस्सना युगनद्धाव होन्ती’’ति.

धम्मदायादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

४. भयभेरवसुत्तवण्णना

३४. एवं मे सुतन्ति भयभेरवसुत्तं. को निक्खेपो? केचि ताव एवमाहु ‘‘पुच्छावसिको निक्खेपो’’ति. दुविधा हि पुच्छा पाकटापाकटभेदतो. तत्थ यस्सा देसनाय निमित्तभूतो ञातुं इच्छितो अत्थो किं-सद्दपुब्बकेन पकासीयति, सा पाकटा पुच्छा यथा ‘‘किंसूध वित्तं पुरिसस्स सेट्ठ’’न्ति एवमादि (सं. नि. १.२४६; सु. नि. १८३). यस्सा पन देसनाय निमित्तभूतो ञातुं इच्छितो अत्थो किं-सद्दरहितेन केवलेनेव सद्दपयोगेन पकासीयति, सा अपाकटा पुच्छा. ञातुं इच्छितो हि अत्थो ‘‘पञ्हा, पुच्छा’’ति वुच्चति, तस्मायेव इध ‘‘ये मे भो गोतमा’’तिआदिका अपाकटाति ‘‘पुच्छावसिको निक्खेपो’’ति. तयिदं अकारणं, यस्मा सो ब्राह्मणो ‘‘येमे भो गोतमा’’तिआदीनि वदन्तो न तत्थ कङ्खी विचिकिच्छी संसयमापन्नो अवोच, अथ खो अत्तना यथानिच्छितमत्थं भगवति पसादभावबहुमानं पवेदेन्तो कथेसि. तेनाह ‘‘भगवति पसादं अलत्था’’तिआदि (म. नि. अट्ठ. १.३४). विहारेति विहारके निवासे. अविच्छिन्नेयेवाति पवत्तमानेयेव. पदद्वयस्सपि वसन्ते एवाति अत्थो. एतं पुरोहितट्ठानं उण्हीसादिककुधभण्डेहि सद्धिं लद्धं, तथा च ‘‘अस्स रञ्ञा दिन्न’’न्ति वदन्ति. तेनाह ‘‘तं तस्स रञ्ञा दिन्न’’न्ति. ब्रह्मन्ति वेदं. सो पन मन्तब्रह्मकप्पवसेन तिविधो. तत्थ मन्ता पधानं मूलभावतो, ये अट्ठकादीहि पवुत्ता, इतरे तन्निस्सयेन जाता, तेन तेसंयेव गहणं ‘‘मन्ते सज्झायती’’ति. ते हि गुत्तभासितब्बताय ‘‘मन्ता’’ति वुच्चन्ति. इदमेव हीति अवधारणेन ‘‘ब्रह्मतो जाता’’तिआदिकं निरुत्तिं पटिक्खिपति.

येन वा कारणेनाति (सारत्थ. टी. वेरञ्जकण्डवण्णनायं २; सं. नि. टी. १.१.१; अ. नि. टी. २.२.१६) हेतुम्हि इदं करणवचनं. हेतुअत्थो हि किरियाकारणं, न करणं विय किरियत्थो, तस्मा नानप्पकारगुणविसेसाधिगमत्था इध उपसङ्कमनकिरियाति ‘‘अन्नेन वसती’’तिआदीसु विय हेतुअत्थमेवेतं करणवचनं युत्तं, न करणत्थं तस्स अयुज्जमानत्ताति वुत्तं ‘‘येन वा कारणेना’’तिआदि. भगवतो सततप्पवत्तनिरतिसयसादुविपुलामतरससद्धम्मफलताय सादुफलनिच्चफलितमहारुक्खेन भगवा उपमितो, सादुफलूपभोगाधिप्पायग्गहणेनेव हि महारुक्खस्स सादुफलता गहिताति.

उपसङ्कमीति उपसङ्कन्तो. सम्पत्तुकामताय हि किञ्चि ठानं गच्छन्तो तंतंपदेसातिक्कमनेन उपसङ्कमि, उपसङ्कन्तोति वा वत्तब्बतं लभति. तेनाह ‘‘गतोति वुत्तं होती’’ति, उपगतोति अत्थो. उपसङ्कमित्वाति पुब्बकालकिरियानिद्देसोति आह ‘‘उपसङ्कमनपरियोसानदीपन’’न्ति. ततोति यं ठानं पत्तो ‘‘उपसङ्कमी’’ति वुत्तो, ततो उपगतट्ठानतो. यथा खमनीयादीनि पुच्छन्तोति (सं. नि. टी. १.१.११२) यथा भगवा ‘‘कच्चि ते ब्राह्मण खमनीयं, कच्चि यापनीय’’न्तिआदिना खमनीयादीनि पुच्छन्तो तेन ब्राह्मणेन सद्धिं समप्पवत्तमोदो अहोसि पुब्बभासिताय, तदनुकरणेन एवं सोपि ब्राह्मणो भगवता सद्धिं समप्पवत्तमोदो अहोसीति योजना. तं पन समप्पवत्तमोदतं उपमाय दस्सेतुं ‘‘सीतोदकं विया’’तिआदि वुत्तं. तत्थ सम्मोदितन्ति संसन्दितं. एकीभावन्ति सम्मोदनकिरियाय समानतं एकरूपतं. खमनीयन्ति ‘‘इदं चतुचक्कं नवद्वारं सरीरयन्तं खणभङ्गुरताय सभावतो दुस्सहं, कच्चि खमितुं सक्कुणेय्य’’न्ति पुच्छति. यापनीयन्ति पच्चयायत्तवुत्तिकं चिरप्पबन्धसङ्खाताय यापनाय कच्चि यापेतुं सक्कुणेय्यं. सीसरोगादिआबाधाभावेन कच्चि अप्पाबाधं. दुक्खजीविकाभावेन कच्चि अप्पातङ्कं. तंतंकिच्चकरणे उट्ठानसुखताय कच्चि लहुट्ठानं. तदनरूपबलयोगतो कच्चि बलं. सुखविहारसब्भावेन कच्चि फासुविहारो अत्थीति तत्थ तत्थ कच्चि-सद्दं योजेत्वा अत्थो वेदितब्बो.

बलवप्पत्ता पीति पीतियेव. तरुणपीति पामोज्जं. सम्मोदनं जनेति करोतीति सम्मोदनिकं, तदेव सम्मोदनीयन्ति आह ‘‘सम्मोदजननतो’’ति. सम्मोदितब्बतो सम्मोदनीयन्ति इमं पन अत्थं दस्सेन्तो ‘‘सम्मोदितुं युत्तभावतो’’ति आह. सरितब्बभावतोति अनुस्सरितब्बभावतो. ‘‘सरणीय’’न्ति वत्तब्बे दीघं कत्वा ‘‘सारणीय’’न्ति वुत्तं. सुय्यमानसुखतोति आपाथमधुरतं आह, अनुस्सरियमानसुखतोति विमद्दरमणीयतं. ब्यञ्जनपरिसुद्धतायाति सभावनिरुत्तिभावेन तस्सा कथाय वचनचातुरियमाह, अत्थपरिसुद्धतायाति अत्थस्स निरुपक्किलेसतं. अनेकेहि परियायेहीति अनेकेहि कारणेहि.

अभिदूरअच्चासन्नपटिक्खेपेन नातिदूरनाच्चासन्नं नाम गहितं, तं पन अवकंसतो उभिन्नं पसारितहत्थसङ्घट्टनेन दट्ठब्बं. गीवं पसारेत्वाति गीवं परिवत्तनवसेन पसारेत्वा.

येमेति एत्थ सन्धिवसेन इकारलोपोति दस्सेन्तो ‘‘ये इमे’’तिआदिमाह. उच्चाकुलीनताय जातिवसेन अभिजाता जातिकुलपुत्ता. तेनाह ‘‘उच्चाकुलप्पसुता’’ति. आचारसम्पत्तिया अभिजाता आचारकुलपुत्ता. तेनाह ‘‘आचारसम्पन्ना’’ति. यत्थ कत्थचि अपाकटेपि कुले. तेन ब्राह्मणेन अधिप्पेता भिक्खूसु दुविधापि संविज्जन्तीति आह ‘‘इध पन द्वीहिपि कारणेहि कुलपुत्तायेवा’’ति.

सद्धाति इदं करणत्थे पच्चत्तवचनन्ति आह ‘‘सद्धाया’’ति, सद्धाति वा सद्दहित्वाति अत्थो. इमस्मिं पक्खे पाळियं य-कारलोपेन निद्देसोति दट्ठब्बं. अगारतोति अगारवासतो, उत्तरपदलोपेन, निस्सयूपचारेन वा अयं निद्देसोति. भिक्खनसीलतादिलक्खणो भिक्खुभावो पब्बज्जासहचरिताय सद्धिं भिक्खुभावं अन्वाचिनन्तोति आह ‘‘पब्बज्जं भिक्खुभावञ्चा’’ति. कम्मवाचालक्खणे पन भिक्खुभावे अधिप्पेते समुच्चयत्थो -सद्दो दट्ठब्बो. अनगारस्स भावोति एतेन पब्बज्जानिस्सितो सुविसुद्धो सीलाचारगुणविसेसो गहितो, कसिगोरक्खादिकम्मपटिक्खेपो इध अनुप्पादादीहि वेदितब्बो. सेसग्गहणे पन सरणगमनादिवसेन पब्बज्जाय, सरणगमनादिवसेन उपसम्पदाय च अनेकभेदत्ता आह ‘‘सब्बथापी’’ति, तेन तेन पकारेनाति अत्थो. पुरतोगामिता पटिपत्तिगमनेन, न कायगमनेनाति आह ‘‘नायको’’ति, सम्मापटिपत्तिया निब्बानसम्पापकोति अत्थो. हितकिरियायाति दिट्ठधम्मिकादिहितचरियाय. गाहणं अधिसीलादीसु अच्चन्ताय नियोजनं, न कथनमत्तन्ति दस्सेन्तो ‘‘गाहेता’’ति वत्वा ‘‘सिक्खापेता’’ति आह. दिट्ठानुगतिन्ति दिट्ठिया अनुगमनन्ति दस्सेन्तो ‘‘दस्सनानुगति’’न्ति वत्वा सिक्खात्तयसङ्गहं भगवतो सासनं तेन दिट्ठत्ता दिट्ठि, तस्स तस्सेव खमनवसेन खन्ति, रुच्चनवसेन रुचि, तंदिट्ठिखन्तिरुचिकाव भगवतो सावकाति आह ‘‘यंदिट्ठिको’’तिआदि.

एस किर अलत्थाति सम्बन्धो. देवपुत्ते वियातिआदि कस्सचि पारिजुञ्ञस्स अभावदीपनतो ‘‘सद्धाया’’तिआदिना वुत्तस्स पब्बजितभावस्स पाकटीकरणं. सद्धाय घरा निक्खम्म पब्बजित्वाति इदं हट्ठपहट्ठादिभावस्स कारणवचनं. घासच्छादनपरमताय सन्तुट्ठेति इदं अनुस्सङ्कितापरिसङ्कितताय कारणवचनन्ति दट्ठब्बं.

एवमेतन्तिआदिना आमेडितवचनं सम्पहंसनवसेन, पसादवसेन वा कतन्ति दट्ठब्बं. तथा हि एवं-सद्दो सम्पटिच्छनत्थो अब्भनुमोदनत्थो च वुत्तो. ममन्ति उपयोगत्थे सामिवचनं, निपातपदं वा एतं ‘‘म’’न्ति इमिना समानत्थन्ति दट्ठब्बं. आदीनीति आदि-सद्देन नजीविकापकतादिं सङ्गण्हाति ईदिसानंयेवाति सद्धापब्बज्जाय विभावितअनभिज्झालुआदिसभावानंयेव, न इतरेसं अभिज्झालुसभावानं. वुत्तञ्हेतं –

‘‘सङ्घाटिकण्णे चेपि मे, भिक्खवे, भिक्खु गहेत्वा पिट्ठितो पिट्ठितो अनुबन्धो अस्स पदे पदं निक्खिपन्तो, सो च होति अभिज्झालु कामेसु तिब्बसारागो ब्यापन्नचित्तो पदुट्ठमनसङ्कप्पो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकटिन्द्रियो, अथ खो आरकाव मम अहञ्च तस्सा’’ति (इतिवु. ९२).

अज्झोगाहेत्वा अधिप्पेतत्थं सम्भवितुं साधेतुं दुक्खानीति दुरभिसम्भवानि. अट्ठकथायं पन तत्थ निवासोयेव दुक्खोति दस्सेतुं ‘‘सम्भवितुं दुक्खानि दुस्सहानी’’ति वुत्तं. अरञ्ञवनपत्थानीति अरञ्ञलक्खणप्पत्तानि वनसण्डानि. वनपत्थ-सद्दो हि सण्डभूते रुक्खसमूहेपि वत्ततीति अरञ्ञग्गहणं. किञ्चापीति अनुजाननसम्भावनत्थे निपातो. किं अनुजानाति? निप्परियायतो अरञ्ञाभावं ‘‘गामतो बहि अरञ्ञ’’न्ति. तेनाह ‘‘निप्परियायेना’’तिआदि. किं सम्भावेति? आरञ्ञकङ्गनिप्फादकत्तं. यञ्हि आरञ्ञकङ्गनिप्फादकं, तं विसेसतो ‘‘अरञ्ञ’’न्ति वुत्तन्ति. तेनेवाह ‘‘यं तं पञ्चधनुसतिक’’न्तिआदि. निक्खमित्वा बहि इन्दखीलाति इन्दखीलतो बहि निक्खमित्वा, ततो बहि पट्ठायाति अत्थो. बहि इन्दखीलाति यत्थ द्वे तीणि इन्दखीलानि, तत्थ बहिद्धा इन्दखीलतो पट्ठाय, यत्थ तं नत्थि, तत्थ तदरहट्ठानतो पट्ठायाति वदन्ति. यस्मा बहि इन्दखीलतो पट्ठाय मनुस्सूपचारे भयभेरवं नत्थि, तस्मा इध नाधिप्पेतन्ति दट्ठब्बं.

गामन्तन्ति गामसमीपं. अनुपचारट्ठानन्ति निच्चकिच्चवसेन नुपचरितब्बट्ठानं. तेनाह ‘‘यत्थ न कसीयति न वपीयती’’ति. पन्तानीति इमिना ‘‘परियन्तान’’न्ति इमस्स परियायस्स इध पाळियं गहितत्ता वुत्तं ‘‘परियन्तानन्ति इममेकं परियायं ठपेत्वा’’ति. दूरानन्ति पन अयं परियायो ठपेतब्बो सिया तस्सापि ‘‘पन्तानी’’ति इमिनाव अत्थतो गहितत्ता, तथा सति ‘‘न मनुस्सूपचारान’’न्ति एदिसानम्पि ठपेतब्बता आपज्जति, तस्मा सद्दतो एव ठपनं दट्ठब्बं. पविवेकन्ति पकारतो, पकारेहि वा विवेचनं, रूपादिपुथुत्तारम्मणे पकारतो गमनादिइरियापथप्पकारेहि अत्तनो कायस्स विवेचनं गच्छतोपि तिट्ठतोपि निसज्जतोपि एकस्सेव पवत्तति. तेनेव हि विवेचेतब्बानं विवेचनाकारस्स च भेदतो बहुविधत्ता ते एकत्तेन गहेत्वा ‘‘पविवेक’’न्ति एकवचनेन वुत्तं. दुक्करं पविवेकन्ति वा पविवेकं कत्तुं न सुखन्ति अत्थो. एकीभावेति एकिकभावे. द्वयंद्वयारामोति द्विन्नं द्विन्नं भावाभिरतो. हरन्ति वियाति संहरन्ति विय विघातुप्पादनेन. तेनाह ‘‘घसन्ति विया’’ति, भयसन्तासुप्पादनेन खादितुं आगता यक्खरक्खसपिसाचादयो वियाति अधिप्पायो. ईदिसस्साति अलद्धसमाधिनो. तिणपण्णमिगादिसद्देहीति वातेरितानं तिणपण्णादीनं मिगपक्खिआदीनञ्च भिंसनकेहि भेरवेहि सद्देहि विविधेहि च अञ्ञेहि खाणुआदीहि यक्खादिआकारेहि उपट्ठितेहि भिंसनकेहि. एवं दुक्करं दुरभिसम्भवं नाम करोन्तो अहो अच्छरिया एतेति विम्हितो.

कायकम्मन्तवारकथावण्णना

३५. सोळससु ठानेसूति ‘‘ये खो केची’’तिआदिना पाळियं वक्खमानेसु सोळससु कारणेसु. अपरिसुद्धकायकम्मन्ततादयो अरञ्ञे विहरन्तानं चित्तुत्रासनिमित्तताय विसेसतो विक्खेपावहा, परिसुद्धकायकम्मन्ततादयो पन तदभावतो तेसं अविक्खेपावहा. तेनाह ‘‘अपरिसुद्धकायकम्मन्तसन्दोसहेतू’’तिआदि. सोळससूति च वोदानपक्खंयेव गहेत्वा वुत्तं. संकिलेसग्गहणम्पि यावदेव वोदानदस्सनत्थन्ति. आरम्मणपरिग्गहरहितानन्ति अपरिसुद्धकायकम्मन्तादिकस्स अरञ्ञे दिट्ठस्स तस्स आरम्मणस्स ‘‘ये खो केची’’तिआदिना पाळियं आगतनयेन परिग्गण्हनञाणरहितानं. आरम्मणपरिग्गहयुत्तानन्ति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो. अत्तनाति भगवन्तं सन्धाय वदति, सयन्ति अत्थो. तादिसोति आरम्मणपरिग्गहयुत्तो.

सम्बुज्झति एतेनाति सम्बोधो, अरियमग्गोति आह ‘‘अरियमग्गप्पत्तितो’’ति. अग्गमग्गाधिगमाधीनो बुद्धानं सब्बञ्ञुतञ्ञाणाधिगमोति आह ‘‘अनभिसम्बुद्धस्साति अप्पटिविद्धचतुसच्चस्सा’’ति. अनवसेसतो ञेय्यं, बुज्झितुं अरहतीति बोधि, महावीरियतादिना तत्थ विसेसयोगतो सत्तोति आह ‘‘बुज्झनकसत्तस्सा’’ति. तेनाह ‘‘सम्मासम्बोधि’’न्तिआदि. नियतभावप्पत्तितो पट्ठाय महासत्ता यथा महाबोधियानपटिपदा हानभागिया, ठितिभागिया वा न होति, अथ खो विसेसभागिया निब्बेधभागिया च होति, तथा पटिपज्जनतो बोधियं निन्नगोणपब्भारा एवाति आह ‘‘बोधिया वा सत्तस्सेव लग्गस्सेवा’’ति. तेनाह ‘‘दीपङ्करस्स ही’’तिआदि. अट्ठधम्मसमोधानेनाति –

‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता’’ति. (बु. वं. २.५९) –

इमेसं अभिनीहारस्स अङ्गभूतानं अट्ठन्नं धम्मानं समोधानेन समवधानेन.

पब्बज्जूपगताति पब्बज्जं उपगता. तेन पब्बज्जामत्तेन समणा, न समितपापतायाति दस्सेति. जातिमत्तेन इध ब्राह्मणाति अधिप्पेताति आह ‘‘भोवादिनो वा’’ति. ते हि ‘‘भो भो’’ति वदनसीला, तेनाह ‘‘भोवादी नाम सो होति, सचे होति सकिञ्चनो’’ति (ध. प. ३९६; सु. नि. ६२५). पाणातिपातादिनाति आदि-सद्देन अदिन्नादानं अब्रह्मचरियञ्च सङ्गण्हाति. अपरिसुद्धेनाति च विसेसनं कायकम्मन्तापेक्खाय, न पाणातिपातादिअपेक्खाय. न हि पाणातिपातादिको तस्स पुब्बभागपयोगो च कोचि परिसुद्धो नाम अत्थि. भायनट्ठेन भयं, भीरुतावहट्ठेन भेरवं. सन्दोसहेतूति सदोसहेतु. स-सद्दो हि इध सानुसारो वुत्तो. तेनाह ‘‘अत्तनो दोसस्स हेतू’’ति. एकन्तेन चित्तुत्रासलक्खणस्स भयस्स वसेन ‘‘सावज्ज’’न्ति वुत्तं. चित्तुत्रासो हि एकन्तसावज्जो भायनट्ठेन भयञ्चाति. अक्खेमन्ति इदं उभयवसेन. चित्तुत्रासोपि हि सरीरचित्तानं अनत्थावहतो अक्खेम, तथा भयानकारम्मणम्पीति. अट्ठकथायं पन अत्थद्वयं यथासङ्ख्यं योजितं. सयं परिकप्पितभयानकारम्मणनिमित्तं चित्तुत्राससमुप्पादनवसेन आनेन्ता भयभेरवं अव्हायन्ति विय होन्तीति वुत्तं ‘‘अव्हायन्तीति पक्कोसन्ती’’ति. तेति मारितमनुस्सानं ञातिमित्तादयो. गच्छं गहनभूतं महन्तं कण्टकसण्डं, गुम्बं नातिमहन्तन्ति वदन्ति. गच्छन्ति पन तिणवनं वेदितब्बं, ‘‘गच्छे रुळ्हतिणे’’ति वुत्तं, गुम्बं कण्टकलतादिभरिताविरुळ्हं. बद्धा वधिता वियाति बद्धा हुत्वा ताळियमाना विय.

‘‘न खो पनाति एत्थ खोति अवधारणत्थे निपातो, पना’’ति विसेसत्थे. तेनेतं दस्सेति ‘‘अञ्ञे समणब्राह्मणा विय अहं अपरिसुद्धकायकम्मन्तो हुत्वा अरञ्ञवनपत्थानि पन्तानि सेनासनानि न खो पन पटिसेवामि, परिसुद्धकायकम्मन्तोयेव पन हुत्वा तानि पटिसेवामी’’ति. एवं वा एत्थ अत्थयोजना वेदितब्बा. ‘‘परिसुद्धकायकम्मन्तोहमस्मी’’ति हि तेन अवधारणेन विभावितत्थदस्सनं. तेसमहं अञ्ञतरोति ताय परिसुद्धकायकम्मताय तेसं अरियानं अहं अञ्ञतरोति कायकम्मपारिसुद्धिया महासत्तो अत्तानं अरियेसु पक्खिपति. परमसल्लेखभावप्पत्ता हि तदा बोधिसत्तस्स कायकम्मपारिसुद्धि, तथा वचीकम्मादिपारिसुद्धि, यतो मारो रन्धगवेसी हुत्वा छब्बस्सानि निरन्तरं अनुबन्धो अन्तरं न लभति. तेनाह –

‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदं;

ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति. (सु. नि. ४४८);

भिय्योति अधिकं सविसेसं, उपरूपरि वा. भीततसिता भयूपद्दवेन छम्भितसरीरा हट्ठलोमा होन्ति, अभीतातसिता पन भयूपद्दवाभावतो अहट्ठलोमा खेमेन सोत्थिना तिट्ठन्तीति तेसं खेमप्पत्ति सोत्थिभावो वा पन्नलोमताय पाकटो होतीति पाळियं ‘‘पल्लोम’’न्ति वुत्तं. तेनाह ‘‘पन्नलोमत’’न्तिआदि. एत्थ च भिय्यो पल्लोममापादिं अरञ्ञे विहारायाति पटिञ्ञानिद्देसो. परिसुद्धकायकम्मन्तोहमस्मीति हेतुदस्सनं. ‘‘ये हि वो अरिया’’ति सदिसूदाहरणदस्सनं. ये खो केचि समणा वा ब्राह्मणा वाति विसदिसूदाहरणदस्सनं. सेसानि अन्वयब्यतिरेकविभावनानीति दट्ठब्बन्ति अयमेत्थ युत्तिविभावना. इमिना नयेन सेसवारेसुपि युत्तिविभावना वेदितब्बा.

कायकम्मन्तवारकथावण्णना निट्ठिता.

वचीकम्मन्तवारादिकथावण्णना

३६. अपरिसुद्धेन मुसावादादिनाति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव. आदि-सद्देन पन सङ्गहितं तेसञ्च मुसावादादीनं पवत्तिभेदं भयभेरवाव्हानमुखेन दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं. तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव.

भण्डेसूति सविञ्ञाणकाविञ्ञाणकेसु भण्डेसु. उप्पादेत्वाति अत्तनो परिणामवसेन अभिज्झासङ्खातं विसमलोभं उप्पादेत्वा. कुज्झित्वाति विनासचिन्तावसेन परस्स कुज्झित्वा. एवञ्हि नेसं ‘‘येसं अपरज्झिम्हा, ते इदानि अनुबन्धित्वा’’तिआदिना पच्छा आसङ्कुप्पत्ति सिया. ‘‘एते अम्हाकं परिग्गहवत्थुं गहेतुकामा मञ्ञे, विनासं कातुकामा मञ्ञे’’ति यथा परे परतो तेसं अभिज्झाब्यापादप्पवत्तिं परिग्गण्हन्ति, तादिसं मनोकम्मन्तं सन्धाय ‘‘ते परेस’’न्तिआदि वुत्तन्ति दट्ठब्बं. कामं अकुसलकायकम्मवचीकम्मपवत्तिकालेपि अभिज्झादयो पवत्तन्तियेव, तदा पन ते चेतनापक्खिका वा अब्बोहारिका वाति मनोकम्मन्तवारे एव अभिज्झादिवसेन योजना कता. अथ वा द्वारन्तरे पवत्तानम्पि पाणातिपातादीनं वचीकम्मादिभावाभावो विय द्वारन्तरे पवत्तानम्पि अभिज्झादीनं कायकम्मादिभावाभावो, मनोकम्मभावो एव पन सिद्धोति कत्वा मनोकम्मन्तवारे एव अभिज्झादयो उद्धटा. तथा हि वुत्तं –

‘‘द्वारे चरन्ति कम्मानि, न द्वारा द्वारचारिनो;

तस्मा द्वारेहि कम्मानि, अञ्ञमञ्ञं ववत्थिता’’ति. (ध. स. अट्ठ. १.कायकम्मद्वार);

किञ्चापि अट्ठकथायं सासने पब्बजितवसेन आजीववारे भयभेरवाव्हानं योजितं, ‘‘ये खो केचि समणा वा ब्राह्मणा वा’’ति पन वचनतो बाहिरकवसेन गहट्ठवसेन च योजना वेदितब्बा. गहट्ठानम्पि हि जातिधम्मकुलधम्मदेसधम्मविलोमनवसेन अञ्ञथापि मिच्छाजीवो लब्भतेव, ताय एव च आजीवविपत्तिया अञ्ञथा वा नेसं अरञ्ञवासो सम्भवेय्याति.

३७. एवं आजीवट्ठमकसीलवसेन भयभेरवं दस्सेत्वा ततो परं नीवरणप्पहानादिवसेन तं दस्सेतुं देसना वड्ढिताति तदत्थं विवरन्तो ‘‘इतो पर’’न्तिआदिमाह. तत्थ नीवरणवसेन पुन वुत्ताति अयमधिप्पायो – एवं सीलविसुद्धिमत्तम्पि अरञ्ञे विहरतो भयभेरवाभावं आवहति, किमङ्गं पन नीवरणानि पहाय अप्पनासमाधिं, उपचारसमाधिमेव वा सम्पादयतोति समाधिसम्पदाय भयभेरवाभावहेतुकं दस्सेतुं उपरि देसना वड्ढिताति अकुसलमनोकम्मन्तभावेन गहितापि अभिज्झाब्यापादा नीवरणवसेन पुन वुत्ताति अधिप्पायो. अभि-पुब्बो झा-सद्दो अभिज्झायनत्थोति आह ‘‘परभण्डादिअभिज्झायनसीला’’ति. वत्थुकामेसूति रूपादीसु किलेसकामस्स वत्थुभूतेसु कामेसु. बहलकिलेसरागाति थिरमूलदुम्मोचनीयताहि अज्झोसाने पभूतकिलेसकामा. अभिज्झा चेत्थ अप्पत्तविसयपत्थना, तिब्बसारागो सम्पत्तिविसयाभिनिवेसो. ते हि लोभाभिभूता पुग्गला अत्तनि तिब्बसापेक्खताय एव लोभाभिभूतताय अववत्थितारम्मणा अविनिच्छितविसया अरञ्ञे तं तं विसयं अनुपधारित्वा विहरन्ति, रज्जुआदीनि याथावतो न सल्लक्खेन्ति. तेनाह ‘‘तेस’’न्तिआदि. उपट्ठाति सन्तचित्तताय. तथा हि वुत्तं ‘‘आकुलचित्ता’’ति. ‘‘इदानिम्ह नट्ठा’’ति तसन्ति वितसन्ति, आगन्त्वा बाधियमाना विय होन्ति, एवं तं भयभेरवं अत्तनि समारोपनट्ठेन अव्हायन्ति पक्कोसन्तीति योजनं सन्धायाह ‘‘सेसं तादिसमेवा’’ति. ‘‘अनभिज्झालुहमस्मी’’ति पाळिपदे चिरपरिचितअलोभज्झासयताय कमलदले जलबिन्दु विय अलग्गमानसत्ता सब्बत्थ अनपेक्खोहमस्मीति अत्थो.

३८. पकतिभावविजहनेनाति परिसुद्धभावसङ्खातस्स च पकतिभावस्स विजहनेन. सावज्जधम्मसमुप्पत्तिया हि चित्तस्स अनवज्जभावो जहितो होतीति. विपन्नचित्ताति किलेसासुचिदूसितताय कुथितचित्ता. तेनाह ‘‘किलेसानुगतं…पे… पूतिकं होती’’ति. पदुट्ठमनसङ्कप्पाति विससंसट्ठमुत्तं विय दोसेन पदूसितचित्तसङ्कप्पा. वुत्तनयेनेवाति ‘‘ते अववत्थितारम्मणा होन्ती’’तिआदिना अभिज्झालुवारे वुत्तनयेनेव. यथा हि लोभवसेन, एवं दोसादिवसेनपि अववत्थितारम्मणा होन्तीति. सब्बत्थाति हेट्ठा उपरि चाति सब्बत्थ ठानेसु वण्णेतब्बा.

३९. ‘‘या चित्तस्स अकल्लता अकम्मञ्ञता’’ति वचनतो थिनं चित्तस्स गेलञ्ञभावेन गहणं गच्छतीति आह ‘‘चित्तगेलञ्ञभूतेन थिनेना’’ति. तथा ‘‘या कायस्स अकल्लता अकम्मञ्ञता’’ति (ध. स. ११६३) वचनतो मिद्धं विसेसतो नामकायस्स गेलञ्ञभावेन गहणं गच्छतीति आह ‘‘सेसनामकायगेलञ्ञभूतेन मिद्धेना’’ति. सेसग्गहणञ्चेत्थ चित्तनिवत्तनत्थं. इदञ्च मिद्धं रूपकायस्सपि गेलञ्ञावहन्ति दट्ठब्बं निद्दाय हेतुभावतो. तथा हि तं ‘‘निद्दा चपलायिका’’ति निद्दिट्ठं. तेनाह ‘‘ते निद्दाबहुला होन्ती’’ति.

४०. उद्धच्चपकतिकाति उद्धच्चसीला अनवट्ठितसभावा. अनवट्ठानरसञ्हि उद्धच्चं. तेनाह ‘‘विप्फन्दमानचित्ता’’तिआदि. इधाति ‘‘अवूपसन्तचित्ता’’ति इमस्मिं पदे. कुक्कुच्चं गहेतुं वट्टति संवण्णनावसेन पच्छानुतापस्सपि चित्तस्स अवूपसमकरत्ता. उद्धच्चं पन सरूपेनेव गहितन्ति अधिप्पायो.

४१. एकमेविदं पञ्चमं नीवरणं यदिदं कङ्खा विचिकिच्छाति च. यदि एवं कस्मा द्विधा कत्वा वुत्तन्ति आह ‘‘किं नु खो’’तिआदि. कङ्खनतोति संसयनतो. विचिकिच्छाति वुच्चति ‘‘धम्मसभावं विचिनन्तो एताय किच्छति, विगता तिकिच्छा वा’’ति कत्वा.

४२. एवं नीवरणाभावकित्तनमुखेन समाधिसम्पदाय भयभेरवाभावं दस्सेत्वा इदानि अत्तुक्कंसनादिअभावकित्तनमुखेन पञ्ञासम्पदाय भयभेरवाभावं दस्सेतुं ‘‘ये खो केची’’तिआदिना उपरि देसना वड्ढिता, तदत्थं विवरितुं ‘‘अत्तुक्कंसनका’’तिआदि वुत्तं. उक्कंसेन्ति मानवसेन पग्गण्हनेन. तेनाह ‘‘उच्चे ठाने ठपेन्ती’’ति. थिनमिद्धउद्धच्चकुक्कुच्चविचिकिच्छावारेसु गय्हमानं अभिज्झालुवारसदिसन्ति तत्थ तं अनामसित्वा अत्तुक्कंसकवारे किञ्चि विसदिसं अत्थीति तं दस्सेतुं ‘‘ते कथ’’न्तिआदि वुत्तं.

४३. छम्भनं छम्भो, कायस्स छम्भितत्तहेतुभूतो बलवचित्तुत्रासो. सो एतेसं अत्थीति छम्भी. तेनाह ‘‘कायथम्भना’’तिआदि. भीरुकजातिकाति भायनकसीला. एकमेव चेतं सावज्जभयं काये छम्भितत्तस्स, चित्ते च काये च थद्धभावस्स उप्पादनवसेन ‘‘छम्भो भीरुता’’ति च वुच्चतीति तंसमङ्गिनो समणब्राह्मणा ‘‘छम्भी भीरुकजातिका’’ति वुत्ता, इध भयभेरवं सरूपेनेव गहितं.

४४. लब्भति पापुणीयतीति लाभसद्दस्स कम्मसाधनत्तमाह. सक्कच्चं कातब्बो दातब्बोति सक्कारो. तदत्थदीपकन्ति लाभादिं पहाय अरञ्ञे वसतो भयभेरवाव्हायनं नत्थीति दीपकं. सो किर लाभगरुतायेव पियो गामो एतस्साति ‘‘पियगामिको’’ति नामं लभति. कम्ममुत्तोति जराजिण्णत्ता कम्मं कातुं न सक्कोतीति सामिकेहि विस्सट्ठो.

४५. अलसभावेन सम्मावायामस्स अकरणतो कुच्छितं सीदन्तीति कुसीता. वीरस्स भावो, कम्मं वा वीरियं, विधिना वा ईरेतब्बं पवत्तेतब्बन्ति वीरियं, सम्मावायामो. तेन हीना हीनवीरिया. कायविञ्ञत्तिया समुट्ठानवसेन पवत्तवीरियं कायिकवीरियं, वत्तकरणचङ्कमनादीसु दट्ठब्बं. निसज्ज सयित्वा च कम्मट्ठानमनसिकारवसेन पवत्तवीरियं चेतसिकवीरियं. तत्थ पुरिमं विसेसतो कोसज्जपटिपक्खतावसेन, दुतियं वीरियारम्भतावसेन पाकटं होतीति दस्सेन्तो ‘‘कुसीता’’तिआदिमाह. ते हि हीनवीरिया अलसतायेव आरम्मणववत्थानमत्तम्पि कातुं न सक्कोन्ति.

४६. नट्ठस्सतीति अलब्भमानस्सति, पच्चयवेकल्लेन विज्जमानायपि सतिया सतिकिच्चं कातुं असमत्थताय एवं वुत्तं. न सम्पजानाति असम्पजाना. तंयोगनिवत्तियञ्चायं -कारो ‘‘अहेतुका धम्मा (ध. स. २.दुकमातिका), अभिक्खुको आवासो’’तिआदीसु (चूळव. ७६) वियाति आह ‘‘पञ्ञारहिता’’ति. ननु सोळसमो पञ्ञावारो, अयं सतिवारो, तत्थ कस्मा संकिलेसपक्खे पञ्ञा गहिताति चोदनं सन्धायाह ‘‘इमस्स चा’’तिआदि. सतिभाजनीयमेवेतं, यदिदं चुद्दसमो वारो, पञ्ञा पनेत्थ चुद्दसमे वारे केवला सति दुब्बलाति सतिदुब्बल्यदीपनत्थं ‘‘असम्पजाना’’ति पटिक्खेपमुखेन वुत्ता. इदानि वुत्तमेवत्थं पाकटतरं कातुं ‘‘दुविधा ही’’तिआदि वुत्तं.

४७. अप्पनासमाधिना, उपचारसमाधिना वा चित्तं आरम्मणे समं, सम्मा वा आहितं नाम होति, नाञ्ञथाति दस्सेन्तो ‘‘असमाहिताति उपचारप्पनासमाधिविरहिता’’ति आह. विब्भन्तचित्ताति अनवट्ठितचित्ता. पुब्बे नीवरणभावसामञ्ञेन उद्धच्चं गहितं ‘‘उद्धता अवूपसन्तचित्ता’’ति, इध समाधानाभावेन उद्धच्चहेतुको चित्तविब्भमो वुत्तो ‘‘असमाहिता विब्भन्तचित्ता’’ति, अयमेतेसं विसेसो. पुब्बे वुत्तनयेनाति पुब्बे ‘‘उद्धच्चेन हि एकारम्मणे चित्तं विप्फन्दति धजयट्ठियं वातेन पटाका विया’’ति (म. नि. अट्ठ. १.४०) वुत्तनयेन. सब्बं पुब्बसदिसमेवाति भयभेरवाव्हायनस्स अभिज्झालुवारे वुत्तसदिसतं सन्धाय वदति.

४८. दुप्पञ्ञाति एत्थ दु-सद्दो ‘‘दुस्सीलो’’तिआदीसु विय अभावत्थो, न ‘‘दुग्गति, दुप्पटिपन्नो’’तिआदीसु विय गरहत्थोति दस्सेतुं ‘‘निप्पञ्ञानमेतं अधिवचन’’न्ति वत्वा ‘‘पञ्ञा पन दुट्ठा नाम नत्थी’’ति वुत्तं. तेति दुप्पञ्ञा. सब्बत्थाति चतूसुपि पाठविकप्पेसु. एलन्ति वा दोसो वुच्चति. तेनाह ‘‘या सा वाचा नेला कण्णसुखा’’ति. तथा हि सीलं ‘‘नेलङ्ग’’न्ति वुत्तं. दुप्पञ्ञा च कथेन्ता सदोसमेव कथं कथेन्ति अपण्डितभावतो. तेनेवाह ‘‘दुब्भासितभासी’’ति. तस्मा एलसब्भावतो एलं मुखं एतेसन्ति एलमूगाति वुत्ताति एवम्पि वा एत्थ अत्थो दट्ठब्बो. याय पञ्ञाय वसेन ‘‘पञ्ञासम्पन्नो’’ति वुत्तं, तं ब्यतिरेकमुखेन दस्सेतुं ‘‘नो च खो’’तिआदि वुत्तं. ननु च बोधिसत्ता बहुलविपस्सनापञ्ञाय समन्नागता होन्तीति? होन्ति, तदा पन बोधिसत्तेन न विपस्सनारम्भो कतो, नो च विपस्सनापञ्ञा अधिप्पेताति वुत्तं ‘‘नो च खो विपस्सनापञ्ञाया’’ति.

केचि पनेत्थ ‘‘सद्धाविरहिता अपरिसुद्धकायकम्मन्तादयो विय भयभेरवाव्हायनस्स विसेसकारणं, नापि सद्धालुता पल्लोमतायाति सद्धावारो अनुद्धटो’’ति वदन्ति, तं अकारणं. कम्मफले हि सद्दहन्तो कम्मपटिसरणतंयेव निस्साय भयभेरवं तिणायपि अमञ्ञमानो पल्लोमतमापज्जेय्य. यस्मा पन वीरियादयो सद्धाय विना नप्पवत्तन्तीति तेसं उपनिस्सयभूता सहजाता च सा तग्गहणेनेव गहिता होतीति विसुं न उद्धटा. तथा हि सा झानस्स पुब्बभागपटिपदायम्पि न उद्धटा, किं वा एताय सद्धाय, अद्धा सा इमस्मिं आरम्मणपरिग्गहट्ठाने न गहेतब्बाव, ततो धम्मस्सामिना इध न उद्धटा, एवं अञ्ञेसुपि एदिसेसु ठानेसु निच्छयो कातब्बो. यथानुलोमदेसना हि सुत्तन्तकथाति.

वचीकम्मन्तवारादिकथावण्णना निट्ठिता.

सोळसट्ठानारम्मणपरिग्गहो निट्ठितो.

भयभेरवसेनासनादिवण्णना

४९. सोळसारम्मणानीति सोळसट्ठानानि आरम्मणानि. एवरूपासु रत्तीसूति चातुद्दसीआदिका उपरि वक्खमाना रत्तियो सन्धाय वदति. एवरूपे सेनासनेति एत्थापि एसेव नयो. याति अनियमतो उद्दिट्ठानं पुन ‘‘ता’’ति वचनं निद्देसो विय होतीति वुत्तं ‘‘या ताति उभयमेतं रत्तीनंयेव उद्देसनिद्देसवचन’’न्ति. अभीति लक्खणत्थे ‘‘अञ्ञे च अभिञ्ञाता ब्राह्मणमहासाला’’तिआदीसु विय. कथं पनेत्थ लक्खणत्थता वेदितब्बा? लक्खीयति एतेनाति लक्खणन्ति आह ‘‘चन्दपारिपूरिया’’तिआदि. पुण्णमासियं चन्दपारिपूरिया अमावासियं चन्दपरिक्खयेन. आदि-सद्देन चन्दस्स उपड्ढमण्डलताराहुग्गहतादीनं सङ्गहो दट्ठब्बो. उपसग्गमत्तमेव अभि-सद्दो लक्खितसद्देनेव लक्खणत्थस्स विञ्ञायमानत्ताति अधिप्पायो.

पठमदिवसतो पभुतीति पठमपाटिपददिवसतो पट्ठाय. यस्मा चोदको भगवतो काले अनभिलक्खितापि अपरभागे अभिलक्खिता जाता, तस्मा तं अभिलक्खणीयतं उपादाय ‘‘सब्बदस्सिना भगवता पञ्चमी कस्मा न गहिता’’ति चोदेति, इतरो सब्बकालिकासु चातुद्दसीआदीसु गय्हमानासु असब्बकालिकाय कथं गहणन्ति अधिप्पायेन ‘‘असब्बकालिकत्ता’’ति परिहरति.

तथाविधासूति ‘‘अभिञ्ञाता’’तिआदिना यथा वुत्ता, तथाविधासु. देवताधिट्ठितभावेन आरामादीनं लोकस्स चेतियभावोति आह ‘‘पूजनीयट्ठेना’’ति. मनुस्सा येभुय्येन गामादीनं द्वारेसु तथारूपे रुक्खे चेतियट्ठानिये कत्वा वोहरन्तीति आह ‘‘गामनिगमादिद्वारेसू’’तिआदि. दस्सनमत्तेनपि सवनमत्तेनपि भयुप्पादनेन पाकतिकसत्ते भिंसेन्तीति भिंसनकानि. तेनाह ‘‘भयजनकानी’’तिआदि. भायति एतस्माति भयं, अतिविय सप्पटिभयं भेरवं.

आयाचनउपहारकरणारहन्ति तंतंबलिकम्मपणिधिकम्मकरणयोग्गं. पुप्फधूप…पे… धरणितलन्ति इदं यथापटिसूतेन सुप्पादिना उपहारकरणदस्सनं. कोट्टेन्तोति पहरन्तो, सिङ्गप्पहारखुरप्पहारेहि सद्दं करोन्तोति अधिप्पायो. सब्बचतुप्पदानं इध मगोति नामं, न ‘‘अच्छचम्मं मिगचम्मं एळकचम्म’’न्तिआदीसु (महाव. २५९) विय, रोहितोतिआदि मिगविसेसानन्ति अधिप्पायो. चालेत्वाति अग्गमद्दनेन चालेत्वा. मोरग्गहणञ्चेत्थ उपलक्खणन्ति दस्सेन्तो आह ‘‘इध सब्बपक्खिगहणं अधिप्पेत’’न्ति. एस नयोति इदं यथा ‘‘मोरो वा’’ति एत्थ वा-सद्दो अवुत्तविकप्पनत्थो, एवं ‘‘मिगो वा’’ति एत्थापीति मिगसद्दस्स विसेसत्थवुत्तितं सन्धायाह. इतो पभूतीति ‘‘यंनूनाहं या ता रत्तियो’’तिआदिना भयभेरवस्स गवेसनचिन्तनतो पभुति, न गवेसनारम्भतो पभुति. ‘‘अप्पेव नामाहं भयभेरवं पस्सेय्य’’न्ति एत्थापि हि आरम्मणमेव भयभेरवं. सुखारम्मणं रूपं सुखमिव ‘‘रूपं सुखं सुखानुपतितं सुखावक्कन्त’’न्तिआदीसु (सं. नि. ३.६०). कथं भयग्गहणेन च रूपारम्मणग्गहणन्ति आह ‘‘परित्तस्स चा’’तिआदि. ‘‘आगच्छती’’ति वचनतो गवेसनारम्भतो पभुति ‘‘एतं भय’’न्ति आरम्मणं अधिप्पेतन्ति केचि ‘‘तं न पस्सेय्य’’न्ति चक्खुना दस्सनस्स अधिप्पेतत्ता, तस्मा वुत्तनयेनेव अत्थो गहेतब्बो. भयं आकङ्खमानोति उपपरिक्खनवसेन अहं भयवत्थुं आकङ्खन्तो विहरामि, तं किमत्थियं, एत्तकोपि भयसमन्नाहारो मय्हं अयुत्तोति अधिप्पायो.

यं पकारं भूतो यथाभूतो, सो पनेत्थ पकारो इरियापथवसेन युत्तो पाळियं तथा आगतत्ताति आह ‘‘येन येन इरियापथेन भूतस्सा’’ति. भवितस्साति इदं ‘‘भूतस्सा’’ति इमिना समानत्थं पदन्ति दट्ठब्बं. ‘‘समङ्गीभूतस्सा’’ति पदं पुरिमपदलोपेन भूतस्साति वुत्तन्ति दस्सेन्तो ‘‘समङ्गीभूतस्स वा’’ति आह. भयभेरवारम्मणेति भयभेरवाभिमते आरम्मणे. नेव महासत्तो तिट्ठतीतिआदि ‘‘तथाभूतो च तं पटिविनेय्य’’न्ति यथा चिन्तितं, तथा पटिपन्नभावदस्सनं. इरियापथपटिपाटि नाम ठानगमननिसज्जानिपज्जाति वदन्ति, उप्पटिपाटि पन पठमं निपज्जा, पुन निसज्जा, पुन ठानं, पच्छा गमनन्ति एवं वेदितब्बा. आसन्नपटिपाटियाति गमनस्स ताव ठानं आसन्नं, ठानस्स निसज्जा गमनञ्च, निसज्जाय निपज्जा ठानञ्च, निपज्जाय निसज्जा आसन्ना. इध पन गमनस्स ठानं, ठानस्स च गमनं, निसज्जाय च निपज्जा, निपज्जाय च निसज्जा आसन्नभावेन गहिता, इतरे परम्परावसेनाति वेदितब्बा. भिक्खुस्स पन इरियापथा सम्पत्तपटिपाटिया विय अपरापरुप्पत्तिवसेन वुच्चन्ति.

भयभेरवसेनासनादिवण्णना निट्ठिता.

असम्मोहविहारवण्णना

५०. अयञ्च मे सब्बसो भयभेरवाभावो विसेसतो असम्मोहधम्मत्ताति दस्सेतुं ‘‘सन्ति खो पना’’तिआदिना उपरि देसना वड्ढिताति अयं वा एत्थ अनुसन्धि. झायीनं सम्मोहट्ठानेसूति इमिना अज्झायीनं सम्मोहट्ठानेसु वत्तब्बमेव नत्थीति दस्सेति. अत्थीति इदं निपातपदं पुथुवचनम्पि होति ‘‘अत्थि इमस्मिं काये केसा’’तिआदीसु (दी. नि. २.३७३-३७४; म. नि. १.११०; ३.१५४; सं. नि. ४.१२७; खु. पा. ३.द्वतिंसाकार) वियाति ‘‘सन्ती’’ति पदस्स अत्थदस्सनवसेन वुत्तं. किं खणत्तयसमङ्गिताय ते अत्थि, नोति आह ‘‘संविज्जन्ति उपलब्भन्ती’’ति, महति लोकसन्निवासे एदिसापि संविज्जन्ति ञाणेन गहेतब्बताय उपलब्भन्तीति. ओदातकसिणलाभीति अप्पमाणओदातकसिणलाभी. एवं हिस्स समन्ततो आलोको विय उपट्ठाति. परिकम्मन्ति समापत्तिपुब्बभागमाह. एत्तकं सूरिये गते वुट्ठहामीति, नो च खो अद्धानपरिच्छेदे कुसलो होति, केवलं ‘‘दिवा एव वुट्ठहामी’’ति मनसिकारं उप्पादेसि. विसदं होति सब्बं आरम्मणजातं, दिब्बचक्खुना पस्सन्तस्स विय विभूतं. अविसदन्ति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो. एवंसञ्ञिनोति रत्तिं ‘‘दिवा’’ति, दिवा च ‘‘रत्ती’’ति एवंसञ्ञिनो.

अन्तोसेनासने रत्तिं निसिन्नो होतीति रत्ति-सद्दो अज्झाहरितब्बो. परित्तासनादीहि, अञ्ञेहि वा कारणेहि. गम्भीराय भूमिगब्भसदिसाय घनवनपटिच्छन्नाय बहलतरजालवनपटलपटिच्छन्नाय. अन्तरहितसूरियालोके कालेति एतेनेव दिवाति अवुत्तसिद्धो. सम्मोहविहारो नाम बहुविधोति आह ‘‘सम्मोहविहारानं अञ्ञतर’’न्ति.

पाकटो बोधिसत्तस्स रत्तिन्दिवपरिच्छेदो अन्तमसो लवतुटिखणस्सपि उपादाय सुववत्थितत्ता, तथा रत्तिदिवसकोट्ठासपरिच्छेदो अत्तना कातब्बकिच्चवसेन कालञाणवसेन च.

कालथम्भे लद्धब्बछायावसेन द्वङ्गुलकाले. यामघण्टिकं पहरति सङ्घस्स तंतंवत्तकरणत्थं. मुग्गरन्ति घण्टिकप्पहरणमुग्गरं. यामयन्तं पतति अञ्ञेहि भिक्खूहि योजितन्ति अधिप्पायो. याव अञ्ञे भिक्खू भोजनसालं उपगच्छन्ति, ताव दिवाविहारट्ठानं गन्त्वा समणधम्मं करोति.

यं खो तन्ति एत्थ न्ति अनियमुद्देसो, खोति अवधारणे, यमेव पुग्गलन्ति अत्थो. न्ति वुच्चमानाकारवचनं. ममेवाति मं एव. असम्मोहसभावोति सभावभूतअसम्मोहो. ‘‘उप्पन्नो’’ति वुत्तत्ता ‘‘मनुस्सलोके’’ति वुत्तं. पञ्ञासम्पत्तियाति याथावतो हितस्स जाननसमत्थेन अत्तनो पञ्ञागुणेन, न केवलं अज्झासयेनेव हितेसिता, अथ खो पयोगेनाति दस्सेन्तो ‘‘हितूपदेसको’’ति आह. अज्झासयेन पन हितेसिता ‘‘लोकानुकम्पाया’’ति इमिना दस्सिता. उपकरणेहि विना न कदाचि भोगसुखं उपकरणदानञ्च चागसम्पत्तिहेतुकन्ति आह ‘‘चागसम्पत्तिया…पे… दायको’’ति. मेत्तासम्पत्तिया हितूपसंहारेन रक्खिता. करुणासम्पत्तिया दुक्खापनयनेन गोपायिता. ननु च पुब्बेपि वुत्तं ‘‘हिताय सुखाया’’ति, अथ कस्मा पुन तं गहितन्ति चोदनं सन्धायाह ‘‘इध देवमनुस्सग्गहणेना’’तिआदि. तेन पुब्बे अविसेसतो हितादीनि दस्सितानि, इदानि विसेसतो सह पयोजनेन तानि दस्सितानीति दीपेति. निब्बानतो परो परमो अत्थो नाम नत्थीति आह ‘‘परमत्थत्ताया’’ति. हिनोति निब्बानं गच्छतीति हितं, मग्गो. उक्कंसतो सुखत्थं अरियफलन्ति आह ‘‘ततो उत्तरि सुखाभावतो’’ति.

असम्मोहविहारवण्णना निट्ठिता.

पुब्बभागपटिपदादिवण्णना

५१. असम्मोहविहारन्ति असम्मोहवुत्तिं, असम्मोहसम्बोधिन्ति वा अत्थो. न्ति समथविपस्सनाभावनासङ्खातं पटिपदं. पुब्बभागतो पभुतीति भावनाय पुब्बभागवीरियारम्भादितो पट्ठाय. केचीति उत्तरविहारवासिनो.

बोधिमण्डेति (सारत्थ. टी. १.११.वेरञ्जकण्डवण्णना; अ. नि. टी. ३.८.११) बोधिसङ्खातस्स ञाणस्स मण्डभावप्पत्ते ठाने. चतुरङ्गन्ति ‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतू’’तिआदिना (म. नि. २.१८४; सं. नि. २.२३७; अ. नि. २.५; ८.१३; महानि. १७, १९६) वुत्तचतुरङ्गसमन्नागतं. पग्गहितन्ति आरम्भं सिथिलं अकत्वा दळ्हपरक्कमसङ्खातुस्सहनभावेन गहितं. तेनाह ‘‘असिथिलप्पवत्तितन्ति वुत्तं होती’’ति. असल्लीनन्ति असङ्कुचितं कोसज्जवसेन सङ्कोचं अनापन्नं.

उपट्ठिताति ओगाहनसङ्खातेन अपिलापनभावेन आरम्मणं उपगन्त्वा ठिता. तेनाह ‘‘आरम्मणाभिमुखीभावेना’’ति. सम्मोसस्स विद्धंसनवसेन पवत्तिया न सम्मुट्ठाति असम्मुट्ठा. किञ्चापि चित्तमिव चित्तपस्सद्धिवसेन कायपस्सद्धिवसेनेव कायो पस्सद्धो होति, तथापि यस्मा कायपस्सद्धि उप्पज्जमाना चित्तपस्सद्धिया सहेव उप्पज्जति, न विना, तस्मा वुत्तं ‘‘कायचित्तपस्सद्धिसम्भवेना’’ति. रूपकायोपि पस्सद्धोयेव होति कायपस्सद्धिया उभयेसम्पि कायानं पस्सम्भनावहत्ता. सो च खो कायो. विगतदरथोति विगतकिलेसदरथो. नामकाये हि विगतदरथे रूपकायोपि वूपसन्तदरथपरिळाहो होति. सम्मा आहितन्ति नानारम्मणेसु विधावनसङ्खातविक्खेपं विच्छिन्दित्वा एकस्मिंयेव आरम्मणे अविक्खित्तभावापादानेन सम्मदेव आहितं. तेनाह ‘‘सुट्ठु ठपित’’न्तिआदि. चित्तस्स अनेकग्गभावो विक्खेपवसेन चञ्चलता, सा सति एकग्गताय न होतीति आह ‘‘एकग्गं अचलं निप्फन्दन’’न्ति. एत्तावताति ‘‘आरद्धं खो पना’’तिआदिना वीरियसतिपस्सद्धिसमाधीनं किच्चसिद्धिदस्सनेन. ननु च सद्धापञ्ञानम्पि किच्चसिद्धि झानस्स पुब्बपटिपदाय इच्छितब्बाति? सच्चं इच्छितब्बा, सा पन नानन्तरियभावेन अवुत्तसिद्धाति न गहिता. असति हि सद्धाय वीरियारम्भादीनं असम्भवोयेव, पञ्ञापरिग्गहे च नेसं असति पञ्ञायारम्भादिभावो न सिया. तथा असल्लीनासम्मोसतादयो वीरियादीनन्ति असल्लीनतादिग्गहणेनेवेत्थ पञ्ञाकिच्चसिद्धि गहिताति दट्ठब्बं. झानभावनायं वा समाधिकिच्चं अधिकं इच्छितब्बन्ति दस्सेतुं समाधिपरियोसानाव झानस्स पुब्बपटिपदा कथिताति दट्ठब्बं.

वुत्तं, तस्मा इध न वत्तब्बं. विसुद्धिमग्गो हि इमिस्सा संवण्णनाय एकदेसभूतोति वुत्तोवायमत्थोति. विहरतीति आगतं परुद्देसिकत्ता विहारस्स. इध विहासिन्ति आगतं अत्थुद्देसिकत्ता. इदं किर सब्बबुद्धानं अविजहितन्ति आह ‘‘आनापानस्सतिकम्मट्ठान’’न्ति. रूपविरागभावनावसेन (सारत्थ. टी. १.१२.नेरञ्जकण्डवण्णना) पवत्तो चतुब्बिधोपि अरूपज्झानविसेसो चतुत्थज्झानसङ्गहो एवाति आह ‘‘चत्तारि झानानी’’ति. युत्तं ताव चित्तेकग्गता भवोक्कमनत्थता विय विपस्सनापादकतापि चतुन्नं झानानं साधारणाति तेसं वसेन ‘‘चत्तारि झानानी’’ति वचनं, अभिञ्ञापादकता पन निरोधपादकता च चतुत्थस्सेव झानस्स आवेणिका, सा कथं चतुन्नं झानानं साधारणा वुत्ताति? परम्पराधिट्ठानभावतो. पदट्ठानपदट्ठानम्पि हि पदट्ठानन्तेव वुच्चति, कारणकारणम्पि कारणन्ति यथा ‘‘तिणेहि सत्तं सिद्ध’’न्ति, एवञ्च कत्वा पयोजननिद्देसे अट्ठसमापत्तिग्गहणं समत्थितं होति. चित्तेकग्गतत्थानीति चित्तसमाधानत्थानि, दिट्ठधम्मसुखविहारत्थानीति अत्थो. चित्तेकग्गतासीसेन हि दिट्ठधम्मसुखविहारो वुत्तो, सुक्खविपस्सकखीणासववसेन चेतं वुत्तं. तेनाह ‘‘एकग्गचित्ता सुखं दिवसं विहरिस्सामा’’ति. भवोक्कमनत्थानीति भवेसु निब्बत्तिअत्थानि.

यस्मा (सारत्थ. टी. १.१२.नेरञ्जकण्डवण्णना) बोधिसत्तेन बोधिमण्डूपसङ्कमनतो पुब्बेपि चरिमभवे चतुत्थज्झानं निब्बत्तितपुब्बं, तदा पन तं निब्बत्तितमत्तमेव अहोसि, न विपस्सनादिपादकं, तस्मा ‘‘बोधिरुक्खमूले निब्बत्तित’’न्ति ततो विसेसेत्वा वुत्तं. विपस्सनापादकन्ति विपस्सनारम्भे विपस्सनाय पादकं. अभिञ्ञापादकन्ति एत्थापि एसेव नयो. बुद्धानञ्हि पठमारम्भे एव पादकज्झानेन पयोजनं अहोसि, न ततो परं उपरिमग्गाधिगमफलसमापत्तिअभिञ्ञावळञ्जनादिअत्थं. अभिसम्बोधिसमधिगमतो पट्ठाय हि सब्बं ञाणसमाधिकिच्चं आकङ्खमत्तपटिबद्धमेवाति. सब्बकिच्चसाधकन्ति अनुपुब्बविहारादिसब्बकिच्चसाधकं. सब्बलोकियलोकुत्तरगुणदायकन्ति एत्थ विपस्सनाभिञ्ञापादकत्ता एव चतुत्थस्स झानस्स भगवतो सब्बलोकियलोकुत्तरगुणदायकता वेदितब्बा. सब्बञ्ञुतञ्ञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं अभिसम्बोधि, तदधिगमसमकालमेव भगवतो सब्बे बुद्धगुणा हत्थगता अहेसुं, चतुत्थज्झानसन्निस्सयो च मग्गाधिगमोति.

पुब्बभागपटिपदादिवण्णना निट्ठिता.

पुब्बेनिवासकथावण्णना

५२. द्विन्नं विज्जानन्ति पुब्बेनिवासञाणदिब्बचक्खुञाणसङ्खातानं द्विन्नं विज्जानं. अनुपदवण्णनाति तासं विज्जानं निद्देसपाळिया अनुपदवण्णना. भावनानयोति उप्पादनविधि. ‘‘सो’’ति पच्चत्तवचनस्स अहं-सद्देन सम्बन्धने कारणं दस्सेतुं ‘‘अभिनिन्नामेसि’’न्तिआदि वुत्तं. पाळियं वा ‘‘अभिनिन्नामेसि’’न्ति उत्तमपुरिसस्स योगोति अहं-सद्देन आनेत्वा वुच्चमाने तदत्थो पाकटो होतीति ‘‘सो अह’’न्ति वुत्तं. अभिनीहरिन्ति चित्तं झानारम्मणतो अपनेत्वा पुब्बेनिवासाभिमुखं पेसेसिं, पुब्बेनिवासनिन्नं पुब्बेनिवासपोणं पुब्बेनिवासपब्भारं अकासिन्ति अत्थो.

पुब्बेअतीतजातीसु निवुत्थक्खन्धा पुब्बेनिवासो. निवुत्थाति च अज्झावुत्था अनुभूता अत्तनो सन्ताने उप्पज्जित्वा निरुद्धा, गोचरनिवासेन निवुत्थधम्मा वा अत्तनो विञ्ञाणेनविञ्ञाता, परविञ्ञाणविञ्ञातापि वा छिन्नवटुमकानुस्सरणादीसु, तं पुब्बेनिवासं याय सतिया अनुस्सरति, ताय सम्पयुत्तं ञाणं पुब्बेनिवासानुस्सतिञ्ञाणं. पटिनिवत्तन्तस्साति पुब्बेनिवासं अनुस्सरणवसेन यावदिच्छकं गन्त्वा पच्चागच्छन्तस्स. तस्माति वुत्तस्सेवत्थस्स कारणभावेन पच्चामसनं, पटिनिवत्तन्तस्स पच्चवेक्खणभावतोति वुत्तं होति. इधूपपत्तियाति इध चरिमभवे उपपत्तिया. अनन्तरन्ति अतीतानन्तरमाह. अमुत्राति अमुकस्मिं भवेति अत्थो. उदपादिन्ति उप्पज्जिं. ताहि देवताहीति तुसितादेवताहि. एकगोत्तोति तुसितगोत्तेन एकगोत्तो. महाबोधिसत्तानं सन्तानस्स परियोसानावत्थाय देवलोकूपपत्तिजनकं नाम अकुसलेन कम्मुना अनुपद्दुतमेव होतीति अधिप्पायेन ‘‘दुक्खं पन सङ्खारदुक्खमेवा’’ति वुत्तं. महापुञ्ञानम्पि पन देवपुत्तानं पुब्बनिमित्तुप्पत्तिकालादीसु अनिट्ठारम्मणसमायोगो होतियेवाति ‘‘कदाचि दुक्खदुक्खस्सपि सम्भवो नत्थी’’ति न सक्का वत्तुं. सत्तपञ्ञास…पे… परियन्तोति इदं मनुस्सानं वस्सगणनावसेन वुत्तं. तत्थ देवानं वस्सगणनाय पन चतुसहस्समेव.

अतीतभवे (सारत्थ. टी. १.१२.पुब्बेनिवासकथायं) खन्धा तप्पटिबद्धनामगोत्तानि च सब्बं पुब्बेनिवासन्तेव सङ्गहितन्ति आह ‘‘किं विदितं करोति? पुब्बेनिवास’’न्ति. मोहो पटिच्छादकट्ठेन ‘‘तमो’’ति वुच्चति ‘‘तमो विया’’ति कत्वा. ओभासकरणट्ठेनाति कातब्बतो करणं, ओभासोव करणं, अत्तनो पच्चयेन ओभासभावेन निब्बत्तेतब्बट्ठेनाति अत्थो. सेसं पसंसावचनन्ति पटिपक्खविधमनपवत्तिविसेसानं बोधनतो वुत्तं. अविज्जा विहताति एतेन विज्जनट्ठेन विज्जाति अयम्पि अत्थो दीपितोति दट्ठब्बं. यस्मा विज्जा उप्पन्नाति एतेन विज्जापटिपक्खा अविज्जा, पटिपक्खता चस्सा पहातब्बभावेन विज्जाय च पहायकभावेनाति दस्सेति. एस नयो इतरस्मिम्पि पदद्वयेति इमिना तमो विहतो विनट्ठो. कस्मा? यस्मा आलोको उप्पन्नोति इममत्थं अतिदिसति. पेसितत्तस्साति यथाधिप्पेतत्थसिद्धिं पति विस्सट्ठचित्तस्स. यथा अप्पमत्तस्साति अञ्ञस्सपि कस्सचि मादिसस्साति अधिप्पायो.

पुब्बेनिवासकथावण्णना निट्ठिता.

दिब्बचक्खुञाणकथावण्णना

५३. इधाति भयभेरवसुत्ते वुत्तं. इध अयं विसेसोति योजना. वुत्तसदिसमेव ‘‘मेति मया’’तिआदिना. परिकम्मकिच्चन्ति ‘‘अभिञ्ञापादकचतुत्थज्झानतो वुट्ठाय सब्बपच्छिमा निसज्जा आवज्जितब्बा’’तिआदिना, कसिणारम्मणं अभिञ्ञापादकज्झानं सब्बाकारेन अभिनीहारक्खमं कत्वा’’तिआदिना च वुत्तेन परिकम्मेन किच्चं पयोजनं नत्थि. तेन इध अत्थोति तेन भावनानयेन इध पाळिया अत्थवण्णनायं अत्थो नत्थि तथाभावनाय इध अनधिप्पेतत्ताति अधिप्पायो.

दिब्बचक्खुञाणकथावण्णना निट्ठिता.

आसवक्खयञाणकथावण्णना

५४. विपस्सनापादकन्ति (सारत्थ. टी. १.१४.आसवक्खयञाणकथायं; दी. नि. टी. १.२४८; अ. नि. टी. २.३.५९) विपस्सनाय पदट्ठानभूतं. विपस्सना च तिविधा विपस्सनकपुग्गलभेदेन. महाबोधिसत्तानञ्हि पच्चेकबोधिसत्तानञ्च विपस्सना चिन्तामयञाणसंवद्धितत्ता सयम्भुञाणभूता, इतरेसं सुतमयञाणसंवद्धितत्ता परोपदेससम्भूता, सा ‘‘ठपेत्वा नेवसञ्ञानासञ्ञायतनं अवसेसरूपारूपज्झानानं अञ्ञतरतो वुट्ठाया’’तिआदिना अनेकधा अरूपमुखवसेन चतुधातुववत्थाने वुत्तानं तेसं तेसं धातुपरिग्गहमुखानं अञ्ञतरमुखवसेन अनेकधाव विसुद्धिमग्गे (विसुद्धि. १.३०६) नानानयतो विभाविता. महाबोधिसत्तानं पन चतुवीसतिकोटिसतसहस्समुखेन पभेदगमनतो नानानयं सब्बञ्ञुतञ्ञाणसन्निस्सयस्स अरियमग्गञाणस्स अधिट्ठानभूतं पुब्बभागञाणगब्भं गण्हापेन्तं परिपाकं गच्छन्तं परमगम्भीरसण्हसुखुमतरं अनञ्ञसाधारणं विपस्सनाञाणं होति, यं अट्ठकथासु महावजिरञाणन्ति वुच्चति. यस्स च पवत्तिविभागेन चतुवीसतिकोटिसतसहस्सप्पभेदस्स पादकभावेन समापज्जियमाना चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं सत्थु वळञ्जनकसमापत्तियो वुच्चन्ति, स्वायं बुद्धानं विपस्सनाचारो परमत्थमञ्जूसाय विसुद्धिमग्गसंवण्णनाय (विसुद्धि. महाटी. १.१४४) उद्देसतो दस्सितो, अत्थिकेहि ततो गहेतब्बोति.

आसवानं खेपनतो समुच्छिन्दनतो आसवक्खयो, अरियमग्गो, उक्कट्ठनिद्देसवसेन अरहत्तमग्गग्गहणं. आसवानं खये ञाणं आसवक्खयञाणन्ति दस्सेन्तो ‘‘तत्र चेतं ञाण’’न्ति वत्वा खयेति च आधारे भुम्मं, न विसयेति दस्सेन्तो ‘‘तप्परिया पन्नत्ता’’ति आह. इदं दुक्खन्ति दुक्खस्स अरियसच्चस्स तदा पच्चक्खतो गहितभावदस्सनं. एत्तकं दुक्खन्ति दुक्खस्स अरियसच्चस्स तदा पच्चक्खतो गहितभावदस्सनं. एत्तकं दुक्खन्ति तस्स परिच्छिज्ज गहितभावदस्सनं. न इतो भिय्योति अनवसेसेत्वा गहितभावदस्सनं. तेनाह ‘‘सब्बम्पि दुक्खसच्च’’न्तिआदि. सरसलक्खणपटिवेधेनाति सभावसङ्खातस्स लक्खणस्स असम्मोहतो पटिविज्झनेन. असम्मोहपटिवेधोति च यथा तस्मिं ञाणे पवत्ते पच्छा दुक्खस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्ति. तेनाह ‘‘यथाभूतं अब्भञ्ञासि’’न्ति. यं ठानं पत्वाति यं निब्बानं मग्गस्स आरम्मणपच्चयट्ठेन कारणभूतं आगम्म. तदुभयवतो हि पुग्गलस्स पत्ति तदुभयस्स पत्तीति वुत्तं. पत्वाति वा पापुणनहेतु. अप्पवत्तिन्ति अप्पवत्तिनिमित्तं. ते वा नप्पवत्तन्ति एत्थाति अप्पवत्ति, निब्बानं. तस्साति दुक्खनिरोधस्स. सम्पापकन्ति सच्छिकिरियावसेन सम्मदेव पापकं.

किलेसवसेनाति आसवसङ्खातकिलेसवसेन. यस्मा आसवानं दुक्खसच्चपरियायो तप्परियापन्नत्ता, सेससच्चानञ्च तंसमुदयादिपरियायो अत्थि, तस्मा वुत्तं. ‘‘परियायतो’’ति. दस्सेन्तो सच्चानीति योजना. आसवानंयेव चेत्थ गहणं ‘‘आसवानं खयञाणाया’’ति आरद्धत्ता. तथा हि आसवविमुत्ति सीसेनेव सब्बसंकिलेसविमुत्ति वुत्ता. ‘‘इदं दुक्खन्ति यथाभूतं अब्भञ्ञासि’’न्तिआदिना मिस्सकमग्गो इध कथितोति ‘‘सह विपस्सनाय कोटिप्पत्तं मग्गं कथेती’’ति वुत्तं. एत्थ च सच्चपटिवेधस्स तदा अतीतकालिकत्ता ‘‘यथाभूतं अब्भञ्ञासि’’न्ति वत्वापि अभिसमयकाले तस्स पच्चुप्पन्नतं उपादाय ‘‘एवं जानतो एवं पस्सतो’’ति वत्तमानकालेन निद्देसो कतो. सो च कामं मग्गक्खणतो परं यावज्जतना अतीतकालिको एव, सब्बपठमं पनस्स अतीतकालिकत्तं फलक्खणेन वेदितब्बन्ति आह ‘‘विमुच्चित्थाति इमिना फलक्खणं दस्सेती’’ति. जानतो पस्सतोति वा हेतुनिद्देसोयं. जाननहेतु दस्सनहेतु कामासवा चित्तं विमुच्चित्थाति योजना. भवासवग्गहणेनेव चेत्थ भवरागस्स विय भवदिट्ठियापि समवरोधोति दिट्ठासवस्सपि सङ्गहो दट्ठब्बो.

खीणाजातीतिआदीहि पदेहि. तस्साति पच्चवेक्खणञाणस्स. भूमीन्ति पवत्तिट्ठानं. न तावस्स अतीता जाति खीणा मग्गभावनायाति अधिप्पायो. तत्थ कारणमाह ‘‘पुब्बेव खीणत्ता’’ति. न अनागता अस्सजाति खीणाति योजना. न अनागताति च अनागतत्तसामञ्ञं गहेत्वा लेसेन चोदेति. तेनाह ‘‘अनागते वायामाभावतो’’ति, अनागतविसेसो पनेत्थ अधिप्पेतो, तस्स च खेपने वायामोपि लब्भतेव. तेनाह ‘‘या पन मग्गस्सा’’तिआदि. एकचतुपञ्चवोकारभवेसूति भवत्तयग्गहणं वुत्तनयेन अनवसेसतो जातिया खीणभावदस्सनत्थं. न्ति यथावुत्तं जातिं. सोति भगवा.

ब्रह्मचरियवासो नाम इध मग्गब्रह्मचरियस्स निब्बत्तनमेवाति आह ‘‘निट्ठित’’न्ति. सम्मादिट्ठिया चतूसु सच्चेसु परिञ्ञादिकिच्चसाधनवसेन पवत्तमानाय सम्मा सङ्कप्पादीनम्पि दुक्खसच्चे परिञ्ञाभिसमयानुगुणा पवत्ति, इतरसच्चेसु च नेसं पहानाभिसमयादिवसेन पवत्ति पाकटा एव. तेन वुत्तं ‘‘चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनावसेना’’ति. इत्थत्तायाति इमे पकारा इत्थं, तब्भावो इत्थत्तं, तदत्थन्ति वुत्तं होति. ते पन पकारा अरियमग्गब्यापारभूता परिञ्ञादयो इधाधिप्पेताति आह ‘‘एवंसोळसकिच्चभावाया’’ति. ते हि मग्गं पच्चवेक्खतो मग्गानुभावेन पाकटा हुत्वा उपट्ठहन्ति, परिञ्ञादीसु च पहानमेव पधानं तदत्थत्ता इतरेसन्ति आह ‘‘किलेसक्खयायवा’’ति. पहीनकिलेसपच्चवेक्खणवसेन वा एतं वुत्तं. इत्थत्तायाति निस्सक्के सम्पदानवचनन्ति आह ‘‘इत्थभावतो’’ति. अपरं अनागतं. इमे पन चरिमत्तभावसङ्खाता पञ्चक्खन्धा. परिञ्ञाता तिट्ठन्तीति एतेन तेसं अप्पतिट्ठतं दस्सेति. अपरिञ्ञामूलका हि पतिट्ठा. यथाह ‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा, पतिट्ठितं तत्थ विञ्ञाणं विरूळ्ह’’न्तिआदि (सं. नि. २.६४; महानि. ७; कथा. २९६). तेनेवाह ‘‘छिन्नमूलका रुक्खा विया’’तिआदि.

पच्चवेक्खणञाणपरिग्गहितं, न पठमदुतियञाणद्वयाधिगमं विय केवलन्ति अधिप्पायो. दस्सेन्तो निगमनवसेनाति अधिप्पायो. सरूपतो हि तं पुब्बे दस्सितमेवाति. पुब्बेनिवासञाणेन अतीतारम्मणसभागताय तब्भावीभावतो च अतीतंसञाणं सङ्गहेत्वाति योजना. तत्थ अतीतंसञाणन्ति अतीतखन्धायतनधातुसङ्खाते अतीतकोट्ठासे अप्पटिहतं ञाणं. दिब्बचक्खुनाति सपरिभण्डेन दिब्बचक्खुञाणेन. पच्चुप्पन्नंसो च अनागतंसो च पच्चुप्पन्नानागतंसं, तत्थ ञाणं पच्चुप्पन्नानागतंसञाणं. सकललोकियलोकुत्तरगुणन्ति एतेन सब्बं लोकं उत्तरित्वा अभिभुय्य ठितत्ता सब्बञ्ञुतञ्ञाणस्स विय सेसासाधारणञाणस्स बलञाणआवेणिकबुद्धधम्मादीनम्पि अनञ्ञसाधारणानं बुद्धगुणानं सङ्गहो वेदितब्बो. तेनाह ‘‘सब्बेपि सब्बञ्ञुगुणे सङ्गहेत्वा’’ति.

आसवक्खयञाणकथावण्णना निट्ठिता.

अरञ्ञवासकारणवण्णना

५५. सिया खो पन ते ब्राह्मणाति एत्थ सियाति ‘‘अप्पेवा’’ति इमिना समानत्थो निपातो, तस्मा ‘ब्राह्मण, अप्पेव खो पन ते एवमस्सा’ति अत्थो. यं पन अट्ठकथायं ‘‘कदाची’’ति वुत्तं, तम्पि इममेवत्थं सन्धाय वुत्तं अकारणं ब्राह्मणेन परिकप्पितमत्थं पटिपक्खिपित्वा अत्तनो अधिप्पेतं कारणं दस्सेन्तो. अत्थोव फलं तदधीनवुत्तिताय वसो एतस्साति अत्थवसो, हेतूति एवं वा एत्थ अत्थो दट्ठब्बो. अत्तनो च दिट्ठधम्मसुखविहारन्ति एतेन सत्था अत्तनो विवेकाभिरतिं पकासेतीति दस्सेन्तो ‘‘दिट्ठधम्मो नामा’’तिआदिमाह. तत्थ इरियापथविहारानन्ति इरियापथपवत्तीनं. तप्पवत्तियो हि एकस्मिं इरियापथे उप्पन्नदुक्खं अञ्ञेन इरियापथेन विच्छिन्दित्वा हरणतो विहाराति वुच्चन्ति. पच्छिमञ्च जनतं अनुकम्पमानोति एतेन यो आदितो ब्राह्मणेन ‘‘भवं तेसं गोतमो पुब्बङ्गमो…पे… दिट्ठानुगतिं आपज्जती’’ति वुत्तो, यो च तथा ‘‘एवमेतं ब्राह्मणा’’तिआदिना अत्तना सम्पटिच्छितो, तमेव अत्थं निगमनवसेन दस्सेन्तो यथानुसन्धिनाव सत्था देसनं निट्ठापेसि.

अरञ्ञवासकारणवण्णना निट्ठिता.

देसनानुमोदनावण्णना

५६. एवं निट्ठापिताय देसनाय ब्राह्मणो तत्थ भगवति पसादं पवेदेन्तो ‘‘अभिक्कन्त’’न्तिआदिमाह. अभिक्कन्ताति (सारत्थ. टी. १.१५.देसनानुमोदनकथा; दी. नि. टी. १.२५०; सं. नि. टी. १.१.१; अ. नि. टी. २.२.१६) अतिक्कन्ता, विगताति अत्थोति आह ‘‘खये दिस्सती’’ति. तेनेव हि ‘‘निक्खन्तो पठमो यामो’’ति वुत्तं. अभिक्कन्ततरोति अतिविय कन्ततरो मनोरमो. तादिसो च सुन्दरो भद्दको नाम होतीति आह ‘‘सुन्दरे दिस्सती’’ति.

कोति देवनागयक्खगन्धब्बादीसु को कतमो. मेति मम. पादानीति पादे. इद्धियाति इमाय एवरूपाय देविद्धिया. यससाति इमिना एदिसेन परिवारेन परिजनेन. जलन्ति विज्जोतमानो. अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन अभिरूपेन. वण्णेनाति छविवण्णेन सरीरवण्णनिभाय. सब्बा ओभासयं दिसाति दसपि दिसा ओभासेन्तो पभासेन्तो, चन्दो विय सूरियो विय च एकोभासं एकालोकं करोन्तोति गाथाय अत्थो. अभिरूपेति उळाररूपे सम्पन्नरूपे.

‘‘चोरो चोरो, सप्पो सप्पो’’तिआदीसु भये आमेडितं. ‘‘विज्झ विज्झ, पहर पहरा’’तिआदीसु कोधे, ‘‘साधु साधूतिआदीसु (म. नि. १.३२७; सं. नि. २.१२७; ३.३५; ५.१०८५) पसंसायं, ‘‘गच्छ गच्छ, लुनाहि लुनाही’’तिआदीसु तुरिते, ‘‘आगच्छ आगच्छा’’तिआदीसु कोतूहले, ‘‘बुद्धो बुद्धोति चिन्तेन्तो’’तिआदीसु (बु. वं. २.४४) अच्छरे, ‘‘अभिक्कमथायस्मन्तो, अभिक्कमथायस्मन्तो’’तिआदीसु (दी. नि. ३.२०; अ. नि. ९.११) हासे, ‘‘कहं एकपुत्तक, कहं एकपुत्तका’’तिआदीसु (म. नि. २.३५३; सं. नि. २.६३) सोके, ‘‘अहो सुखं अहो सुख’’न्तिआदीसु (उदा. २०; दी. नि. ३.३०५; चूळव. ३३२) पसादे. -सद्दो अवुत्तसमुच्चयत्थो. तेन गरहाअसम्मानादीनं सङ्गहो दट्ठब्बो. तत्थ ‘‘पापो पापो’’तिआदीसु गरहायं. ‘‘अभिरूपक अभिरूपका’’तिआदीसु असम्माने दट्ठब्बं.

नयिदं आमेडितवसेन द्विक्खत्तुं वुत्तं, अथ खो अत्थद्वयवसेनाति दस्सेन्तो ‘‘अथ वा’’तिआदिमाह. अभिक्कन्तन्ति वचनं अपेक्खित्वा नपुंसकलिङ्गवसेन वुत्तं, तं पन भगवतो वचनं धम्मस्स देसनाति कत्वा तथा वुत्तं. अत्थमत्तदस्सनं वा एतं, तस्मा अत्थवसेन लिङ्गविभत्तिविपरिणामो वेदितब्बो. दुतियपदेपि एसेव नयो. दोसनासनतोति रागादिकिलेसदोसविधमनतो, गुणाधिगमनतोति सीलादिगुणानं सम्पापनतो. ये गुणे देसना अधिगमेति, तेसु पधानभूता दस्सेतब्बाति ते पधानभूते ताव दस्सेतुं ‘‘सद्धाजननतो पञ्ञाजननतो’’ति वुत्तं. सद्धापमुखा हि लोकिया गुणा, पञ्ञापमुखा लोकुत्तरा. सीलादिअत्थसम्पत्तिया सात्थतो, सभावनिरुत्तिसम्पत्तिया सब्यञ्जनतो. सुविञ्ञेय्यसद्दपयोगताय उत्तानपदतो, सण्हसुखुमभावेन दुब्बिञ्ञेय्यत्थताय गम्भीरत्थतो. सिनिद्धमुदुमधुरसद्दपयोगताय कण्णसुखतो, विपुलविसुद्धपेमनीयत्थताय हदयङ्गमतो. मानातिमानविधमनेन अनत्तुक्कंसनतो, थम्भसारम्भमद्दनेन अपरवम्भनतो. हिताधिप्पायपवत्तिया परेसं रागपरिळाहादिवूपसमनेन च करुणासीतलतो, किलेसन्धकारविधमनेन पञ्ञावदाततो. करवीकरुतमञ्जुताय आपाथरमणीयतो, पुब्बापराविरुद्धसुविसुद्धत्थताय विमद्दक्खमतो. आपाथरमणीयताय एव सुय्यमानसुखतो, विमद्दक्खमताय हितज्झासयप्पवत्तितताय च वीमंसियमानहिततो. एवमादीहीति आदिसद्देन संसारचक्कनिवत्तनतो, सद्धम्मचक्कप्पवत्तनतो, मिच्छावादविधमनतो, सम्मावादपतिट्ठापनतो, अकुसलमूलसमुद्धरणतो, कुसलमूलसंरोपनतो, अपायद्वारपिधानतो, सग्गमग्गद्वारविवरणतो, परियुट्ठानवूपसमनतो, अनुसयसमुग्घातनतोति एवमादीनं सङ्गहो दट्ठब्बो.

अधोमुखट्ठपितन्ति केनचि अधोमुखं ठपितं. हेट्ठामुखजातन्ति सभावेनेव हेट्ठामुखजातं. उग्घाटेय्याति विवटं करेय्य. हत्थे गहेत्वाति ‘‘पुरत्थाभिमुखो, उत्तराभिमुखो वा गच्छा’’तिआदीनि अवत्वा हत्थे गहेत्वा ‘‘निस्सन्देहं एस मग्गो, एवं गच्छा’’ति वदेय्य. काळपक्खचातुद्दसीति काळपक्खे चातुद्दसी.

निकुज्जितं आधेय्यस्स अनाधारभूतं भाजनं आधारभावापादनवसेन उक्कुज्जेय्य. हेट्ठामुखजातताय सद्धम्मविमुखं, अधोमुखट्ठपितताय असद्धम्मे पतितन्ति एवं पदद्वयं यथारहं योजेतब्बं, न यथासङ्ख्यं. कामं कामच्छन्दादयोपि पटिच्छादका, मिच्छादिट्ठि पन सविसेसं पटिच्छादिकाति आह ‘‘मिच्छादिट्ठिगहनपटिच्छन्न’’न्ति. तेनाह भगवा ‘‘मिच्छादिट्ठिपरमाहं, भिक्खवे, वज्जं वदामी’’ति (अ. नि. १.३१०). सब्बो अपायगामिमग्गो कुम्मग्गो ‘‘कुच्छितो मग्गो’’ति कत्वा. सम्मादिट्ठिआदीनं उजुपटिपक्खताय मिच्छादिट्ठिआदयो अट्ठ मिच्छत्तधम्मा मिच्छामग्गो. तेनेव हि तदुभयपटिपक्खतं सन्धाय ‘‘सग्गमोक्खमग्गं आचिक्खन्तेना’’ति वुत्तं. सप्पिआदिसन्निस्सयो पदीपो न तथा उज्जलो, यथा तेलसन्निस्सयोति तेलपज्जोतग्गहणं. एतेहि परियायेहीति एतेहि निकुज्जितुक्कुज्जनपटिच्छन्नविवरणादिउपमोपमितब्बपकारेहि, एतेहि वा यथावुत्तेहि सोळसारम्मणपरिग्गहअसम्मोहविहारदिब्बविहारविभावनपरियायेहि विज्जात्तयविभावनापदेसेन अत्तनो सब्बञ्ञुगुणविभावनपरियायेहि च. तेनाह ‘‘अनेकपरियायेन धम्मो पकासितो’’ति.

देसनानुमोदनावण्णना निट्ठिता.

पसन्नकारवण्णना

पसन्नकारन्ति पसन्नेहि कातब्बं सक्कारं. सरणन्ति पटिसरणं. तेनाह ‘‘परायण’’न्ति. परायणभावो च अनत्थनिसेधनेन अत्थसम्पटिपादनेन च होतीति आह ‘‘अघस्स ताता हितस्स च विधाता’’ति. अघस्साति दुक्खतोति वदन्ति, पापतोति पन युत्तं. निस्सक्के चेतं सामिवचनं. एत्थ च नायं गमि-सद्दो नी-सद्दादयो विय द्विकम्मको, तस्मा यथा ‘‘अजं गामं नेती’’ति वुच्चति, एवं ‘‘गोतमं सरणं गच्छामी’’ति वत्तुं न सक्का, ‘‘सरणन्ति गच्छामी’’ति पन वत्तब्बं. इति-सद्दो चेत्थ लुत्तनिद्दिट्ठो, तस्स चायमत्थो – गमनञ्च तदधिप्पायेन भजनं, तथा जाननं वाति दस्सेन्तो ‘‘इति इमिना अधिप्पायेना’’तिआदिमाह. तत्थ भजामीतिआदीसु पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं अत्थवचनं. भजनं वा सरणाधिप्पायेन उपसङ्कमनं, सेवनं सन्तिकावचरता, पयिरुपासनं वत्तपटिवत्तकरणेन उपट्ठानन्ति एवं सब्बथापि अनञ्ञसरणतंयेव दीपेति. ‘‘गच्छामी’’ति पदस्स कथं ‘‘बुज्झामी’’ति अयमत्थो लब्भतीति आह ‘‘येसञ्ही’’तिआदि.

अधिगतमग्गे, सच्छिकतनिरोधेति पदद्वयेनपि फलट्ठा एव दस्सिता, न मग्गट्ठाति ते दस्सेन्तो ‘‘यथानुसिट्ठं पटिपज्जमाने चा’’ति आह. ननु च कल्याणपुथुज्जनोपि यथानुसिट्ठं पटिपज्जतीति वुच्चतीति? किञ्चापि वुच्चति, निप्परियायेन पन मग्गट्ठा एव तथा वत्तब्बा, न इतरे नियामोक्कमनाभावतो. तथा हि ते एव ‘‘अपायेसु अपतमाने धारेती’’ति वुत्ता. सम्मत्तनियामोक्कमनेन हि अपायविनिमुत्तिसम्भवो. अक्खायतीति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा. तेन ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति सुत्तपदं (अ. नि. ४.३४; इतिवु. ९०) सङ्गण्हाति, वित्थारोति वा इमिना. एत्थ च अरियमग्गो निय्यानिकताय, निब्बानं तस्स तदत्थसिद्धिहेतुतायाति उभयमेवेत्थ निप्परियायेन धम्मोति वुत्तो. निब्बानञ्हि आरम्मणपच्चयभूतं लभित्वा अरियमग्गस्स तदत्थसिद्धि, अरियफलानं ‘‘यस्मा ताय सद्धाय अवूपसन्ताया’’तिआदिवचनतो मग्गेन समुच्छिन्नानं किलेसानं पटिप्पस्सद्धिपहानकिच्चताय निय्यानानुगुणताय निय्यानपरियोसानताय च. परियत्तिधम्मस्स पन निय्यानधम्मसमधिगमहेतुतायाति इमिना परियायेन धम्मभावो लब्भति एव, स्वायमत्थो पाठारुळ्हो एवाति दस्सेन्तो ‘‘न केवल’’न्तिआदिमाह.

कामरागो भवरागोति एवमादिभेदो सब्बोपि रागो विरज्जति पहीयति एतेनाति रागविरागोति मग्गो कथितो. एजासङ्खाताय तण्हाय अन्तोनिज्झानलक्खणस्स सोकस्स च तदुप्पत्तियं सब्बसो परिक्खीणत्ता अनेजमसोकन्ति फलं कथितं. अप्पटिकूलन्ति अविरोधदीपनतो केनचि अविरुद्धं, इट्ठं पणीतन्ति वा अत्थो. पगुणरूपेन पवत्तितत्ता, पकट्ठगुणविभावनतो वा पगुणं. यथाह ‘‘विहिंससञ्ञी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मे’’ति. सब्बधम्मक्खन्धा कथिताति योजना.

दिट्ठिसीलसङ्घातेनाति ‘‘यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरती’’ति (दी. नि. ३.३२४, ३५६; म. नि. १.४९२; ३.५४) एवं वुत्ताय दिट्ठिया, ‘‘यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि, तथारूपेहि सीलेहि सीलसामञ्ञगतो विहरती’’ति (दी. नि. ३.३२४; म. नि. १.४९२; ३.५४; अ. नि. ६.१२; परि. २७४) एवं वुत्तानं सीलानञ्च संहतभावेन, दिट्ठिसीलसामञ्ञेनाति अत्थो. संहतोति घटितो. अरियपुग्गला हि यत्थ कत्थचि दूरे ठितापि अत्तनो गुणसामग्गिया संहता एव. अट्ठ च पुग्गल धम्मदसा तेति ते पुरिसयुगवसेन चत्तारोपि पुग्गलवसेन अट्ठेव अरियधम्मस्स पच्चक्खदस्साविताय धम्मदसा. तीणि वत्थूनि सरणन्ति गमनेन तिक्खत्तुं गमनेन च तीणि सरणगमनानि. पटिवेदेसीति अत्तनो हदयगतं वाचाय पवेदेसि.

पसन्नकारवण्णना निट्ठिता.

सरणगमनकथावण्णना

सरणगमनस्स विसयपभेदफलसंकिलेसभेदानं विय कत्तु च विभावना तत्थ कोसल्लाय होतीति ‘‘सरणगमनेसु कोसल्लत्थं सरणं…पे… वेदितब्बो’’ति वुत्तं तेन विना सरणगमनस्सेव असम्भवतो. कस्मा पनेत्थ वोदानं न गहितं, ननु वोदानविभावनापि तत्थ कोसल्लावहाति? सच्चमेतं, तं पन संकिलेसग्गहणेनेव अत्थतो दीपितं होतीति न गहितं. यानि हि तेसं संकिलेसकारणानि अञ्ञाणादीनि, तेसं सब्बेन सब्बं अनुप्पन्नानं अनुप्पादनेन, उप्पन्नानञ्च पहानेन वोदानं होतीति. हिंसत्थस्स सर-सद्दस्स वसेनेतं पदं दट्ठब्बन्ति ‘‘हिंसतीति सरण’’न्ति वत्वा तं पन हिंसनं केसं, कथं, कस्स वाति चोदनं सोधेन्तो ‘‘सरणगतान’’न्तिआदिमाह. तत्थ भयन्ति वट्टभयं. सन्तासन्ति चित्तुत्रासं. तेनेव चेतसिकदुक्खस्स गहितत्ता दुक्खन्ति इध कायिकं दुक्खं. दुग्गतिपरिकिलेसन्ति दुग्गतिपरियापन्नं सब्बं दुक्खं. तयिदं सब्बं परतो फलकथायं आवि भविस्सति. एतन्ति ‘‘सरण’’न्ति पदं.

एवं अविसेसतो सरणसद्दस्स अत्थं दस्सेत्वा इदानि विसेसतो दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. हिते पवत्तमानेनाति ‘‘सम्पन्नसीला, भिक्खवे, विहरथा’’तिआदिना (म. नि. १.६४, ६९) अत्थे नियोजनेन. अहिता च निवत्तनेनाति ‘‘पाणातिपातस्स खो पापको विपाको पापकं अभिसम्पराय’’न्तिआदिना आदीनवदस्सनादिमुखेन अनत्थतो विनिवत्तनेन. भयं हिंसतीति हिताहितेसु अप्पवत्तिपवत्तिहेतुकं ब्यसनं अप्पवत्तिकरणेन विनासेति. भवकन्तारा उत्तारणेन मग्गसङ्खातो धम्मो, इतरो अस्सासदानेन सत्तानं भयं हिंसतीति योजना. कारानन्ति दानवसेन पूजावसेन च उपनीतानं सक्कारानं. विपुलफलपटिलाभकरणेन सत्तानं भयं हिंसति अनुत्तरदक्खिणेय्यभावतोति अधिप्पायो. इमिनापि परियायेनाति इमिनापि विभजित्वा वुत्तेन कारणेन.

‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति एवं पवत्तो तत्थ रतनत्तये पसादो तप्पसादो, तदेव रतनत्तयं गरु एतस्साति तग्गरु, तस्स भावो तग्गरुता, तप्पसादो च तग्गरुता च तप्पसादतग्गरुता, ताहि. विधुतदिट्ठिविचिकिच्छासम्मोहअस्सद्धियादिताय विहतकिलेसो. ‘‘तदेव रतनत्तयं परायणं गति ताणं लेण’’न्ति एवं आकारेन पवत्तिया तप्परायणताकारपवत्तो चित्तुप्पादो सरणगमनं ‘‘सरणन्ति गच्छति एतेना’’ति. तंसमङ्गीति तेन यथावुत्तचित्तुप्पादेन समन्नागतो. एवं उपेतीति एवं भजति सेवति पयिरुपासति, एवं वा जानाति बुज्झतीति एवमत्थो वेदितब्बो. एत्थ च पसादग्गहणेन लोकियसरणगमनमाह. तञ्हि पसादप्पधानं, न ञाणप्पधानं. गरुतागहणेन लोकुत्तरं. अरिया हि रतनत्तयं गुणाभिञ्ञाताय पासाणच्छत्तं विय गरुं कत्वा पस्सन्ति, तस्मा तप्पसादेन विक्खम्भनवसेन विहतकिलेसो तग्गरुताय समुच्छेदवसेनाति योजेतब्बं. तप्परायणता पनेत्थ तग्गतिकताति ताय चतुब्बिधम्पि वक्खमानं सरणगमनं गहितन्ति दट्ठब्बं. अविसेसेन वा पसादगरुता जोतिताति पसादग्गहणेन अवेच्चप्पसादस्स इतरस्स च गहणं, तथा गरुतागहणेनाति उभयेनपि उभयं सरणगमनं योजेतब्बं.

मग्गक्खणे इज्झतीति योजना. निब्बानारम्मणं हुत्वाति एतेन अत्थतो चतुसच्चाधिगमोयेव लोकुत्तरं सरणगमनन्ति दस्सेति. तत्थ हि निब्बानधम्मो सच्छिकिरियाभिसमयवसेन, मग्गधम्मो भावनाभिसमयवसेन पटिविज्झियमानोयेव सरणगमनत्तं साधेति, बुद्धगुणा पन सावकगोचरभूता परिञ्ञाभिसमयवसेन, तथा अरियसङ्घगुणा. तेनाह ‘‘किच्चतो सकलेपि रतनत्तये इज्झती’’ति, इज्झन्तञ्च सहेव इज्झति, न लोकियं विय पटिपाटिया असम्मोहपटिवेधेन पटिविद्धत्ताति अधिप्पायो. ये पन वदन्ति ‘‘न सरणगमनं निब्बानारम्मणं हुत्वा पवत्तति, मग्गस्स अधिगतत्ता पन अधिगतमेव होति एकच्चानं तेविज्जादीनं लोकियविज्जादयो विया’’ति, तेसं लोकियमेव सरणगमनं सिया, न लोकुत्तरं, तञ्च अयुत्तं दुविधस्सपि इच्छितब्बत्ता. न्ति लोकियसरणगमनं. सद्धापटिलाभो ‘‘सम्मासम्बुद्धो भगवा’’तिआदिना. सद्धामूलिकाति यथावुत्तसद्धापुब्बङ्गमा सम्मादिट्ठि बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपतिञ्च लोकियावबोधवसेनेव सम्मा ञायेन दस्सनतो. ‘‘सद्धामूलिका सम्मादिट्ठी’’ति एतेन सद्धूपनिस्सया यथावुत्तलक्खणा पञ्ञा लोकियसरणगमनन्ति दस्सेति. तेनाह ‘‘दिट्ठिजुकम्मन्ति वुच्चती’’ति ‘‘दिट्ठि एव अत्तनो पच्चयेहि उजुं करीयती’’ति कत्वा. दिट्ठि वा उजुं करीयति एतेनाति दिट्ठिजुकम्मं, तथा पवत्तो चित्तुप्पादो. एवञ्च कत्वा ‘‘तप्परायणताकारपवत्तो चित्तुप्पादो’’ति इदञ्च वचनं समत्थितं होति. सद्धापुब्बङ्गमसम्मादिट्ठिग्गहणं पन चित्तुप्पादस्स तप्पधानतायाति दट्ठब्बं. ‘‘सद्धापटिलाभो’’ति इमिना मातादीहि उस्साहितदारकादीनं विय ञाणविप्पयुत्तसरणगमनं दस्सेति, ‘‘सम्मादिट्ठी’’ति इमिना ञाणसम्पयुत्तसरणगमनं.

तयिदं लोकियं सरणगमनं. अत्ता सन्निय्यातीयति अप्पीयति परिच्चजीयति एतेनाति अत्तसन्निय्यातनं, यथावुत्तं दिट्ठिजुकम्मं. तं रतनत्तयं परायणं पटिसरणं एतस्साति तप्परायणो, पुग्गलो, चित्तुप्पादो वा, तस्स भावो तप्परायणता, यथावुत्तदिट्ठिजुकम्ममेव. सरणन्ति अधिप्पायेन सिस्सभावं अन्तेवासिकभावं उपगच्छति एतेनाति सिस्सभावूपगमनं. सरणगमनाधिप्पायेनेव पणिपतति एतेनाति पणिपातो. सब्बत्थ यथावुत्तदिट्ठिजुकम्मवसेनेव अत्थो वेदितब्बो. अत्तपरिच्चजनन्ति संसारदुक्खनित्थरणत्थं अत्तनो अत्तभावस्स परिच्चजनं. एस नयो सेसेसुपि. बुद्धादीनंयेवाति अवधारणं इतरेसुपि सरणगमनविसेसेसु यथारहं वत्तब्बं. एवञ्हि तदञ्ञनिवत्तनं कतं होति.

एवं अत्तसन्नियातनादीनि एकेन पकारेन दस्सेत्वा इदानि अपरेहिपि पकारेहि दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. तेन परियायन्तरेहिपि अत्तसन्निय्यातनादि कतमेव होति अत्थस्स अभिन्नत्ताति दस्सेति. आळवकादीनन्ति आदि-सद्देन सातागिरिहेमवतादीनं सङ्गहो दट्ठब्बो. ननु चेते आळवकादयो मग्गेनेव आगतसरणगमना, कथं तेसं तप्परायणतासरणगमनं वुत्तन्ति? मग्गेनागतसरणगमनेहिपि ‘‘सो अहं विचरिस्सामि गामा गाम’’न्तिआदिना (सं. नि. १.२४६) तेहि तप्परायणताकारस्स पवेदितत्ता तथा वुत्तं.

ञाति…पे… वसेनाति एत्थ ञातिवसेन भयवसेन आचरियवसेन दक्खिणेय्यवसेनाति पच्चेकं ‘‘वसेना’’ति पदं योजेतब्बं. तत्थ ञातिवसेनाति ञातिभाववसेन. एवं सेसेसुपि. दक्खिणेय्यपणिपातेनाति दक्खिणेय्यताहेतुकेन पणिपातेन. इतरेहीति ञातिभावादिवसप्पवत्तेहि तीहि पणिपातेहि. इतरेहीतिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं. वन्दतीति पणिपातस्स लक्खणवचनं. एवरूपन्ति दिट्ठधम्मिकं सन्धाय वदति. सम्परायिकञ्हि निय्यानिकं वा अनुसासनं पच्चासीसन्तो दक्खिणेय्यपणिपातमेव करोतीति अधिप्पायो. सरणगमनप्पभेदोति सरणगमनविभागो.

अरियमग्गोयेव लोकुत्तरसरणगमनन्ति आह ‘‘चत्तारि सामञ्ञफलानि विपाकफल’’न्ति. सब्बदुक्खक्खयोति सकलस्स वट्टदुक्खस्स अनुप्पादनिरोधो. एतन्ति ‘‘चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सती’’ति (ध. प. १९०) एवं वुत्तं अरियसच्चदस्सनं.

निच्चतो अनुपगमनादिवसेनाति निच्चन्ति अग्गहणादिवसेन. अट्ठानन्ति हेतुपटिक्खेपो. अनवकासोति पच्चयपटिक्खेपो. उभयेनपि कारणमेव पटिक्खिपति. न्ति येन कारणेन. दिट्ठिसम्पन्नोति मग्गदिट्ठिया सम्पन्नो सोतापन्नो. कञ्चि सङ्खारन्ति चतुभूमकेसु सङ्खतसङ्खारेसु एकसङ्खारम्पि. निच्चतो उपगच्छेय्याति ‘‘निच्चो’’ति गण्हेय्य. सुखतो उपगच्छेय्याति ‘‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’’ति (दी. नि. १.७६) एवं अत्तदिट्ठिवसेन सुखतो गाहं सन्धायेतं वुत्तं. दिट्ठिविप्पयुत्तचित्तेन पन अरियसावको परिळाहवूपसमनत्थं मत्तहत्थिपरित्तासितो विय चोक्खब्राह्मणो उक्कारभूमिं कञ्चि सङ्खारं सुखतो उपगच्छति. अत्तवारे कसिणादिपञ्ञत्तिसङ्गहणत्थं ‘‘सङ्खार’’न्ति अवत्वा ‘‘कञ्चि धम्म’’न्ति वुत्तं. इमेसुपि वारेसु चतुभूमकवसेनेव परिच्छेदो वेदितब्बो तेभूमकवसेनेव वा. यं यञ्हि पुथुज्जनो गाहवसेन गण्हाति, ततो ततो अरियसावको गाहं विनिवेठेति. मातरन्तिआदीसु जनिका माता, जनको पिता, मनुस्सभूतो खीणासवो अरहाति अधिप्पेतो. किं पन अरियसावको अञ्ञं जीविता वोरोपेय्याति? एतम्पि अट्ठानं, पुथुज्जनभावस्स पन महासावज्जभावदस्सनत्थं अरियसावकस्स फलदीपनत्थञ्चेवं वुत्तं. दुट्ठचित्तो वधकचित्तेन पदुट्ठचित्तो. लोहितं उप्पादेय्याति जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेय्य. सङ्घं भिन्देय्याति समानसंवासकं समानसीमायं ठितं सङ्घं ‘कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति (परि. ४५८) एवं वुत्तेहि पञ्चहि कारणेहि भिन्देय्य. अञ्ञं सत्थारन्ति अञ्ञं तित्थकरं ‘‘अयं मे सत्था’’ति एवं गण्हेय्याति नेतं ठानं विज्जतीति अत्थो.

न ते गमिस्सन्ति अपायभूमिन्ति ते बुद्धं सरणं गता तन्निमित्तं अपायभूमिं न गमिस्सन्ति, देवकायं पन परिपूरेस्सन्तीति अत्थो.

दसहि ठानेहीति दसहि कारणेहि. अधिग्गण्हन्तीति अधिभवन्ति. वेलामसुत्तादिवसेनापीति एत्थ ‘‘चतुरासीतिसहस्ससङ्खानं सुवण्णपातिरूपियपातिकंसपातीनं यथाक्कमं रूपियसुवण्णहिरञ्ञपूरानं करीसस्स चतुत्थभावप्पमाणानं सब्बालङ्कारपटिमण्डितानं चतुरासीतिया हत्थिसहस्सानं चतुरासीतिया अस्ससहस्सानं चतुरासीतिया रथसहस्सानं चतुरासीतिया धेनुसहस्सानं चतुरासीतिया कञ्ञासहस्सानं चतुरासीतिया पल्लङ्कसहस्सानं चतुरासीतिया वत्थकोटिसहस्सानं अपरिमाणस्स च खज्जभोज्जादिभेदस्स आहारस्स परिच्चजनवसेन सत्तमासाधिकानि सत्त संवच्छरानि निरन्तरं पवत्तवेलाममहादानतो एकस्स सोतापन्नस्स दिन्नदानं महप्फलतरं, ततो सतं सोतापन्नानं दिन्नदानतो एकस्स सकदागामिस्स, ततो एकस्स अनागामिस्स, ततो एकस्स अरहतो, ततो एकस्स पच्चेकबुद्धस्स, ततो सम्मासम्बुद्धस्स, ततो बुद्धप्पमुखस्स सङ्घस्स दिन्नदानं महप्फलतरं, ततो चातुद्दिसं सङ्घं उद्दिस्स विहारकरणं, ततो सरणगमनं महप्फलतर’’न्ति इममत्थं दीपेन्तस्स वेलामसुत्तस्स (अ. नि. ९.२०) वसेन. वुत्तञ्हेतं ‘‘यं गहपति, वेलामो ब्राह्मणो दानं अदासि महादानं, यो एकं दिट्ठिसम्पन्नं भोजेय्य, इदं ततो महप्फलतर’’न्तिआदि (अ. नि. ९.२०). वेलामसुत्तादीति आदि-सद्देन अग्गप्पसादसुत्तादीनं (अ. नि. ४.३४; इतिवु. ९०) सङ्गहो दट्ठब्बो.

अञ्ञाणं वत्थुत्तयस्स गुणानं अजाननं तत्थ सम्मोहो, ‘‘बुद्धो नु खो, न नु खो बुद्धो’’तिआदिना विचिकिच्छा संसयो, मिच्छाञाणं तस्स गुणानं अगुणभावपरिकप्पनेन विपरीतग्गाहो. आदि-सद्देन अनादरागारवादीनं सङ्गहो. न महाजुतिकन्ति न उज्जलं, अपरिसुद्धं अपरियोदातन्ति अत्थो. न महाविप्फारन्ति अनुळारं. सावज्जोति दिट्ठितण्हादिवसेन सदोसो. लोकियं सरणगमनं सिक्खासमादानं विय अग्गहितकालपरिच्छेदं जीवितपरियन्तमेव होति, तस्मा तस्स खन्धभेदेन भेदोति आह ‘‘अनवज्जो कालकिरियाया’’ति. सोति अनवज्जो सरणगमनभेदो. सतिपि अनवज्जत्ते इट्ठफलोपि न होतीति आह ‘‘अफलो’’ति.

सरणगमनकथावण्णना निट्ठिता.

उपासकविधिकथावण्णना

को उपासकोति सरूपपुच्छा, तस्मा किंलक्खणो उपासकोति वुत्तं होति. कस्माति हेतुपुच्छा. तेन केन पवत्तिनिमित्तेन उपासकसद्दो तस्मिं पुग्गले निरुळ्होति दस्सेति. किमस्स सीलन्ति कीदिसं अस्स उपासकस्स सीलं, कित्तकेन सीलेनायं सीलसम्पन्नो नाम होतीति अत्थो. को आजीवोति को अस्स सम्माआजीवो, सो पन मिच्छाजीवस्स परिवज्जनेन होतीति सोपि विभजीयतीति. का विपत्तीति का अस्स सीलस्स, आजीवस्स वा विपत्ति. अनन्तरस्स हि विधि वा पटिसेधो वा. का सम्पत्तीति एत्थापि एसेव नयो.

यो कोचीति खत्तियादीसु यो कोचि. तेन सरणगमनमेवेत्थ कारणं, न जातिआदिविसेसोति दस्सेति. उपासनतोति तेनेव सरणगमनेन तत्थ च सक्कच्चकारिताय आदरगारवबहुमानादियोगेन पयिरुपासनतो. वेरमणियोति वेरं वुच्चति पाणातिपातादिदुस्सील्यं, तस्स मणनतो हननतो विनासनतो वेरमणियो, पञ्च विरतियो विरतिप्पधानत्ता तस्स सीलस्स. तेनेवाह तत्थ तत्थ ‘‘पटिविरतो होती’’ति.

मिच्छावणिज्जाति न सम्मावणिज्जा अयुत्तवणिज्जा असारुप्पवणिज्जा. पहायाति अकरणेनेव पजहित्वा. धम्मेनाति धम्मतो अनपेतेन. तेन अञ्ञम्पि अधम्मिकं जीविकं पटिक्खिपति. समेनाति अविसमेन. तेन कायविसमादिदुच्चरितं वज्जेत्वा कायसमादिना सुचरितेन जीवनं दस्सेति. सत्थवणिज्जाति आवुधभण्डं कत्वा वा कारेत्वा वा यथाकतं वा पटिलभित्वा तस्स विक्कयो. सत्थवणिज्जाति मनुस्सविक्कयो. मंसवणिज्जाति सूनकारादयो विय मिगसूकरादिके पोसेत्वा मंसं सम्पादेत्वा विक्कयो. मज्जवणिज्जाति यं किञ्चि मज्जं योजेत्वा तस्स विक्कयो. विसवणिज्जाति विसं योजेत्वा, विसं गहेत्वा वा तस्स विक्कयो. तत्थ सत्थवणिज्जा परोपरोधनिमित्तताय अकरणीया वुत्ता, सत्तवणिज्जा अभुजिस्सभावकरणतो, मंसविसवणिज्जा वधहेतुतो, मज्जवणिज्जा पमादट्ठानतो.

तस्सेवाति पञ्चवेरमणिलक्खणस्स सीलस्स चेव पञ्चमिच्छावणिज्जालक्खणस्स आजीवस्स च. विपत्तीति भेदो पकोपो च. यायाति याय पटिपत्तिया. चण्डालोति उपासकचण्डालो. मलन्ति उपासकमलं. पतिकिट्ठोति उपासकनिहीनो. बुद्धादीसु कम्मकम्मफलेसु च सद्धाविपरियायो अस्सद्धियं मिच्छाधिमोक्खो. यथावुत्तेन अस्सद्धियेन समन्नागतो अस्सद्धो. यथावुत्त सीलविपत्ति आजीवविपत्तिवसेन दुस्सीलो. ‘‘इमिना दिट्ठादिना इदं नाम मङ्गलं भविस्सती’’ति एवं बालजनपरिकप्पितकोतूहलसङ्खातेन दिट्ठसुतमुतमङ्गलेन समन्नागतो कोतूहलमङ्गलिको. मङ्गलं पच्चेतीति दिट्ठमङ्गलादिभेदं मङ्गलमेव पत्तियायति. नो कम्मन्ति कम्मस्सकतं नो पत्तियायति. इतो बहिद्धाति इतो सब्बञ्ञुबुद्धसासनतो बहिद्धा बाहिरकसमये. दक्खिणेय्यं परियेसतीति दुप्पटिपन्नं दक्खिणारहसञ्ञी गवेसति. पुब्बकारं करोतीति दानमाननादिकं कुसलकिरियं पठमं करोति. एत्थ च दक्खिणेय्यपरियेसनपुब्बकारे एकं कत्वा पञ्च धम्मा वेदितब्बा.

विपत्तियं वुत्तविपरियायेन सम्पत्ति ञातब्बा. अयं पन विसेसो – चतुन्नम्पि परिसानं रतिजननट्ठेन उपासकोव रतनं उपासकरतनं. गुणसोभाकित्तिसद्दसुगन्धताहि उपासकोव पदुमं उपासकपदुमं. तथा उपासकपुण्डरीको.

आदिम्हीति आदिअत्थे. कोटियन्ति परियन्तकोटियं. विहारग्गेनाति ओवरककोट्ठासेन, ‘‘इमस्मिं गब्भे वसन्तानं इदं नाम पनसफलं पापुणाती’’तिआदिना तंतंवसनट्ठानकोट्ठासेनाति अत्थो. अज्जतन्ति अज्जइच्चेव अत्थो.

पाणेहि उपेतन्ति इमिना तस्स सरणगमनस्स आपाणकोटिकतं दस्सेन्तो ‘‘याव मे जीवितं पवत्तती’’तिआदिना वत्वा पुन जीवितेन तं वत्थुत्तयं पटिपूजेन्तो ‘‘सरणगमनं रक्खामी’’ति उप्पन्नं तस्स ब्राह्मणस्स अधिप्पायं विभावेन्तो ‘‘अहञ्ही’’तिआदिमाह. पाणेहि उपेतन्ति हि याव मे पाणा धरन्ति, ताव सरणं उपेतं, उपेन्तो च न वाचामत्तेन, न एकवारं चित्तुप्पादनमत्तेन, अथ खो पाणे परिच्चजित्वापि यावजीवं उपेतन्ति एवमेत्थ अत्थो वेदितब्बोति.

उपासकविधिकथावण्णना निट्ठिता.

भयभेरवसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

५. अनङ्गणसुत्तवण्णना

५७. आयस्मा सारिपुत्तोति एत्थ इति-सद्दो आदिअत्थो, एवमादिकन्ति अत्थो. तेन ‘‘भिक्खू आमन्तेसी’’तिआदिकं सब्बं सुत्तं सङ्गण्हाति. तेनाह ‘‘अनङ्गणसुत्त’’न्ति. तस्स को निक्खेपो? अत्तज्झासयो. परेहि अनज्झिट्ठोयेव हि महाथेरो इमं देसनं आरभि. केचि पनाहु ‘‘एकच्चे भिक्खू संकिलिट्ठचित्ते दिस्वा तेसं चित्तसंकिलेसप्पहानाय चेव एकच्चानं आयतिं अनुप्पादनाय च अयं देसना आरद्धा’’ति. एवं सब्बसुत्तेसूति यथा एत्थ अनङ्गणसुत्ते, एवं इतो परेसूति सब्बेसुपि सुत्तेसु अनुत्तानअपुब्बपदवण्णना एव करीयति. तेनाह ‘‘तस्मा’’तिआदि. गणनपरिच्छेदोति गणनेन परिच्छिन्दनं. इदञ्हि अप्परजक्खमहारजक्खतावसेन दुविधे सत्ते पच्चेकं अत्थञ्ञुतानत्थञ्ञुतावसेन द्विधा कत्वा ‘‘चत्तारो’’ति अनवसेसपरियादानं. वज्जीपुत्तकादयो विय पुग्गलवादीति न गहेतब्बं लोकसमञ्ञानुसारेन अत्थं पटिविज्झितुं समत्थानं वसेन देसनाय आरद्धत्ता, अयञ्च देसनानयो सत्थु निस्साय एवाति दस्सेन्तो ‘‘अयञ्ही’’तिआदिमाह.

सम्मुतिपरमत्थदेसनाकथावण्णना

तत्थ (अ. नि. टी. १.१.१७०) सम्मुतिया देसना सम्मुतिदेसना, परमत्थस्स देसना परमत्थदेसना. तत्थाति सम्मुतिपरमत्थदेसनासु, न सम्मुतिपरमत्थेसु. तेनाह ‘‘एवरूपा सम्मुतिदेसना, एवरूपा परमत्थदेसना’’ति. तत्रिदं सम्मुतिपरमत्थानं लक्खणं – यस्मिं भिन्ने, बुद्धिया अवयवविनिब्भोगे वा कते न तंसमञ्ञा, सा घटपटादिप्पभेदा सम्मुति, तब्बिपरियायतो परमत्थो. न हि कक्खळफुसनादिसभावे अयं नयो लब्भति, तत्थ रूपादिधम्मं समूहसन्तानवसेन पवत्तमानं उपादाय पुग्गलवोहारोति आह ‘‘पुग्गलोति सम्मुतिदेसना’’ति. सेसपदेसुपि एसेव नयो. उप्पादवयवन्तो सभावधम्मा न निच्चाति आह ‘‘अनिच्चन्ति परमत्थदेसना’’ति. एस नयो सेसपदेसुपि. ननु खन्धदेसनापि सम्मुतिदेसनाव. खन्धट्ठो हि रासट्ठो, कोट्ठासट्ठो वाति? सच्चमेतं, अयं पन खन्धसमञ्ञा फस्सादीसु तज्जापञ्ञत्ति विय परमत्थसन्निस्सया तस्स आसन्नतरा, पुग्गलसमञ्ञादयो विय न दूरेति परमत्थसङ्गहता वुत्ता, खन्धसीसेन वा तदुपादाना सभावधम्मा एव गहिता. ननु च सभावधम्मा सब्बेपि सम्मुतिमुखेनेव देसनं आरोहन्ति, न समुखेनाति सब्बापि देसना सम्मुतिदेसनाव सियाति? नयिदमेवं देसेतब्बधम्मविभागेन देसनाविभागस्स अधिप्पेतत्ता, न च सद्दो केनचि पवत्तिनिमित्तेन विना अत्थं पकासेतीति.

सम्मुतिवसेन देसनं सुत्वाति ‘‘इधेकच्चो पुग्गलो अत्तन्तपो होति अत्तपरितापानुयोगमनुयुत्तो’’तिआदिना (म. नि. २.४१३; पु. प. १०.२५ मातिका) सम्मुतिमुखेन पवत्तितं देसनं सुतमयञाणुप्पादनवसेन सुत्वा. अत्थं पटिविज्झित्वाति तदनुसारेन चतुसच्चसङ्खातं अत्थं सह विपस्सनाय मग्गेन पटिविज्झित्वा. मोहं पहायाति तदेकट्ठेहि किलेसेहि सद्धिं अनवसेसं मोहं पजहित्वा. विसेसन्ति निब्बानसङ्खातं अरहत्तसङ्खातञ्च विसेसं. तेसन्ति तादिसानं विनेय्यानं. परमत्थवसेनाति ‘‘पञ्चिमानि, भिक्खवे, इन्द्रियानी’’तिआदिना (सं. नि. ५.४७२-४७४) परमत्थधम्मवसेन. सेसं अनन्तरनये वुत्तसदिसमेव. तत्थाति तस्सं सम्मुतिवसेन परमत्थवसेन च देसनायं. देसभासाकुसलोति नानादेसभासासु कुसलो. तिण्णं वेदानन्ति निदस्सनमत्तं, तिण्णं वेदानं सिप्पगन्थानम्पीति अधिप्पायो सिप्पुग्गहणञ्हि परतो वक्खति. सिप्पानि वा वेदन्तोगधे कत्वा ‘‘तिण्णं वेदान’’न्ति वुत्तं. कथेतब्बभावेन ठितानि, न कत्थचि सन्निहितभावेनाति वेदानम्पि कथेतब्बभावेनेव अवट्ठानं दीपेन्तो ‘‘गुय्हा तयी निहिता गय्हती’’ति मिच्छावादं पटिक्खिपति. नानाविधा देसभासा एतेसन्ति नानादेसभासा.

परमो उत्तमो अत्थो परमत्थो, धम्मानं यथाभूतसभावो. लोकसङ्केतमत्तसिद्धा सम्मुति. यदि एवं कथं सम्मुतिकथाय सच्चतातिआह ‘‘लोकसम्मुतिकारणा’’ति, लोकसमञ्ञं निस्साय पवत्तनतो. लोकसमञ्ञाय हि अभिनिवेसेन विना ञापना एकच्चस्स सुतस्स सावना विय न मुसा अनतिधावितब्बतो तस्सा. तेनाह भगवा ‘‘जनपदनिरुत्तिं नाभिनिवेसेय्य, समञ्ञं नातिधावेय्या’’ति (म. नि. ३.३३२). धम्मानन्ति सभावधम्मानं. भूतकारणाति यथाभूतसभावं निस्साय पवत्तनतो. सम्मुतिं वोहरन्तस्साति ‘‘पुग्गलो सत्तो’’तिआदिना लोकसमञ्ञं कथेन्तस्स.

हिरोत्तप्पदीपनत्थन्ति लोकपालनकिच्चे हिरोत्तप्पधम्मे किच्चतो पकासेतुं. तेसञ्हि किच्चं सत्तसन्तानेयेव पाकटं होतीति पुग्गलाधिट्ठानाय कथाय तं वत्तब्बं. एस नयो सेसेसुपि. यस्मिञ्हि चित्तुप्पादे कम्मं उप्पन्नं, तंसन्ताने एव तस्स फलस्स उप्पत्ति कम्मस्सकता. एवञ्हि कतविञ्ञाणनासो अकतागमो वा नत्थीति सा पुग्गलाधिट्ठानाय एव कथाय दीपेतब्बा. तेहि सत्तेहि कातब्बा पुञ्ञादिकिरिया पच्चत्तपुरिसकारोपि सन्तानवसेन निप्फादेतब्बतो पुग्गलाधिट्ठानाय एव कथाय दीपेतब्बो.

आनन्तरियदीपनत्थन्ति चुतिअनन्तरं फलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्तानि, तन्निब्बत्तनेन अनन्तरकरणसीलानि, अनन्तरपयोजनानि वाति आनन्तरियानि, मातुघातादीनि, तेसं दीपनत्थं. तानिपि हि सन्तानवसेन निप्फादेतब्बतो ‘‘मातरं जीविता वोरोपेती’’तिआदिना (पट्ठा. १.१.४२३) पुग्गलाधिट्ठानाय एव कथाय दीपेतब्बानि, तथा ‘‘सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदिना (दी. नि. १.५५६; ३.३०८; म. नि. १.७७; २.३०९; ३.२३०; विभ. ६४२, ६४३) ‘‘सो अनेकविहितं पुब्बेनिवासं अनुस्सरति एकम्पि जाति’’न्तिआदिना (दी. नि. १.२४४, २४५; म. नि. १.१४८, ३८४, ४३१; पारा. १२) ‘‘अत्थि दक्खिणा दायकतो विसुज्झति, नो पटिग्गाहकतो’’तिआदिना (म. नि. ३.३८१) च पवत्ता ब्रह्मविहारपुब्बेनिवासदक्खिणाविसुद्धिकथा पुग्गलाधिट्ठानाय एव कथाय दीपेतब्बा सत्तसन्तानविसयत्ता. ‘‘अट्ठ पुरिसपुग्गला (सं. नि. १.२४९), न समयविमुत्तो पुग्गलो’’तिआदिना (पु. प. १) च परमत्थं कथेन्तोपि लोकसम्मुतिया अप्पहानत्थं पुग्गलकथं कथेसि. एतेन वुत्तावसेसाय कथाय पुग्गलाधिट्ठानभावे पयोजनं सामञ्ञवसेन सङ्गहितन्ति दट्ठब्बं. कामञ्चेतं सब्बं अपरिञ्ञातवत्थुकानं वसेन वुत्तं, परिञ्ञातवत्थुकानम्पि पन एवं देसना सुखावहा होति.

महाजनोति लोकियमहाजनो. न जानाति घनविनिब्भोगाभावेन धम्मकिच्चस्स असल्लक्खणेन. तत्थ ‘‘किं नामेतं, कथं नामेत’’न्ति संसयपक्खन्दताय सम्मोहं आपज्जति. विरुद्धाभिनिवेसिताय पटिसत्तु होति. जानाति चिरपरिचितत्था वोहारकथाय. ततो एव न सम्मोहमापज्जति, न पटिसत्तु होति.

नप्पजहन्ति वोहारमुखेन परमत्थस्स दीपनतो. समञ्ञागहणवसेन लोकेन ञायति समञ्ञायति वोहरीयतीति लोकसमञ्ञा, ताय लोकसमञ्ञाय. तस्स तस्स अत्थस्स विभावने लोकेन निच्छितं, नियतं वा वुच्चति वोहरीयतीति लोकनिरुत्ति, तस्सं लोकनिरुत्तियं. तथा लोकेन अभिलपीयतीति लोकसमञ्ञताय लोकाभिलापो, तस्मिं लोकाभिलापे ठितायेव अप्पहानतो. पुग्गलवादिनो विय परमत्थवसेन अग्गहेत्वा.

सन्तोति एत्थ सन्तसद्दो ‘‘दीघं सन्तस्स योजन’’न्तिआदीसु (ध. प. ७०) किलन्तभावे आगतो, ‘‘अयञ्च वितक्को अयञ्च विचारो सन्ता होन्ति समिता’’तिआदीसु (विभ. ५७६) निरुद्धभावे आगतो, ‘‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो’’तिआदीसु (दी. नि. २.६७; म. नि. १.२८१; २.३३७; सं. नि. २.१७२; महाव. ७) सन्तञाणगोचरताय, ‘‘उपसन्तस्स सदा सतिमतो’’तिआदीसु (उदा. २७) किलेसवूपसमे, ‘‘सन्तो हवे सब्भि पवेदयन्ती’’तिआदीसु (ध. प. १५) साधूसु, ‘‘पञ्चिमे, भिक्खवे, महाचोरा सन्तो संविज्जमाना’’तिआदीसु (पारा. १९५) अत्थिभावे, इधापि अत्थिभावेयेव. सो च पुग्गलसम्बन्धेन वुत्तत्ता लोकसमञ्ञावसेनाति दस्सेन्तो ‘‘लोकसङ्केतवसेन अत्थी’’ति आह. अत्थीति चेतं निपातपदं दट्ठब्बं ‘‘अत्थि इमस्मिं काये केसा’’तिआदीसु (दी. नि. २.३७३-३७४; म. नि. १.११०; ३.१५४; अ. नि. ६.२९; १०.६०) विय. संविज्जमानाति पदस्स अत्थं दस्सेन्तो ‘‘उपलब्भमाना’’ति आह. यञ्हि संविज्जति, तं उपलब्भतीति. अङ्गन्ति एतेहि तंसमङ्गिपुग्गला निहीनभावं गच्छन्तीति अङ्गणानि, रागादयो. अञ्जति मक्खेतीति अङ्गणं, मलादि. अञ्जेति तत्थ ठितं अहुन्दरताय अभिब्यञ्जेतीति अङ्गणं, विवटो भूमिपदेसो. दोसादीनं पवत्तिआकारविसेसताय नानप्पकारा बहुलप्पवत्तिया तिब्बकिलेसा. पापकानन्ति लामकानं. अकुसलानन्ति अकोसल्लसम्भूतानं. इच्छावचरानन्ति इच्छावसेन पवत्तानं. सह अङ्गणेनाति अङ्गणन्ति लद्धनामेन यथावुत्तकिलेसेन सह वत्तति.

अत्थीतिपि न जानाति तादिसस्स योनिसोमनसिकारस्स अभावा. येसं किलेसानं अत्थिता, तेसं सप्पटिभयता विसेसतो जानितब्बाति दस्सेतुं ‘‘इमे किलेसा नामा’’तिआदि वुत्तं. तत्थ कक्खळाति फरुसा. वाळाति कुरुरा. न गहितब्बाति न उप्पादेतब्बा. याथावसरसतोति यथाभूतसभावतो. एवञ्चाति ‘‘इमे किलेसा नामा’’तिआदिना वुत्तप्पकारेन. येन वा तेन वाति नवकम्मेसु वा परियत्तिधुतङ्गादीसु वा येन वा तेन वा. तत्राति निद्धारणे भुम्मं. तं पन निद्धारणं सङ्गणानङ्गणसमुदायतोति दस्सेन्तो ‘‘चतूसु पुग्गलेसू’’ति वत्वा पुन तदेकदेसतो दस्सेन्तो ‘‘तेसु वा द्वीसु साङ्गणेसू’’ति आह. तञ्हि द्वयं पठमं हीनसेट्ठभावेन निद्धारीयति पठमं उद्दिट्ठत्ता. निद्धारणञ्हि क्वचि कुतोचि केनचि होतीति.

५८. किञ्चापि अञ्ञत्थ ‘‘जनको हेतु, परिग्गाहतो पच्चयो, असाधारणो हेतु, साधारणो पच्चयो, सभागो हेतु, असभागो पच्चयो, पुब्बकालिको हेतु, सहप्पवत्तो पच्चयो’’तिआदिना हेतुपच्चया विभज्ज वुच्चन्ति, इध पन ‘‘चत्तारो खो, भिक्खवे, महाभूता हेतू, चत्तारो महाभूता पच्चया रूपक्खन्धस्स पञ्ञापनाया’’तिआदीसु (म. नि. ३.८५) विय हेतुपच्चयसद्दा समानत्थाति दस्सेतुं ‘‘उभयेनपि कारणमेव पुच्छती’’ति वुत्तं. तत्थ उभयेनाति हेतुपच्चयवचनद्वयेन. पुच्छति आयस्मा महामोग्गल्लानो देसनं वड्ढेतुकामो. किञ्चापीति अनुजाननसम्भावनत्थे निपातो. किं अनुजानाति? समानेपि द्विन्नं साङ्गणभावे तस्सा पजाननाप्पजाननहेतुकतं तेसं सेट्ठहीनतं. किं सम्भावेति? थेरस्स विचित्तपटिभानताय नानाहेतूपमाहि अलङ्कत्वा यथापुच्छितस्स अत्थस्स पाकटकरणं. तेनाह ‘‘नप्पजानाती’’तिआदि. हेतु चेव पच्चयो च सेट्ठहीनभावे. तथाअक्खातब्बतापि हि तेसं तन्निमित्ता एवाति.

५९. न्ति तेसं द्विन्नं पुग्गलानं हीनसेट्ठताय कारणं. ओपम्मेहि पाकटतरं कत्वा दस्सेतुं. एतन्ति सुत्ते अनन्तरं वुच्चमानं वीरियारम्भाभावेन अङ्गणस्स अप्पहानं. तेनाह ‘‘न छन्दं…पे… सन्धायाहा’’ति. कत्तुकम्यताछन्धन्ति कत्तुकम्यतासङ्खातं अङ्गणस्स पहातुकम्यतावसेन उप्पज्जनककुसलधम्मच्छन्दं. न जनेस्सतीति न उप्पादेस्सति. कुसलो वायामो नाम छन्दतो बलवाति आह ‘‘ततो बलवतरं वायामं न करिस्सती’’ति, छन्दम्पि अनुप्पादेन्तो कथं तज्जं वायामं करिस्सतीति अधिप्पायो. थामगतवीरियं उस्सोळ्हीभावप्पत्तं दळ्हं वीरियं. साङ्गणग्गहणेनेव अङ्गणानं किलेसवत्थुताय चित्तस्स संकिलिट्ठताय सद्धाय पुन संकिलिट्ठग्गहणं सविसेसं किलिट्ठभावविभावनन्ति आह ‘‘सुट्ठुतरं किलिट्ठचित्तो’’ति. मलिनचित्तोतिआदीसुपि ‘‘तेहियेवा’’ति आनेत्वा सम्बन्धितब्बं. उक्खलिपुच्छनचोळकस्स विय वसापीतपिलोतिका विय च दुम्मोचनीयभावेन मलग्गहणं मलीनता, पीळनं हिंसनं अविप्फारिकताकरणं विबाधनं दरथपरिळाहुप्पादनेन परिदहनं उपतापनं, कालन्ति कालनं, यथागहितस्स अत्तभावस्स खेपनं आयुक्खयन्ति अत्थो. करिस्सतीति पवत्तेस्सति, पापुणिस्सतीति वुत्तं होति. तथाभूतो च पाणं चजिस्सति नामाति आह ‘‘मरिस्सती’’ति.

सेय्यथापीति उपमानिदस्सने निपातो. तदत्थं दस्सेन्तो ‘‘यथा नामा’’ति आह. पंसुआदिनाति आदि-सद्देन जल्लादीनं सङ्गहो, घंसनादीहीति आदि-सद्देन छारिकापरिमज्जनादीनं सङ्गहोति. ‘‘अभिरूपाय कञ्ञा दातब्बा’’तिआदीसु विय अन्तरेनपि अतिसयत्थबोधकसद्देन अतिसयत्थो ञायतीति आह ‘‘मलग्गहिततराति वुत्तं होती’’ति. पटिपुच्छावचनन्ति अनुमतिपुच्छाविसेसो. एवं करियमानाति अपरिभोग-अपरियोदपनरजोपथनिक्खिपनेहि किलिट्ठभावं आपादियमाना. ओपम्मं सम्पटिपादेन्तोति यथूपनीतं उपमं उपमेय्यत्थेन समं कत्वा पटिपादेन्तो, संसन्देन्तोति अत्थो. साङ्गणो पुग्गलोति साङ्गणो तस्मिं अत्तभावे असुज्झनकपुग्गलो. आपणादितो कुलघरं आनीतस्स मलग्गहितकंसभाजनस्स तत्थ लद्धब्बाय विसुद्धिया अलाभतो यथा अनुक्कमेन संकिलिट्ठतरभावो, एवं घरतो निक्खन्तस्स पुग्गलस्स पब्बज्जाय लद्धब्बाय विसुद्धिया अलाभतो अनुक्कमेन संकिलिट्ठतरभावोति दस्सेन्तो ‘‘संकिलिट्ठकंसपातिया’’तिआदिमाह. संकिलिट्ठतरभावो च नाम पब्बजितस्स आजीवविपत्तिवसेन वा सिया आचारदिट्ठिसीलविपत्तीसु अञ्ञतरवसेन वाति तं सब्बं सङ्गहेत्वा दस्सेतुं ‘‘तस्स पुग्गलस्सा’’तिआदि वुत्तं. पाचित्तियवीतिक्कमनग्गहणेन हि एकच्चदिट्ठिविपत्तियापि सङ्गहो होतीति. एत्थ ठितस्साति एतिस्सं आजीवविपत्तियं ठितस्स. इमिना नयेन सेसेसुपि यथारहं वत्तब्बं. सब्बपरिससाधारणा महाथेरस्स देसना, तस्मा गहपतिवसेनपि योजेतब्बं. तत्थ उक्कंसगतसंकिलिट्ठतरभावं दस्सेन्तो ‘‘मातुघातादिआनन्तरियकरण’’न्ति आह. अविसोधेत्वाति यथा अत्तनो सीले वा दिट्ठिया वा विसुद्धि होति, एवं किलेसमलिनचित्तसन्तानं अविसोधेत्वा.

भब्बपुग्गलोति उपनिस्सयादिसम्पत्तिया तस्मिं अत्तभावे विसुद्धपुग्गलो. आदिं कत्वाति इमिना धोवनघंसनादीहि परियोदपनं आदिमन्तं कत्वा वदति. सुद्धट्ठानं यत्थ वा न रजेन ओकिरीयति. दण्डकम्मं कत्वाति ‘‘एत्तका उदका, वालुका वा आनेतब्बा’’ति दण्डकम्मं कत्वा. एत्थ ठितस्साति परिसुद्धे सीले ठितस्स. सम्मावत्तपटिपत्तिसीलेहि सीलविसुद्धि दस्सिता. वत्तपटिपत्तियापि हि अङ्गणानं विक्खम्भनं सिया. तथा हिस्सा संकिलिट्ठकंसपातिया परिसुद्धपरियोदातभावो उपमाभावेन वुत्तो. पन्तसेनासनवासो किलेसविक्खम्भनं किलेसानं तदङ्गनिवारणं. सोतापत्तिफलाधिगमो…पे… अरहत्तसच्छिकिरियाति सत्तसुपि ठानेसु ‘‘परिसुद्धपरियोदातभावो विया’’ति पदं आनेत्वा सम्बन्धितब्बं. पब्बजितस्स हि विसुद्धि नाम हेट्ठिमन्तेन सीलविसुद्धिया वा सिया कम्मट्ठानानुयोगवसेन विवेकवासेन झानस्साधिगमेन वा विपस्सनाभावनाय वा सामञ्ञफलाधिगमेन वाति.

रागट्ठानियन्ति रागुप्पत्तिहेतुभूतं. विसभागारम्मणं सन्धाय वदति ‘‘इट्ठारम्मण’’न्ति. तस्मिन्ति इट्ठारम्मणे. विपन्नस्सतीति मुट्ठस्सति. तं निमित्तन्ति सुभनिमित्तं. आवज्जिस्सतीति अयोनिसो आवज्जिस्सति. सयमेव अञ्ञेन अवोमिस्सो. कुसलवारपच्छिन्दनमेव चेत्थ अनुद्धंसनं दट्ठब्बं. सेसन्ति ‘‘साङ्गणो संकिलिट्ठचित्तो’’तिआदि. वुत्तनयानुसारेनाति पठमवारे वुत्तनयानुसारेन. सब्बन्ति मातुघातादिआनन्तरियकरणपरियोसानं सब्बं उपमासंसन्दनवचनं.

अतिविरहाभावतोति सतिसम्मोसाभावतो, उपट्ठितस्सति भावतोति अत्थो. सेसन्ति ‘‘सो अरागो’’तिआदि. ‘‘धोवनघंसनसण्हछारिकापरिमज्जनादीही’’तिआदिना दुतियवारानुसारेन. ‘‘को नु खो’’तिआदि पुच्छावसेन आगतं, इदं निगमनवसेनाति अयमेव विसेसो.

६०. अङ्गणन्ति तत्थ तत्थ नामतो एव विभावितं, न पन सभावतो, पभेदतो वाति सभावादितो विभावनं सन्धायाह ‘‘नानप्पकारतो पाकटं कारापेतुकामेना’’ति. इच्छाय अवचरानन्ति इच्छावसेन अवचरणानं. ओतिण्णानन्ति चित्तसन्तानं अनुपविट्ठानं. ते पन तत्थ पच्चयवसेन निब्बत्तत्ता पवत्ता नाम होन्तीति आह ‘‘पवत्तान’’न्ति. नानप्पकारानन्ति विसयभेदेन पवत्तिआकारभेदेन च नानाविधानं. येनकारणेन. न केवलं लाभत्थिकता एव, अथ खो पुञ्ञवन्तता सक्कतगरुकता च एत्थ कारणभावेन गहेतब्बाति दस्सेन्तो ‘‘पकतियापि चा’’तिआदिमाह. तेन लाभत्थिकोपि न यो कोचि एवं चित्तं उप्पादेति पुञ्ञवा सम्भावनीयोति दस्सेति. थेरा अवज्जपटिच्छादनभयेन मज्झिमानं आरोचेन्ति, तथा मज्झिमा नवकानं, नवका पन अत्तनो नवकभावेन विघासादादीनं आरोचेन्ति ‘‘पस्सथ तुम्हाकं थेरस्स कम्म’’न्ति. विघासादादयो नाम ‘‘ईदिसस्स सन्तिके ओवादत्थं तुम्हे आगता’’ति भिक्खुनीनं आरोचेन्ति. न च मं भिक्खू जानेय्युन्ति न च वत मं भिक्खू जानेय्युं, अहो वत मं भिक्खू न जानेय्युन्ति योजना. ठानं खो पनेतन्ति एत्थ खो-सद्दो अवधारणत्थो, पन-सद्दो वचनालङ्कारोति आह ‘‘अत्थियेवा’’ति. पुब्बे इच्छुप्पादवारवण्णनाय वुत्तनयेन. इति-सद्दो इध आसन्नकारणत्थोति तं दस्सेन्तो ‘‘इमिना कारणेना’’ति आह. इदञ्च कोपअप्पच्चयानमेव गहणं. तादिसानन्ति कोपअप्पच्चयाधिभूतानन्ति अधिप्पायो.

अनुरहोति अनुरूपे रहसि. एवमेव हि अत्थं दस्सेतुं ‘‘विहारपच्चन्ते’’तिआदि वुत्तं. पुरिमसदिसमेवाति ‘‘लाभत्थिको ही’’तिआदिना वुत्तेन पुरिमेन योजनानयेन सदिसमेव.

चोदनाय पटिपुग्गलभावो, चोदना च आपत्तियाति चुदितकेन चोदकस्स समानभावो आपत्तिआपन्नतायाति आह ‘‘समानोति सापत्तिको’’ति. सप्पटिपुग्गलेनेवस्स चोदनिच्छाय कारणं विभावेतुं ‘‘अय’’न्तिआदि वुत्तं. न चायं सापत्तिकताय एव समानतं इच्छति, अथ खो अञ्ञथापीति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. अञ्ञेन वा पटिपुग्गलेन सप्पटिपुग्गलो. अयञ्हि ‘‘सप्पटिपुग्गलोव मं चोदेय्या’’ति इच्छति ‘‘एवाहं तस्स पटिपुग्गलेहि सद्धिं एकज्झासयो हुत्वा तस्स उपरि किञ्चि वत्तुं कातुं वा लभिस्सामी’’ति मञ्ञमानो. इमस्मिं पन पक्खे नो अप्पटिपुग्गलोति नत्थि एतस्स पटिपुग्गलोति अप्पटिपुग्गलोति एवमत्थो वेदितब्बो.

‘‘अहो वता’’ति इदं पदं दिस्सतीति सम्बन्धो, इमस्स पुग्गलस्स इच्छाचारे ठितत्ता भिक्खूनं धम्मं देसेय्याति वचनतो ‘‘तञ्च खो अनुमतिपुच्छाया’’ति वुत्तं. न हेस ‘‘सच्चं किर त्वं भिक्खू’’तिआदिना किञ्चि वीतिक्कमं उद्दिस्स भगवता पुच्छितब्बतं इच्छति. नो मग्गं वा फलं वा विपस्सनं वा अन्तरं कत्वाति मग्गभावनं वा फलसच्छिकिरियं वा सिखाप्पत्तविपस्सनानुयोगं वा निरोधसमापज्जनं वा झानसमापज्जनमेव वा अन्तरं कारणं कत्वा भगवता अत्तानं पटिपुच्छितब्बं नो इच्छति. निच्चं अनिच्चन्तिआदिना अनुमतिग्गहणवसेन पुच्छितब्बं इच्छति, उत्तानमेव कत्वा पुच्छितब्बं इच्छतीति अत्थो. उपहरन्ते पस्सतीति सम्बन्धो. अभब्बट्ठानभिक्खुताय निहरिस्सन्ति सासनतो.

तं सम्पत्तिन्ति परिवारसम्पत्तिञ्चेव भिक्खूहि करियमानं सक्कारगरुकारसम्पत्तिञ्च. गहेत्वा परिभुञ्जन्ति मया संविभागे करियमाने. सयमेव पञ्ञायतीति सयमेव गन्त्वा भिक्खूनं पुरतो अत्तानं दस्सेति, पुरतो वसन्तं पन भिक्खु पुरक्खत्वा गच्छन्तियेवाति अधिप्पायो.

दक्खिणोदकन्ति अग्गतो उपनीयमानं दक्खिणोदकं. यतो एव-कारो, ततो अञ्ञत्थ नियमो इच्छितो. अवधारणत्थं वा एव-कारग्गहणन्ति कत्वा अहमेव लभेय्यन्ति अहं लभेय्यमेवाति एवमेतं अवधारणं दट्ठब्बन्ति अधिप्पायेनाह ‘‘अहमेव लभेय्यन्ति इच्छा नातिमहासावज्जा’’ति, अञ्ञथा यथारुतवसेन अवधारणे गय्हमाने ‘‘न अञ्ञे लभेय्यु’’न्ति अयमेवेत्थ अत्थो सियाति. पासादिको होतीति इदं तस्स अग्गासनादिपच्चासीसनाय कारणदस्सनं.

अनुमोदनन्ति मङ्गलामङ्गलेसु अनुमोदनावसेन पवत्तेतब्बधम्मकथं. खण्डानुमोदनन्ति अनुमोदनेकदेसं. ‘‘पुब्बे अनुमोदितपुब्बो अनुमोदतू’’ति अवत्वा थेरेन वुत्तमत्तेयेव.

तादिसेसु ठानेसूति तादिसेसु पेसलानं बहुस्सुतानं वसनट्ठानेसु. सब्बम्पि रतिं पवत्तनतो सब्बरत्तिकानि. विनिच्छयकुसलानन्ति अनेकविहितेसु कङ्खट्ठानियेसु कङ्खाविनयनाय तं तं पञ्हानं विनिच्छये कुसलानं छेकानं. तेसु तेसु धम्मकथिकेसु अज्झिट्ठेसु वारेन धम्मं कथेन्तेसु ‘‘अयं ब्यत्तो’’ति धम्मज्झेसकेन अज्झिट्ठत्ता ओकासं अलभमानो.

सक्कच्चञ्च करेय्युन्ति भिक्खू यं मम अभिवादनपच्चुट्ठानञ्जलिकम्मसामीचिकम्मादिं करोन्ति. तं आदरेनेव करेय्युं, यञ्च मे परिक्खारजातं पटियादेन्ति, तम्पि सुन्दरं सम्मदेव अभिसङ्खतं करेय्युन्ति अत्थो. भारियन्ति पासाणच्छत्तं विय गरुकातब्बं. एतं विधिन्ति एतं ‘‘सक्करेय्यु’’न्तिआदिना वुत्तसक्कारादिविधिं. तेनाति तेन कारणेन, बाहुसच्चादिगुणविसेसवतो एव सक्कारादीनं अरहत्ताति अत्थो. एवरूपन्ति ईदिसं ‘‘पियो गरू’’तिआदिना (अ. नि. ७.३७) वुत्तप्पकारं. एवं करेय्युन्ति एवं ‘‘सक्करेय्यु’’न्तिआदिना वुत्तप्पकारं सक्कारादिं करेय्युं. एस नयोति योयं भिक्खुवारे वुत्तविधि, एसेव नयो. इतो परेसु भिक्खुनीवारादीसु वारेसु.

अहमेव लाभी अस्सन्ति एत्थापि हेट्ठा वुत्तनयेनेव अवधारणं गहेतब्बं. पिण्डपातस्स पणीतता उपसेचनादिवसेनाति आह ‘‘सप्पितेलमधुसक्खरादिपूरितान’’न्ति. मञ्चपीठादीनन्ति निदस्सनमत्तं उतुसप्पायानं निवातानं फस्सिततलानं पिहितद्वारकवाळवातपानादीनम्पि पणीतसेनासनभावतो. आदि-सद्देन वा तेसम्पि गहणं दट्ठब्बं. सब्बत्थापीति सब्बेसु तेसु चतूसुपि पच्चयवारेसु.

६१. कायकम्मं दिस्वाति इदं न कायकम्मं चक्खुविञ्ञेय्यं, कायकम्मुना पन सह पवत्तं ओट्ठपरिप्फन्दनं भाकुटिकरणं कायङ्गादिदस्सनं कायकम्मदस्सनं विय होतीति कत्वा वुत्तं. वचीकम्मं सुत्वाति एत्थापि एसेव नयो, तस्मा कायविकारजनका धम्मा ‘‘दिस्सन्ती’’ति वुत्ता, वचीविकारजनका ‘‘सूयन्ती’’ति. ततो एव च ते पच्चक्खकाले सम्मुखकाले दिस्सन्ति नाम. तिरोक्खकाले असम्मुखकाले सूयन्ति नाम. अनुरूपतो गहणं अनुग्गहो. आरञ्ञिकत्तन्ति तस्स भिक्खुनो धुतगुणत्तानुरूपतो गण्हाति. तेनाह ‘‘आरञ्ञिकत्तं अनुग्गण्हाती’’ति. अरञ्ञे निवासो अस्साति आरञ्ञिको. पन्तं परियन्तं दूरतरं सेनासनं अस्साति पन्तसेनासनो. तं पन अत्थमत्तेन दस्सेन्तेन ‘‘पन्तसेनासने वसती’’ति वुत्तं. भिक्खासङ्खातानं पिण्डानं पातो पिण्डापातो, तं पिण्डपातं उञ्छति गवेसतीति पिण्डपातिको. पिण्डाय पतितुं चरितुं वतमेतस्साति वा पिण्डपाति, सो एव पिण्डपातिको. दानतो अवखण्डनतो अपेतं अपदानं, सह अपदानेन सपदानं, अनवखण्डनं. अनुघरं चरणसीलो सपदानचारी. उन्नतभावेन पंसुकूलं विय पंसुकूलं, पंसु विय वा कुच्छितभावं उलति गच्छतीति पंसुकूलं, तस्स धारणं इध पंसुकूलं, तं सीलमस्साति पंसुकूलिको.

तीहि कारणेहि लूखं वेदितब्बं अग्घफस्सवण्णपरिहानितो अपंसुकूलम्पि, को पन वादो पंसुकूलन्ति अधिप्पायो. थूलदीघसुत्तकेनाति थूलेन ओलम्बमानेन दीघसुत्तकेन. वण्णेनाति एत्थ फस्सेनपि परिहायतीति वत्तब्बं. तञ्हि तत्थ खरफस्सम्पि होतियेवाति. कस्मा पन पाळियं आरञ्ञिकादिग्गहणेन चत्तारोव धुतगुणा वुत्ताति? पधानत्ता, तग्गहणेनेव च इतो परेसम्पि सुखपरिभोगताय गहणसम्भवतो. यो हि आरञ्ञिको पन्तसेनासनो, तस्स अब्भोकासिक-रुक्खमूलिक-नेसज्जिक-यथासन्थतिक-सोसानिकङ्गानि सुपरिपूरानि. यो च पिण्डपातिको सपदानचारी च, तस्स पत्तपिण्डिकखलुपच्छाभत्तिकएकासनिकङ्गानि. यो पन पंसुकूलिको, तस्स तेचीवरिकङ्गं सुपरिहरमेवाति. पधानत्ता हि भगवतापि ‘‘कदाहं नन्दं पस्सेय्यं, आरञ्ञं पंसुकूलिक’’न्तिआदिना (सं. नि. २.२४२; नेत्ति. १००) तत्थ तत्थ आरञ्ञिकादयो एव गय्हन्ति. एत्तकाति पाळियं आगतानं परिच्छिज्ज गहणमेतं, न एत्तका सब्बेपि एकस्स एकंसतो सम्भवन्ति, नापि एत्तकायेव पापधम्मा पहातब्बा. न हि मक्खपळासादीनं अप्पहीनभावेपि सब्रह्मचारी नेव सक्करोन्ति…पे… न पूजेन्तीति.

तमत्थन्ति ‘‘यस्स कस्सची’’तिआदिना वुत्तमत्थं. उपमाय पाकटं करोन्तोति अन्वयतो ब्यतिरेकतो च उदाहरणेन विभावेन्तो. अहिकुणपादीनं अतिपटिकूलजिगुच्छनीयता अतिविय दुग्गन्धताय. सा च अहीनं तिखिणकोपताय, कुक्कुरमनुस्सानं ओदनकुम्मासूपचयताय सरीरस्स होतीति वदन्ति. इमेसन्ति अहिआदीनं. वड्ढेत्वाति उपरूपरि खिपनेन रचितं कत्वा. तं पन वड्ढितं तेन च भाजनं पूरितं होतीति आह ‘‘वड्ढेत्वा परिपूरेत्वा’’ति. जनस्स दस्सनयोग्यं दस्सनीयं जञ्ञं, तं परमपरिसुद्धं मनोहरञ्च होतीति आह ‘‘चोक्खचोक्ख’’न्ति. अभिनवनिविट्ठा महामाता वधुका. सा पन पुत्तलाभयोग्यतं उपादाय मङ्गलवचनेन ‘‘जनी’’ति वुच्चति, तस्सा निय्यमानं पण्णाकारं जनिया हरतीति जञ्ञं. उभयत्थाति अत्थद्वये. पुनरुत्तन्ति आमेडितवचनमाह. न मनापं एतस्साति अमनापो, तस्स भावो अमनापता, तथापवत्तो चित्तुप्पादोति आह ‘‘अमनापं इदन्ति…पे… अधिवचन’’न्ति. बुद्धवेसत्ता लिङ्गस्स परिसुद्धकंसपातिसदिसका. कुणपरचनं विय इच्छावचरेहि सन्तानस्स भरितभावो. सो पन तेसं अप्पहीनतायाति आह ‘‘इच्छावचरानं अप्पहान’’न्ति.

६२. ‘‘तेन गामन्तविहारं अनुग्गण्हाती’’ति वत्तब्बे ‘‘आरञ्ञिकत्त’’न्ति पन पोत्थके लिखितं. न हि सुक्कपक्खे पाळियं आरञ्ञिकग्गहणं अत्थि, सति च इच्छावचरप्पहाने गामन्तविहारो एकन्तेन न पटिक्खिपितब्बो, इच्छितब्बोव तादिसानं उत्तरिमनुस्सधम्मपटिच्छादनतो. तथा हि वक्खति ‘‘अप्पिच्छतासमुट्ठानेही’’तिआदि. सालिवरभत्तरचनं विय इच्छावचरप्पहानं मनुञ्ञभावतो तित्तिहेतुतो च.

६३. मं न्ति च उपयोगवचनं पटि-सद्दयोगेन, अत्थो पन सम्पदानमेवाति आह ‘‘मय्हं तुय्ह’’न्ति च. ‘‘समये’’ति भुम्मत्थे ‘‘समय’’न्ति उपयोगवचनं. गिज्झकूटपण्डवइसिगिलिवेभारवेपुल्लपब्बतानं वसेन समन्ततो गिरिपरिक्खेपेन. राजगहेति समीपत्थे भुम्मवचनन्ति आह ‘‘तं निस्साय विहरामी’’ति.

पुराणयानकारपुत्तोति पुराणे पब्बजिततो पुब्बे यानकारपुत्तो तथापञ्ञातो. जिम्हन्ति गोमुत्तकुटिलं. तेनाह ‘‘सप्पगतमग्गसदिस’’न्ति. सोति पण्डुपुत्तो. इतरोति समिति. चिन्तितट्ठानमेवाति चिन्तितचिन्तितट्ठानमेव तच्छति, तञ्च खो न तस्स चित्तानुसारेन, अथ खो अत्तनो सुत्तानुसारेन तच्छन्तो यानकारपुत्तो. चित्तन्ति अत्तनो चित्तेन मम चित्तं जानित्वा विय.

‘‘न सद्धाय पब्बजितो’’ति इमिनाव कम्मफलसद्धाय अभावो नेसं पकासितोति आह ‘‘अस्सद्धाति बुद्धधम्मसङ्घेसु सद्धाविरहिता’’ति. पब्बजितानं जीविका अत्थो एतेसन्ति जीविकत्था. तेनाह ‘‘इणभयादीही’’तिआदि. केराटिकं वुच्चति साठेय्यं. सठानं गुणवाणिजकानं कम्मं साठेय्यन्ति आह ‘‘साठेय्यञ्ही’’तिआदि. तुच्छसभावेन मानो नळो वियाति नळो, मानसङ्खातो उग्गतो नळो एतेसन्ति उन्नळा. तेनाह ‘‘उट्ठिततुच्छमाना’’ति. लहुकताय वा चपला. फरुसवचनताय खरवचना. तिरच्छानकथाबहुलताय निरत्थकवचनपलापिनो. असंवुतकम्मद्वाराति इदं कम्मद्वारादीनं असंवुतभावो उप्पत्तिद्वारानं असंवुतताय एव होतीति कत्वा वुत्तं. अथ वा छसु इन्द्रियेसूति निमित्ते भुम्मं, छसु इन्द्रियेसु निमित्तभूतेसु असंवुतकम्मद्वाराति अत्थो. या मत्ताति भोजने अयुत्तपरियेसन-अयुत्तपटिग्गहण-अयुत्तपरिभोगे वज्जेत्वा युत्तपरियेसन-युत्तपटिग्गहण-युत्तपरिभोगसङ्खाता या मत्ता अप्पमत्तेहि जानितब्बा. तेनाह ‘‘युत्तता’’ति. जागरेति रत्तिन्दिवं आवरणियेहि धम्मेहि चित्तपरिसोधनसङ्खाते जागरे. तेसं जागरिताय अधिसीलसिक्खाय गारवरहितानं इतरसिक्खासु पतिट्ठा एव नत्थीति दस्सेन्तो ‘‘सिक्खापदेसु बहुलगारवा न होन्ती’’ति वत्वा तमेव गारवाभावं सरूपेन विभावेन्तो ‘‘आपत्तिवीतिक्कमबहुला’’ति आह.

पकतियापि सिद्धाय रतनत्तयसद्धाय कम्मफलसद्धाय च सद्धा. पिवन्ति मञ्ञे यथा तं द्रवभूतं अमतं लद्धा. घसन्ति मञ्ञे यथा तं बहलपिण्डिकसुधाभोजनं लद्धा. अत्तमनवाचं निच्छारेन्ता ‘‘साधु साधू’’ति. तमेव पन साधुकारं हदये ठपेत्वा अब्भनुमोदन्ता. एत्थ च अत्तमनवाचानिच्छारणं पिवनसदिसं कत्वा वुत्तं बहिद्धाभावतो, मनसा अब्भनुमोदनं पन अब्भन्तरभावतो घसनसदिसं वुत्तं. सङ्खादनज्झोहरणञ्हि घसनन्ति. रस्सञ्च एकवचनं होतीति आह ‘‘रस्से सति सारिपुत्तस्स उपरि होती’’ति. दीघञ्च बहुवचनं होतीति आह ‘‘दीघे सति सब्रह्मचारीन’’न्ति. ‘‘उपरि होती’’ति आनेत्वा सम्बन्धो. आलसियब्यसनादीहीति आलसियेन वा ञातिब्यसनादीहि वा. ‘‘महानागाति वुच्चन्ती’’ति वत्वा तत्थ कारणं विभावेन्तो ‘‘तत्रा’’तिआदिमाह. तत्थ ‘‘न गच्छन्तीति नागा, न आगच्छन्तीति नागा, न आगुं करोन्तीति नागा’’ति यो विविधो वचनत्थो इच्छितो, तं विचारेत्वा दस्सेतुं ‘‘छन्दादीही’’तिआदि वुत्तं, तं पन ञेय्यावबोधाय वचनतो अप्पमत्तकारणं.

सयमेव आगुं न करोति सब्बथा मग्गेन पहीनआगुत्ता. सो कामयोगादिके सब्बसंयोगे दसविधसंयोजनप्पभेदानि च सब्बबन्धनानि विसज्ज जहित्वा सब्बत्थ यक्खादीसु, सब्बेसु वा भवेसु केनचि सङ्गेन न सज्जति तीहि च विमुत्तीहि विमुत्तो, ततो एव इट्ठादीसु तादिभावप्पत्तिया तादि, सो वुत्तलक्खणेन तथत्ता तंसभावत्ता नागो पवुच्चतेति अत्थो वेदितब्बो. तेनाह ‘‘एवमेत्थ अत्थो वेदितब्बो’’ति. अञ्ञेहि खीणासवनागेहि अग्गसावकत्ता गुणविसेसयोगतो पुज्जतरा च पासंसतरा च. समं अनुमोदिसुन्ति अञ्ञमञ्ञस्स सुभासिततो सम्पटिच्छनेन समप्पवत्तमोदताय समं सदिसं अब्भनुमोदिंसु. तं पन समनुमोदनं ‘‘तत्था’’तिआदिना पाळिवसेनेव दस्सेति.

सम्मुतिपरमत्थदेसनाकथावण्णना निट्ठिता.

अनङ्गणसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

६. आकङ्खेय्यसुत्तवण्णना

६४. सम्पन्नन्ति परिपुण्णं, समन्ततो पन्नं पत्तन्ति सम्पन्नं. तेनाह ‘‘इदं परिपुण्णसम्पन्नं नामा’’ति. न्ति ‘‘सुवा’’ति वुत्तं सुवगणं. सम्पन्नोति सम्मदेव पन्नो गतो उपगतो. तेनाह ‘‘समन्नागतो’’ति. सम्पन्नन्ति सम्पत्तियुत्तं. सा पनेत्थ रससम्पत्ति अधिप्पेता सामञ्ञजोतनाय विसेसे अवट्ठानतो. तेनाह ‘‘सेय्यथापि खुद्दमधुं अनेळक’’न्ति, निद्दोसन्ति अत्थो. तेन वुत्तं ‘‘इदं मधुरसम्पन्नं नामा’’ति. सीलस्स अनवसेससमादानेन अखण्डादिभावापत्तिया च परिपुण्णसीला. समादानतो पट्ठाय अच्छिन्दनतो सीलसमङ्गिनो. समादानतो हि अच्चन्तविरोधिधम्मानुप्पत्तिया सीलसमङ्गिता वेदितब्बा, चेतनादीनं पन सीलनलक्खणानं धम्मानं पवत्तिक्खणे वत्तब्बमेव नत्थि. विसुद्धिमग्गे (विसुद्धि. १.९) वुत्ता, तस्मा तत्थ वुत्तनयेनेव वित्थारकथा वेदितब्बाति अधिप्पायो.

खेत्तपारिपूरीति निस्सितपारिपूरिया निस्सयपारिपूरिमाह निस्सितकम्मविपत्तिसम्पत्तिविसयत्ता यथा ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति. तथा हि खेत्तेन खण्डपूतिआदिदोसो वुत्तो. खेत्तं खण्डं होतीति अपरिपूरं होति सस्सपारिपूरिया अभावतो. तेनेवाह ‘‘सस्सं न उट्ठेती’’ति. पादमत्तस्सपि अनेकम्बणफलनतो महप्फलं होति. किसलयपलालादिबहुताय महानिसंसं. एवमेवन्ति यथा खित्तं बीजं खण्डादिचतुदोसवसेन अपरिपुण्णं होति, तदभावेन च परिपुण्णं, एवं सीलं खण्डादिचतुदोसवसेन अपरिपुण्णं होति, तदभावेन च परिपुण्णन्ति, चतुदोसतदभावसामञ्ञमेव निदस्सननिदस्सितब्बविपत्तिसम्पत्तीसु दस्सेति. महप्फलं होति विपाकफलेन. महानिसंसन्ति विपुलानिसंसं. स्वायं आनिसंसो इध पाळियं नानप्पकारेन वित्थारीयति.

एत्तावता किराति (अ. नि. टी. २.२.३७; अ. नि. टी. ३.१०.७१-७४) किर-सद्दो अरुचिसूचनत्थो. तेनेत्थ आचरियवादस्स अत्तनो अरुच्चनभावं दीपेति. सम्पन्नसीलाति अनामट्ठविसेसं सामञ्ञतो सीलसङ्खेपेन गहितं. तञ्च चतुब्बिधन्ति आचरियत्थेरो ‘‘चतुपारिसुद्धिसीलं उद्दिसित्वा’’ति आह. तत्थाति चतुपारिसुद्धिसीले. जेट्ठकसीलन्ति (सं. नि. टी. ३.५.४१२) पधानसीलं. उभयत्थाति उद्देसनिद्देसे. इध निद्देसे विय उद्देसेपि पातिमोक्खसंवरो भगवता वुत्तो ‘‘सम्पन्नसीला’’ति वुत्तत्ताति अधिप्पायो. सीलग्गहणञ्हि पाळियं पातिमोक्खसंवरवसेन आगतं. तेनाह ‘‘पातिमोक्खसंवरोयेवा’’तिआदि. तत्थ अवधारणेन इतरेसं तिण्णं एकदेसेन पातिमोक्खन्तोगधभावं दीपेति. तथा हि अनोलोकियोलोकने आजीवहेतु छसिक्खापदवीतिक्कमे गिलानपच्चयस्स अपच्चवेक्खितपरिभोगे च आपत्ति विहिताति. तीणीति इन्द्रियसंवरसीलादीनि. सीलन्ति वुत्तट्ठानं नाम अत्थीति सीलपरियायेन तेसं कत्थचि सुत्ते गहितट्ठानं नाम किं अत्थि यथा पातिमोक्खसंवरोति आचरियस्स सम्मुखत्ता अपटिक्खिपन्तोव उपचारेन पुच्छन्तो विय वदति. तेनाह ‘‘अननुजानन्तो’’ति. छद्वाररक्खामत्तकमेवाति तस्स सल्लहुकभावमाह चित्ताधिट्ठानमत्तेन पटिपाकतिकभावापत्तितो. इतरद्वयेपि एसेव नयो. पच्चयुप्पत्तिमत्तकन्ति फलेन हेतुं दस्सेति. उप्पादनहेतुका हि पच्चयानं उप्पत्ति. इदमत्थन्ति इदं पयोजनं इमस्स पच्चयस्स परिभुञ्जनेति अधिप्पायो. निप्परियायेनाति इमिना इन्द्रियसंवरादीनि तीणि पधानस्स सीलस्स परिवारवसेन पवत्तिया परियायसीलानि नामाति दस्सेति.

इदानि पातिमोक्खसंवरस्सेव पधानभावं ब्यतिरेकतो अन्वयतो च उपमाय विभावेतुं ‘‘यस्सा’’तिआदिमाह. तत्थ सोति पातिमोक्खसंवरो. सेसानीति इन्द्रियसंवरादीनि. तस्सेवाति ‘‘सम्पन्नसीला’’ति एत्थ यं सीलं वुत्तं, तस्सेव. सम्पन्नपातिमोक्खाति एत्थ पातिमोक्खग्गहणेन वेवचनं वत्वा तं वित्थारेत्वा…पे… आदिमाह. यथा अञ्ञथापि ‘‘इध भिक्खु सीलवा होती’’ति (महानि. १९९) पुग्गलाधिट्ठानाय देसनाय उद्दिट्ठं सीलं ‘‘पातिमोक्खसंवरसंवुतो विहरती’’ति (विभ. ५०८; महानि. १९९) निद्दिट्ठं.

पातिमोक्खसंवरसंवुताति यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति ‘‘पातिमोक्ख’’न्ति लद्धनामेन सिक्खापदसीलेन पिहितकायवचीद्वारा. ते पन यस्मा एवंभूता तेन समन्नागता नाम होन्ति, तस्मा वुत्तं ‘‘पातिमोक्खसंवरेन समन्नागता’’ति.

अपरो नयो (उदा. अट्ठ. ३१; इतिवु. अट्ठ. ९७) – किलेसानं बलवभावतो, पापकिरियाय सुकरभावतो, पुञ्ञकिरियाय च दुक्करभावतो बहुक्खत्तुं अपायेसु पतनसीलोति पाती, पुथुज्जनो. अनिच्चताय वा भवादीसु कम्मवेगक्खित्तो घटीयन्तं विय अनवट्ठानेन परिब्भमनतो गमनसीलोति पाती, मरणवसेन वा तम्हि तम्हि सत्तनिकाये अत्तभावस्स पातनसीलोति पाती, सत्तसन्तानो, चित्तमेव वा, तं पातिं संसारदुक्खतो मोक्खेतीति पातिमोक्खं. चित्तस्स हि विमोक्खेन सत्तो विमुत्तोति वुच्चति. वुत्तञ्हि ‘‘चित्तवोदाना विसुज्झन्ती’’ति, ‘‘अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति (महाव. २८) च.

अथ वा अविज्जादिना हेतुना संसारे पतति गच्छति पवत्ततीति पाती. ‘‘अविज्जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति (सं. नि. २.१२५) हि वुत्तं. तस्स पातिनो सत्तस्स तण्हादिसंकिलेसत्तयतो मोक्खो एतेनाति पातिमोक्खो. ‘‘कण्ठेकालो’’तिआदीनं विय समाससिद्धि वेदितब्बा.

अथ वा पातेति विनिपातेति दुक्खेति पाति, चित्तं. वुत्तञ्हि ‘‘चित्तेन नीयति लोको, चित्तेन परिकस्सती’’ति (सं. नि. १.६२). तस्स पातिनो मोक्खो एतेनाति पातिमोक्खो. पतति वा एतेन अपायदुक्खे संसारदुक्खे चाति पाती, तण्हादिसंकिलेसो. वुत्तञ्हि ‘‘तण्हा जनेति पुरिसं (सं. नि. १.५७), तण्हादुतियो पुरिसो’’ति (इतिवु. १५, १०५; अ. नि. ४.९) च आदि. ततो पातितो मोक्खोति पातिमोक्खो.

अथ वा पतति एत्थाति पाती, छ अज्झत्तिकबाहिरानि आयतनानि. वुत्तञ्हि ‘‘छसु लोको समुप्पन्नो, छसु कुब्बति सन्थव’’न्ति (सं. नि. १.७०; सु. नि. १७१). ततो अज्झत्तिकबाहिरायतनसङ्खाततो पातितो मोक्खोति पातिमोक्खो. अथ वा पातो विनिपातो अस्स अत्थीति पाती, संसारो. ततो मोक्खोति पातिमोक्खो. अथ वा सब्बलोकाधिपतिभावतो धम्मिस्सरो भगवा ‘‘पती’’ति वुच्चति, मुच्चति एतेनाति मोक्खो, पतिनो मोक्खो तेन पञ्ञत्तत्ताति पातिमोक्खो. पातिमोक्खो एव पातिमोक्खो. सब्बगुणानं वा मूलभावतो उत्तमट्ठेन पति च सो यथावुत्तत्थेन मोक्खो चाति पातिमोक्खो. पातिमोक्खो एव पातिमोक्खो. तथा हि वुत्तं ‘‘पातिमोक्खन्तिआदिमेतं मुखमेतं पमुखमेत’’न्ति (महाव. १३५) वित्थारो.

अथ वा -इति पकारे, अतीति अच्चन्तत्थे निपातो, तस्मा पकारेहि अच्चन्तं मोक्खेतीति पातिमोक्खो. इदञ्हि सीलं सयं तदङ्गवसेन, समाधिसहितं पञ्ञासहितञ्च विक्खम्भनवसेन, समुच्छेदवसेन च अच्चन्तं मोक्खेति मोचेतीति पातिमोक्खो. पति पति मोक्खोति वा पातिमोक्खो, तम्हा तम्हा वीतिक्कमदोसतो पच्चेकं मोक्खोति अत्थो. पातिमोक्खो एव पातिमोक्खो. मोक्खो वा निब्बानं, तस्स मोक्खस्स पतिबिम्बभूतोति पातिमोक्खो. सीलसंवरो हि निब्बेधभागियो सूरियस्स अरुणुग्गमनं विय निब्बानस्स उदयभूतो तप्पटिभागो विय होति यथारहं किलेसनिब्बापनतोति पातिमोक्खो. पातिमोक्खोयेव पातिमोक्खो. अथ वा मोक्खं पति वत्तति मोक्खाभिमुखन्ति वा पातिमोक्खं. पातिमोक्खमेव पातिमोक्खन्ति एवमेत्थ पातिमोक्खसद्दस्स अत्थो वेदितब्बो.

आचारगोचरसम्पन्नाति कायिकवाचसिकअवीतिक्कमसङ्खातेन आचारेन चेव नवेसियगोचरतादिसङ्खातेन गोचरेन च सम्पन्ना, सम्पन्नआचारगोचराति अत्थो. अप्पमत्तेसूति अतिपरित्तकेसु अनापत्तिगमनीयेसु, दुक्कटदुब्भासितमत्तेसूति अपरे. वज्जेसूति गारय्हेसु. ते पन एकन्ततो अकुसलसभावा होन्तीति आह ‘‘अकुसलधम्मेसू’’ति. भयदस्सिनोति भयतो दस्सनसीला, परमाणुमत्तम्पि वज्जं सिनेरुप्पमाणं विय कत्वा भायनसीला. सम्मा आदियित्वाति सम्मदेव सक्कच्चं सब्बसो च आदियित्वा. सिक्खापदेसूति निद्धारणे भुम्मन्ति समुदायतो अवयवनिद्धारणं दस्सेन्तो ‘‘सिक्खापदेसु तं तं सिक्खापदं समादियित्वा सिक्खथा’’ति अत्थमाह. सिक्खापदमेव हि समादातब्बं सिक्खितब्बञ्चाति अधिप्पायो. यं किञ्चि सिक्खाकोट्ठासेसूति सिक्खाकोट्ठासेसु मूलपञ्ञत्तिअनुपञ्ञतिसब्बत्थपञ्ञत्तिपदेसपञ्ञत्तिआदिभेदं यं किञ्चि सिक्खितब्बं पटिपज्जितब्बं पूरेतब्बं सीलं. तं पन द्वारवसेन दुविधमेवाति आह ‘‘कायिकं वाचसिकञ्चा’’ति. इमस्मिं अत्थविकप्पे सिक्खापदेसूति आधारे भुम्मं सिक्खाभागेसु कस्सचि विसुं अग्गहणतो. तेनाह ‘‘तं सब्ब’’न्ति.

६५. कस्मा आरद्धन्ति (अ. नि. टी. ३.१०.७१-७४) देसनाय कारणपुच्छा. सीलानिसंसदस्सनत्थन्ति पयोजननिद्देसो. को अत्थो क्व अत्थो क्व निपातिताति? नयिदमेवं दट्ठब्बं. सीलानिसंसदस्सनत्थन्ति हि एत्थ ब्यतिरेकतो यं सीलानिसंसस्स अदस्सनं, तं इमिस्सा देसनाय कारणन्ति कस्मा आरद्धन्ति विनेय्यानं सीलानिसंसस्स अदस्सनतोति अत्थतो आपन्नो एव होतीति. तेनाह ‘‘सचेपी’’तिआदि. सीलानिसंसदस्सनत्थन्ति पन इमस्स अत्थं विवरितुं ‘‘तेस’’न्तिआदि वुत्तं. आनिसंसोति उदयो. ‘‘सीलवा सीलसम्पन्नो कायस्स भेदा परं मरणा सुगतिं सग्गलोकं उपपज्जती’’तिआदीसु (दी. नि. २.१५०; ३.३१६; अ. नि. ५.२१३; महाव. २८५) पन विपाकफलम्पि ‘‘आनिसंसो’’ति वुत्तं. को विसेसोति को फलविसेसो. का वड्ढीति को अब्भुदयो. विज्जमानोपि गुणो याथावतो विभावितो एव अभिरुचिं उप्पादेति, न अविभावितो, तस्मा एकन्ततो आनिसंसकित्तनं इच्छितब्बमेवाति दस्सेतुं विसकण्टकवाणिजो उदाहटो.

तत्थ गुळो नाम उच्छुरसं पचित्वा चुण्णादीहि मिस्सित्वा सम्पिण्डने पिण्डीभूतं. फाणितं अपिण्डितं द्रवीभूतं. खण्डं भिज्जनक्खमं. सक्खरा नाम फलिकसदिसा. सक्खरादीनिति आदि-सद्देन मच्छण्डिकानं सङ्गहो. तस्मिं काले गुळादीसु विसकण्टकवोहारो अपच्चन्तदेसे पचुरोति ‘‘पच्चन्तगामं गन्त्वा’’ति वुत्तं. दारके च पलापेसुं ‘‘विसकण्टकं मा गण्हन्तू’’ति.

पियोति पियायितब्बो. पियस्स नाम दस्सनं एकन्ततो अभिनन्दितब्बं होतीति आह ‘‘वियचक्खूहि सम्पस्सितब्बो’’ति. पीतिसमुट्ठानपसन्नसोम्मरूपपरिग्गहञ्हि चक्खु ‘‘पियचक्खू’’ति वुच्चति. तेसन्ति सब्रह्मचारीनं. मनवड्ढनकोति पीतिमनस्स परिब्रूहनतो उपरूपरि पीतिचित्तस्स उप्पादको. गरुट्ठानियोति गरुकरणस्स ठानभूतो. जानं जानातीति ञाणेन जानितब्बं जानाति. यथा वा अञ्ञे अजानन्तापि जानन्ता विय पवत्तन्ति, न एवमयं, अयं पन जानन्तो एव जानाति. पस्सं पस्सतीति दस्सनभूतेन पञ्ञाचक्खुना पस्सितब्बं पस्सति, पस्सन्तो एव वा पस्सति. एवं सम्भावनीयोति एवं विञ्ञुताय पण्डितभावेन सम्भावेतब्बो.

सीलेस्वेवस्स परिपूरकारीति सीलेसु परिपूरकारी एव भवेय्याति एवं उत्तरपदावधारणं दट्ठब्बं. एवञ्हि इमिना पदेन उपरिसिक्खाद्वयं अनिवत्तितमेव होति. यथा पन सीलेसु परिपूरकारी नाम होति, तं फलेन दस्सेतुं ‘‘अज्झत्त’’न्तिआदि वुत्तं. विपस्सनाधिट्ठानसमाधिसंवत्तनिकताय हि इध सीलस्स पारिपूरी, न केवलं अखण्डादिभावमत्तं. तेनाह ‘‘यानि खो पन तानि अखण्डानि…पे… समाधिसंवत्तनिकानी’’ति. एवञ्च कत्वा उपरि सिक्खाद्वयं सीलस्स सम्भारभावेन गहितन्ति सीलस्सेवेत्थ पधानग्गहणं सिद्धं होति. तथा हि चित्तेकग्गतासङ्खारपरिग्गहानं सीलस्सानुरक्खणभावं वक्खति. यं पन वक्खति ‘‘सिक्खत्तयदेसना जाता’’ति (म. नि. अट्ठ. १.६५), तं इतरासम्पि सिक्खानं इध गहिततामत्तं सन्धाय वुत्तं, न पधानभावेन गहिततं. यदि एवं कथं सीलस्स अप्पमत्तकतावचनं. वुत्तञ्हेतं ‘‘अप्पमत्तकं खो पनेतं, भिक्खवे, ओरमत्तक’’न्ति (दी. नि. १.७). तं पुथुज्जनगोचरं सन्धाय वुत्तं. तथा हि तत्थ न निप्पदेसतो सीलं विभत्तं, एवं कत्वा तत्थ सीलमत्तकन्ति मत्तग्गहणं समत्थितन्ति दट्ठब्बं. अनूनेनाति अखण्डादिभावेन, कस्सचि वा अहापनेन उपपन्नेन. आकारेनाति करणेन सम्पादनेन. चित्तसमथेति चित्तसमाधाने. युत्तोति अवियुत्तो पसुतो. यो सब्बेन सब्बं झानभावनं अननुयुत्तो, सो तं बहि नीहरति नाम. यो आरभित्वा अन्तरा सङ्कोचं आपज्जति, सो तं विनासेति नाम. यो पन ईदिसो अहुत्वा झानं उपसम्पज्ज विहरति, सो अनिराकतज्झानोति दस्सेन्तो ‘‘बहि अनीहटज्झानो’’तिआदिमाह.

अनिच्चस्स तेभूमकधम्मस्स, अनिच्चन्ति वा अनुपस्सना अनिच्चानुपस्सना. तथा दुक्खानुपस्सना अनत्तानुपस्सना च. तस्सेव निब्बिन्दनाकारेन पवत्ता अनुपस्सना निब्बिदानुपस्सना. विरज्जनाकारेन पवत्ता अनुपस्सना विरागानुपस्सना. निरोधस्स अनुपस्सना निरोधानुपस्सना. पटिनिस्सज्जनवसेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सना. सुञ्ञागारगतो भिक्खु तत्थ लद्धकायविवेकताय समथविपस्सनावसेन चित्तविवेकं परिब्रूहेन्तो यथानुसिट्ठं पटिपत्तिया लोकं सासनञ्च अत्तनो विसेसाधिगमट्ठानभूतं सुञ्ञागारञ्च उपसोभयमानो गुणविसेसाधिट्ठानभावापादनेन विञ्ञूनं अत्थतो तं ब्रूहेन्तो नाम होतीति वुत्तं ‘‘ब्रूहेता सुञ्ञागारान’’न्ति. तेनाह ‘‘एत्थ चा’’तिआदि. अयमेव सुञ्ञागारानुब्रूहनविञ्ञुप्पसत्थानं भाजनं, न सेनासनपतिट्ठापनन्ति दस्सेन्तो आह ‘‘एकभूमकादि…पे… दट्ठब्बो’’ति. सुञ्ञागारग्गहणेन चेत्थ अरञ्ञरुक्खमूलादि सब्बं पधानानुयोगक्खमं सेनासनं गहितन्ति दट्ठब्बं.

तण्हाविचरितदेसनाति ‘‘अज्झत्तिकस्स उपादाया’’ति (विभ. ९३७) आदिनयप्पवत्तं तण्हाविचरितसुत्तं. तण्हापदट्ठानत्ताति तण्हासन्निस्सयत्ता. न हि तण्हाविरहिता मानदिट्ठिपवत्ति अत्थि. मानदिट्ठियो ओसरित्वाति दस्सेतब्बताय मानदिट्ठियो ओगाहेत्वाति अत्थो. गहणत्थमेव हि देसेतब्बधम्मस्स देसनाय ओसरणं. तण्हामानदिट्ठियो पपञ्चत्तयं सत्तसन्तानस्स संसारे पपञ्चनतो अनुप्पबन्धनवसेन वित्थारणतो. सीलपदट्ठानत्ताति सीलाधिट्ठानत्ता.

अधिचित्तसिक्खा वुत्ताति आनेत्वा सम्बन्धो. विपस्सनावसेन सुञ्ञागारवड्ढनेति योजना. द्वेपि सिक्खाति अधिचित्ताधिपञ्ञासिक्खा. सङ्गहेत्वाति अधिसीलसिक्खाय सद्धिं सङ्गहेत्वा वुत्ता. यदि एवमयं सिक्खत्तयदेसना जाताति सिक्खत्तयानिसंसप्पकासनी सियाति अनुयोगं सन्धायाह ‘‘एत्थ चा’’तिआदि. तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव. इन्द्रियसंवरो विय पातिमोक्खसंवरस्स चतुपारिसुद्धिसीलस्स आरक्खभूता चित्तेकग्गता विपस्सना च इध गहिताति तदुभयं अप्पधानं, सीलमेव पन पधानभावेन गहितन्ति वेदितब्बं. तेनाह ‘‘सीलानुरक्खिका एवा’’तिआदि.

बलवतरसुखन्ति समुप्पन्नब्याधिदुक्खतो बलवतरं, तं अभिभवितुं समत्थं झानसुखं उप्पज्जति. बलवममत्तं होति, तेन दळ्हअत्तसिनेहेन विलुत्तहदयो कुसलधम्मे छड्डेन्तो सो तथारूपेसु…पे… पोसेता होति. बलवममत्तं वा सिनेहो न होति ‘‘सुद्धो सङ्खारपुञ्जो’’ति याथावदस्सनेन अहंकारममंकाराभावतो. दुब्भिक्खभये खुदाभिभवं सन्धायाह ‘‘सचेपिस्स अन्तानि बहि निक्खमन्ती’’ति. ब्याधिभयं सन्धायाह ‘‘उस्सुस्सति विसुस्सनी’’ति. आदि-सद्देन गहितं चोरभयं सन्धायाह ‘‘खण्डाखण्डिको वा’’ति. उभयस्साति समथविपस्सनाद्वयस्स. एत्थ च ‘‘अज्झत्तं चेतो…पे… सुञ्ञागारान’’न्ति इमेहि विसेसनिब्बेधभागियभावापादनेन सीलं रक्खितुं समत्था एव चित्तेकग्गताविपस्सना गहिता. यस्मा परतो झानविमोक्खफलाभिञ्ञाणअधिट्ठानभावो सीलस्स उद्धटो, तस्मा तस्स भिय्योपि सम्भारभूता एव चित्तेकग्गता विपस्सना तत्थ तत्थ गहिताति वेदितब्बा.

सीलादीति आदि-सद्देन यथावुत्तचित्तेकग्गताविपस्सना सङ्गण्हाति, सीलस्स वा मूलकारणभूतं सब्बं कम्मस्सकतञाणञ्च सङ्गण्हाति कम्मपथसम्मादिट्ठिं वा. सीलञ्हि तदञ्ञम्पि पुञ्ञकिरियावत्थु तेनेव परिसोधितं महप्फलं होति महानिसंसन्ति. लाभी अस्सन्ति लाभा साय संवरणसीलपरिपूरणं पाळियं आगतं किमीदिसं भगवा अनुजानातीति? न भगवा सभावेन ईदिसं अनुजानाति, महाकारुणिकताय पन पुग्गलज्झासयेन एवं वुत्तन्ति दस्सेन्तो ‘‘न चेत्था’’तिआदिमाह. तत्थ घासेसनं छिन्नकथो न वाचं पयुत्तं भणेति छिन्नकथो मूगो विय हुत्वा ओभासपरिकथानिमित्तविञ्ञत्तिपयुत्तं घासेसनं वाचं न भणे न कथेय्याति अत्थो. पुग्गलज्झासयवसेनाति सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘येसञ्ही’’तिआदिमाह. रसो सभावभूतो आनिसंसो रसानिसंसो.

पच्चयदानकाराति चीवरादिपच्चयवसेन दानकारा. ‘‘देवानं वा’’ति वुत्तवचनं पाकटीकातुमाह ‘‘देवापी’’तिआदि. ‘‘पञ्चिमे गहपतयो आनिसंसा’’तिआदीसु (दी. नि. २.१५०) अनिसंससद्दो फलपरियायोपि होतीति आह ‘‘उभयमेतं अत्थतो एक’’न्ति.

सस्सुससुरा च तप्पक्खिका च सस्सुससुरपक्खिका. ते ञातियोनिसम्बन्धेन आवाहविवाहसम्बन्धवसेन सम्बन्धा ञाती. सालोहिताति योनिसम्बन्धवसेन. एकलोहितसम्बद्धाति एकेन समानेन लोहितसम्बन्धेन सम्बद्धा. पेच्चभावं गताति पेतूपपत्तिवसेन निब्बत्तिं उपगता. ते पन यस्मा इध कतकालकिरिया कालेन कतजीवितुपच्छेदा होन्ति, तस्मा वुत्तं ‘‘कालकता’’ति. पसन्नचित्तोति पसन्नचित्तको. कालकतो पिता वा माता वा पेतयोनिं उपपन्नोति अधिकारतो विञ्ञायतीति वुत्तं ‘‘महानिसंसमेव होती’’ति, तस्स तथा सीलसम्पन्नत्ताति अधिप्पायो. अरियभावे पन सति वत्तब्बमेव नत्थि. तेनाह ‘‘अनेकानि कप्पसतसहस्सानी’’तिआदि. बहुकारन्ति बहुपकारं. उपसङ्कमनन्ति अभिवादनादिवसेन उपगमनं. पयिरुपासनन्ति उपट्ठानन्ति.

६६. अज्झोत्थरिताति मद्दिता. उक्कण्ठाति रिञ्चना अनभिरति अननुयोगो. सीलवा भिक्खु अत्तनो सीलखण्डभयेन समाहितो विपस्सको च पच्चयघातेन अरतिया रतिया च सहिता अभिभविताव होतीति आह ‘‘सीलादिगुणयुत्तेनेवा’’तिआदि.

चित्तुत्रासो भायतीति भयं. आरम्मणं भायति एतस्माति भयं. पुरिमवारसदिसत्ता वुत्तनयमेवाति अतिदिसित्वापि पुन तं दस्सेतुं ‘‘सीलादिगुणयुत्तो ही’’तिआदि वुत्तं. थेरस्स हेट्ठा निसिन्नत्ता देवताय दारका सकभावेन सण्ठातुं सुखेन वत्तितुं असक्कोन्ता असमत्था.

अधिकं चेतोति अभिचेतो, उपचारज्झानचित्तं. तस्स पन अधिकता पाकतिककामावचरचित्तेहि सुन्दरताय सपटिपक्खतो विसुद्धिया चाति आह ‘‘अभिक्कन्तं विसुद्धिचित्त’’न्ति. अधिचित्तन्ति समाधिमाह, सो च उपचारसमाधि दट्ठब्बो. विवेकजं पीतिसुखं, समाधिजं पीतिसुखं, अपीतिजं झानसुखं, सतिपारिसुद्धिजं झानसुखन्ति चतुब्बिधम्पि झानसुखं पटिपक्खतो निक्खन्ततं उपादाय ‘‘नेक्खम्मसुख’’न्ति वुच्चतीति आह ‘‘नेक्खम्मसुखं विन्दन्ती’’ति. इच्छितिच्छितक्खणे समापज्जितुं समत्थोति इमिना तेसु झानेसु समापज्जनवसीभावमाह, ‘‘निकामलाभी’’ति पन वचनतो आवज्जनाधिट्ठानपच्चवेक्खणवसियोपि वुत्ता एवाति वेदितब्बा. सुखेनेव पच्चनीकधम्मे विक्खम्भेत्वाति एतेन तेसं झानसुखखिप्पाभिञ्ञतञ्च दस्सेति. विपुलानन्ति वेपुल्लं पापितानं. झानानं विपुलता नाम सुभावितभावेन चिरतरप्पत्ति, सा च परिच्छेदानुरूपाव इच्छितब्ब्बाति ‘‘विपुलान’’न्ति वत्वा ‘‘यथापरिच्छेदेयेव वुट्ठातुं समत्थोति वुत्तं होती’’ति आह. परिच्छेदकालञ्हि अप्पत्वाव वुट्ठहन्तो अकसिरलाभी न होति यावदिच्छकं पवत्तेतुं असमत्थत्ता. इदानि तेयेव यथावुत्ते समापज्जनादिवसीभावे ब्यतिरेकवसेन विभावेतुं ‘‘एकच्चो ही’’तिआदि वुत्तं. तत्थ लाभीयेव होतीति इदं पटिलद्धमत्तस्स झानस्स वसेन वुत्तं. तथाति इच्छितिच्छितक्खणे. पारिबन्धिकेति वसीभावस्स पच्चनीकधम्मे. झानाधिगमस्स पन पच्चनीकधम्मा पगेव विक्खम्भिता, अञ्ञथा झानाधिगमो एव न सिया. किच्छेन विक्खम्भेतीति किच्छेन विसोधेति. कामादीनवपच्चवेक्खणादीहि कामच्छन्दादीनं विय अञ्ञेसम्पि समाधिपारिबन्धिकानं दूरसमुस्सारणं इध विक्खम्भनं विसोधनञ्चाति वेदितब्बं. नाळिकायन्तन्ति कालमाननाळिकायन्तं आह.

विसेसेन रूपावचरचतुत्थज्झानं सब्बसो वसीभावापादितं अभिञ्ञापादकन्ति अधिप्पायेनाह ‘‘अभिञ्ञापादके झाने वुत्ते’’ति. अरूपज्झानम्पि पन अधिट्ठानताय पादकमेव चुद्दसधा चित्तपरिदमनेन विना तदभावतो. ‘‘एवमभिञ्ञापादके रूपावचरज्झाने वुत्ते रूपावचरताय किञ्चापि अभिञ्ञानं लोकियवारो आगतो’’ति अयञ्हेत्थ अधिप्पायो. न्ति अभिञ्ञावारं. चत्तारि…पे… अरियमग्गा सीलानं आनिसंसो सम्पन्नसीलस्सेव लाभतो. परियादियित्वाति गहेत्वा.

अङ्गसन्ततायाति नीवरणादीनं पच्चनीकधम्मानं सुदूरतरभावेन झानङ्गानं वूपसन्तताय, निब्बुतसब्बदरथपरिळाहतायाति अत्थो, यतो तेसं झानानं पणीततरादिभावो. आरम्मणसन्ततायाति रूपपटिघादिविगमनेन सण्हसुखुमादिभावप्पत्तसन्तभावेन. यदग्गेन हि नेसं भावनाभिसमयसब्भावितसण्हसुखुमाकारानि आरम्मणानि सन्तानि, तदग्गेन झानङ्गानं सन्तता वेदितब्बा. आरम्मणसन्तताय सन्तता लोकुत्तरधम्मारम्मणाहि पच्चवेक्खणाहि दीपेतब्बा. विमुत्ता विसेसेन मुत्ता. ये हि झानधम्मा तथापवत्तपुब्बभागभावनाहि तब्बिसेसताय सातिसयं पटिपक्खधम्मेहि विमुत्तिवसेन पवत्तन्ति, ततो एव तथाविमुत्तताय पितु अङ्के विस्सट्ठअङ्गपच्चङ्गो विय कुमारो निरासङ्कभावेन आरम्मणे अधिमुत्ता च पवत्तन्ति, ते विमोक्खाति वुच्चन्ति. तेनाह ‘‘विमोक्खाति पच्चनीकधम्मेहि विमुत्तत्ता आरम्मणे च अधिमुत्तत्ता’’ति. यदिपि आरम्मणसमतिक्कमवसेन पत्तब्बानि आरुप्पानि, न अङ्गातिक्कमवसेन, तथापि यस्मा आरम्मणे अविरत्तस्स झानसमतिक्कमो न होति, समतिक्कन्तेसु च झानेसु आरम्मणं समतिक्कन्तमेव होति, तस्मा आरम्मणसमतिक्कमं अवत्वा ‘‘रूपावचरज्झाने अतिक्कमित्वा’’ति इच्चेव वुत्तं. अतिक्कम्म रूपेति पाळियं ‘‘सम्पादेतब्बा, पस्सितब्बा’’ति वा किञ्चि पदं इच्छितब्बं, असुतपरिकप्पनेन पन पयोजनं नत्थीति ‘‘सन्ताति पदसम्बन्धो’’ति वुत्तं. एवञ्च कत्वा तेन विरागभावेन तेसं सन्तताति अयम्पि अत्थो विभावितो होति. रूपज्झानादीनं विय नत्थि एतेसं आरम्मणभूतं वा फलभूतं वा रूपन्ति अरूपा. अरूपा एव आरुप्पा. तेनाह ‘‘आरम्मणतो च विपाकतो च रूपविरहिता’’ति. नामकायेनाति सहजातनामसमूहेन.

६७. संयोजेन्तीति बन्धन्ति. केहीति आह ‘‘खन्धगती’’तिआदि. असमुच्छिन्नरागादिकस्स हि खन्धादीनं आयतिं खन्धादीहि सम्बन्धो, समुच्छिन्नरागादिकस्स पन तं नत्थि कतानम्पि कम्मानं असमत्थभावापत्तितोति. रागादीनं अन्वयतो च संयोजनट्ठो सिद्धोति आह ‘‘खन्धगति…पे… वुच्चन्ती’’ति. परिक्खयेनाति समुच्छेदेन सब्बसो आयतिं अनुप्पज्जनेन. पटिपक्खधम्मानं अनवसेसतो सवनतो पीळनतो सोतो, अरियमग्गोति आह ‘‘सोतोति च मग्गस्सेतं अधिवचन’’न्ति. तं सोतं आदितो पन्नो अधिगच्छीति सोतापन्नो, अट्ठमको. तेनाह ‘‘तंसमङ्गीपुग्गलस्सा’’ति, पठममग्गक्खणे पुग्गलस्साति अधिप्पायो. इध पन पन्न-सद्दो ‘‘फलसच्छिकिरियाय पटिपन्नो’’तिआदीसु (अ. नि. ८.५९) विय वत्तमानकालिकोति आह ‘‘मग्गेन फलस्स नामं दिन्न’’न्ति. अभीतकालिकत्ते पन सरसतोव नामलाभो सिया. विरूपं सदुक्खं सउपायासं निपातेतीति विनिपातो, अपायदुक्खे खिपनको. धम्मोति सभावो. तेनाह ‘‘अत्तान’’न्तिआदि. कस्माति अविनिपातधम्मताय कारणं पुच्छति. अपायं गमेन्तीति अपायगमनीया. सम्बुज्झतीति सम्बोधि, अरियमग्गो. सो पन पठममग्गस्स अधिगतत्ता अवसिट्ठो एव अधिगन्धब्बभावेन इच्छितब्बोति आह ‘‘उपरिमग्गत्तय’’न्ति.

वण्णभणनत्थं वुत्तानि,न पहातब्बानीति अधिप्पायो. ओळारिकानं रागादीनं समुच्छिन्दनवसेन पवत्तमानो दुतियमग्गो अवसिट्ठानं तेसं तनुभावापत्तिया उप्पन्नो नाम होतीति वुत्तं ‘‘रागदोसमोहानं तनुत्ता’’ति. अधिच्चुप्पत्तियाति कदाचि करहचि उप्पज्जनेन. परियुट्ठानमन्दतायाति समुदाचारमुदुताय. अभिण्हं न उप्पज्जन्ति तज्जस्स अयोनिसोमनसिकारस्स अनिबद्धभावतो. मन्दमन्दा उप्पज्जन्ति विपल्लासानं तप्पच्चयानञ्च मोहमानादीनं मुदुतरभावतो. बहलाव उप्पज्जन्ति वत्थुपटिसेवनतोति अधिप्पायो. तेनाह ‘‘तथा ही’’तिआदि.

सकिं आगमनधम्मोति पटिसन्धिवसेन सकिंयेव आगमनसभावो. एकवारंयेव…पे… आगन्त्वाति इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोयेव गहितोति दस्सेन्तो ‘‘योपि ही’’तिआदिमाह. तत्थ य्वायं पञ्चमको सकदागामी ‘‘इध मग्गं भावेत्वा देवलोके निब्बत्तो, तत्थ यावतायुकं ठत्वा पुन इधूपपज्जित्वा परिनिब्बायती’’ति वुत्तो, तस्स एकबीजिना सद्धिं किं नानाकरणन्ति? एकबीजिस्स एका पटिसन्धि, सकदागामिस्स द्वे पटिसन्धियोति इदं तेसं नानाकरणं. यस्स हि सोतापन्नस्स एकंयेव खन्धबीजं, न एकं अत्तभावग्गहणं, सो एकबीजीति.

हेट्ठाति ‘‘अमहग्गतभूमिय’’न्ति हेट्ठा सम्बन्धनेन. हेट्ठाभागस्स हिताति हेट्ठाभागिया, तेसं. तानीति ओरब्भागियसंयोजनानि. कामावचरे निब्बत्ततियेव अज्झत्तं संयोजनत्ता. तथा हेस दूरतोपि आवत्तिधम्मो एवाति दस्सेतुं गिलबळिसमच्छादयो उपमाभावेन वुत्ता. ओपपातिकोति इमिना गब्भवासदुक्खाभावमाह. तत्थ परिनिब्बायीति इमिना सेसदुक्खाभावं. तत्थ परिनिब्बानता चस्स कामलोके खन्धबीजस्स अपुनारोहवसेनेवाति दस्सेतुं ‘‘अनावत्तिधम्मो’’ति वुत्तं.

६८. केवलाति लोकियाभिञ्ञाहि असम्मिस्सा. लोकियपञ्चाभिञ्ञायोपि सीलानं आनिसंसो तदविनाभावतो. तापि दस्सेतुं आकङ्खेय्य चे…पे… एवमादिमाहाति योजना. आसवानं अनवसेसप्पहानतो अरहत्तमग्गोयेव विसेसतो ‘‘आसवक्खयो’’ति वत्तब्बतं अरहतीति वुत्तं ‘‘आसवक्खये कथिते’’ति, अञ्ञथा सब्बापि छळभिञ्ञा आसवक्खयो एवाति. इमेसं गुणानन्ति लोकियाभिञ्ञानं. यथा पुरिसस्स मुण्डितं सीसं सिखाविरहितत्ता न सोभति, एवं देसनाय सीसभूतापि अग्गमग्गकथा लोकियाभिञ्ञारहिता न सोभतीति आह ‘‘अयं कथा मुण्डाभिञ्ञाकथा नाम भवेय्या’’ति. इद्धिविकुब्बनाति इद्धि च विकुब्बना च. विकुब्बनग्गहणेन चेत्थ विकुब्बनिद्धिमाह, इद्धिग्गहणेन तदञ्ञं सब्बञ्च अभिञ्ञाकिच्चं. युत्तट्ठानेयेवाति लोकियाभिञ्ञानं निब्बत्तनस्स विय देसनाय युत्तट्ठानेयेव. एतेन न केवलं देसनक्कमेनेवायं देसना, अथ खो पटिपत्तिक्कमेनपीति दस्सेति. विसुद्धिमग्गे (विसुद्धि. २.३६९) वुत्ता, तस्मा तत्थ वुत्तनयेनेव वेदितब्बाति अधिप्पायो.

६९. आसवानं खयाति हेट्ठिममग्गेन खेपितावसिट्ठानं आसवानं अरहत्तमग्गेन समुच्छिन्दनतो. यस्मा अरहत्तमग्गो न केवलं आसवेयेव खेपेति, अथ खो अवसिट्ठे सब्बकिलेसेपि, तस्मा आह ‘‘सब्बकिलेसानं खया’’ति. लक्खणमत्तञ्हेत्थ आसवग्गहणं, आसवानं आरम्मणभावस्सपि अनुपगमनतो अनासवं. यस्मा पन तत्थ आसवानं लेसोपि नत्थि, तस्मा वुत्तं ‘‘आसवविरहित’’न्ति. समाधि वुत्तो चेतोसीसेन यथा ‘‘चित्तं पञ्ञञ्च भावय’’न्ति (सं. नि. १.२३, १९२; पेटको. २२; मि. प. २.१.९) अधिप्पायो. रागतो विमुत्तत्ता अविज्जाय विमुत्तत्ताति इदं उजुविपच्चनीकपटिप्पस्सद्धिदस्सनं दट्ठब्बं, न तदञ्ञेसं पापधम्मानं अप्पटिप्पस्सद्धत्ता. इदानि तमेव समाधिपञ्ञानं रागाविज्जापटिपक्खतं आगमेन दस्सेतुं ‘‘वुत्तं चेत’’न्तिआदि वुत्तं. समथफलन्ति समथस्स फलं लोकियसमथभावनाय हि विपस्सनागताय आहितफलस्स लोकुत्तरसमथस्स सरिक्खकफलो चेतोविमुत्ति. विपस्सनाफलन्ति एत्थापि एसेव नयो. अत्तनोयेवाति सुतमयञाणादिना विय परपच्चयतं नयग्गाहञ्च मुञ्चित्वा परतोघोसानुगतभावनाधिगमभूतताय अत्तनोयेव पञ्ञाय पच्चक्खं कत्वा सयम्भुञाणभूतायाति अधिप्पायो. तेनाह ‘‘अपरप्पच्चयेन ञत्वा’’ति.

सब्बम्पि तन्ति सब्बम्पि सत्तरसविधं तं यथावुत्तं सीलानिसंसं. यथा आनिसंसवन्ते सम्मदेव सम्पादिते तदानिसंसा दस्सिता एव होन्ति तदायत्तभावतो, एवं आनिसंसपधानयोग्यभावेन दस्सिते तदानिसंसा दस्सिता एव होन्तीति आह ‘‘सम्पिण्डेत्वा दस्सेन्तो’’ति. वुत्तस्सेव अत्थस्स पुनवचनं निगमनन्ति वुत्तं ‘‘निगमनं आहा’’ति. पुब्बेति देसनारम्भे. एवं वुत्तन्ति ‘‘सम्पन्नसीला’’ति एवमादिना आकारेन वुत्तं. इदं सब्बम्पीति इदं ‘‘सम्पन्नसीला’’तिआदिकं सब्बम्पि वचनं. एतं पटिच्चाति एतं सम्पन्नसीलस्स भिक्खुनो यथावुत्तसत्तरसविधानिसंसभागितं सन्धाय वुत्तं. इदमेव हि ‘‘इति यं तं वुत्तं, इदमेतं पटिच्च वुत्त’’न्ति वचनं सन्धाय ‘‘सब्बम्पि तं सीलानिसंसं सम्पिण्डेत्वा दस्सेन्तो’’ति वुत्तं. एत्थआदितो छहि आनिसंसेहि परित्तभूमिका सम्पत्ति गहिता, तदन्तरं पञ्चहि लोकियाभिञ्ञाहि च महग्गतभूमिका, इतरेहि लोकुत्तरभूमिकाति एवं चतुभूमिकसम्पदानिसंससीलं नामेतं महन्तं महानुभावं, तस्मा तंसम्पादने सक्कच्चकारिता अप्पमत्तेन भवितब्बं.

आकङ्खेय्यसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

७. वत्थसुत्तवण्णना

७०. छादेतब्बं ठानं वसति पटिच्छादेतीति वत्थं. यं समानं विय न सब्बसो मिनोति, मानस्स पन समीपे, तं उपमानं. उपमीयति एतायाति उपमा, उपमाय बोधकवचनं उपमावचनं. कत्थचि सुत्ते. अत्थन्ति उपमियत्थं. पठमं उपमं वत्वा तदनन्तरं अत्थं वत्वा पुन उपमं वदन्तो ‘‘उपमाय अत्थं परिवारेत्वा दस्सेती’’ति वुत्तो. अत्थेन उपमं परिवारेत्वाति एत्थापि एसेव नयो. इदानि ते चत्तारोपि पकारे सुत्ते आगतनयेनेव दस्सेन्तो ‘‘सेय्यथापिस्सु, भिक्खवे’’तिआदिमाह. तत्थ द्वे अगाराति द्वे पटिविस्सकघरा. सद्वाराति सम्मुखद्वारा.

स्वायन्ति सो अयं एवं उपमादस्सनवसेनपि नानानयेनपि धम्मदेसको भगवा. एकच्चानं वेनेय्यानं अत्थस्स सुखावबोधो पठमं उपमादस्सने हेतु, एवं पठमं अत्थदस्सने, उपमाय अत्थपरिवारणे, अत्थेन उपमापरिवारणे चा’’ति इममत्थं दस्सेति ‘‘एस नयो सब्बत्था’’ति इमिना. धम्मधातुयाति सब्बञ्ञुतञ्ञाणस्स. तञ्हि धम्मधातुपरियापन्नत्ता यथावुत्तधम्मे च सब्बेपि ञेय्यधम्मे च पदहति यथासभावतो बुज्झति बोधेति चाति धातु, धीयन्ति वा धम्मा एताय सब्बाकारतो ञायन्ति ञापियन्ति चाति धम्मधातु. तस्सा पन सुट्ठु सच्चसम्पटिवेधवसेन लद्धत्ता सुप्पटिविद्धत्ताति, यदग्गेन वा ञेय्यं ताय सुप्पटिविद्धं, तदग्गेन सापिस्स सुप्पटिविद्धा एवाति आह ‘‘सुप्पटिविद्धत्ता’’ति.

पकतिपरियोदातस्स चित्तस्स आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठभावदस्सनत्थं संकिलिट्ठवत्थदस्सनन्ति कत्वा वुत्तं ‘‘पकतिपरिसुद्धं वत्थ’’न्ति. रजादिनाति एत्थरजो नाम रेणु. आदि-सद्देन अणुतज्जारिधूमादिकं वत्थस्स अपरिसुद्धिकारणं सङ्गण्हाति. सब्बसो किलिस्सति विनस्सति विसुद्धि एतेनाति संकिलेसो, तेन संकिलेसेन पंसुरजादिना संकिलिट्ठं वण्णविनासनेन विदूसितं. मलं मसि. जल्लिका वुच्चति लोणपटलादि छविया उपरि ठितं सरीरमलं. आदिसद्देन सरीरजल्लमेव अस्सुखेळसिङ्घाणिकादिकं तदञ्ञमलं सङ्गण्हाति. गहितत्ताति परियोनन्धनवसेन गहितत्ता. रजन्ति सत्ता तेनाति रङ्गं, रङ्गमेव रङ्गजातं यथा कोपमेव कोपजातं. उपनामेय्याति पक्खिपेय्य. नीलकत्थायाति नीलवण्णत्थाय. पलासनीलादिकेति आदि-सद्देन काळसामादिं सङ्गण्हाति. हलिद्दिककुधसेलादिके पीतकरङ्गे. लाखापत्तङ्गरसादिके लोहितकरङ्गे. महारजनलोद्दकन्दुलादिके मन्दरत्तरङ्गे. दुट्ठु रजितवण्णं अपभस्सरं. तेनाह ‘‘अपरिसुद्धवण्णमेवस्सा’’ति. ईदिसन्ति दुरत्तवण्णं. तस्मिं वत्थे रङ्गजातं सयं सुपरिसुद्धं समानं किस्स हेतु केन रत्तवण्णं अपरिसुद्धं होतीति रङ्गजातस्स निद्दोसतं वदति. तेनाह ‘‘यस्मा पना’’तिआदि.

संकिलेसपक्खं दस्सेन्तेन असंकिलिट्ठमेव वत्थं उदाहरितब्बन्ति पाकटोयमत्थो, संकिलिट्ठवत्थनिदस्सनेन पन ‘‘सिया नु खो अञ्ञोपि कोचि विसेसो’’ति अधिप्पायेन पुच्छति ‘‘कस्मा पना’’तिआदिना. इतरो अत्थविसेसोति दस्सेन्तो ‘‘वायाममहप्फलदस्सनत्थ’’न्तिआदिमाह. एत्थ च संकिलिट्ठचित्तविसोधनविधाने संकिलिट्ठवत्थं निदस्सतब्बन्ति पटिञ्ञा, वायाममहप्फलदस्सनत्थन्ति हेतुअत्थो. यथा हीतिआदि अन्वयत्थो. न तत्थ जातिकाळके वियातिआदि ब्यतिरेकत्थो. सदिसूदाहरणं पन मलग्गहितकंसपातिआदि दट्ठब्बं. एवं चित्तम्पीतिआदि ओपम्मत्थस्स उपमेय्यउपनयनं. तत्थ पकतियाति अकित्तिमेन सभावेन. तन्ति चित्तं. सामञ्ञग्गहणञ्चेतं चित्तभावाविसेसतो. तेनाह ‘‘सकलेपी’’ति. पण्डरमेव न संकिलिट्ठं संकिलेसेहि असमन्नागतभावतो. ननु किरियामयचित्तेहि विपाकसन्ताने विसेसाधानं लब्भति, अञ्ञथा कतविनासा कतब्भागमा आपज्जेय्युं? किञ्चापि लब्भति, तस्स संकिलेसो वट्टुपनिस्सयो, असुद्धि वा न होति, असंकिलेसो विवट्टुपनिस्सयो, विसुद्धि वा न होति एव. उपक्किलिट्ठन्ति पनेतं उपक्किलेसनारहस्स चित्तस्स वसेन वुत्तं, न विपाकपबन्धस्स. तेनाह ‘‘पभस्सरमिदं भिक्खवे चित्त’’न्ति, ‘‘पण्डरमेवा’’ति च. तञ्च खोति पन सकसन्ततिपरियापन्नताय नेसं केवलं एकत्तनयवसेन वुत्तं, न विपाकधम्मानं किलेसासमङ्गिभावतो. अथ वा उपक्किलिट्ठन्ति इमिना उपक्किलेसहेतु तत्थ विज्जमानं विसेसाधानमाह, न ‘‘संकिलिट्ठा धम्मा’’तिआदीसु (ध. स. ७७.दुकमातिका) विय तंसमङ्गितन्ति दट्ठब्बं. विसोधियमानन्ति विपस्सनापञ्ञाय अनुक्कमेन सब्बुपक्किलेसेहि विमोचियमानं. सक्का अग्गमग्गक्खणे पभस्सरतरं कातुं, यतो न पुन उपक्किलिस्सति. एवन्तिआदि वुत्तस्सेवत्थस्स निगमनं.

दुट्ठगतिपरिपूरणवसेन पटिपज्जनं पटिपत्ति. सा एव किलेसदरथपरिळाहादिवसेन उपायासदुक्खा, कुच्छिता वा गति पवत्ति, दुग्गतिहेतूति वा दुग्गति, दुग्गतिया पन पटिपत्तिया गन्धब्बतो, तस्सा वा निप्फन्नभावतो कुच्छितो, दुक्खा च गतीति दुग्गति. संकिलिट्ठचित्तोति इदं तस्सा पटिपत्तिया दुग्गतिभावदस्सनत्थं, न विसेसनत्थं. न हि असंकिलिट्ठचित्तस्स पाणघातादिवसेन पवत्ति. संकिलिट्ठचित्तोति लाभासाय सब्बसो किलिट्ठचित्तो. दूतेय्यपहिणगमनन्ति दूतेय्यं वुच्चति दुतकम्मं, गिहीनं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनं, पहिणगमनं घराघरं पेसितस्स खुद्दकगमनं, दूतेय्यगमनं पहिणगमनञ्च गच्छति. वेज्जकम्मन्ति अननुञ्ञाते ठाने लाभासाय गहट्ठानं भेसज्जं करोति. सङ्घभेदकथा परतो आगमिस्सति. वेळुदानादीहीति वेळुदानपत्तदानपुप्फदानादीहि मिच्छाजीवेन जीविकं कप्पेति. सकलम्पीति ‘‘अत्थि अनाचारो, अत्थि अगोचरो’’तिआदिना विभङ्गे (विभ. ५१३, ५१४) आगतं सब्बम्पि अनाचारं अगोचरञ्च चरणवसेन परिपूरेति.

‘‘निरयम्पि …पे… पेत्तिविसयम्पि गच्छती’’ति वत्वा तत्थ पेत्तिविसयगमनं दस्सेन्तो ‘‘समणयक्खो नाम होती’’तिआदिमाह.

सुक्कपक्खे परिसुद्धन्ति सब्बसो विसुद्धं असंकिलिट्ठं. परिसुद्धत्ता एव परियोदातं, पभस्सरन्ति अत्थो. सुरत्तवण्णमेवस्साति सुट्ठु रत्तवण्णमेव अस्स. परिसुद्धवण्णमेवस्साति नीलवण्णोपिस्स परिसुद्धो च भवेय्याति एवमादिं सन्धायाह ‘‘कण्हपक्खे वुत्तपच्चनीकेनेव वेदितब्बा’’ति. रङ्गजातन्तिआदि पन तत्थ वुत्तवसेनेव वेदितब्बं. पटिपत्तिसुगतिआदीसु यं वत्तब्बं, तं पटिपत्तिदुग्गतिआदीसु वुत्तविपरियायेन वेदितब्बं. परिसुद्धचित्तोति सुद्धासयो. दस कुसलकम्मपथे परिपूरेतीति इदं कण्हपक्खे ‘‘दस अकुसलकम्मपथे परिपूरेती’’ति वुत्तस्स पटिपक्खदस्सनवसेन वुत्तं. यथा हि तत्थ अभिज्झाब्यापादमिच्छादिट्ठिग्गहणेन कम्मपथसंसन्दननयेन कम्मपथं अप्पत्ताय च अगारियस्स तथारूपाय मिच्छापटिपत्तिया सङ्गहो इच्छितो, एवं इधापि अनभिज्झाअब्यापादसम्मादिट्ठिग्गहणेन अलोभादोसामोहवसेन पवत्ता अगारियस्स सम्मापटिपत्ति सङ्गहिताति दट्ठब्बं, न कम्मपथप्पत्तावाति. मनुस्समहन्ततन्ति जातिरूपभोगाधिपतेय्यादिवसेन मनुस्सेसु महन्तभावं. दसहि ठानेहि अञ्ञेसं देवानं अभिभवो देवमहन्तता. पटिपत्ति सुगतिया भाजियमानत्ता ‘‘अनागामिमग्गं भावेती’’ति तथा अनागामिभावनं पापेत्वा ठपिता. गहितग्गहणेन सुखानुभवट्ठानस्स अधिप्पेतत्ता तदभावतो असञ्ञिभवं अनादियन्तो ‘‘दससु वा ब्रह्मभवनेसू’’तिआदिमाह.

७१. सकभण्डे छन्दरागो अभिज्झायनट्ठेन अभिज्झा, अभिज्झायनाति अत्थो. परभण्डे छन्दरागो विसमं लुब्भतीति विसमलोभो. एवम्पि अभिज्झाविसमलोभानं विसेसो होतीति दस्सेन्तो ‘‘अथ वा’’तिआदिमाह. तत्थ अत्तनो सन्तकं तंसदिसञ्च युत्तट्ठानं. यं याचितं, अप्पकसिरेन वा सक्का लद्धुं, तं पत्तट्ठानं. परदारगरुदाराति अयुत्तट्ठानं. यं अपत्थनियं, यस्स वा पत्थनाय ब्यसनं आपज्जति, तं अप्पत्तट्ठानं. थेरोति महासङ्घरक्खितत्थेरो, येन अट्ठकथा पोत्थकं आरोपिता. सो हि अन्तेवासिकेसु साकच्छन्तेसु एवमाह. सोपि इमस्मिंयेव सुत्ते विनिब्भोगो न लब्भति चित्तसंकिलेसस्स अधिप्पेतत्ता. तेनाह ‘‘युत्ते वा’’तिआदि. अयोनिसोमनसिकारवसेन उप्पज्जनतो सम्पत्ति आयतिञ्च दुक्खस्सेव उप्पादनतो न कोचि लोभो अविसमो नाम. अभिज्झायनट्ठेनाति यस्स कस्सचि आरम्मणस्स युत्तस्स अयुत्तस्स अप्पत्तस्स च अभिज्जायनवसेन अभिपत्थनावसेन च पवत्ता तण्हा अभिज्झाति लोभतो निब्बिसेसन्ति दस्सेति. तेनाह ‘‘एकत्थमेतं ब्यञ्जनमेव नान’’न्ति. दूसेतीति सभावसन्तं असंकिलेसं विनासेति अविसुद्धं करोति. तेनाह ‘‘ओभासितुं न देती’’ति. ‘‘इमे सत्ता उच्छिज्जन्तु विनस्सन्तू’’ति सत्तेसु ब्यापज्जनाकारप्पवत्तिया ब्यापादो नवविधआघातवत्थुसम्भवो वुत्तो. कोधो पन सङ्खारेसुपि पवत्तनतो दसविधआघातवत्थुसम्भवो वुत्तो. उभयम्पि पटिघमेव, पवत्तनानत्ततो भिन्दित्वा वुत्तो. कुज्झनवसेनेव चित्तपरियोनन्धनो ‘‘अक्कोच्छि मं अवधि म’’न्तिआदिना.

सुट्ठु कतं करणं सुकतं, तस्स पुब्बकारितालक्खणस्स गुणस्स विनासनो उदकपुञ्छनिया विय सरीरानुगतं उदकं पुञ्छन्तो मक्खो. तथा हि सो परेसं गुणानं मक्खनट्ठेन ‘‘मक्खो’’ति वुच्चति. इदानि अनगारियस्स वातिआदिना सङ्खेपेन वुत्तत्थं वित्थारेन दस्सेतुं ‘‘अनगारियोपी’’तिआदि वुत्तं. निसिन्नकथापरिकथादिवसेन धम्मस्स कथा धम्मकथानयो, एकत्तादिधम्मनीति एव वा. पकरणं सत्त पकरणानि, तत्थ कोसल्लं धम्मकथानयपकरणकोसल्लं. आदि-सद्देन विनयक्कमे चतूसु महानिकायेसु च कोसल्लं सङ्गण्हाति. अचित्तीकतोति चित्तीकाररहितो. यथा चायन्ति इमिना यथायं मक्खो चित्तं दूसेति, एवं पळासोपि चित्तं दूसेति, तस्मा उपक्किलेसोति दस्सेति. अनियता गति नियामोक्कमनाभावतो. आदि-सद्देन ‘‘रत्तञ्ञू चिरपब्बजिते पुग्गले अज्झोत्थरित्वा ‘त्वम्पि इमस्मिं सासने पब्बजितो, अहम्पि पब्बजितो, त्वम्पि सीलमत्ते ठितो अहम्पी’ति’’ एवमादीनं सङ्गहो. युगग्गाहगाहीति ‘‘तव वा मम वा को विसेसो’’ति असमम्पि समं कत्वा समधुरग्गाहगण्हनको. खीयना उसूयना. अत्तनो सम्पत्तिया निगूहनं तस्स परेहि साधारणभावासहनेन होतीति ‘‘परेहि साधारणभावं असहमानं’’इच्चेव वुत्तं. कारणे हि गहिते फलम्पि गहितमेव होतीति. अञ्ञथा अत्तनो पवेदनकपुग्गलो केराटिको, ‘‘नेकतिकवाणिजो’’तिपि वदन्ति. सप्पमुखा मच्छवाला एका मच्छजाति आयतनमच्छो. तेनाह ‘‘आयतनमच्छो नामा’’तिआदि. बद्धचरोति अन्तेवासी.

सब्बसो अमद्दितसभावेन वा तभरितभत्तसदिसस्स थद्धभावस्स अनोनमितदण्डसदिसताय पग्गहितसिरअनिवातवुत्तिकारस्स च करणतो वा तभरित…पे… करणो. तदुत्तरिकरणोति यं येन कतं दुच्चरितं वा सुचरितं वा, तदुत्तरि, तस्स द्विगुणं वा करणो. अत्तनो मण्डनादिअत्थं परेन कतं अलङ्कारादिं. परियापुणाति वा कथेति वा अत्तनो बलानुरूपं. कामं निकायद्वयग्गहणादिवसेन पवत्तो सेवितब्बमानो एव, तथापिस्स संकिलेसपक्खत्ता वुत्तं ‘‘मानं अनिस्साया’’ति.

उण्णतिवसेनाति ‘‘सेय्योहमस्मी’’तिआदिना चित्तस्स पग्गहणवसेन. पुब्बे केनचि अत्तानं सदिसं कत्वा पच्छा ततो अधिकतो दहनतो उप्पज्जनको अतिमानो. मदग्गहणाकारो जातिआदिं पटिच्च मज्जनाकारो, सोपि अत्थतो मानो एव. पमादो तथापवत्तो चित्तुप्पादो.

तस्मा लोभमादिं कत्वा दस्सेतीति लोभस्स आदितो गहणे कारणं विभावेतुकामो पुच्छति. पठमुप्पत्तितोति तत्थ तत्थ भवे सब्बपठमं उप्पज्जनतो. सत्तानञ्हि यथाधिगतं झानादिविसेसं आरब्भ पच्चवेक्खणा विय यथालद्धं उपपतिभवं आरब्भ निकन्ति एव. तेनाह ‘‘सब्बसत्तान’’न्तिआदि. यथासम्भवं इतरेति इतरे ब्यापादादयो यथापच्चयं उप्पज्जन्ति, लोभस्स विय आदितो असुकस्स अनन्तरं असुकोति वा न नेसं नियमो अत्थीति अत्थो. किं पन एते सोळसेव चित्तस्स उपक्किलेसा, उदाहु अञ्ञेपि सन्तीति अनुयोगं सन्धाय अञ्ञेपि सन्तीति दस्सेन्तो ‘‘न च एते’’तिआदिमाह. यदि एवं कस्मा एत्तका एव इध वुत्ताति. नयदस्सनवसेनाति दस्सेन्तो आह ‘‘एतेन पन…पे… वेदितब्बा’’ति. तेन थिनमिद्धउद्धच्चकुक्कुच्च-विचिकिच्छा-अत्तुक्कंसन-परवब्भनछम्भितत्ता- भीरुकता-अहिरिकानोत्तप्प-अत्तिच्छता-पापिच्छता-महिच्छतादयो सङ्गहिताति वेदितब्बं.

७२. संकिलेसं दस्सेत्वाति संकिलिट्ठवत्तनिदस्सनेन सङ्खेपेन वुत्तं संकिलेसं विभागेन दस्सेत्वा. वोदानं दस्सेन्तोति एत्थापि एसेव नयो. एवं जानित्वाति ‘‘अभिज्झा विसमलोभो एकन्तेनेव चित्तस्स उप्पक्किलेसो’’ति सभावतो समुदयतो निरोधतो निरोधूपायतो च पुब्बभागपञ्ञाय चेव हेट्ठिममग्गद्वयपञ्ञाय च जानित्वा. पजहतीति एत्थ अच्चन्तप्पहानमेव अधिप्पेतन्ति दस्सेन्तो ‘‘समुच्छेदप्पहानवसेन अरियमग्गेन पजहती’’ति आह. अरियमग्गेनाति अनागामिमग्गेन. तेन हि पहानं इध सब्बवारेसु अधिप्पेतं. किलेसपटिपाटि इध किलेसानं देसनाक्कमो. मग्गपटिपाटिपन चतुन्नं अरियमग्गानं देसनाक्कमोपि ताय देसनाय पटिपज्जनक्कमोपि ताय पटिपत्तिया उप्पत्तिक्कमोपि. तत्थ ये ये किलेसा येन येन मग्गेन पहीयन्ति, मग्गपटिपाटिं अनोलोकेत्वा तेसं तेसं किलेसानं तेन तेन मग्गेन पहानदस्सनं किलेसपटिपाटि न किलेसानं उप्पत्तिक्कमो इध देसनाक्कमो चाति दस्सेन्तो ‘‘अभिज्झा विसमलोभो’’तिआदिमाह. येन येन पन मग्गेन ये ये किलेसा पहीयन्ति मग्गानुपुब्बिया, तेन तेन मग्गेन तेसं तेसं किलेसानं पहानदस्सनं मग्गपटिपाटिया पहानदस्सनन्ति दस्सेन्तो ‘‘सोतापत्तिमग्गेना’’तिआदिमाह.

इमस्मिं पन ठानेति ‘‘स खो सो, भिक्खवे, भिक्खू’’तिआदिना आगतो इमस्मिं पहानवारे. इमे किलेसाति इमे यथावुत्ता किलेसा. सोतापत्तिमग्गवज्झा वा होन्तु सेसमग्गवज्झा वाहेट्ठा दस्सितमग्गपटिपाटिवसेन. तत्थ पन ये ततियमग्गवज्झा, तेसं अनागामिमग्गेनेव पहाने वत्तब्बं नत्थि, येसं पनेत्थ हेट्ठिममग्गवज्झानं इध सङ्गहे कारणं पच्छा वत्तुकामेन अग्गमग्गवज्झानं अनादियित्वा कस्मा ततियमग्गवज्झानमेव गहणं कतन्ति आह ‘‘अयमेत्थ पवेणिमग्गागतो सम्भवो’’ति, अयं इमस्स सुत्तस्स एतस्मिं ठाने आचरियपवेणिया कथामग्गो ततो आगतो अत्थसम्भवो अत्थतत्वन्ति अत्थो. तत्थ हेट्ठिममग्गवज्झानं इध सङ्गहे कारणं पच्छा वत्तुकामो अग्गमग्गवज्झानं अग्गहणे युत्तिं दस्सेन्तो ‘‘सो चा’’तिआदिमाह. तेनाति चतुत्थमग्गेन. सेसानन्ति ब्यापादादीनं. येपीति मक्खादिके सन्धायाह. तंसमुट्ठापकचित्तानन्ति तेसं मक्खादीनं समुट्ठापकचित्तुप्पादानं. तत्थ मक्ख-पळास-इस्सा-मच्छरिय-समुट्ठापकं पटिघद्वयचित्तं, विसेसतो पञ्चकामगुणलोभेन सठो मायावी च होति, पञ्चकामगुणिकरागो च अनागामिमग्गेनेव निरवसेसतो पहीयति, तस्मा वुत्तं ‘‘तंसमुट्ठापकचित्तानं अप्पहीनत्ता’’ति. तेपि सुप्पहीना होन्तीति सम्बन्धो. न्ति पठममग्गेनेव पहानं पुब्बापरेन न सन्धियति ‘‘यथोधि खो’’ति एत्थ ओधिवचनस्स मग्गत्तयवाचकत्ता. रतनत्तये अवेच्चप्पसादो नाम अरियकन्तसीलं विय सोतापन्नस्स अङ्गानि, ते च पहानतो पच्छा निद्दिट्ठा, तस्मा इध वुत्तप्पहानं विक्खम्भनपहानमेवाति केचि वदन्ति. तेसं इच्छामत्तमेव यथावुत्तपहानस्सेव वसेन अवेच्चप्पसादानं ओधिसो पहानस्स विभावितत्ता, स्वायमत्थो हेट्ठा युत्तितोपि पकासितोयेव.

७४. एकमेकेन पदेन योजेतब्बं, यतो एकमेकस्सपि उपक्किलेसस्स सभावादितो दस्सनं निय्यानमुखं होति, तथा चेव हेट्ठा संवण्णितं. अनागामिमग्गवसेन पहानं वत्वा पसादस्स उद्धटत्ता वुत्तं ‘‘अनागामिमग्गेन लोकुत्तरप्पसादो आगतो’’ति. यदि एवं कस्मा ‘‘लोकियो उप्पज्जती’’ति वुत्तन्ति? ‘‘इतिपि सो भगवा’’तिआदिनयप्पवत्तस्स लोकियत्ता. निब्बानारम्मणो एव हि लोकुत्तरो पसादो. ‘‘इतिपि सो भगवा’’तिआदिवचनेन लोकियं, अवेच्चप्पसादवचनेन लोकुत्तरन्ति लोकियलोकुत्तरमिस्सकं पसादं दस्सेन्तो. अवेच्च रतनत्तयगुणे याथावतो ञत्वा पसादो अवेच्चप्पसादो. सो पन यस्मा मग्गेनागतत्ता केनचि अकम्पनियो अप्पधंसियो च होति, तस्मा वुत्तं ‘‘अचलेन अच्चुतेना’’ति. तत्थ लोकुत्तरो सब्बसो बुद्धगुणादीसु सम्मोहं विद्धंसेन्तो तत्थ किच्चतो पवत्तति, इतरो आरम्मणवसेन ते आरब्भ. तं विधिन्ति तं तस्स उप्पन्नप्पकारं. अनुस्सतिट्ठानानीति अनुस्सतिकम्मट्ठानानि.

७५. सोमनस्सादीति आदि-सद्देन ञाणादीनि सङ्गण्हाति. चोरानं अभिण्हं सञ्चरणट्ठानताय पच्चन्तग्गहणं. पच्चवेक्खतोति ‘‘असुकस्मिञ्च ठाने इमे चिमे चोरा एवञ्च एवञ्च विनासिता’’ति पच्चवेक्खतो रञ्ञो विय.

यो यो ओधि यथोधि. यथा-सद्दो ब्यापनिच्छायं, खो सद्दो अवधारणेति दस्सेन्तो ‘‘सकसकओधिवसेन चत्तमेव होती’’तिआदिमाह. तेन ‘‘वन्त’’न्तिआदीसुपि अवधारेतब्बन्ति दस्सेति. सकसकओधिवसेनाति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘द्वे ओधी’’तिआदि आरद्धं. तत्थ यंमग्गवज्झाति येन मग्गेन अनवसेसतो पहातब्बा. अनवसेसप्पहानवसेन हि तंतंमग्गवज्झानं किलेसानं तदञ्ञमग्गवज्झेहि असम्मिस्सता, अञ्ञथा ये सकसकओधिवसेन उपरिमग्गवज्झा, ते हेट्ठिममग्गेहि पहीनापायगमनीयादिसभावा एव तेहि पहीयन्तीति पहानवसेन सम्मिस्सा सियुं. तेन तेयेव पहीना होन्तीति एत्थापि एसेव नयो. ततुत्तरिपीति ततो पहाननिमित्तसोमनस्सुप्पत्तितो उद्धम्पि. पटिपक्खेसु ओधिसो पवत्तिकिच्चत्ता ओधीति हेट्ठा तयो मग्गा वुच्चन्ति. ते हीतिआदि वुत्तस्सेवत्थस्स विवरणं. इमस्स भिक्खुनोति अनागामिं सन्धायाह. तेन वुत्तं ‘‘हेट्ठामग्गत्तयेन चत्त’’न्ति.

केचि चत्तम्पि गण्हन्ति, नयिदमेवन्ति दस्सनत्थं ‘‘वन्त’’न्ति वुत्तं. न हि यं येन वन्तं, सो पुन तं आदियति. तेनाह ‘‘अनादियनभावदस्सनवसेना’’ति. वन्तम्पि किञ्चि ससन्ततिलग्गं सिया, नयिदमेवन्ति दस्सनत्थं ‘‘मुत्त’’न्ति वुत्तं. तेनाह ‘‘सन्ततितो विनिमोचनवसेना’’ति. मुत्तम्पि किञ्चि मुत्तबन्धना विय फलं कुहिञ्चि तिट्ठति, न एवमिदन्ति दस्सनत्थं ‘‘पहीन’’न्ति वुत्तं. तेनाह ‘‘क्वचि अनवट्ठानदस्सनवसेना’’ति. यथा किञ्चि दुन्निस्सट्ठं पुन आदाय सम्मदेव निस्सट्ठं पटिनिस्सट्ठन्ति वुच्चति, एवं विपस्सनाय निस्सट्ठं आदिन्नसदिसं मग्गेन पहीनं पटिनिस्सट्ठं नाम होतीति दस्सनत्थं ‘‘पटिनिस्सट्ठ’’न्ति वुत्तं. तेनाह ‘‘आदिन्नपुब्बस्स पटिनिस्सग्गदस्सनवसेना’’ति. न कापुरिसेन विय परम्मुखेन निस्सट्ठं, अथ खो अभिमुखेनेव निस्सट्ठन्ति दस्सनत्थं ‘‘पटिनिस्सट्ठ’’न्ति वुत्तं. तेनाह ‘‘पटिमुखं वा’’तिआदि. उपगन्तब्बतोति अत्तनो हितसुखं पच्चासीसन्तेन एकन्तेन अधिगन्तब्बतो. धारणतोति तंसमङ्गीनं अपायपाततो सन्धारणेन. गन्थो ‘‘वेदो’’ति वुच्चति ‘‘विदन्ति एतेना’’ति, वेदेहि ञाणेहि गतो पटिपन्नोति वेदगू. अभिजञ्ञाति जानेय्य. वेदजाताति उप्पन्नसोमनस्सा. ञाणं ‘‘वेदो’’ति वुच्चति ‘‘वेदितब्बं वेदेती’’ति. सोमनस्सं ‘‘वेदो’’ति वुच्चति आरम्मणरसं विन्दति अनुभवतीति.

उप्पन्नन्ति अवेच्चप्पसादं निस्साय उप्पन्नं. वुत्तप्पकारमेव वेदन्ति ‘‘सोमनस्सं सोमनस्समयञाणञ्चा’’ति एवं वुत्तप्पकारमेव. अत्थवेदन्ति अत्थे हेतुफले वेदं. धम्मवेदन्ति धम्मे हेतुम्हि वेदं. तेनाह ‘‘अवेच्चप्पसादस्स हेतु’’न्तिआदि. इध धम्मत्थसद्दा हेतुफलपरियायाति इममत्थं पाळिया एव दस्सेतुं ‘‘वुत्तञ्हेत’’न्तिआदि वुत्तं. तमेव अत्थञ्च धम्मञ्चाति अत्थो धम्मोति च वुत्तं अवेच्चप्पसादनिमित्तं यथावुत्तं किलेसप्पहानञ्च. अत्थधम्मानिसंसभूतं वेदन्ति यथावुत्तअत्थधम्मानिसंसभूतं सोमनस्समयञाणसङ्खातं वेदञ्च. पामोज्जन्ति तरुणपीतिं आह. पच्चवेक्खणाकारप्पवत्तेनाति एतेन पच्चवेक्खणा एवेत्थ अनवज्जसभावताय धम्मोति वुत्तोति दट्ठब्बं. पीति जायतीति परप्पच्चयं बलवपीतिमाह. पीणितमनस्साति पस्सद्धिआवहेहि उळारेहि पीतिवेगेहि तित्तचित्तस्स. कायोति नामकायो. वूपसन्तदरथोति किलेसपरिळाहानं दूरीभावेन सुट्ठु उपसन्तदरथो. पच्चवेक्खणहेतुकं चित्तस्स समाधानं इध अधिप्पेतन्ति आह ‘‘अप्पितं विय अचलं तिट्ठती’’ति.

७६. कामं ‘‘बुद्धे अवेच्चप्पसादेन समन्नागतोम्हि, धम्मे सङ्घे अवेच्चप्पसादेन समन्नागतोम्ही’’ति इदम्पि तस्सा पच्चवेक्खणाय पवत्तिआकारपकासनमेव, इदं पन विसेसतो रतनत्तये उप्पन्नसोमनस्सादिप्पकासनपदं. ‘‘यथोधि खो पना’’ति इदम्पि सविसेसं पच्चवेक्खणाकारप्पकासनपदन्ति अधिप्पायेन ‘‘इदानि यथोधि…पे… पकासेत्वा’’ति वुत्तं. चत्तारोपि पन वारा पच्चवेक्खणाकारप्पकासनवसेन चेव सोमनस्सादिआनिसंसदस्सनवसेन च वुत्ताति सक्का विञ्ञातुं उभयत्थापि उभयस्स वुत्तत्ता. यदिपि अरियमग्गो एकचित्तक्खणिको न पुन उप्पज्जति, पटिपक्खस्स पन तेन सुप्पहीनत्ता तंसमङ्गी अपरिहानधम्मो तंसीलादिभावेनेव वुच्चतीति आह ‘‘तस्स अनागामिमग्गसम्पयुत्तं सीलक्खन्धं दस्सेती’’तिआदि. ‘‘एवंधम्मा ते भगवन्तो अहेसु’’न्तिआदीसु (दी. नि. २.१३; म. नि. ३.१९७-१९८; सं. नि. ५.३७८) विय इध धम्म-सद्दो समाधिपरियायोति आह ‘‘समाधिक्खन्धं पञ्ञाक्खन्धञ्च दस्सेती’’ति. तथा हि सो सम्पयुत्तधम्मे एकारम्मणे अविक्खिपमाने अविप्पकिण्णे अविसटे कत्वा समं, सम्मा च आदहन्तो तथा ते धारेतीति च वत्तब्बतं अरहतीति धम्मोति च वुच्चति. अनेकरूपानन्ति अनेकप्पकारानं. अन्तरायो नाम अप्पटिलद्धस्स वा अलब्भनवसेन, पटिलद्धस्स वा परिहानवसेन, तदुभयम्पि इध नत्थीति दस्सेन्तो ‘‘मग्गस्स वा’’तिआदिमाह. नेवस्स तं होति अन्तरायायाति तस्स अनागामिनो पिण्डपातभोजनं नेव होति अन्तरायाय उक्कंसगताय पच्चवेक्खणाय पच्चवेक्खित्वा परिभुञ्जनतो. तञ्चस्सा उक्कंसगमनं हतपटिपक्खत्ताति दस्सेन्तो ‘‘मग्गेन विसुद्धचित्तत्ता’’ति आह.

एत्थाति एतस्मिं अन्तरायाभावे. एतदेव विसुद्धचित्तत्तमेव कारणं. एत्थ च ‘‘नेवस्स तं होति अन्तरायाया’’ति इमिना हेट्ठा वुत्तप्पहानं अनागामिमग्गेनेवाति सिद्धं होति. अनागामिनो हि सब्बसो कामरागो पहीनो होति, रसतण्हाय अभावतो तादिसपिण्डपातपरिभोगो अग्गमग्गाधिगमे कथञ्चिपि अन्तरायाय न होतीति. ‘‘सेय्यथापि, भिक्खवे, वत्थ’’न्ति वदन्तो भगवाआदिम्हि अत्तना उपनीतवत्थूपमं अनुसन्धेति. उदकस्स अच्छभावो पङ्कसेवालपणकादिमलाभावेन पसन्नताय, तब्बिपरियायतो बहलताति आह ‘‘अच्छन्ति विप्पसन्न’’न्ति. वण्णनिभाय विगतसंकिलेसताय समुज्जलनं पभस्सरताय वत्थस्स, तं परियोदातन्ति वत्तब्बतं लभतीति आह ‘‘परियोदातं पभस्सरताया’’ति. उक्कं बन्धेय्याति अङ्गारकपल्लं यथा दारुघटिकङ्गारादिकेन न भिज्जति, एवं तनुमत्तिकालेपादिना बन्धेय्य. मेघपटलतो वेरम्भवातधारासङ्घट्टनतो विज्जुता विय केवलं वातधारासङ्घट्टनजनिता पभा उक्कापभा, सा पन यस्मा द्विन्नं वातधारानं वेगसम्भूतसङ्घट्टनहेतुका, तस्मा कारणवसेन ‘‘वातवेगो उक्का’’ति वुत्तं.

७७. यथानुसन्धिवसेनातिआदिम्हि उट्ठितदेसनाय अनुरूपा अनुसन्धि यथानुसन्धि, तस्सा वसेन. ब्यतिरेकदस्सनं विय हि साधेतब्बस्स आदिम्हि उट्ठितदेसनाय पटिपक्खदस्सनम्पि अनुरूपदेसनाव सम्मदेव पतिट्ठापनभावतो, यथा तं आवत्तहारयोजनायं विसभागधम्मावत्तन्ति दट्ठब्बं. ‘‘यथानुसन्धिवसेन देसना आगता’’ति सङ्खेपतो वुत्तमत्थं वित्थारेन्तो तप्पसङ्गेन इतरेपि अनुसन्धी दस्सेतुं ‘‘तयो ही’’तिआदिमाह. बहिद्धाति बाहिरेसु वत्थूसु. असति परितस्सनाति तण्हादिट्ठिपरितस्सनाभावो. विस्सज्जितसुत्तवसेनाति ‘‘इध भिक्खु एकच्चस्सा’’तिआदिना (म. नि. १.२४२) विस्सज्जितसुत्तवसेन. येन धम्मेनाति सीलादिवोदानधम्मेसु अक्खन्तियादिसंकिलेसधम्मेसु च येन येन धम्मेन. छ अभिञ्ञा आगताति इमिना ‘‘अनुरूपधम्मवसेन वा’’ति वुत्तविकप्पं दस्सेति, सेसेहि ‘‘पटिपक्खवसेन वा’’ति वुत्तविकप्पं. अक्खन्तिया हि ककचूपमोवादो (म. नि. १.२२२) पटिपक्खो, तथा दिट्ठिया ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति एवं पटिभागा सुञ्ञताकारेन. सेसद्वयेपि एसेव नयो. ‘‘चित्ते संकिलिट्ठे दुग्गति पाटिकङ्खा’’ति (म. नि. १.७०) हेट्ठा किलेसदेसना आगता. सब्बोति अनवसेसो. सब्बाकारेनाति आदीनवानिसंसपच्चवेक्खणपुग्गलदोसजाननादिना सब्बप्पकारेन.

७८. ‘‘मेत्ता भावेतब्बा ब्यापादस्स पहानाया’’तिआदिवचनतो (अ. नि. ९.१) मेत्तादयो ब्यापादविहेसारतिरागानं पटिपक्खा. यस्मा ‘‘सो अत्थी’’तिआदिना भगवता अनागामिनो अग्गमग्गाधिगमनं चतुसच्चकम्मट्ठानं मत्थकं पापेत्वा कथितं, तस्मा तं दस्सेन्तो ‘‘इदानिस्सा’’तिआदिमाह.

ब्रह्मविहारधम्मेति ब्रह्मविहारे चेव ब्रह्मविहारसहगतधम्मे च. तेनाह ‘‘नामवसेना’’ति. ववत्थपेत्वाति आनेत्वा सम्बन्धितब्बं. नामन्तिपि हि ईदिसेसु ठानेसु चत्तारो अरूपिनो खन्धा वुच्चन्ति. इमिना नयेनाति एतेन भूतनिस्सितानं सेसुपादायधम्मानं सब्बेसम्पि पहातब्बतण्हावज्जानं तेभूमकधम्मानं परिग्गहविधिं उल्लिङ्गेति. सभावतो विज्जमानं तं अत्तपच्चक्खं कत्वा ञाणेन याथावतो पटिविज्झियमानतं उपादाय ‘‘अत्थि इद’’न्ति यथाववत्थापितं नामरूपं. तेनेवाह ‘‘एत्तावतानेन दुक्खसच्चववत्थानं कतं होती’’ति. सावधारणञ्चेतं वचनं, लोकसमञ्ञासिद्धं सत्तइत्थिपुरिसादि विय, इतो बाहिरकपरिकप्पितं पकतिआदि द्रब्यादि जीवादि कायादि विय च न परमत्थतो नत्थि, अत्थेवाति वुत्तं होति. पजानातीति पुब्बभागे ताव लक्खणरसादिवसेन चेव पटिग्गहविभागवसेन च पकारतो जानाति, अपरभागे पन परिञ्ञाभिसमयवसेन पटिविज्झन्तो जानाति. एकन्तहीना नाम अकुसलधम्मा सम्पति आयतिञ्च दुक्खमूलत्ता, तत्थापि विसेसतो तण्हाति आह ‘‘दुक्खस्स समुदयं पटिविज्झन्तो अत्थि हीनन्ति पजानाती’’ति. अत्तनो पच्चयेहि पधानभावं नीतत्ता पणीतन्ति इमिना अत्थेन अरियमग्गोव ‘‘पणीत’’न्ति वुच्चतीति आह ‘‘पहानुपायं विचिनन्तो अत्थि पणीतन्ति पजानाती’’ति. ‘‘उत्तमट्ठेन च पणीत’’न्ति वुच्चमाने निरोधसच्चस्सपि सङ्गहो सिया, तस्स पन पदन्तरेन सङ्गहितत्ता वुत्तनयेनेवेत्थ अत्थो वेदितब्बो. अप्पमञ्ञामुखेन विपस्सनाभिनिवेसस्सेव कतत्ता ‘‘ब्रह्मविहारसञ्ञागतस्सा’’ति वुत्तं. ‘‘सब्बस्सपि तेभूमकस्स सञ्ञागतस्सा’’ति वत्तुं वट्टतियेव. न चेत्थ असङ्गहो तस्सापि सञ्ञाय आगतभावतो. लोकं उत्तरित्वा समतिक्कमित्वा निस्सरित्वा विसंयुत्तं हुत्वा ठितत्ता वुत्तं ‘‘उत्तरि निस्सरणं निब्बान’’न्ति.

चतूहि आकारेहीति ‘‘अत्थि हीन’’न्तिआदीहि चतूहि पकारेहि. अन्वयञाणताय अनुबोधभूताय विपस्सनापञ्ञाय जाननत्थो धम्मञाणताय पटिवेधभूताय मग्गपञ्ञाय दस्सनत्थो सभावसिद्धोति दस्सेन्तो ‘‘विपस्सनापञ्ञाय चत्तारि सच्चानि जाननतो मग्गपञ्ञाय पस्सतो’’ति वुत्तं. भयभेरवे वुत्तनयेनेवाति भयभेरवसुत्तवण्णनायं अत्तना वुत्तअत्थवचनत्थपाठेन इध पाठस्स सदिसत्ता अतिदिसन्तो ‘‘कामासवापि…पे… पजानाती’’ति आह. एत्थ च यस्मा ‘‘कामासवापि चित्तं विमुच्चति…पे… अविज्जासवापि चित्तं विमुच्चती’’ति ‘‘खीणा जाती’’तिआदीनि वदता भगवता चतुत्थमग्गो निद्दिट्ठो, तस्मा यं हेट्ठा अट्ठकथायं वुत्तं ‘‘सो च उपरि चतुत्थमग्गस्सेव निद्दिट्ठत्ता युज्जती’’ति, तं सुवुत्तमेवाति दट्ठब्बं.

तस्स चोदनत्थायाति तस्स ब्राह्मणस्स भगवा अत्तनो चोदनत्थाय ‘‘पुच्छ मं त्वं ब्राह्मण यदेत्थ तया मनसाभिसमीहित’’न्ति चोदनाय, ओकासदानत्थायाति अधिप्पायो. देसनासन्निस्सयो ब्राह्मणस्स तथारूपो एत्थ अज्झासयोपि नत्थीति यथावुत्तअनुसन्धित्तयविनिमुत्तत्ता ‘‘पाटियेक्कं अनुसन्धिं आहा’’ति वुत्तं. चित्तगतत्ता अब्भन्तरेन. किलेसवुट्ठानसिनानेनाति किलेसमलपवाहनेन रागपरिळाहादिवूपसमकरेन च अट्ठङ्गिकअरियमग्गसलिलसिनानेन.

७९. धम्मसभामण्डपं तावदेव उपगतत्ता बाहुका नदितो आगतं विय मञ्ञमानो. अरियफलमद्दनचुण्णादयो तेलसिनेहस्स विवेचनेन. लूखभावो लोकं, तं एतिस्सा अत्थीति लोकाति सम्मता. लोक्खसम्मतग्गहणेन ‘‘तथा सा नदी लोके पाकटा’’ति एवं पवत्तं अत्तनो मिच्छागाहं दीपेति. तेनाह ‘‘विसुद्धभावं देतीति एवं सम्मता’’ति. पापपवाहनेन सम्परायिकादिसम्पत्तिआवहतो लोकस्स हिता लोक्या. लोक्याति सम्मताति सब्बं पुरिमसदिसं. तेनाह ‘‘सेट्ठं लोकं गमयतीति एवं सम्मता’’ति. पुञ्ञसम्मताति पुज्जभवफलनिब्बत्तनेन सत्तानं पुननेन विसोधनेन पुञ्ञाति सम्मता. तदत्थदीपनत्थमेवाति तस्सा पुब्बे आगतदेसनाय अत्थदीपनत्थमेव. वुत्तस्सेवत्थस्स पुन दीपनं किमत्थियन्ति आह ‘‘गाथारुचिकान’’न्ति. चुण्णिकवचनं असम्भावेन्ता तथा च वुत्ते अत्थमबुज्झनका पज्जवचनं सम्भावेन्ता तथा च वुत्ते बुज्झनका गाथारुचिका. विसेसत्थदीपनत्थन्ति विसिट्ठदीपनत्थं, पुरिमदेसनाय अञ्ञदीपनत्थन्ति अत्थो.

‘‘गच्छति पन भवं गोतमो बाहुकं नदिं सिनायितु’’न्ति (म. नि. १.७८) हेट्ठा वुत्तत्ता बाहुकन्ति इदमेव एत्थ तदत्थदीपकं. सेसानि अधिकक्कादिवचनानि ततो विसिट्ठस्स अत्थस्स बोधनतो विसेसत्थदीपकानि. कस्मा पनेत्थ भगवता ब्राह्मणेन अवुत्तानि अधिकक्कादीनि गहितानीति आह ‘‘यथेव ही’’तिआदि. कक्कन्ति न्हानपिण्डं अधिप्पेतं, न्हायित्वा अधिकं कक्कं एत्थ गण्हन्तीति अधिकक्कं. तेनाह ‘‘न्हानसम्भारवसेना’’तिआदि. मण्डलवापिसण्ठानन्ति वट्टपोक्खरणीसण्ठानं. नदियोति विसुं नदियो, न अधिकक्कादीनि विय तित्थमत्तं.

तीहि पदेहीति सुन्दरिकापयागबाहुकापदेहि. चत्तारीति अधिकक्कादीनि चत्तारि. वुत्तानेव होन्तीति लोकसम्मतालक्खणेन एकलक्खणता ब्राह्मणस्स अधिप्पायेन, परमत्थतो पन पापपवाहलक्खणेन एकलक्खणत्ता. तेनाह ‘‘तस्मा’’तिआदि. किञ्चि पापसुद्धिं न करोन्तियेव. न हि नं सोधयेति नं पुग्गलं न सोधये. वेरकिब्बिसभावं अप्पत्ता नाम कम्मपथभावं अप्पत्ता. तेनाह ‘‘खुद्दकेही’’ति.

पटिहनन्तोति अयुत्तभावदस्सनेन तं दिट्ठिं पटिबाहन्तो. तत्थायं पटिबाहनविधि यथा यं किञ्चि उदकोरोहनं न पापपवाहनं, एवं यो कोचि नक्खत्तयोगो पापहेतूनं पटिपक्खाभावतो. यञ्हि विनासेति, सो तस्स पटिपक्खो. यथा आलोको अन्धकारस्स विज्जा च अविज्जाय, न एवं उदकोरोहनं नक्खत्तयोगो वा पापहेतूनं लोभादीनं पटिपक्खो, तस्मा निट्ठमेत्थ गन्तब्बं ‘‘न उदकोरोहनादि पापपवाहन’’न्ति. निच्चं फग्गुनीनक्खत्तन्ति सुद्धसीलादिकस्स सब्बकालं मङ्गलदिवसो एवाति अधिप्पायो. इतरोति सीलादिवसेन असुद्धो. निच्चमेव उपोसथो अरियुपोसथेन उपवुत्थभावतो. सुद्धस्साति परिसुद्धमनोसमाचारस्स. सुचिकम्मस्साति परिसुद्धकायवचीसमाचारस्स. तेनाह ‘‘निक्किलेसताया’’तिआदि. कुसलूपसञ्हितन्ति अनवज्जभावूपगतं. वतसमादानन्ति धुतधम्मसमादानादि सम्पन्नमेव होति, नास्स विपत्ति अत्थीति अत्थो. मम सासनेयेव सिनाहि, यदि अच्चन्तमेव सुद्धिं इच्छसीति अधिप्पायो. तेनाह ‘‘सचे’’तिआदि. खेमतन्ति खेमभावं. यथा सब्बभूतानि तपवसेन खेमप्पत्तानि अभयप्पत्तानि होन्ति, एवं करोहीति तं हेट्ठा दस्सितं मेत्तादिभावनं ब्राह्मणस्स सङ्खेपेन उपदिसन्तेनस्स एकच्चसमाधिसम्पदा तदविनाभाविनी पञ्ञासम्पदा च दस्सिताति दट्ठब्बं. तेनाह ‘‘मनोद्वारसुद्धि दस्सिता’’ति.

तस्स पन सम्पदाद्वयस्स निस्सयभूतं सीलसम्पदं दस्सेतुं ‘‘सचे मुसा न भणसी’’तिआदि वुत्तं. एत्थ च यथा ‘‘सचे मुसा न भणसी’’तिआदिना मुसावाद-पाणातिपात-अदिन्नादान-पटिविरतिवचनेन अवसेसकायवचीदुच्चरितविरतीपि वुत्ता एव होति लक्खणहारनयेन, एवं ‘‘सद्दहानो अमच्छरी’’ति सद्धादिधनसम्पदानियोजनेनेव अवसेसअरियधनसम्पदानियोजनम्पि सिद्धमेव होतीति सद्धादयो विमुत्तिपरिपाचनीयधम्मा ब्राह्मणस्स पकासिता एवाति वेदितब्बा. तेनेवाह ‘‘इमाय एव पटिपत्तिया किलेससुद्धी’’ति. गया सम्मततरा बाहुकादीहिपीति अधिप्पायो.

८०. एकोति असहायो, एसा पनस्स असहायता एकीभावेनाति. न हिस्स ताव तण्हादुतियता विगता. तेनेवाह ‘‘न चिरस्सेवा’’तिआदि. एकग्गहणेनेव कायेन वूपकट्ठता वुत्ताति आह ‘‘वुपकट्ठो चित्तविवेकेना’’ति. तेन ‘‘दिवा चङ्कमेन निसज्जाया’’तिआदिना (म. नि. १.४२३; ३.७५; विभ. ५१९; महानि. १६१) आगतं जागरियानुयोगमाह. तथाभूतस्स चस्स एकादसहि अग्गीहि आदित्ते तयो भवे पस्सतो यथा पमादस्स लेसोपि नाहोसि, एवं कम्मट्ठानं ब्रूहेन्तो सम्मदेव पदहति. कत्थचि सङ्खारगते अनपेक्खचित्तो निब्बानाधिमुत्तो एव विहासीति दस्सेतुं ‘‘अप्पमत्तो’’तिआदि वुत्तं. खीणा जातीतिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. सेसं सुविञ्ञेय्यमेव.

वत्थसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

८. सल्लेखसुत्तवण्णना

८१. ‘‘चुन्दो’’ति तस्स महाथेरस्स नामं, पूजावसेन पन महाचुन्दोति वुच्चति यथा ‘‘महामोग्गल्लानो’’ति. अत्तनो वा चुन्दं नाम भागिनेय्यत्थेरं उपादाय आयस्मतो सारिपुत्तत्थेरस्स भाता अयं महाथेरो ‘‘महाचुन्दो’’ति पञ्ञायित्थ यथा ‘‘महापन्थको’’ति. सायन्हसमयन्ति भुम्मत्थे एकं उपयोगवचनन्ति आह ‘‘सायन्हकाले’’ति. न हेत्थ अच्चन्त संयोगो सम्भवतीति. सत्तसङ्खारेहीति सद्धिविहारिकअन्तेवासिकउपासकादिसत्तेहि चेव रूपारम्मणादिसङ्खारेहि च. पटिनिवत्तित्वाति अपसक्कित्वा. निलीयनन्ति विवेचनं कायचित्तेहि ततो विवित्तता. एकीभावोति हि कायविवेकमाह, पविवेकोति चित्तविवेकं. ततो वुट्ठितोति ततो दुविधविवेकतो भवङ्गुप्पत्तिया, सब्रह्मचारीहि समागमेन च अपेतो. अभिवादापेत्वाति अभिवादं कारेत्वा. एवन्ति यथावुत्तअभिवादवसेन. पग्गय्हाति उन्नामेत्वा. अनुपच्छिन्नभवमूलानं ताव एवं अभिवादो होतु, उच्छिन्नभवमूलानं किमत्थियोति आह ‘‘एतं आचिण्णं तथागतान’’न्ति. तेन न तथागता सम्परायिकंयेव सत्तानं सुखं आसीसन्ति, अथ खो दिट्ठधम्मिकम्पीति दट्ठब्बं. कस्मा एवं तथागता अभिवदन्तीति तत्थ कारणमाह ‘‘सुखकामा ही’’तिआदि. पुथुकायाति बहू सत्तकाया. यक्खाति देवा. ते हि पूजनीयताय ‘‘यक्खा’’ति वुच्चन्ति. अभिवदन्तीति आसीसितमेवत्थं ञाणकरुणाहि अभिमुखं कत्वा वदन्ति.

याति अनियमतो गहिता नियमतो दस्सेन्तो ‘‘इमा’’ति आह. इमाति च आसन्नपच्चक्खवचनन्ति आह ‘‘अभिमुखं करोन्तो विया’’ति, तं तं दिट्ठिगतिकं चित्तगतं सम्मुखा विय करोन्तोति अत्थो. दिट्ठियोति पुरिमपदलोपेन पाळियं वुत्तन्ति दस्सेन्तो ‘‘मिच्छादिट्ठियो’’ति आह. सत्तेसु दिट्ठिगतचित्तुप्पादेसु उप्पज्जमाना, सत्तेसु वा विसयभूतेसु आरब्भ उप्पज्जमाना ‘‘सत्तेसु पातुभवन्ती’’ति वुत्ता. अत्तवादेनाति अत्तानं आरब्भ पवत्तेन वचनेन. पटिसंयुत्ताति ‘‘अत्थि अत्ता’’ति गाहे गाहणे च विसयभावेन पटिसंयुत्ता. दिट्ठिगतिकेन दिट्ठिं गाहन्तेहि गहणे गाहापणे च दिट्ठि दिट्ठिवादस्स विसयोति तेन पटिसंयुत्ता नाम होति. ‘‘अत्थि अत्ता’’ति एवं पवत्ता दिट्ठि इध अत्तवादपटिसंयुत्ता, न तस्सा विसयभूतो अत्ता. सा च विसयभावतो तथापवत्तेन वादेन पटिसंयुत्ता. लोकवादप्पटिसंयुत्ताति एत्थापि एसेव नयो. वीसति भवन्ति ततो परं अत्तवादवत्थुनो अभावा. पञ्चपि हि उपादानक्खन्धे पच्चेकं ‘‘अत्ता’’ति ते च अत्तनो निस्सयभावेन गण्हतो एतासं दिट्ठीनं सम्भवो, तब्बिनिमुत्तो पनायं विसयो अत्तग्गहणाकारो च नत्थीति. सस्सतो अत्ता च लोको चाति रूपादीसु अञ्ञतरं ‘‘अत्ता’’ति, ‘‘लोको’’ति वा गहेत्वा तं सस्सतो सब्बकालभावी निच्चो धुवोति. यथाह ‘‘रूपी अत्ता चेव लोको च सस्सतो चाति अत्तानञ्च लोकञ्च पञ्ञपेती’’तिआदि. सस्सतोतिआदीसु पठमो सस्सतवादवसेन अत्तग्गाहो, दुतियो उच्छेदवादवसेन, ततियो एकच्चसस्सतवादवसेन, चतुत्थो तक्कीवादवसेन पवत्तो, अमराविक्खेपवसेन वा पवत्तो अत्तग्गाहो. अन्तवाति अत्तनो परिच्छेदतावसेन. अनन्तवाति अपरिच्छेदतावसेन. अन्तवा च अनन्तवा चाति तदुभयवसेन, इतरो तक्कीवादवसेन पवत्तो अत्तग्गाहो. एवं पवत्तत्ता अट्ठ होन्तीति योजना.

आदिमेवाति आदिमनसिकारमेव. तं पन सरूपतो दस्सेन्तो ‘‘विपस्सनामिस्सकपठममनसिकारमेवा’’ति आह. अप्पत्वापि सोतापत्तिमग्गन्ति इमिना अवधारणेन निवत्तितं दस्सेति. नामरूपपरिच्छेदतो पभुति याव उदयब्बयदस्सनं, अयं इध आदिमनसिकारोति अधिप्पेतो पञ्ञाभावनाय आरम्भभावतो. उदयब्बयानुपस्सनासहितताय चस्स विपस्सनामिस्सकता वचनं. एवन्ति इमस्स अत्थवचनं ‘‘एत्तकेनेव उपायेना’’ति, यथावुत्तआदिमनसिकारेनाति अत्थो. एतासन्ति यथावुत्तानं अत्तवादलोकवादपटिसंयुत्तानं दिट्ठीनं. कामञ्च तासं तेन तदङ्गवसेन पहानं होतियेव, तं पन नाधिप्पेतं, तस्मा समुच्छेदवसेन पहानं पटिनिस्सग्गो च होतीति पुच्छति. सब्बसो समुच्छिन्नसंयोजनताय अनधिमानिकोपि समानो. ‘‘अरियधम्मो अधिगतो’’ति मानो अधिमानो, सो येसं अत्थि ते अधिमानिका, तेसं उदयब्बयञाणाधिगमेन अधिमानुप्पत्ति तदवसानो च मनसिकारोति अधिप्पेतो. तेन दिट्ठीनं पहानं न होतीति कथापनत्थं अयं पुच्छाति आह ‘‘अधिमानप्पहानत्थं पुच्छती’’ति. ‘‘आदिमेव नु खो…पे… पटिनिस्सग्गो होती’’ति अनभिसमेतावी विय वदन्तो अधिमाने ठितो विय होतीति आह ‘‘अधिमानिको विय हुत्वा’’ति. सोति थेरो. तेसं अत्थायाति तेसं अत्तनो अन्तेवासिकानं भगवता एतस्स मिच्छागाहस्स विवेचनत्थाय. थेरो किर धम्मसेनापति विय सद्धिं अत्तनो अन्तेवासिकेहि भगवन्तं उपसङ्कमि.

८२. यत्थाति विसये भुम्मं. दिट्ठीनञ्हि आरम्मणनिदस्सनमेतन्ति. यस्मा दिट्ठीनं अनुसयनभूमिपि समुदाचरणट्ठानम्पि खन्धा एव, तस्मा आह ‘‘यत्थ चेता दिट्ठियो उप्पज्जन्ती तिआदि पञ्चक्खन्धे सन्धाय वुत्त’’न्ति. रूपं अभिनिविस्साति ‘‘इदं रूपं मम अत्ता’’ति दिट्ठाभिनिवेसवसेन अभिनिविसित्वा आरब्भ. अभिनिविसमाना एव हि दिट्ठि नं आरम्मणं कत्वा उप्पज्जति. ‘‘सो अत्ता’’तिआदीसु यदिदं चक्खादिसङ्गहं रूपं, सहबुद्धिनिबन्धनताय सो मे अत्ता, सुखासुखं एत्थ लोकियतीति सो लोको. ‘‘सोएवाहं पेच्च परलोके भविस्सामीति तथाभावेन निच्चो, थिरभावेन धुवो, सब्बदाभाविताय सस्सतो, निब्बिकारताय अविपरिणामधम्मोति अत्थो. यदि पञ्चक्खन्धे सन्धाय वुत्तं, कथमेकवचनन्ति आह ‘‘आरम्मणवसेना’’तिआदि. नाना करीयति एतेनाति नानाकरणं, विसेसो. जातिवसेनाति उप्पत्तिवसेन. ये हि अनिब्बत्तपुब्बा समानावत्था, ते उप्पादसङ्खातविकारसमङ्गिताय उप्पज्जन्तीति समञ्ञं लभन्ति. तेनाह ‘‘जातिवसेना’’तिआदि. पुनप्पुनं आसेविताति अनादिमति संसारे अपरापरुप्पत्तिया लद्धासेवना. एतेन किलेसानं भावनट्ठेन अनुसयत्थं विसेसेति. थामगताति थामभावं उपगता. एतेन अनुसये सभावतो दस्सेति. थामगमनन्ति च कामरागादीनं अनञ्ञसाधारणो सभावो. तथा हि वुत्तं ‘‘थामगतो अनुसये पजहती’’ति (पटि. म. ३.२१). अप्पटिविनीताति समुच्छेदविनयवसेन न पटिविनीता. अप्पहीना हि थामगता किलेसा अनुसेन्तीति वुच्चन्ति. एतेन तेसं कारणलाभे सति उप्पज्जनारहतं दस्सेति. समुदाचरन्तीति अभिभवन्ति. एतेन तेसं वीतिक्कमप्पत्ततं दस्सेति. उप्पज्जन्तीति पन इमिनाव परियुट्ठानावत्था दस्सिता.

तं पञ्चक्खन्धप्पभेदं आरम्मणन्ति यं तं ‘‘यत्थ चेता दिट्ठियो उप्पज्जन्ती’’तिआदिना वुत्तं रूपुपादानक्खन्धादिपञ्चक्खन्धपभेदं दिट्ठीनं आरम्मणं. एतं मय्हं न होतीति एतं खन्धपञ्चकं मय्हं सन्तकं न होति मम किञ्चनपलिबोधभावेन गहेतब्बताय अभावतो. तेनस्स परमत्थतो तण्हावत्थुभावं पटिक्खिपति तावकालिकादिभावतो. अहम्पि एसो न अस्मीति एसो पञ्चक्खन्धपभेदो अहम्पि न अस्मि, अहन्ति सो गहेतब्बो न होतीति अत्थो. एतेनस्स मानवत्थुभावं पटिक्खिपति अनिच्चदुक्खजेगुच्छादिभावतो. एसो मे अत्तापि न होति अत्तसभावस्स तत्थ अभावतो ममञ्चस्स किञ्चनपलिबोधभावेन गहेतब्बताय अभावतो.

तण्हाव ममन्ति गण्हाति एतेनाति तण्हागाहो. तं गण्हन्तोति तं उप्पादेन्तो. तेनाह ‘‘तण्हापपञ्चं गण्हाती’’ति. पपञ्चेति सन्तानं वित्थारेन्तो सत्ते संसारे चिरायतीति पपञ्चो. यथा वुत्तपभेदन्ति अट्ठसततण्हाविचरितपभेदं. तण्हापपञ्चं पटिक्खिपति खन्धपञ्चकस्स तण्हावत्थुकाभावविभावनेनाति अधिप्पायो. परतो पदद्वयेपि एसेव नयो. दिट्ठेकट्ठाति दिट्ठिया पहानेकट्ठा. तेन तेसं पठममग्गवज्झतं दस्सेति. सहजेकट्ठा पन दिट्ठिया तण्हा एव, न मानो, सा च खो अपायगमनीया. यथा अत्थीति येन अनिच्चदुक्खासुभानत्ताकारेन अत्थि, तथा पस्सन्तो यथाभूतं पस्सति नाम. तेनाह ‘‘खन्धपञ्चकञ्ही’’तिआदि. एतेनेव आकारेनाति रुप्पनादिअनिच्चादिआकारेनेव. गय्हमानम्पि अप्पहीनविपल्लासेहि. तेनाकारेनाति ‘‘एतं मम’’न्तिआदिआकारेन. नेवत्थि यथाभूतदस्सनविपल्लासानं तदभावतो. सुट्ठु पस्सन्तस्साति यथा पुन तथा न पस्सितब्बं, एवं सुट्ठु सातिसयं पस्सन्तस्स.

न आदिमनसिकारेनेव दिट्ठिप्पहानं होति, अधिमानिकानं पन अधिमानमत्तमेतं दस्सनं. मग्गेनेव तं होतीति इममत्थं विभावेन्तो ‘‘सोतापत्तिमग्गेन दिट्ठिप्पहानं दस्सेत्वा’’ति आह. विभजन्तोति अधिमानिकानं झानानि असल्लेखभावेन विभजन्तो. बालपुथुज्जनानं नेव उप्पज्जति अकारकभावतो. न अरियसावकानं पहीनाधिमानपच्चयत्ता. न अट्ठाननियोजको सप्पायकम्मट्ठानेयेव नियोजनतो.

थेरो ‘‘यदत्थं सङ्घो पक्कोसति, सो अत्थो तत्थ वासीनं आगतागतानं इध इज्झती’’ति तं उदिक्खन्तो सङ्घेन यावततियं पहितोपि न गतो न अगारवेन. तेनाह ‘‘किमेत’’न्तिआदि. पण्डितो हि तत्थ अत्तनो किच्चमेव करोतीति अञ्ञतरं वुड्ढपब्बजितं पाहेसि. किमेतन्ति सङ्घस्स आणाय अकरणं नाम किमेतन्ति करणे आदरं दीपेन्तो एवमाह. सट्ठिवस्सातीतोति अप्पत्ते पत्तसञ्ञी एव सट्ठिवस्सातीतो. यस्मा पेसला पेसलेहि सद्धिं संसन्दन्ति समानाधिमुत्तिताय, तस्मा थेरो ‘‘साधावुसो’’ति वत्वा हत्थिमापनादिं सब्बं अकासि.

तादिसोवाति अनन्तरं वुत्तत्थेरसदिसोव अप्पत्ते पत्तसञ्ञी एव सट्ठिवस्सातीतोति अत्थो. पदुमगुम्बन्ति कमलसण्डं. पासादं पाविसि विस्सट्ठं ओलोकनेनस्स पुथुज्जनभावो अत्तनाव पञ्ञायिस्सतीति. तिस्समहाविहारे किर थेरा भिक्खू तदा ‘‘सकचित्तं पसीदती’’ति वचनं पूजेन्ता कालस्सेव चेतियङ्गणं सम्मज्जित्वा एत्तकारम्मणमेव बुद्धारम्मणपीतिं उप्पादेत्वा दिवसे दिवसे तथा करोन्ति. तेन वुत्तं ‘‘तस्मिञ्च समये’’तिआदि. ‘‘धम्मदिन्न, इध पत्तचीवरं ठपेती’’ति वत्तापि पटिसन्थारवसेन किञ्चि पुच्छितापि नाहोसि. गुणं जानातीति निमुज्जनादीसु विवरदानादिना गुणं जानाति विय. तुम्हे पन न जानित्थ आगन्तुकवत्तस्सपि अकरणतो. सत्थुआणाविलङ्घिनी कीदिसी सा सङ्घस्स कतिका? कतिका च नाम सिक्खापदाविरोधेन अनुवत्तेतब्बा, एत्तकम्पि अजानन्तेहि मे संवासो नत्थीति आकासे अब्भुक्कमि.

यं तस्स एवमस्स सल्लेखेन विहरामीति यो ‘‘पठमज्झानं उपसम्पज्ज विहरेय्या’’ति वुत्तो, तस्स भिक्खुनो यं ‘‘पठमज्झानसङ्खातं पटिपत्तिविधानं किलेसे सल्लेखति, तेन सल्लेखेन अहं विहरामी’’ति अधिमानवसेन एवमस्स एवं भवेय्य ठानमेतं विज्जतीति एवमेत्थ सम्बन्धो वेदितब्बो. तं न युज्जतीति तं अधिमानिकस्स ‘‘यथाविभङ्गं पठमज्झानं सल्लेखो’’ति परिवितक्कितं न युज्जति युत्तं न होति. तेनाह ‘‘न ही’’तिआदि. तत्थ सम्मा सब्बसो च किलेसे लिखतीति सल्लेखो, अरियमग्गो. तदुपायविपस्सना सल्लेखपटिपदा. यं पन झानं विपस्सनापादकं, तम्पि झानं परियायेन मग्गपादकं होतियेव. तेनाह ‘‘अविपस्सनापादकत्ता’’तिआदि.

झानधम्मवसेनाति वितक्कादिपञ्चकज्झानधम्मवसेन. चित्तुप्पादवसेन अनेकवारं पवत्तमानम्पि झानं एकावज्जनताय एकवीथिपरियापन्नत्ता एका समापत्ति एवाति ‘‘पुनप्पुनं समापत्तिवसेना’’ति वुत्तं. चत्तारि अरूपज्झानानि यथासकं एकेकस्मिंयेव आरम्मणे पवत्तन्तीति आह ‘‘आरम्मणभेदाभावतो’’ति. पुरिमकारणद्वयवसेनेवाति ‘‘झानधम्मवसेन, पुनप्पुनं समापत्तिवसेना’’ति पुब्बे वुत्तप्पकारकारणद्वयवसेनेव.

तेसं अरूपज्झानानं किलेसपरिळाहाभावेन निब्बुतानि अङ्गानि, भावनाविसेसवसेन सुखुमानि आरम्मणानि. तस्मा तानीति तेसं वसेन तानि झानानि सन्तानि, तस्मा ‘‘सन्ता एते विहारा’’ति वुत्तं. तेसं चतुन्नम्पीति चतुन्नम्पि तेसं अरूपज्झानानं.

८३. सोति अधिमानिको भिक्खु, अञ्ञो वा इतो बाहिरको तापसपरिब्बाजकादिको न हि सम्मसति. तत्थ अधिमानिको अप्पत्ते पत्तसञ्ञिताय न सम्मसति, इतरो अविसयताय. यत्थाति यस्मिं सल्लेखवत्थुस्मिं, अविहिंसकतादीहि चतुचत्तालीसाय आकारेहि.

अट्ठ समापत्तियो नाम किलेसानं विक्खम्भनवसेन पवत्ता उत्तरुत्तरि सन्तपणीता धम्मा, न तथा लोकिया अविहिंसादयो. तत्थ कथं अविहिंसादयो एव सल्लेखभावेन वुत्ता, न इतराति इममत्थं विभावेन्तो चोदको ‘‘कस्मा पना’’तिआदिमाह. इतरो कामं समापत्तियो सन्तपणीतसभावा, वट्टपादकताय पन किलेसानं सल्लेखपटिपदा न होन्ति, अविहिंसादयो पन विवट्टपादका सल्लेखपटिपदाति इममत्थं विभावेन्तो ‘‘लोकुत्तरपादकत्ता’’तिआदिमाह. इमिनायेव अट्ठसमापत्तीहि अविहिंसादीनं विसेसदीपकेन सुत्तेन यथा महप्फलतरं होति, तं पकारजातं वेदितब्बं. इदञ्हि दक्खिणेय्यतरताय दक्खिणाय महप्फलतरतं सन्धाय वुत्तन्ति सम्बन्धो. ननु तत्थ ‘‘सोतापत्तिफलसच्छिकिरियाय पटिपन्नो’’ति आगतं, न ‘‘सरणगतो’’ति चोदनं सन्धायाह ‘‘सरणगमनतो पट्ठाया’’तिआदि. वुत्तञ्हेतं अट्ठकथायं (म. नि. अट्ठ. ३.३७९) ‘‘हेट्ठिमकोटिया तिसरणं गतो उपासकोपि सोतापत्तिफलसच्छिकिरियाय पटिपन्नो नामा’’ति. यो हि वट्टदुक्खं समतिक्कमितुकामो पसन्नचित्तो रतनत्तयं सरणं गच्छति, तस्स तं अधिसीलादीनं उपनिस्सयो हुत्वा अनुक्कमेन दस्सनमग्गाधिगमाय संवत्तेय्याति.

विहिंसादिवत्थुन्ति यदेतं विहिंसादीनं वत्थुं वदाम, इमस्मिं विहिंसादिवत्थुस्मिं. अन्तमिच्छादिट्ठिञ्च मिच्छत्तानं आदिमिच्छादिट्ठिञ्चाति इदं देसनाक्कमं सन्धाय वुत्तं. मिस्सेत्वाति मिच्छादिट्ठिभावसामञ्ञेन एकज्झं कत्वा. तथाति इमिना यथा कम्मपथमिच्छत्तानं अन्ते आदिम्हि च वुत्तमिच्छादिट्ठिं मिस्सेत्वा एकज्झं वुत्तं, तथा तेसं अन्ते वुत्तसम्मादिट्ठीति इममत्थं उपसंहरति.

पाणन्ति वोहारतो सत्तं, परमत्थतो जीवितिन्द्रियं. अतिपातेन्ति सरसेनेव पतनसभावं अतिच्च अन्तरा एव पातेन्ति, अतिक्कम्म वा सत्थादीहि अभिभवित्वा पातेन्ति. अदिन्नन्ति परसन्तकं. आदियन्तीति गण्हन्ति. सल्लेखतीति समं लेखति, पजहतीति अत्थो. कम्मपथकथा एसाति ‘‘अत्थभञ्जनक’’न्ति वुत्तं. पियसुञ्ञकरणतो पिसुणा, पिसति परे सत्ते हिंसतीति वा पिसुणा. फरुसाति लूखा, निट्ठुराति अत्थो. निरत्थकन्ति अत्थरहितं अत्तनो परेसञ्च हितविनिमुत्तं. मिच्छाति विपरीता निच्चादिवसेन पवत्तिया. पापिकाति लामिका. एकन्ताकुसलताय विञ्ञूहि बुद्धादीहि गरहिता. नत्थि दिन्नन्ति आदिवत्थुकायाति दसवत्थुकमिच्छादिट्ठिमाह. नत्थिकभावाभिनिवेसनवसेन कम्मपथप्पत्तियेवस्सा कम्मपथपरियापन्नता. ‘‘रूपं अत्ता’’’तिआदिनयप्पवत्ता अत्तदिट्ठि मग्गन्तरायकरत्ता अनिय्यानिकदिट्ठि. अनिय्यानिकत्ता एव हिस्सा मिच्छत्तपरियापन्नता. सम्माति अविपरीता, ततो एव सोभना सुन्दरा, बुद्धादीहि पसत्थत्ता विञ्ञुप्पसत्था. सेसमेत्थ मिच्छादिट्ठियं वुत्तनयेन वेदितब्बं.

असुभादीसु सुभादिआकारग्गहणतो अयाथावअनिय्यानिका अयोनिसो उप्पत्तिया. अकुसलाति अयाथावाअनिय्यानिका अकुसला सङ्कप्पा. एस नयोति इमिना ‘‘अयाथावा अनिय्यानिका अकुसला वाचा’’तिआदिना तत्थ तत्थ अयाथावादिअत्थं अतिदिसति. वाचाति चेतना अधिप्पेता, तथा कम्मन्ताजीवासति च. येभुय्येन अतीतानुस्सरणवसेन पवत्तितो ‘‘अतीतं चिन्तयतो’’ति वुत्तं. तथा हि लोके एवं वदन्ति ‘‘यं मे पहूतं धनं अहोसि, तं पमादवसेन पन बहुं खीण’’न्ति. सतिपतिरूपकेनाति ‘‘चिरकतम्पि चिरभासितम्पि सरिता’’ति एवं वुत्तसतुप्पत्तिपतिरूपकेन. उप्पत्तिन्ति चित्तुप्पत्तिं. तथापवत्तचित्तुप्पादो हि मिच्छासति. सा पन कोधवसेन वा ‘‘अक्कोच्छि मं अवधि म’’न्तिआदिना (ध. प. ३) उपनय्हन्तस्स, रागवसेन वा ‘‘यानिस्स तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि अनुस्सरती’’ति (अ. नि. ७.५०) वुत्तनयेन सुभतो अनुस्सरन्तस्स, दिट्ठिवसेन वा ‘‘सो खो पन मे अत्तो निच्चो धुवो’’तिआदिना मिच्छाअभिनिविसन्तस्साति एवमादिना नयेन पवत्ततीति वेदितब्बा.

उपायचिन्तावसेनाति खिप्पजालकुमिनादुहलादिउपकरणसंविधानादीसु युत्तिचिन्तनादिवसेन पापं कत्वा विप्पटिसारनिमित्तं, ‘‘सुकतं मया’’ति पामोज्जनिमित्तं कत्वा पच्चवेक्खणाकारेन मोहो अञ्ञाणं. तत्थ पन ‘‘असिवे सिवा’’ति वोहारो विय ञाणवोहारो. मिच्छासभावत्ता पन मिच्छाञाणंत्वेव वुच्चति. एकूनवीसतिभेदं पच्चवेक्खणञाणं सम्मा पेक्खितत्ता सम्माञाणं वुच्चति, इतरं पन झानादिपच्चवेक्खणञाणं सम्मादिट्ठियाव सङ्गय्हति. रूपारूपसमापत्तिलाभितामत्तेन वट्टतो अविमुत्तायेव समाना ‘‘विमुत्ता मय’’न्ति एवंसञ्ञिनो. पकतिपुरिसन्तरञाणसङ्खातायं, गुणवियुत्तस्स अत्तनो सकत्तनि अवट्ठानसङ्खातायं, अत्तनो महाब्रह्मुना सलोकता तस्स समीपतासंयुज्जनसङ्खातायं वा अविमुत्तियं विमुत्तिसञ्ञिनो. एकन्ताकुसलताय हीनत्ता पापिका. अयाथावताय विपरीता. यथावुत्तेनाति ‘‘अविमुत्तायेव समाना’’ति वुत्तप्पकारेन. ‘‘मयमेत्थ सम्मादिट्ठि भविस्सामा’’तिआदीसु फलसम्मादिट्ठिआदीनिपि मग्गसम्मादिट्ठिआदिपक्खिकानेवाति अधिप्पायेन ‘‘फलसम्पयुत्तानि…पे… वेदितब्बा’’ति वुत्तं. सब्बेपि पन फलधम्मे विमुत्तिक्खन्धसङ्गहतो ‘‘विमुत्ती’’ति वुच्चमाने न कोचि विरोधो. एत्थ सम्माविमुत्तिसङ्खाते सल्लेखवत्थुम्हि.

यदि नीवरणवसेन वुत्तानि, तस्मा तीणेव वुत्तानीति आह ‘‘अभिज्झालू’’तिआदि. परियुट्ठानप्पत्ता थिनमिद्धपरियुट्ठिता. यस्स धम्मस्स अत्थिताय उद्धता नाम होन्ति, सो धम्मो उद्धच्चन्ति आह ‘‘उद्दच्चेन समन्नागताति उद्धता’’ति. विचिनन्ताति धम्मोति वा अधम्मोति वा आदिना यं किञ्चि सभावं विनिच्छिनन्ता. उपनाहनसीलाति परस्स अत्तनो चित्ते अनुबन्धनसीला. इस्सन्तीति उसूयन्ति. सठयन्तीति सठा अञ्ञथा अत्तानं अञ्ञथा पवेदनका. ते पन यस्मा न यथाभूतवादिनो, तस्मा आह ‘‘न सम्मा भासन्तीति वुत्तं होती’’ति. वुत्तपच्चनीकनयेनाति ‘‘न कोधना अक्कोधना’’तिआदिना वुत्तअत्थपटिपक्खनयेन.

दुक्खं वचो एतेसु विप्पटिकूलग्गाहिताय विपच्चनीकगाहेसूति दुब्बचा. ते पन वचनक्खमा न होन्तीति आह ‘‘वत्तुं दुक्खा’’तिआदि. हीनाचारताय दुक्खस्स वा सम्पापकताय पापका. असद्धम्मवसेनाति असप्पुरिसधम्मवसेन. अत्तना विसेसितब्बवसेन कायविञ्ञत्तिआदीनं कायकम्मद्वारादिभावो विय अस्सद्धियादिअसद्धम्मसमन्नागमेनअसतं असप्पुरिसानं धम्मानन्ति तानियेव अस्सद्धियादीनि असद्धम्मा नाम, तेसं वसेनाह ‘‘सद्धा एतेसं नत्थी’’ति यथा तं ‘‘दुप्पञ्ञा’’ति. सुत्तगेय्यादि अप्पं सुतं एतेसन्ति अप्पस्सुता, सुतेन अनुपपन्ना. नत्थीति गहेतब्बन्ति इमिना अभावत्थो अयं अप्प-सद्दो ‘‘अप्पडंसमकसवातातपसरीसपसम्फस्सान’’न्तिआदीसु (अ. नि. १०.११) वियाति दस्सेति. सम्मापटिपत्तिया अनारम्भनतो कुच्छिता गारय्हा सीदन्ति ओसीदन्ति संकिलेसपक्खेति कुसीता द-कारस्स त-कारं कत्वा. अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय आरद्धं पग्गहितं वीरियं एतेसन्ति आरद्धवीरिया. अनुप्पादनेन मुट्ठा नट्ठा सति एतेसन्ति मुट्ठस्सती. दुट्ठाति दूसिता. दुप्पञ्ञा नाम दूसितभावो पटिपक्खेन विनासितभावोति आह ‘‘नट्ठपञ्ञाति वुत्तं होती’’ति. हेट्ठा सम्मादिट्ठिग्गहणेन कम्मस्सकतापञ्ञाय मग्गसम्मादिट्ठिया च गहितत्ता सुब्बचकल्याणमित्ततापरिवाराहि इध सद्धादीहि विपस्सनासम्भारस्स उद्धटत्ता च वुत्तं ‘‘इध विपस्सनापञ्ञा वेदितब्बा’’ति. तेनाह ‘‘विपस्सनासम्भारो ही’’तिआदि. युत्तिं अनपेक्खित्वापि अयमत्थो गहेतब्बोति दस्सेन्तो आह ‘‘पोराणानं आणा’’ति.

लोकुत्तरगुणानं अन्तरायकरन्ति लोकुत्तरगुणानं अधिगमस्स अन्तरायकरं. सन्दिट्ठिन्ति सं अत्तनो दिट्ठिं, यं वा तं वा अत्तना यथागहितदिट्ठिन्ति अत्थो. सभावं अतिक्कमित्वा परतो आमसनतो परामासी. दळ्हग्गाहीति ‘‘इदमेव सच्च’’न्ति थिरग्गाहग्गाही. पटिनिस्सग्गीति पटिनिस्सज्जनको. कुम्मोवाति यथा कच्छपो अत्तनो पादादिके अङ्गे केनचि घट्टितो सब्बानि अङ्गानि अत्तनो कपालेयेव समोदहति, न बहि नीहरति, एवमयम्पि ‘‘न सुन्दरो तव गाहो, छड्डेहि न’’न्ति वुत्तो तं न विस्सज्जेति. अन्तोयेव अत्तनो हदये एव ठपेत्वा तं वदति. कुम्भीलग्गाहन्ति संसुमारग्गाहं. गण्हन्तीति यथा संसुमारा गहितं न विस्सज्जेन्ति, एवं गण्हन्ति.

८४. एवं चतुचत्तालीसाय आकारेहीति अविहिंसनादीहि चतुअधिकचत्तालीसप्पकारेहि. कस्मा पनेत्थ अविहिंसा आदितो वुत्ता? सब्बगुणानं मूलभावतो. अविहिंसाति हि करुणायेतं अधिवचनं, सा च विसेसतो सीलस्स मूलकारणं परूपघातलक्खणा दुस्सील्या ओरमापनतो. यथा हि पाणातिपातो परूपघातलक्खणो, तथा परेसं सापतेय्यावहरणं, सत्तिप्पहारतोपि धनस्सावहारो गरुतरोति. तथा अब्रह्मचरियं गब्भधारणादिदुक्खावहनतो, परदारातिक्कमे पन वत्तब्बमेव नत्थि. परेसं विसंवादनभेदनमम्मघट्टनानं परूपघातभावो पाकटो एव, सम्फप्पलापो अत्थग्गाहापनतो अनत्थुप्पादनतो, अभिज्झा अदिन्नादानादिहेतुतो, ब्यापादो पाणातिपातादिहेतुतो, मिच्छादिट्ठि सब्बानत्थहेतुतो परूपघातलक्खणा, मिच्छादिट्ठि धम्मिकपटिञ्ञोपि पाणातिपातादीनि करोति, परे च तत्थ नियोजेति, किमङ्गं पन इतरे. विहिंसलक्खणा दुस्सील्या ओरमा अविहिंसलक्खणा विसेसतो सीलस्स बलवकारणं. सीलपदट्ठानो च समाधि, समाधिपदट्ठाना च पञ्ञाति सब्बगुणानं मूलभूता अविहिंसा. अपिच उळारज्झासयानं निसम्मकारीनं धीरानं उत्तमपुरिसानं सीलं विय समाधिपञ्ञापि परेसं हितसुखावहाव सम्पज्जन्तीति एवम्पि करुणा सब्बगुणानं मूलन्ति सा आदितो वुत्ता.

ततो परं विसेसतो ‘‘अविहिंसासमुट्ठाना इमे धम्मा’’ति दस्सनत्थं कुसलकम्मपथधम्मा गहिता. ततो इदं गुणानं मूलभूतं सीलं, एत्थ पतिट्ठितेन इमे धम्मा उप्पादेतब्बाति दस्सनत्थं अट्ठ सम्मत्ता गहिता. तेसं विसोधनाय पटिपन्नस्स आदितो एवं होतीति दस्सनत्थं नीवरणविवेको गहितो, आदितो नीवरणद्वयस्स अग्गहणे गहितागहितकारणं अट्ठकथाय वुत्तमेव. कोधस्स पन ब्यापादतो भेदो वत्थसुत्तवण्णनायं (म. नि. अट्ठ. १.७१) वुत्तनयेनेव वेदितब्बो. कोधादिप्पहानेन चेत्थ सल्लेखसिद्धीति दस्सनत्थं ततो उपक्किलेसविसुद्धि गहिता. सा च सुब्बचकल्याणमित्तअप्पमत्तताहि सिज्झतीति दस्सनत्थं पकिण्णका गहिता. सम्पन्नसोवचस्सतादिगुणस्स इमे धम्मा पारिपूरिं गच्छन्ति, विपस्सनं परिब्रूहेत्वा अरियमग्गाधिगमाय संवत्तन्तीति दस्सनत्थं सद्धम्मा गहिता. एवंभूतस्स अयं मिच्छागाहो लोकुत्तरगुणाधिगमस्स अन्तरायकरो, तस्मा सो दूरतो वज्जेतब्बो, एवं यथावुत्ताय सम्मापटिपत्तिया अरियमग्गं अधिगच्छन्तो सल्लेखं मत्थकं पापेतीति दस्सनत्थं ‘‘सन्दिट्ठिपरामासी’’तिआदि वुत्तन्ति एवमेतेसं चतुचत्तालीसाय सल्लेखाकारानं गहणपयोजनं अनुपुब्बी च वेदितब्बा. पयोगतो सल्लेखपटिपदं पटिपज्जितुं असक्कोन्तानं चित्तुप्पादोपि बहूपकारोति आह ‘‘चित्तुप्पादस्सपि बहूपकारतं दस्सेतु’’न्ति.

कुसलेसु धम्मेसूति अविहिंसादीसु यथावुत्तअनवज्जधम्मेसु. अनुविधियनाति चित्तुप्पादस्स कायवाचाहि अनुविधाना. तेसं धम्मानन्ति अविहिंसादिधम्मानं, तेसं वा चित्तुप्पादवसेन पवत्तधम्मानं. इदानि यथावुत्तधम्मं वित्थारतो दस्सेतुं ‘‘कस्मा पना’’तिआदि आरद्धं. सरणगमनं वाचाय विञ्ञापेतुं असक्कोन्तस्स वसेन वुत्तं ‘‘कायेन वा’’ति. ‘‘सीलं कायेन समादियती’’ति एत्थापि एसेव नयो. एत्थ च तथा तथा पवत्तसल्लहुककामावचरकुसलचित्तुप्पत्तिं उपादाय तथारूपकुसलकायवचीकम्मानं बहूपकारता वुत्ताति न सभावतो चित्तुप्पादस्स बहूपकारतं ञायतीति दट्ठब्बं.

८५. हिताधिगमायाति दिट्ठधम्मिकादिहितसम्पत्तिया, अरियमग्गाधिगमाय एव वा. अरियमग्गो हि एकन्तहितत्ता हितो नाम. परिवज्जनवसेन कमनं पवत्ति परिक्कमनन्ति आह ‘‘परिक्कमनाय परिवज्जनत्थाया’’ति. सम्मादस्सनुपायसंविधानेन अविहिंसा पटियत्ता सम्मासम्बुद्धेन. सुखेनेवाति अकिच्छेनेव. एतेनेव उपायेनाति एतेनेव अविहिंसापदे वुत्तेन विधिना. सब्बपदानीति सेसानि तेचत्तालीस पदानि.

८६. अकुसला पटिसन्धिअजनका नाम उद्धच्चसहगतचित्तुप्पादधम्मा अञ्ञेपि पवत्तिविपाकमत्तदायिनो, दिन्नाय पटिसन्धिया विपाकजनका, पच्चयवेकल्लेन विपच्चितुं अलद्धोकासा अहोसिकम्मादयो वा अजनका. जातिवसेनाति अकुसलजातिवसेन. अधोभागङ्गमनीयाति अपायगमनीया. एवंनामाति नामग्गहणेन सभावं उपलक्खेति सति पच्चयसमवाये तंसभावानतिवत्तनतो. तेनाह ‘‘विपाककाले अनिट्ठाकन्तविपाकत्ता’’ति. वुत्तनयेनेव कुसलपक्खो वेदितब्बो. अयं पन विसेसो, इध पटिसन्धिअजनका अभिञ्ञासहगतधम्मा, सेसं वुत्तसदिसमेव. सब्बे अकुसलाति एत्थ विहिंसमेकं ठपेत्वा इतरे सब्बे अकुसला उपमाभूता. विहिंसा हि उपमेय्यं. सब्बे कुसलाति एत्थापि एसेव नयो. एतेनेव उपायेनाति यथा विहिंसानं उपमेय्यता, तदवसेसानं कुसलाकुसलानं उपमाभावो वुत्तो, इमिना नयेन अकुसलं पाणातिपातादिअकुसलेन इतरेन, कुसलञ्च पाणातिपातापटिविरतिआदिकुसलेन इतरेन उपमेतब्बं.

८७. परिनिब्बापनेति किलेसपरिळाहवूपसमने. परितो लिम्पनट्ठेन पलिपं वुच्चति महाकद्दमं, तं पन एकन्ततो गम्भीरम्पि होतीति ‘‘गम्भीरकद्दमे निमुग्गो’’ति वुत्तं. पलिपं विय पलिपन्ति पञ्च कामगुणा वुच्चन्ति, तस्मा एवं इदानि वुच्चमानेन उपमोपमेय्यसंसन्दननयेन एत्थ इमस्मिं ठाने अत्थयोजना वेदितब्बा. न हि तं कारणन्ति एत्थ कारणं नाम हत्थस्स वा पादस्स वा अपलिपन्नभावो, सो पन नत्थि. एस नयो उपमेय्येपि.

तत्थ सिया कस्सचि परिवितक्को ‘‘भगवतो देसनानुभावेन भिक्खुआदयो कथेन्ती’’ति. ‘‘भगवायेव हि तत्थ उद्धरती’’ति वत्वा उपमाय तदत्थं विभावेतुं ‘‘रञ्ञो’’तिआदि वुत्तं. पुथुज्जना तावतिट्ठन्तु, सावकसिखाप्पत्तविसेसानम्पि अरियानं देसना सत्थुयेव देसनाति दस्सेतुं ‘‘किञ्चापी’’तिआदिमाह. तथा हि तेहि देसितसुत्तानि बुद्धवचनमेव, तेसं देसनाय लद्धविसेसापि अरिया बुद्धपुत्तायेवाति.

अनिब्बिसतायाति अनिब्बिसेवनताय. असिक्खितविनयतायाति पञ्चन्नं विनयानं सादरं असिक्खितभावेन. ते पन विनया तिस्सन्नं सिक्खानं सिक्खापनेन होतीति आह ‘‘तिस्सो सिक्खा सिक्खापेस्सती’’ति. किं पन तन्ति? ‘‘ठानमेतं विज्जती’’ति एत्थ वुत्तं किं पन ठानन्ति आह ‘‘अपलिपपलिपन्नत्त’’न्तिआदि. यस्मा पाळियं ‘‘सो वत चुन्दा’’तिआदिना सामञ्ञत्थं उपमाभावेन गहेत्वा विसेसत्थो उपमेय्यभावेन वुत्तो, तस्मा तमत्थं ‘‘एवमत्थो वेदितब्बो’’तिआदिना साधारणतो वत्वा पुन असाधारणतो विवरन्तो ‘‘किं वुत्तं होती’’तिआदिमाह. परस्स विहिंसाचेतनं निब्बापेस्सतीति इदं यो अविहिंसासङ्खातं सम्मापटिपत्तिं दिस्वा दिट्ठानुगतिं आपज्जन्तो धम्मदेसनाय परो अविहिंसको होति, तादिसं सन्धाय वुत्तं. आदेसनञ्हि तस्स वचनन्ति. तेनाह ‘‘अयं या एसा विहिंसकस्सा’’ति. पुब्बे विहिंसकस्स मिच्छापटिपज्जन्तस्स. विहिंसापहानाय मग्गं भावयतोतिआदिना अत्तनो एव अविहिंसाय विहिंसापरिनिब्बानाय संवत्तनमाह. तेनाह ‘‘परिनिब्बुतो विया’’तिआदि. सब्बपदेसूति ‘‘पाणातिपातिस्सा’’तिआदिना आगतेसु तेचत्तालीसाय पदेसु.

८८. एवन्ति देसिताकारपरामसनं. तस्साति सल्लेखस्स. ‘‘अत्थि ख्वेस ब्राह्मण, परियायो’’तिआदीसु (अ. नि. ८.११; पारा. ३-१०) विय परियाय-सद्दो कारणत्थोति आह ‘‘सल्लेखकारण’’न्ति. तेसं वसेनाति सल्लेखानं वसेन. मेत्ताय उपसंहरणवसेन हितं एसन्तेन. करुणाय वसेन अनुकम्पमानेन. परिग्गहेत्वाति परितो गहेत्वा, परित्वाति अत्थो. परिच्चाति परितो इत्वा, समन्ततो फरित्वा इच्चेव अत्थो. मा पमज्जित्थाति ‘‘झायथा’’ति वुत्तसमथविपस्सनानं अञ्ञाणेन, अञ्ञेन वा केनचि पमादकारणेन मा पमादं आपज्जित्थ. निय्यानिकसासने हि अकत्तब्बकरणम्पि पमादोति. विपत्तिकालेति सत्तअसप्पायादिविपत्तियुत्तकाले. यथावुत्ता पञ्च परियाया अञ्ञेपि सब्बे सासनगुणा इधेव सङ्गहं गच्छन्तीति आह ‘‘झायथ, मा पमादत्थाति तुम्हाकं अनुसासनी’’ति.

सल्लेखसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

९. सम्मादिट्ठिसुत्तवण्णना

८९. कथेतुकम्यतापुच्छा एवाति अवधारणेन इतरा चतस्सो पुच्छा निवत्तेति इतरासं असम्भवतो, तत्थ यथापुच्छितस्स अत्थस्स विस्सज्जनतो च ‘‘अयं सम्मादिट्ठी’’ति याथावतो अजानन्तापि पुथुज्जना बाहिरकतापसादयो अत्तनो समानसीले ठितं सम्मादिट्ठीति वदन्ति. अनुस्सवादिवसेनापीति अनुस्सवाकारपरिवितक्कदिट्ठिनिज्झानक्खन्तिवसेनपि. यथासमङ्गिताकारस्स अत्थस्स एवमेतन्ति निज्झानक्खमापनतो एकन्ततो याथावग्गाहो होतीति आह ‘‘अत्तपच्चक्खेनपी’’ति, याथावतो लक्खणस्स पटिविद्धत्ता अत्तनो पच्चक्खभावेनाति अत्थो. बहुन्नं वचनं उपादायाति इमिना सासने लोके च निरुळ्हताय अयं आमेडितपयोगोति सासनस्स निरुळ्हताय च सम्पसादं उपादायपि तदुभयिको आमेडितपयोगो दट्ठब्बो. अत्थन्ति वचनत्थं. लक्खणन्ति सभावं. उपादायाति गहेत्वा. सोभनायाति सुन्दराय. पसत्थायाति पसंसाय. तेसु पुरिमेन धम्मानं यथासभावावबोधसङ्खातं सम्मादिट्ठिसभावं दस्सेति. तेन हि सा सब्बधम्मे अभिभवित्वा सोभति. दुतियेन सम्पयुत्तधम्मेसु परिणायिकभावं. तेन हि सा सम्पयुत्तधम्मे ञाणमये विय तंसमङ्गिनञ्च पुग्गलं ञाणपिण्डं विय करोति, तस्स ‘‘पण्डितो निपुणो छेको विञ्ञू विभावी’’तिआदिना दिसासु पसंसा पत्थरति.

कम्मस्सकताञाणन्ति कम्मं सको एतस्साति कम्मस्सको, तस्स भावो कम्मस्सकता, तत्थ ञाणं ‘‘इदं कम्मं सत्तानं सकं, इदं नो सक’’न्ति एवं जाननञाणं. सच्चानुलोमिकञाणन्ति अरियसच्चानं पटिवेधस्स अनुलोमतो सच्चानुलोमिकं ञाणं, विपस्सनाञाणं. नो सच्चानुलोमिकायाति बाहिरको सच्चानुलोमिकाय सम्मादिट्ठिया नो सम्मादिट्ठि सब्बेन सब्बं तस्स अभावतो. तत्थ कारणमाह ‘‘अत्तदिट्ठिपरामासकत्ता’’ति. कम्मस्स कतादिट्ठि पन बाहिरकस्स अत्तदिट्ठिं अनुरुज्झन्ती पवत्तति ‘‘अत्थि दिन्न’’न्तिआदिनयप्पवत्तितो. सासनिको द्वीहिपीति सासनिको पुथुज्जनो कम्मस्सकताञाणादीहि द्वीहिपि सम्मादिट्ठि. ओक्कन्तसम्मत्तनियामत्ता ‘‘सेक्खो नियताया’’ति वुत्तं. असेक्खाय सम्मादिट्ठिया सम्मादिट्ठीति आनेत्वा सम्बन्धितब्बं. तीसुपि पुग्गलेसु सेक्खो इध सम्मादिट्ठीति अधिप्पेतोति दस्सेन्तो ‘‘नियताय निय्यानिकाया’’तिआदिमाह.

इदानि यथावुत्तमत्थं पाळिया विभावेतुं ‘‘तेनेवाहा’’तिआदि वुत्तं. अन्तद्वयन्ति ‘‘सस्सतं, उच्छेदं, कामसुखं, अत्तकिलमथ’’न्ति एतं अन्तद्वयं. लीनुद्धच्चपतिट्ठानायूहनन्तद्वयस्स अनुपगमनं अत्थसिद्धमेव. उजुभावेनाति उजुसभावेन मग्गेन, मज्झिमाय पटिपत्तियाति अत्थो. धम्मे पसादग्गहणेन सत्थरि सङ्घे च पसादोपि गहितोयेव होतीति ‘‘धम्मे’’इच्चेव वुत्तो तदविनाभावतो. यस्मा एस नियताय सम्मादिट्ठिया समन्नागतो सम्मादिट्ठीति अधिप्पेतो, तञ्च वट्टतो निय्यानं विवट्टाधिगमेन होतीति आह ‘‘आगतो इमं सद्धम्म’’न्ति. निब्बानञ्हि सन्तो सदा विज्जमानो धम्मोति कत्वा सद्धम्मोति इमं फलेहि असाधारणेन परियायेन वत्तब्बतं लभति. तयिदमस्स आगमं सच्छिकिरियाभिसमयो, सो च पहानाभिसमयादीहि सहेव इध इज्झतीति दस्सेन्तो ‘‘सब्बदिट्ठिगहनानी’’तिआदिमाह. तत्थ सब्बदिट्ठिगहनानि विनिब्बेठेन्तो सब्बकिलेसे पजहन्तोति पदद्वयेन पन पहानाभिसमयमाह, जातिसंसारा निक्खमन्तोति इमिना परिञ्ञाभिसमयं. समतिक्कमत्थो हि परिञ्ञत्थो. पटिपत्तिं परिनिट्ठपेन्तोति इमिना भावनाभिसमयन्ति दट्ठब्बं.

कालपरिच्छेदवचनन्ति परिच्छिज्जतीति परिच्छेदो, कालो एव परिच्छेदो कालपरिच्छेदो, यो सो अकुसलपजाननादिना परिच्छिन्नो मग्गवुट्ठानकालो मग्गक्खणो, तस्स वचनन्ति अत्थो. तेनाह ‘‘यस्मिं काले’’ति. अकुसलञ्चाति -सद्दो समुच्चयत्थो. तेन वक्खमानं अकुसलमूलादिं समुच्चिनोति. दसाकुसलकम्मपथन्ति कुतोयं विसेसो, यावता अनिद्धारितविसेसं अकुसलं गहितन्ति? न सामञ्ञजोतनाय विसेसे अवट्ठानतो. किं वा इमाय युत्तिचिन्ताय, यस्मा पठमवारेन उद्देसवसेन देसितस्स अत्थस्स वित्थारदेसना दुतियवारो. तेनेवाह ‘‘कतमं पनावुसो’’तिआदि. यस्मा लोकुत्तरा सम्मादिट्ठि इध अधिप्पेता, तस्मा निरोधारम्मणाय पजाननाय मग्गपञ्ञाय किच्चवसेन सम्मोहतो ‘‘इदं दुक्ख’’न्ति दसअकुसलकम्मपथं पटिविज्झन्तो ‘‘अकुसलं पजानाती’’ति वुच्चतीति अत्थो. तस्साति अकुसलकम्मपथसङ्खातस्स दुक्खस्स. तेनेव पकारेनाति ‘‘निरोधारम्मणाय पजाननाय किच्चवसेना’’ति वुत्तप्पकारेन.

कुसलन्ति एत्थायं वचनत्थो – कुच्छिते पापधम्मे सलयति चलयति कम्पेतीति कुसलं, कुच्छितेन वा आकारेन सयन्तीति कुसा, पापका धम्मा. ते कुसे लुनाति छिन्दतीति कुसलं. कुच्छितानं वा सानतो तनुकरणतो ञाणं कुसं नाम, तेन लातब्बं गहेतब्बं पवत्तेतब्बन्ति कुसलं. यथा वा कुसो उभयभागगतं हत्थपदेसं लुनाति, एवमिदं उप्पन्नानुप्पन्नवसेन उभयभागगतं संकिलेसपक्खं लुनाति छिन्दति, तस्मा कुसो विय लुनातीति कुसलं. कुच्छितानं वा सावज्जधम्मानं सलनतो संवरणतो कुसलं. कुसलधम्मवसेन हि अकुसला मनच्छट्ठेसु द्वारेसु अप्पवत्तिया संवुता होन्ति. कुच्छिते वा पापधम्मे सलयति गमेति अपनेतीति कुसलं. कुच्छितानं वा पाणातिपातादीनं सानतो निसानतो तेजनतो कुसा, दोसलोभादयो. सादीनववसेन चेतनाय तिक्खभावप्पत्तिया पाणातिपातादीनं महासावज्जता. ते कुसे लुनाति छिन्दतीति कुसलं. कुच्छितानं वा सानतो अन्तकरणतो विनासनतो कुसानि, पुञ्ञकिरियवसेन पवत्तानि सद्धादीनि इन्द्रियानि. तेहि लातब्बं पवत्तेतब्बन्ति कुसलं. ‘‘कु’’इति वा भूमि वुच्चति, अधिट्ठानभावेन तंसदिसस्स अत्तनो निस्सयभूतस्स रूपारूपपबन्धस्स सम्पति आयतिञ्च अनुदहेन विनासनतो कुं ससन्तीति कुसा, रागादयो. ते विय अत्तनो निस्सयस्स लवनतो छिन्दनतो कुसलं. पयोगसम्पादिता हि कुसलधम्मा अच्चन्तमेव रूपारूपधम्मे अप्पवत्तिकरणेन समुच्छिन्दन्ति. कुसलस्स मूलन्ति कुसलमूलं, सुप्पतिट्ठितभावसाधनेन कुसलस्स पतिट्ठा निदानन्ति अत्थो. अकुसलमूलन्ति एत्थापि एसेव नयो.

अकुसलन्ति पन न कुसलं अकुसलं, कुसलधम्मानं पटिपक्खवसेन अकुसलन्ति पदस्स अत्थो वेदितब्बो. एवञ्हि आरोग्यानवज्जसुखविपाककोसल्लसम्भूतट्ठेन कुसलं वुच्चतीति. यथा यं धम्मजातं न अरोगं न अवज्जं न सुखविपाकं न च कोसल्लसम्भूतं, तं अकुसलन्ति अयमत्थो दस्सितो होति. एवं यं न कुच्छितानं सलनसभावं, न कुसेन, कुसेहि वा पवत्तेतब्बं, न च कुसो विय लवनकं, तं अकुसलं नामाति अयम्पि अत्थो दस्सितोति वेदितब्बो. वत्थुपजाननाति दुक्खादिवत्थुनो पजानना पटिवेधो. तथा बुज्झनकपुग्गलानं अज्झासयवसेन देसना पवत्ताति आह ‘‘अकुसलादिपजाननेनापी’’ति. तेनेव च संखित्तेन देसना पवत्ता. भावनामनसिकारो पन ‘‘सब्बं भिक्खवे अभिञ्ञेय्य’’न्ति (सं. नि. ४.४६; पटि. म. १.३) वचनतो अनवसेसतो रूपारूपधम्मानं परिग्गहवसेनेव पवत्तति. तेनाह ‘‘देसनायेवा’’तिआदि. तत्थ मनसिकारपटिवेधोति पुब्बभागे पवत्तविपस्सनामनसिकारो अरियमग्गपटिवेधो च. कस्सचि अकोपनतो वित्थारवसेनेव वुत्तं विपस्सनं अनुयुञ्जन्ता मग्गं पटिविज्झन्तापि वित्थारनयेनेव पटिविज्झन्तीति अत्थो विसुद्धिक्कमस्स अभावतो.

भिक्खूति महाविहारे धम्मसङ्गीतिवसेन पञ्चनिकायमण्डले निसिन्नभिक्खू. थेरोति तत्थ सङ्घत्थेरोति वदन्ति. वत्थसुत्तवण्णनायं वुत्तनयेन पन महासङ्घरक्खितत्थेरस्स अन्तेवासिकभिक्खू सन्धाय ‘‘आहंसू’’ति वुत्तं. थेरोति पन महासङ्घरक्खितत्थेरो. सो हि इमस्मिं मज्झिमनिकाये तं तं विनिच्छयं कथेसि. रासितोति पिण्डतो, एकज्झन्ति अत्थो.

अकुसलकम्मपथवण्णना

अकोसल्लप्पवत्तियाति कोसल्लपटिपक्खतो अकोसल्लं वुच्चति अञ्ञाणं, ततो पवत्तनतो, अकोसल्लसम्भूतत्ताति अत्थो. ञाणपटिपक्खो अञ्ञाणं मित्तपटिपक्खो अमित्तो विय कुसलपटिपक्खो अकुसलं कुसलेन पहातब्बत्ता, न पन कुसलानं पहायतत्ता. कुसलमेव हि पयोगसम्पादितं अकुसलं पजहति. सह अवज्जेहि लोभादीहि वत्ततीति सावज्जं. दुक्खो अनिट्ठो चतुक्खन्ध-सङ्खातो विपाको एतस्साति दुक्खविपाकं. तत्थ सावज्जवचनेन अकुसलानं पवत्तिदुक्खतं दस्सेति, दुक्खविपाकवचनेन विपाकदुक्खतं. पुरिमञ्हि पवत्तिसम्भववसेन अकुसलस्स लक्खणवचनं, पच्छिमं तालन्तरे विपाकुप्पादनसमत्थतावसेन. तथा पुरिमेन अकुसलस्स अविसुद्धसभावतं दस्सेति, पच्छिमेन अविसुद्धविपाकतं. पुरिमेन अकुसलं कुसलसभावतो निवत्तेति, पच्छिमेन अब्याकतसभावतो सविपाकत्तदीपकत्ता पच्छिमस्स. पुरिमेन वा अवज्जवन्ततादस्सनतो किच्चट्ठेन रसेन अनत्थजननरसतं दस्सेति, पच्छिमेन सम्पत्तिअत्थेन अनिट्ठविपाकरसतं. पुरिमेन च उपट्ठानाकारट्ठेन पच्चुपट्ठानेन संकिलेसपच्चुपट्ठानतं, पच्छिमेन फलट्ठेन दुक्खविपाकपच्चुपट्ठानतं. पुरिमेन च अयोनिसोमनसिकारं अकुसलस्स पदट्ठानं पकासेति. ततो हि तं सावज्जं जातं, पच्छिमेन अकुसलस्स अञ्ञेसं पदट्ठानभावं विभावेति. तञ्हि दुक्खविपाकस्स कारणन्ति. संकिलिट्ठन्ति संकिलेसेहि समन्नागतं, दसहि किलेसवत्थूहि विबाधितं, उपतापितं वा तेहि विदूसितं मलीनकतञ्चाति अत्थो. इदञ्चस्स दुक्खविपाकतञ्चाति अत्थे इदञ्च दुक्खविपाकतं अपच्चक्खताय असद्दहन्तानं पच्चक्खतो आदीनवदस्सनेन संवेजनत्थं वुत्तं. साधारणा सब्बस्सपि अकुसलस्स.

सरसेनेव (ध. स. मूलटी. १) पतनसभावस्स अन्तरा एव अतीव पातनं अतिपातो, सणिकं पतितुं अदत्वा सीघं पातनन्ति अत्थो. अतिक्कम्मवा सत्थादीहि अभिभवित्वा पातनं अतिपातो. पयोगवत्थुमहन्ततादीहि महासावज्जता तेहि पच्चयेहि उप्पज्जमानाय चेतनाय बलवभावतो. एकस्स हि पयोगस्स सहसा निप्फादनवसेन सकिच्चसाधिकाय बहुक्खत्तुं पवत्तजवनेहि लद्धासेवनाय च सन्निट्ठापकचेतनाय वसेन पयोगस्स महन्तभावो. सतिपि कदाचि खुद्दके चेव महन्ते च पाणे पयोगस्स समभावे महन्तं हनन्तस्स चेतना तिब्बाकारा उप्पज्जतीति वत्थुस्स महन्तभावो. इति उभयम्पेतं चेतनाय बलवभावेनेव होतीति. यथावुत्तपच्चयपरियायेपि तंतंपच्चयेहि चेतनाय बलवताय एव महासावज्जभावो वेदितब्बो. पयोगवत्थुआदिपच्चयानञ्हि अमहत्तेपि हन्तब्बस्स गुणवन्तताय महासावज्जता, तब्बिपरियायेन अप्पसावज्जता च वत्थुस्स महत्तामहत्तेसु विय दट्ठब्बा. किलेसानं उपक्कमानं द्विन्नञ्च मुदुताय तिब्बताय च अप्पसावज्जता महासावज्जतापि योजेतब्बा. पाणो पाणसञ्ञिता वधकचित्तञ्च पुब्बभागियापि होन्ति, उपक्कमो वधकचेतनासमुट्ठापितो. पञ्च सम्भारा हि पाणातिपातचेतनाति सा पञ्चसम्भारविनिमुत्ता दट्ठब्बा. अयञ्च विचारो अदिन्नादानादीसुपि यथारहं वत्तब्बो. विज्झनपहरणादिवसेन सहत्थेननिब्बत्तो साहत्थिको, आणापनवसेन पवत्तो आणत्तिको, उसुसत्तियन्तपासाणादिनिस्सज्जनवसेन पवत्तो निस्सग्गियो, अदुहलसज्जनादिवसेन पवत्तो थावरो, आथब्बणिकादीनं विय मन्तपरिजप्पनवसेन पवत्तो विज्जामयो, कम्मविपाकजिद्धिमयो इद्धिमयो दाठाकोटनादीनि विय.

यदि ‘‘मम इद’’न्ति परेन परिग्गहितं अदिन्नं, उत्तानसेय्यकदारकसन्तके कथं तस्स परिग्गहसञ्ञाय एव अभावतोति आह ‘‘यत्थ परो’’तिआदि. परो नाम विञ्ञू वा अविञ्ञू वा अत्थि तस्स वत्थुस्स सामिको. अविञ्ञूपि हि विञ्ञुकाले यथाकामं करोन्तो अदण्डारहोति. मन्तपरिजप्पनेन परसन्तकहरणं विज्जामयो, विना मन्तेन परसन्तकस्स कायवचीपयोगेहि परिकड्ढनं तादिसेनिद्धिवसेन इद्धिमयो पयोगोति अदिन्नादाने छ पयोगा साहत्थिकादयो वुत्ता. यथानुरूपन्ति एत्थ साहत्थिको ताव पञ्चन्नम्पि अवहारानं वसेन पवत्तति, तथा आणत्तियो निस्सग्गियो च. थावरो थेय्यावहारपसय्हावहारपटिच्छन्नावहारवसेन. तथा सेसापीति दट्ठब्बं.

मेथुनसमाचारेसूति सदारासन्तोस-परदारगमनवसेन दुविधेसु मेथुनसमाचारेसु. अयमेवहि भेदो इधाधिप्पेतो. गोत्तरक्खिता सगोत्तेहि रक्खिता. धम्मरक्खिता सहधम्मिकेहि रक्खिता. सारक्खा ससामिका. यस्सा गमने रञ्ञा दण्डो ठपितो, सा सपरिदण्डा. भरियभावत्थं धनेन कीता धनक्कीता. छन्देन वसन्ती छन्दवासिनी. भोगत्थं वसन्ती भोगवासिनी. पटत्थं वसन्ती पटवासिनी. उदकपत्तं आमसित्वा गहिता ओदपत्तकिनी. चुम्बटकं अपनेत्वा गहिता ओभटचुम्बटा. करमरानीता धजाहता. तङ्खणिका मुहुत्तिका. अभिभवित्वा वीतिक्कमे मिच्छाचारो महासावज्जो, न तथा द्विन्नं समानछन्दताय. अभिभवित्वा वीतिक्कमने सतिपि मग्गेनमग्गपटिपत्तिअधिवासने पुरिमुप्पन्नसेवनाभिसन्धिपयोगाभावतो मिच्छाचारो न होति अभिभुय्यमानस्साति वदन्ति. सेवनाचित्ते सति पयोगाभावो अप्पमाणं येभुय्येन इत्थिया सेवनापयोगस्स अभावतो. तथा सति पुरेतरं सेवनाचित्तस्स उपट्ठानेपि तस्सा मिच्छाचारो न सिया, तथा पुरिसस्सपि सेवनापयोगाभावेति, तस्मा अत्तनो रुचिया पवत्तितस्स वसेन तयो, बलक्कारेन पवत्तितस्स वसेन तयोति सब्बेपि अग्गहितग्गहणेन चत्तारो सम्भाराति वुत्तन्ति वेदितब्बं.

अत्थभञ्जकोति कम्मपथवसेन वुत्तं. कम्मपथकथा हेसाति. अस्साति विसंवादकस्स. मुसा वदति एतेनाति चेतना मुसावादो, इमस्मिं पक्खे अतथाकारेन वत्थुनो विञ्ञापनपयोगो मुसा, तंसमुट्ठापिका चेतनामुसावादोति वुत्तत्ता ततो अञ्ञथा वत्तुं ‘‘अपरो नयो’’तिआदि वुत्तं. अत्तनो सन्तकं अदातुकामतायातिआदि मुसावादसामञ्ञेन वुत्तं. हसाधिप्पायेनपि विसंवादनपुरक्खारस्स मुसावादो. परस्साति विसंवादनवसेन विञ्ञापेतब्बस्स. सोति मुसावादपयोगो.

सुञ्ञभावन्ति पीतिविरहितताय रित्तभावं. फरुससद्दताय नेव कण्णसुखा. अत्थविपन्नताय न हदयसुखा. संकिलिट्ठचित्तस्साति दोसेन, लोभेन वा दूसितचित्तस्स.

एकन्तफरुसा चेतनाति एतेन दुट्ठचित्ततंयेव विभावेति, दुट्ठचित्तता चस्स अमरणाधिप्पायवसेन दट्ठब्बा. सति हि मरणाधिप्पाये अत्थसिद्धि, तदभावे पाणातिपातब्यापादा सियुन्ति. यं पटिच्च फरुसवाचा पयुज्जति, तस्स सम्मुखाव सीसं एति. परम्मुखापि सीसं एति एवाति अपरे. तत्थायं अधिप्पायो युत्तो सिया – सम्मुखा पयोगे अगारवादीनं बलवभावतो सिया चेतना बलवती, परस्स च तदत्थविञ्ञापनं, न तथा असम्मुखाति. यथा च अक्कोसिते मते आळहने कता खमापना उपवादन्तरायं निवत्तेति, एवं परम्मुखा पयुत्ता फरुसवाचा होतियेवाति सक्का विञ्ञातुं. तस्साति एकन्तफरुसचेतनाय एव फरुसवाचाभावस्स आविभावत्थं. मम्मच्छेदको सवनफरुसतायाति अधिप्पायो. चित्तसण्हाताय फरुसवाचा न होति कम्मपथा’प्पत्तत्ता, कम्मभावं पन न सक्का वारेतुं. एवं अन्वयवसेन चेतनाफरुसताय फरुसवाचं साधेत्वा इदानि तमेव ब्यतिरेकवसेन साधेतुं ‘‘वचनसण्हताया’’तिआदि वुत्तं. एसाति फरुसवाचा. कम्मपथभावं अप्पत्ता अप्पसावज्जा, इतरा महासावज्जा. तथा किलेसानं मुदुतिब्बताभेदेहि सब्बं पुरिमसदिसं.

आसेवनं बहुलीकरणं. यं उद्दिस्स पवत्तितो, तेन अग्गहिते अप्पसावज्जो, गहिते महासावज्जो कम्मपथप्पत्तितो. यो कोचि पन सम्फप्पलापो द्वीहि सम्भारेहि सिज्झति. किलेसानं मुदुतिब्बतावसेनपि अप्पसावज्जमहासावज्जता वेदितब्बा.

अत्तनो परिणामनं चित्तेनेवाति वेदितब्बं. हितसुखं ब्यापादयतीति यो तं उप्पादेति, तस्स हितसुखं विनासेति. अहो वताति इमिना अच्चन्तविनासचिन्तनं दीपेति. एवं हिस्स दारुणपवत्तिया कम्मपथप्पत्ति. यथाभुच्चगहणाभावेनाति याथावग्गाहस्स अभावेन अनिच्चादिसभावस्स निच्चादितो गहणेन. मिच्छा पस्सतीति वितथं पस्सति. सम्फप्पलापो वियाति इमिना आसेवनस्स मन्दताय अप्पसावज्जतं, महन्तताय महासावज्जतं दस्सेति. गहिताकारविपरीतताति मिच्छादिट्ठिया गहिताकारस्स विपरीतभावो. वत्थुनोति तस्सा अयथाभूतसभावमाह. तथाभावेनाति गहिताकारेनेव तस्स दिट्ठिगतिकस्स, तस्स वा वत्थुनो उपट्ठानं एवमेतं, न इतो अञ्ञथाति.

धम्मतोति सभावतो. कोट्ठासतोति फस्सपञ्चमकादीसु चित्तङ्गकोट्ठासेसु यं कोट्ठासा होन्ति, ततोति अत्थो. चेतनाधम्माति चेतनासभावा.

पटिपाटिया सत्ताति एत्थ ननु चेतना अभिधम्मे कम्मपथेसु न वुत्ताति पटिपाटिया सत्तन्नं कम्मपथभावो न युत्तोति? न, अवचनस्स अञ्ञहेतुकत्ता. न हि तत्थ चेतनाय अकम्मपथत्ता कम्मपथरासिम्हि अवचनं, कदाचि पन कम्मपथो होति, न सब्बदाति कम्मपथभावस्स अनियतत्ता अवचनं. यदा पन कम्मपथो होति, तदा कम्मपथरासिसङ्गहो न निवारितो. एत्थाह – यदि चेतनाय सब्बदा कम्मपथभावाभावतो अनियतो कम्मपथभावोति कम्मपथरासिम्हि अवचनं, ननु अभिज्झादीनं कम्मपथभावं अप्पत्तानं अत्थिताय अनियतो कम्मपथभावोति तेसम्पि कम्मपथरासिम्हि अवचनं आपज्जतीति? नापज्जति कम्मपथतातंसभागताहि तेसं तत्थ वुत्तत्ता. यदि एवं चेतनापि तत्थ वत्तब्बा सिया? सच्चमेतं, सा पन पाणातिपातादिकाति पाकटो, तस्सा कम्मपथभावोति न वुत्ता सिया. चेतनाय हि – ‘‘चेतनाहं, भिक्खवे, कम्मं वदामि (अ. नि. ६.६३; कथा. ५३९), तिविधा, भिक्खवे, कायसञ्चेतना अकुसलं कायकम्म’’न्तिआदिवचनतो (कथा. ५३९) कम्मभावो पाकटो, कम्मंयेव च सुगतिदुग्गतीनं तत्थ उप्पज्जनकसुखदुक्खानञ्च पथभावेन पवत्तं कम्मपथोति वुच्चतीति पाकटो तस्सा कम्मपथभावो, अभिज्झादीनं पन चेतनासमीहनभावेन सुचरितदुच्चरितभावो चेतनाजनितपिट्ठिवट्टकभावेन सुगतिदुग्गतितदुप्पज्जनकसुखदुक्खानं पथभावो चाति न तथा पाकटो कम्मपथभावोति तेयेव तेन सभावेन दस्सेतुं अभिधम्मे चेतना कम्मपथरासिभावेन न वुत्ता, अतथाजातियकत्ता वा चेतना तेहि सद्धिं न वुत्ताति दट्ठब्बं. मूलं पत्वाति मूलदेसनं पत्वा, मूलसभावेसु धम्मेसु वुच्चमानेसूति अत्थो.

अदिन्नादानं सत्तारम्मणन्ति इदं ‘‘पञ्च सिक्खापदा परित्तारम्मणा एव वा’’ति इमाय पञ्हपुच्छकपाळिया विरुज्झति. यञ्हि पाणातिपातादिदुस्सील्यस्स आरम्मणं, तदेव तं वेरमणिया आरम्मणं. वीतिक्कमितब्बवत्थुतो एव हि विरतीति. सत्तारम्मणन्ति वा सत्तसङ्खातं सङ्खारारम्मणमेव उपादाय वुत्तन्ति नायं विरोधो. तथा हि वुत्तं सम्मोहविनोदनियं (विभ. अट्ठ. ७१४) ‘‘यानि सिक्खापदानि एत्थ सत्तारम्मणानीति वुत्तानि, तानि यस्मा सत्तोति सङ्ख्यं गतं सङ्खारमेव आरम्मणं करोन्ती’’ति. विसभागवत्थुनो ‘‘इत्थी, पुरिसो’’ति गहेतब्बतो सत्तारम्मणोति एके. ‘‘एको दिट्ठो, द्वे सुता’’तिआदिना सम्फप्पलपने दिट्ठसुतमुतविञ्ञातवसेन. तथा अभिज्झाति एत्थ तथा-सद्दो ‘‘दिट्ठसुतमुतविञ्ञातवसेना’’ति इदम्पि उपसंहरति, न सत्तसङ्खारारम्मणतं एव दस्सनादिवसेन अभिज्झायनतो. ‘‘नत्थि सत्ता ओपपातिका’’ति पवत्तमानापि मिच्छादिट्ठि तेभूमकधम्मविसयावाति अधिप्पायेनस्सा सङ्खारारम्मणता वुत्ता. कथं पन मिच्छादिट्ठिया सब्बे तेभूमकधम्मा आरम्मणं होन्तीति? साधारणतो. ‘‘नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको’’ति हि पवत्तमानाय अत्थतो रूपारुपावचरधम्मापि गहिता एव होन्तीति.

सुखबहुलताय राजानो हसमानापि ‘‘चोरं घातेथा’’ति वदन्ति, हासो पन तेसं अञ्ञविसयोति आह ‘‘सन्निट्ठापक…पे… होती’’ति.

केसञ्चीति सहजातानं अदिन्नादानादीनं. सम्पयुत्तपभावकट्ठेनाति सम्पयुत्तो हुत्वा उप्पादकट्ठेन. केसञ्चीति असहजातानं. उपनिस्सयपच्चयट्ठेनाति एतेन मूलट्ठेन लोभस्स उपकारतं निवत्तेति. सुप्पतिट्ठितभावसाधनट्ठो हि मूलट्ठो, सो च हेतुपच्चयताअविनाभावी, तेन चेत्थ मूलमिव मूलन्ति गहेतब्बं, निप्परियायतो पन पुब्बे ‘‘केसञ्ची’’ति वुत्तानं सहजातानं मूलभावो वेदितब्बो. रत्तो खोतिआदिना सुत्तपदेनपि पाणातिपातादीनं अकुसलानं लोभस्स मूलकारणतं विभावेति, न मूलट्ठेनुपकारत्थं अविसेसतो तेसं हेतुपच्चयत्ताभावतो.

अकुसलकम्मपथवण्णना निट्ठिता.

कुसलकम्मपथवण्णना

वेरन्ति पाणातिपातादिपापधम्मं. सो हि वेरहेतुताय ‘‘वेर’’न्ति वुच्चति, तं मणति ‘‘मयि इध ठिताय कथमागच्छसी’’ति तज्जेन्ती विय निवारेतीति वेरमणी. तेनाह ‘‘पजहती’’ति. ‘‘विरमणी’’ति वत्तब्बे निरुत्तिनयेन एव-कारं कत्वा एवं वुत्तं. विभङ्गे (विभ. ७०३, ७०४) एव निद्दिसनवसेन एवं वुत्ता. असमादिन्नसीलस्स सम्पत्ततो यथाउपट्ठितवीतिक्कमितब्बवत्थुतो विरति सम्पत्तविरति, समादानवसेन उप्पन्ना विरति समादानविरति, समादानवसेन उप्पन्ना विरति समादानविरति, किलेसानं समुच्छिन्दनवसेन पवत्ताविरति समुच्छेदविरति.

जीवमानससस्स मंसरुधिरसम्मिस्सताय अल्लससमंसं. मुञ्चि सब्बत्थ समकरुणताय. सच्चं वत्वा ‘‘एतेन सच्चवज्जेन मय्हं मातु रोगो सम्मतू’’ति अधिट्ठासि.

महासप्पोति अजगरो. मुञ्चित्वा अगमासि सीलतेजेन.

कोसल्लं वुच्चति ञाणं, कोसल्लेन, कोसल्लतो वा पवत्तिया उपगमनतो. कुच्छितसयनतोति कुच्छितेनाकारेन सयनतो अनुसयनतो, पवत्तनतो वा. ‘‘वेरमणिकुसला’’ति वत्तब्बापि पुच्छानुरूपं विस्सज्जनन्ति ‘‘कुसला’’ति न वुत्ता, ‘‘कुसल’’न्त्वेव वुत्ता.

कामञ्चेत्थ पाळियं विरतियोव आगता, सिक्खापदविभङ्गे (विभ. ७०४) पन चेतनापि आहरित्वा दीपिताति तदुभयम्पि गण्हन्तो ‘‘चेतनापि वट्टन्ति विरतियोपी’’ति आह.

अनभिज्झा हि मूलं पत्वा कम्मपथकोट्ठासं पत्वा अनभिज्झाति वुत्तधम्मो मूलतो अलोभो कुसलमूलं होतीति एवमत्थो दट्ठब्बो. सेसपदद्वयेपि एसेव नयो.

दुस्सील्यारम्मणा तदारम्मणा जीवितिन्द्रियादिआरम्मणा कथं दुस्सील्यानि पजहन्तीति तं दस्सेतुं ‘‘यथा पना’’तिआदि वुत्तं.

अनभिज्झा …पे… विरमन्तस्साति अभिज्झं पजहन्तस्साति अत्थो. न हि मनोदुच्चरिततो विरति अत्थि अनभिज्झादीहेव तप्पहानसिद्धितो. तेसु अलोभोतिआदीसु यं वत्तब्बं, तं अकुसलमूलेसु वुत्तनयेनेव वेदितब्बं.

अप्पनावारन्ति निगमनवारं. एकेन नयेनाति वेदनादिवसेन अरूपमुखेनेव अनेकविधेसु विपस्सनाकम्मट्ठानेसु एकेन कम्मट्ठाननयेन. ‘‘ठपेत्वा अभिज्झं नव अकुसलकम्मपथा’’ति वत्तब्बं. दसाति वा इदं ‘‘कुसलकम्मपथा’’ति इमिना सम्बन्धितब्बं ‘‘अकुसलकम्मपथा च दस कुसलकम्मपथा चा’’ति. ‘‘ठपेत्वा अभिज्झ’’न्ति हि इमिनाव अकुसलकम्मपथानं नवभावो वुत्तो होति. अथ वा दसाति इदं उभयथापि सम्बन्धितब्बं. अभिज्झा हि पहातब्बापि सति परिञ्ञेय्यतं नातिवत्ततीति. तथा हि वुत्तं ‘‘रूपतण्हा पियरूपं सातरूप’’न्तिआदि, तस्मा सा ताय परिञ्ञेय्यताय दुक्खसच्चेपि सङ्गहं लभतेव, पहातब्बं पन उपादाय ‘‘ठपेत्वा अभिज्झ’’न्ति वुत्तं. तेनेवाह ‘‘परियायेन पन सब्बेपि कम्मपथा दुक्खसच्च’’न्ति. अभिज्झालोभानं पवत्तिआकारसिद्धभेदं उपादाय ‘‘इमे द्वे धम्मा’’ति वुत्तं. सुत्तन्तनयेन तण्हा ‘‘समुदयसच्च’’न्ति वुत्ताति आह ‘‘निप्परियायेन समुदयसच्च’’न्ति. अप्पवत्तीति अप्पवत्तिनिमित्तमाह यथा ‘‘रागक्खयो दोसक्खयो’’ति (सं. नि. ४.३१४). सप्पच्चयताय सङ्खतसभावे दुक्खसच्चे गहिते अप्पच्चयताय असङ्खतं निरोधसच्चं पटिपक्खतो आवत्तति, एकन्तसावज्जे आचयगामिलक्खणे समुदयसच्चे गहिते सावज्जा विगमनं अपचयगामिलक्खणं मग्गसच्चंपटिपक्खतो आवत्ततीति द्वे आवत्तहारवसेन वेदितब्बानीति वुत्तं. तेनेवाह नेत्तियं (नेत्ति. ४.निद्देसवार) –

‘‘एकम्हि पदट्ठाने, परियेसति सेसकं पदट्ठानं;

आवत्तति पटिपक्खे, आवत्तो नाम सो हारो’’ति.

सब्बाकारेनाति कामरागरूपरागादिसब्बप्पकारेहि, सब्बतो वा अपायगमनीयादिआकारतो, तत्थ किञ्चिपि अनवसेसेत्वा वा. सब्बाकारेनेवाति सब्बाकारतो. नीहरित्वाति अपनेत्वा, समुच्छिन्दित्वाइच्चेव अत्थो. कञ्चि धम्मं अनवकारीकरित्वाति रूपवेदनादीसु कञ्चि एकधम्मम्पि अविनिब्भोगं कत्वा, एकेकतो अग्गहेत्वा समूहतोव गहेत्वाति अत्थो. अस्मीति अहमस्मीति मानग्गाहवसेन. सो पन यस्मा पञ्चक्खन्धे निरवसेसतो गण्हाति, तस्मा वुत्तं ‘‘समूहग्गहणाकारेना’’ति. यस्मा चेत्थ अग्गमग्गचित्तं वुच्चति, तस्मा आह ‘‘दिट्ठिसदिसं मानानुसय’’न्ति. ‘‘यं रूपं तं अह’’न्तिआदिना यथा दिट्ठि रूपादिं ‘‘अहमस्मी’’ति गण्हन्ती पवत्तति, एवं मानोपि ‘‘सेय्योहमस्मी’’तिआदिनाति आह ‘‘मानानुसयो अस्मीति पवत्तत्ता दिट्ठिसदिसो’’ति. परिच्छेदकरोति ओसानपरिच्छेदकरो इतो परं दुक्खस्साभावकरणतो. कम्मपथदेसनायाति कम्मपथमुखेन पवत्तचतुसच्चदेसनाय. मनसिकारप्पटिवेधवसेनाति विपस्सनामनसिकारमग्गप्पटिवेधवसेन.

कुसलकम्मपथवारवण्णना निट्ठिता.

आहारवारवण्णना

९०. आहरतीति (सं. नि. टी. २.२.११) आनेति, उप्पादेति उपत्थम्भेति चाति अत्थो. निब्बत्ताति पसुता. ततो पट्ठाय हि लोके जातवोहारो. पटिसन्धिग्गहणतो पन पट्ठाय याव मातुकुच्छितो निक्खमनं, ताव सम्भवेसिनो. एस ताव गब्भसेय्यकेसु भूतसम्भवेसिविभागो, इतरेसु पन पठमचित्तादिवसेन वुत्तो. सम्भव-सद्दो चेत्थ गब्भसेय्यकानं वसेन पसूतिपरियायो, इतरेसं वसेन उप्पत्तिपरियायो. पठमचित्तपठमइरियापथक्खणेसु हि ते सम्भवं उप्पत्तिं एसन्ति उपगच्छन्ति नाम, न ताव भूता उप्पत्तिया न सुप्पतिट्ठितत्ता. भूतायेव सब्बसो भवेसनाय समुच्छिन्नत्ता. न पुन भविस्सन्तीति अवधारणेन निवत्तितमत्थं दस्सेति, ‘‘यो च कालघसो भूतो’’तिआदीसु (जा. १.२.१९०) भूत-सद्दस्स खीणासववाचिता दट्ठब्बा. वा-सद्दो चेत्थ सम्पिण्डनत्थो ‘‘अग्गिना वा उदकेन वा’’तिआदीसु (उदा. ७६) विय.

यथासकं पच्चयभावेन अत्तभावस्स पट्ठपनमेवेत्थआहारेहि कातब्बअनुग्गहोति अधिप्पायेनाह ‘‘वचनभेदो…पे… एकोयेवा’’ति. सत्तस्स उप्पन्नधम्मानन्ति सत्तस्ससन्ताने उप्पन्नधम्मानं. यथा ‘‘वस्ससतं तिट्ठती’’ति वुत्ते अनुप्पबन्धवसेन पवत्ततीति वुत्तं होति, एवं ठितियाति अनुप्पबन्धवसेन पवत्तियाति अत्थो, सा पन अविच्छेदोति आह ‘‘अविच्छेदाया’’ति. अनुप्पबन्धधम्मुप्पत्तिया सत्तसन्तानो अनुग्गहितो नाम होतीति आह ‘‘अनुप्पन्नानं उप्पादाया’’ति. एतानीति ठितिअनुग्गहपदानि. उभयत्थ दट्ठब्बानि, न यथासङ्ख्यं.

वत्थुगता ओजा वत्थु विय तेन सद्धिं आहरितब्बतं गच्छतीति वुत्तं ‘‘अज्झोहरितब्बतो आहारो’’ति. निब्बत्तितओजं पन सन्धाय ‘‘कबळीकाराहारो ओजट्ठमकरूपानि आहरती’’ति वक्खति. ओळारिकता अप्पोजताय, न वत्थुनो थूलताय, कथिनताय वा, तस्मा यस्मिं वत्थुस्मिं परित्ता ओजा होति, तं ओळारिकं. सप्पादयो दुक्खुप्पादकताय ओळारिकावेदितब्बा. विसाणादीनं तिवस्सछड्डितानं पूतिभूत्तता मुदुकताति वदन्ति, तरच्छखेळतेमिकताय पन तथाभूतानं तेसं मुदुकता. धम्मसभावो हेस. ससानं आहारो सुखुमो तरुणतिणसस्सखादनतो. सकुणानं आहारो सुखुमो तिणबीजादिखादनतो. पच्चन्तवासीनं सुखुमो, तेसञ्हि साकपण्णसुक्खकुरपदुमपत्तम्पि आहारोति. तेसं परनिम्मितवसवत्तीनं. सुखुमोत्वेवाति न किञ्चि उपादाय, अथ खो सुखुमो इच्चेव निट्ठं पत्तो ततो परं सुखुमस्स अभावतो.

वत्थुवसेन पनेत्थ आहारस्स ओळारिकसुखुमता वुत्ता, सा चस्स अप्पोजमहोजताहि वेदितब्बाति दस्सेतुं ‘‘एत्थ चा’’तिआदि वुत्तं. परिस्समन्ति खुदावसेन उप्पन्नं सरीरखेदं. विनोदेतीति वत्थु तस्स विनोदनमत्तं करोति. न पन सक्कोति पालेतुन्ति सरीरं यापेतुं नप्पहोति निस्सारत्ता. न सक्कोति परिस्समं विनोदेतुं आमासयस्स अपूरणतो.

छब्बिधोपीति इमिना कस्सचिपि फस्सस्स अनवसेसितब्बतमाह. आहारस्सदेसनाक्कमेनेवेत्थ फस्सादीनं दुतियादिता, न अञ्ञेन कारणेनाति आह ‘‘देसनानयो एवा’’तिआदि. मनसो सञ्चेतना, न सत्तस्साति दस्सनत्थं मनोगहणं यथा ‘‘चित्तस्स ठिति (ध. स. ११), चेतोविमुत्ति चा’’ति (म. नि. १.६९) आह ‘‘मनोसञ्चेतनाति चेतना एवा’’ति. चित्तन्ति यं किञ्चि चित्तं, न विपाकविञ्ञाणमेव.

पुब्बे ‘‘आहारन्ति पच्चय’’न्ति वुत्तत्ता ‘‘यदि पच्चयट्ठो आहारट्ठो’’तिआदिना चोदेति. अथ कस्मा इमेयेव चत्तारो वुत्ताति अथ कस्मा चत्तारोव वुत्ता, इमे एव च वुत्ताति योजना. विसेसपच्चयत्ताति एतेन यथा अञ्ञे पच्चयधम्मा अत्तनो पच्चयुप्पन्नस्स पच्चयाव होन्ति, इमे पन तथा च होन्ति अञ्ञथा चाति समानेपि पच्चयत्ते अतिरेकपच्चया होन्ति, तस्मा आहाराति वुत्ताति इममत्थं दस्सेति. इदानि तं अतिरेकपच्चयतं दस्सेतुं ‘‘विसेसपच्चयो ही’’तिआदि आरद्धं. विसेसपच्चयो रूपकायस्स कबळीकारो आहारो उपत्थम्भकभावतो. तेनाह अट्ठकथायं (विसुद्धि. २.७०८; पट्ठा. अट्ठ. पच्चयुद्देसवण्णना) ‘‘रूपारूपानं उपत्थम्भकत्तेन उपकारका चत्तारो आहारा आहारपच्चयो’’ति. उपत्थम्भकत्तञ्हि सतिपि जनकत्ते अरूपीनं आहारानं आहारजरूपसमुट्ठापकरूपाहारस्स च होति, असति पन उपत्थम्भकत्ते आहारानं जनकत्तं नत्थीति उपत्थम्भकत्तं पधानं. जनयमानोपि हि आहारो अविच्छेदवसेन उपत्थम्भयमानो एव जनेतीति उपत्तम्भकभावो एव आहारभावो. वेदनाय फस्सो विसेसपच्चयो. ‘‘फस्सपच्चया वेदना’’ति हि वुत्तं. ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति (उदा. १; म. नि. ३.१२६) वचनतो विञ्ञाणस्समनोसञ्चेतना. ‘‘चेतना तिविधं भवं जनेती’’ति हि वुत्तं. ‘‘विञ्ञाणपच्चया नामरूप’’न्ति पन वचनतो नामरूपस्स विञ्ञाणं विसेसपच्चया. न हि ओक्कन्तिविञ्ञाणाभावे नामरूपस्स अत्तसम्भवो. यथाह ‘‘विञ्ञाणञ्च हि, आनन्द, मातुकुच्छिस्मिं न ओक्कमिस्सथ, अपि नु खो नामरूपं मातुकुच्छिस्मिं समुच्चिस्सथा’’तिआदि (दी. नि. २.११५). वुत्तमेवत्थं सुत्तेन साधेतुं ‘‘यथाहा’’तिआदि वुत्तं.

एवं यदिपि पच्चयट्ठो आहारट्ठो, विसेसपच्चयताय पन इमे एव आहाराति वुत्ताति तं नेसं विसेसपच्चयतं अविभागतो दस्सेत्वा इदानि विभागतो दस्सेतुं ‘‘को पनेत्था’’तिआदि आरद्धं. मुखे ठपितमत्तोयेव असङ्खादितो, तत्तकेनपि अब्भन्तरस्स आहारस्स पच्चयो होति एव. तेनाह ‘‘अट्ठ रूपानि समुट्ठापेती’’ति. सुखवेदनाय हितो सुखवेदनियो. सब्बथापीति चक्खुसम्फस्सादिवसेन. यत्तका फस्सस्स पकारभेदा, तेसं वसेन सब्बप्पकारोपि फस्साहारो. यथारहं तिस्सो वेदना आहरति, अनाहारको नत्थि.

सब्बथापीति इधापि फस्साहारे वुत्तनयानुसारेन अत्थो वेदितब्बो. तिसन्ततिवसेनाति कायदसकं भावदसकं वत्थुदसकन्ति तिविधसन्ततिवसेन. सहजातादिपच्चयनयेनाति सहजातादिपच्चयविधिना. पटिसन्धिविञ्ञाणञ्हि अत्तना सहजातनामस्स सहजातअञ्ञमञ्ञनिस्सयविपाकिन्द्रियसम्पयुत्तअत्थिअविगतपच्चयेहि पच्चयो होन्तोयेव आहारपच्चयताय तं आहारेती वुत्तं, सहजातरूपेसु पन वत्थुनो सम्पयुत्तपच्चयं ठपेत्वा विप्पयुत्तपच्चयेन, सेसरूपस्स अञ्ञमञ्ञपच्चयञ्च ठपेत्वा वुत्तनयेनेवयोजना कातब्बा. तानीति नपुंसकनिद्देसो अनपुंसकानम्पि नपुंसकेहि सह वचनतो.

सासवा कुसलाकुसलचेतनाव वुत्ता. विसेसपच्चयभावदस्सनं हेतन्ति. तेनाह ‘‘अविसेसेन पना’’तिआदि. पटिसन्धिविञ्ञाणमेव वुत्तन्ति एत्थापि एसेव नयो. यथा तस्स तस्स फलस्स विसेसतो पच्चयताय एतेसं आहारट्ठो, एवं अविसेसतोपीति दस्सन्तेन ‘‘अविसेसेन पना’’तिआदि वुत्तं. तत्थ तंसम्पयुत्ततंसमुट्ठानधम्मानन्ति तेहि फस्सादीहि सम्पयुत्तधम्मानञ्चेव तंसमुट्ठानरूपधम्मानञ्च. तत्थ सम्पयुत्तग्गहणं यथारहतो दट्ठब्बं, समुट्ठानग्गहणं पन अविसेसतो.

उपत्थम्भेन्तो आहारकिच्चं साधेतीति उपत्थम्भेन्तोयेव रूपं समुट्ठापेति, ओजट्ठमकरूपसमुट्ठापनेनेव पनस्स उपत्थम्भनकिच्चसिद्धि. फुसन्तोयेवाति फुसनकिच्चं करोन्तो एव. आयूहमानावाति चेतयमाना एव अभिसन्दहन्ती एव. विजानन्तमेवाति उपपत्तिपरिकप्पनवसेन विजानन्तमेव आहारकिच्चं साधेतीति योजना. सेसपदद्वयेपि एसेव नयो. आहारकिच्चसाधनञ्च तेसं वेदनादिउप्पत्तिहेतुताय अत्तभावस्स पवत्तनमेव.

कायट्ठपनेनाति कस्मा वुत्तं? ननु कम्मजादिरूपं कम्मादिनाव पवत्ततीति चोदनं सन्धायाह ‘‘कम्मजनितोपी’’तिआदि. उपादिन्नरूपसन्ततिया उपत्थम्भनेनेव उतुचित्तजरूपसन्ततीनम्पि उपत्थम्भनसिद्धि होतीति ‘‘द्विन्नं रूपसन्ततीन’’न्ति वुत्तं. उपत्थम्भनमेव सन्धाय ‘‘अनुपालको हुत्वा’’ति च वुत्तं. रूपकायस्स ठितिहेतुता हि यापना अनुपालना.

सुखादिवत्थुभूतन्ति सुखादीनं पवत्तिट्ठानभूतं. आरम्मणम्पि हि वसति एत्थ आरम्मणकरणवसेन तदारम्मणा धम्माति वत्थूति वुच्चति. फुसन्तोयेवाति इदं फस्सस्स फुसनसभावत्ता वुत्तं. न हि धम्मानं सभावेन विना पवत्ति अत्थि. वेदनापवत्तिया विना सत्तानं सन्धावनता नत्थीति आह ‘‘सुखादि…पे… होती’’ति, न चेत्थ सञ्ञीभवकथायं असञ्ञीभवो दस्सेतब्बो, तस्सापि वा कारणभूतवेदनापवत्तिवसेनेव ठितिया हेतुनो अब्यापिता. तथा हि ‘‘मनोसञ्चेतना…पे… भवमूलनिप्फादनतो सत्तानं ठितिया होती’’ति वुत्ता, ततो एव ‘‘विञ्ञाणं विजानन्तमेवाति उपपत्तिपरिकप्पनवसेन विजानन्तमेवा’’ति वुत्तोवायमत्थोति.

चत्तारि भयानि दट्ठब्बानि आदीनवविभावनतो. निकन्तीति निकामना. रसतण्हं सन्धाय वदति. सा हि कबळीकारे आहारे बलवती. तेनेव तत्थ अवधारणं कतं. भायति एतस्माति भयं, निकन्तियेवभयं महानत्थहेतुतो. उपगमनं विसयिन्द्रियविञ्ञाणेसु विसयविञ्ञाणेसु एव च सङ्गतिवसेन पवत्ति, तं वेदनादिउप्पत्तिहेतुताय ‘‘भय’’न्ति वुत्तं. अवधारणे पयोजनं वुत्तनयमेव. सेसद्वयेपि एसेवनयो. आयूहनं अभिसन्दहनं, संविधानन्तिपि वदन्ति. तं भवूपपत्तिहेतुताय ‘‘भय’’न्ति वुत्तं. अभिनिपातो तत्थ तत्थ भवे पटिसन्धिग्गहणवसेन निब्बत्ति. सो भवूपपत्तिहेतुकानं सब्बेसं अनत्थानं मूलकारणत्ता ‘‘भय’’न्ति वुत्तो. इदानि निकन्तिआदीनं सप्पटिभयतं वित्थारतो दस्सेतुं ‘‘किंकारणा’’तिआदि आरद्धं. तत्थ निकन्तिं कत्वाति आलयं जनेत्वा, तण्हं उप्पादेत्वाति अत्थो.

फस्स उपगच्छन्ताति चक्खुसम्फस्सादिभेदं फस्सं पवत्तेन्ता. फस्सस्सादिनोति कायसम्फस्सवसेन फोट्टब्बसङ्खातस्स फस्सस्स अस्सादनसीला. कायसम्फस्सवसेन हि सत्तानं फोट्ठब्बतण्हा पवत्ततीति दस्सेतुं फस्साहारादीनवदस्सने फोट्ठब्बारम्मणं उद्धटं ‘‘परेसं रक्खितगोपितेसू’’तिआदिना. फस्सस्सादिनोति वा फस्साहारस्सादिनोति अत्थो. सति हि फस्साहारे सत्तानं फस्सारम्मणे अस्सादो, नासतीति. तेनाह ‘‘फस्सस्सादमूलक’’न्तिआदि.

जातिनिमित्तस्स भयस्स अभिनिपातसभावेन गहितत्ता ‘‘तम्मूलक’’न्ति वुत्तं, कम्मायूहननिमित्तन्ति अत्थो.

अभिनिपततीति अभिनिब्बत्तति. पठमाभिनिब्बत्ति हि सत्तानं तत्थ तत्थ अङ्गारकासुसदिसे भवे अभिनिपातसदिसीति. तम्मूलकत्ताति नामरूपनिब्बत्तिमूलकत्ता.

तत्राति तासु उपमासु. भूतमत्थं कत्वाति न परिकप्पितमत्थं, अथ खो भूतं भूतपुब्बं अत्थं कत्वा. पाथेय्यहत्थेसु गच्छन्तेसु पाथेय्यं, गच्छन्तं विय होतीति वुत्तं ‘‘गन्त्वा पाथेय्यं निट्ठासी’’ति. गन्त्वाति वागमनहेतूति अत्थो. खुप्पिपासातुरताय घनच्छायं रुक्खं उपगन्तुं असमत्था विरळ्हच्छायायं निसीदिंसु. न दानि सक्का तं मया कातुं अतिदुब्बलभावतो. परिक्खलितगतितरुणदारको खुप्पिपासाभिभूतो च, तस्मा गच्छन्तोयेव मतो.

सजातिमंसतायाति (सं. नि. टी. २.२.६३) समानजातिमंसताय, मनुस्समंसतायाति अत्थो. यं मनुस्समंसं, तञ्हि लोके जिगुच्छनीयत्ता पटिकुलं. तथा हि तं विञ्ञूहि वज्जितं, मनुस्समंसेसुपि ञातिमंसं अयुत्तपरिभोगताय पटिकूलं, तत्थापि पुत्तमंसं, तत्थापि पियपुत्तमंसं, तत्थापि तरुणमंसं, तत्थापि आमकमंसं, तत्थापि अगोरसाभिसङ्खतं, तत्थापि अलोणं, तत्थापि अधूपितन्ति एवं हेट्ठिमतो उत्तरुत्तरस्स पटिकूलतरभावकारणता दट्ठब्बा. पुत्तमंससदिसन्ति पटिकूलताउपट्ठापनेन पुत्तमंससदिसं कत्वा पस्सति. तत्थ निकन्तिं परियादियतीति अरियमग्गेन आहारे सापेक्खं खेपेति.

सा गावीति ‘‘सेय्यथापि भिक्खवे गावी’’ति (सं. नि. २.६३) एवं सुत्ते वुत्तगावी. उद्दालेत्वाति उप्पाटेत्वा. निस्साय तिट्ठतीति पटिच्चपच्चयं कत्वा पवत्तति. दुक्खदुक्खतादिवसेन तिण्णम्पि वेदयितानं दुक्खभावं सन्धायाह ‘‘वेदयितदुक्खस्सा’’ति.

साधुसम्मतापि गति विपरिणामसङ्खारदुक्खतावसेन किलेसदुक्खवसेन च महापरिळाहायेवाति वुत्तं ‘‘महापरिळाहट्ठेन तयो भवा’’ति. यथा उपकड्ढका द्वे पुरिसा, एवं कुसलाकुसलवसेन द्वे मनोसञ्चेतना. यथा मनोसञ्चेतना न पवत्तति, तथा पटिपज्जन्तो तत्थ निकन्तिं परियादियतीति वेदितब्बो.

सत्तिसतेन हता एव उपमा सत्तिसतहतूपमा, तस्सं सत्तिसतहतूपमायं. तं सत्तिसतं. अस्स पुरिसस्स. पतितोकासेति पुरिमसत्तीहि पतितप्पदेसे. दुक्खस्स पमाणं नत्थि अनेकस्स अपरापरं उप्पज्जनतो. खन्धजननन्ति खन्धानं अपरापरुप्पादो, पठमाभिनिब्बत्ति पन पटिसन्धि एव. आगुचारी पुरिसो विय पटिसन्धिविञ्ञाणं नानप्पकारदुक्खुप्पादसन्निस्सयतो, तेहि च दुक्खेहि उपगन्तब्बतो. सम्पयुत्तधम्मानं पमुखभावेन पवत्तिया ‘‘विञ्ञाणस्स दुक्खुप्पादोति वुत्ता. तथा हि वुत्तं ‘‘मनोपुब्बङ्गमा धम्मा’’ति (ध. प. १, २) यथा विञ्ञाणं आयतिं पटिसन्धिवसेन न पवत्तति, एवं करणं तत्थ निकन्तिपरियादानं दट्ठब्बं.

परिञ्ञातं वत्थूति दुक्खसच्चमाह. पञ्चकामगुणिको रागोति पञ्चकामगुणारम्मणो रागो. परिञ्ञातो होतीति परिच्छिज्ज जाननेन समतिक्कन्तो होति. रसतण्हाय हि सम्मदेव विगताय रूपतण्हादयोपि विगतायेव होन्ति. तथा च सति कामरागसंयोजनं समुच्छिन्नमेव होति, एवं करणं तत्थ निकन्तिपरियादानं दट्ठब्बं. परिञ्ञाभिसमये हि सिद्धे पहानाभिसमयो सिद्धो एवाति. पहीने च कामरागसंयोजने ओरम्भागियसंयोजनानं लेसोपि नावसिस्सतीति दस्सेन्तो आह ‘‘नत्थि तं संयोजन’’न्तिआदि. तेन कबळीकाराहारपरिञ्ञा अनागामितं पापेतीति दस्सेति. सेसाहारपरिञ्ञा पन अरहत्तनिट्ठा एवाति दस्सेन्तो ‘‘फस्से भिक्खवे’’तिआदिमाह. तत्थ तिस्सो तण्हाति कामतण्हा रूपतण्हा अरूपतण्हाति इमा तिस्सो तण्हा.

‘‘पुरिमतण्हासमुदया’’ति सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘कथ’’न्तिआदि आरद्धं. तत्थ तण्हापच्चयनिब्बत्ताति तण्हापच्चया निब्बत्ता. पटिसन्धिक्खणे पुरिमतण्हासमुदया आहारानं समुदयदस्सनेनेव पवत्तिक्खणेपि उपादिन्नकआहारसमुदयो दस्सितो होतीति तं अनामसित्वा अनुपादिन्नकानं तण्हासमुदयं दस्सेतुं ‘‘यस्मा पना’’तिआदि वुत्तं. इधाति इमस्मिं सुत्ते मिस्सित्वा कथिता अविसेसितत्ता. सहजाततण्हापच्चयनिब्बत्तोति एत्थ सहजातग्गहणं असहजाततण्हापच्चयनिब्बत्तोपि अनुपादिन्नकआहारो लब्भतीति दस्सनत्थं. सो पन असहजाततण्हापच्चयनिब्बत्ततासामञ्ञेनपि यथावुत्तउपादिन्नकाहारेन संसयं जनेय्याति न उद्धटो, न च एतं कारणं ‘‘रागं उपनिस्साय दोमनस्सं उप्पज्जती’’ति वचनतो, तण्होपनिस्सयपटिघचित्तसमुट्ठानाय च ओजाय वसेन अनुपादिन्नकआहारस्स लब्भनतो. कथं पन तण्हा ओजाय उपनिस्सयपच्चयो; न हि पट्ठाने कत्थचि रूपस्स उपनिस्सयपच्चयो वुत्तो अत्थीति. नायं विरोधो ‘‘यस्मिं सति यं होति, सो तस्स उपनिस्सयो’’ति सुत्तन्तनयस्स अधिप्पेतत्ता यथावुत्तत्थसम्भवतो. तेनेवाह ‘‘इमिस्सा…पे… तण्हाय निरोधेना’’ति.

कारणे सब्बसो निरुद्धे फलम्पि सब्बसो निरुज्झतीति आह ‘‘आहारनिरोधो पञ्ञायती’’ति. आहारानं दुक्खसच्चेकदेसत्ता आहारग्गहणं दुक्खसच्चग्गहणमेव होतीति आह ‘‘इध चत्तारिपि सच्चानि सरूपेनेव वुत्तानी’’ति. सच्चदेसना दुक्खादीनं यावदेव परिञ्ञेय्यादिभावसन्दस्सनत्था, तस्मा जरामरणादीसु परिञ्ञेय्यादिभावो असम्मोहतो सल्लक्खेतब्बोति दस्सेन्तो ‘‘सब्बत्थ असम्मुय्हन्तेन सच्चानि उद्धरितब्बानी’’ति आह.

आहारवारवण्णना निट्ठिता.

सच्चवारवण्णना

९१. येन येन परियायेन ब्याकरोतीति येन येन दुक्खादिजरामरणादिपरियायेन अरियसच्चानि सङ्खेपतो च वित्थारतो च कथेति. दुक्खन्ति दुक्खसच्चं दुक्खं, न दुक्खमत्तं.

सच्चवारवण्णना निट्ठिता.

जरामरणवारवण्णना

९२. तेसं तेसन्ति ब्यापनिच्छावसेनायं निद्देसो कतो, तस्मा यथा ‘‘गामो गामो रमणीयो’’ति वुत्ते रमणीयताय तादिसा सब्बेपि गामा सङ्गहं गच्छन्ति, एवं ‘‘तेसं तेसं सत्तानं जाती’’ति वुत्ते जातिसङ्खातविकारवसेन सब्बेपि सत्ता सङ्गहं गच्छन्ति. तेनाह ‘‘सङ्खेपतो अनेकेसं सत्तानं साधारणनिद्देसो’’ति.

गतिजातिवसेनाति (सं. नि. टी. २.१.२) पञ्चगतिवसेन, तत्थापि एकेकाय गतिया खत्तियादिभुम्मदेवादिहत्थिआदिजातिवसेन च. निकिय्यन्ति सत्ता एत्थ, एतेन वाति निकायो, गोत्तचरणादिविभागो. जराय सभावो नाम वयोहानि, तस्मा जराति वयोहानिसङ्खातस्स सभावस्स निद्देसो, पाकटजरावसेन निद्देसो खण्डिच्चादिवसेन गहणतो. जीरणमेव जीरणता, जीरन्तस्स वा आकारो ता-सद्देन वुत्तो. तेनाह ‘‘अयं आकारनिद्देसो’’ति. दन्तादीनं वसेन खण्डं जातं एतस्साति खण्डितो, पुग्गलो. तस्स भावो खण्डिच्चं. पलितं एतस्स अत्थीति पलितो, तस्स भावो पालिच्चं. वलि तचो एतस्साति वलित्तचो, तस्स भावो वलित्तचता. इमे खण्डिच्चादयो जरा. विकारानं दस्सनवसेनाति विपत्तिदस्सनवसेन. वातस्साति महतो वातक्खन्धस्स. खण्डिच्चादिवसेन गतमग्गो पाकटो, तस्मा खण्डिच्चादिग्गहणं जराय किच्चनिद्देसोति वुत्तन्ति दस्सेति. न च खण्डिच्चादीनेव जराति कललकालतो पभुति पुरिमरूपानं जरापत्तक्खणे उप्पज्जमानानि पच्छिमरूपानि परिपक्करूपानुरूपानि परिणतपरिणतानि उप्पज्जन्तीति अनुक्कमेन सुपरिणतरूपानं परिपाककाले उप्पज्जमानानि खण्डिच्चादिसभावानि उप्पज्जन्ति, तानि उदकादिमग्गेसु तिणरुक्खसंभग्गतादयो विय परिपाकगतमग्गसङ्खातेसु परिपक्करूपेसु उप्पन्नानि ‘‘जराय गतो मग्गो’’इच्चेव वुत्तानि, न जराति.

पकतियाति फलविपच्चनपकतिया, जराय वा पापुणितब्बं फलमेवपकति, ताय जरा दीपिता. सुप्पसन्नानीति सुट्ठु पसन्नानि. तमेव सुप्पसन्नतं किच्चतो दस्सेतुं ‘‘सुखुमम्पी’’तिआदि वुत्तं. तिक्खविसदता हि तेसं इन्द्रियानं सुप्पसन्नता. आलुळितानीति आकुलानि. अविसदानीति अब्यत्तानि.

कामं रूपधम्मेसुपि खणिकजरा दुरुपलक्खिता पटिच्छन्नाव, सा पन यस्मा सन्तानवसेन पवत्तिया परिब्यत्ताव होतीति ‘‘पाकटजरा’’इच्चेव वुत्ता. अवीचि निरन्तरा जरा अवीचिजरा सति सन्ताने सत्तानं अनुप्पबन्धतो. ततो अञ्ञेसूति मन्ददसकादीसु पुब्बदसकादिपरिच्छेदतो अञ्ञेसु यथावुत्तेसु. अन्तरन्तराति तेसु एव वुत्तप्पकारेसु पुरिमदसकादितो पच्छिमदसकादीनं अन्तरन्तरा. वण्णविसेसादीनन्ति वण्णविसेससण्ठानविसेससम्फस्सविसेसादीनं.

वचनकवसेनाति क-कारेन हि पदं वड्ढेत्वा वुत्तं, तस्मा चवनं चुतीति वुत्तं होति. तं पन एकचतुपञ्चवोकारभवेसु चुतिया अविसेसतो गहणन्ति आह ‘‘एकचतुपञ्चक्खन्धानं सामञ्ञवचन’’न्ति. चवनकवसेनाति वा चवनकस्स पुग्गलस्स वसेनाति अत्थो. चवनमेव चवनताति आह ‘‘भाववचनेना’’ति. लक्खणनिदस्सनन्ति वयसङ्खातस्स लक्खणस्स निदस्सनं. चवन्तस्स वा आकारो ता-सद्देन वुत्तो ‘‘चवनता’’ति. भिज्जनं भेदोति वुत्तं ‘‘चुतिक्खन्धानं भङ्गुप्पत्तिपरिदीपन’’न्ति. यथा भिन्नस्स घटस्स केनचि परियायेन घनघटभावेन ठानं नत्थि, एवं भिन्नानं खन्धानन्ति चवनं अन्तरहितं नामाति आह ‘‘अन्तरधानन्ति…पे… परिदीपन’’न्ति. यो मच्चूति वुच्चति भेदो, यञ्च मरणं पाणचागो, तदुभयं एकज्झं कत्वा वुत्तं ‘‘मच्चु मरण’’न्ति एवं वा एत्थ अत्थो दट्ठब्बो. कालस्स अन्तकस्स किरियाति या लोके वुच्चति, सा चुति, मरणन्ति अत्थो. चवनकालो एव वा अनतिक्कमनीयत्ता विसेसेन कालोति वुत्तोति तस्स किरिया अत्थतो चुतिक्खन्धानं भेदप्पत्तियेव. ‘‘चुति चवनता’’तिआदिना पुब्बे वोहारमिस्सकेन निद्दिट्ठं.

इदानि निब्बत्तितपरमत्थनयेनेव निद्देसोति दस्सेतुं ‘‘परमत्थेन दीपेतु’’न्ति वुत्तं. ‘‘चवनकवसेना’’तिआदिना हि पुग्गलवसेन च वोहाराधिट्ठाना संवण्णना कता. न किञ्चि कळेवरं निक्खिपकि ओपपातिकानं चुतिक्खन्धानं अन्तरधानमेवहोति, ततो परं उतुसमुट्ठानरूपसन्तति न पवत्तति. ‘‘जातिसमुदया’’तिआदीसु यं वत्तब्बं, तं ‘‘तण्हासमुदया’’तिआदीसु वुत्तनयनेव सक्का विञ्ञातुन्ति न वुत्तं.

जरामरणवारवण्णना निट्ठिता.

जातिवारवण्णना

९३. जायनट्ठेनातिआदि आयतनवसेन योनिवसेन च द्वीहि द्वीहि पदेहि सब्बसत्ते परियादियित्वा जातिं दस्सेतुं वुत्तं. सम्मोहविनोदनियं (विभ. अट्ठ. १९१) पन ‘‘जायमानकवसेन जाति, सञ्जायनवसेन सञ्जाती’’ति वुत्तत्ता तत्थ एकेकेनेव पदेन सब्बसत्ते परियादियित्वा जातिं दस्सेतीति दट्ठब्बं. सम्पुण्णा जाति सञ्जातीति कत्वा ‘‘सा परिपुण्णायतनवसेन युत्ता’’ति वुत्तं. एतेनेव केवलं जातिसद्देन वुत्ताय जातिया अपरिपुण्णायतनता दट्ठब्बा. अभिब्यत्ता निब्बत्ति अभिनिब्बत्ति, पाकटा निब्बत्तीति अत्थो. ‘‘तेसं तेसं सत्तानं…पे… अभिनिब्बत्ती’’ति सत्तवसेन पवत्तत्ता वोहारदेसना.

तत्र तत्राति एत्थ चतुवोकारभवे द्विन्नं, एकवोकारभवे द्विन्नं, सेसरूपधातुयं पटिसन्धिक्खणे उप्पज्जमानानं पञ्चन्नं, कामधातुयं विकलाविकलिन्द्रियवसेन सत्तन्नं नवन्नं दसन्नं, पुन दसन्नं, एकादसन्नञ्च आयतनानं वसेन सङ्गहो वेदितब्बो. यदिपि चुतिक्खन्धा अनन्तरानं पटिसन्धिकधम्मानं अनन्तरादिना पच्चया होन्ति, ये पन समुदया अजनका, ते एत्थ उपपत्तिभवोति अधिप्पेता. जनको एव भवोति अधिप्पेतोति दस्सेन्तो ‘‘जातिया पच्चयभूतो कम्मभवो वेदितब्बो’’ति आह.

जातिवारवण्णना निट्ठिता.

भववारवण्णना

९४. भावनभवनट्ठेन भवो दुविधो. तत्थ कम्मभवो ‘‘भवति एतस्मा उपपत्तिभवो’’ति भावनट्ठेन भवो. अट्ठकथायं पन उपपत्तिभवं ‘‘भवतीति भवो’’ति वत्वा तस्स कारणत्ता कम्मं फलूपचारेन भवोति अयमत्थो वुत्तो, उभयत्थापि उपपत्तिभवहेतुभावनेत्थ कम्मस्स कम्मभवपरियायोति दस्सितं होति. सब्बथापीति भावनभवनकुसलाकुसलउपपत्तिसम्पत्तिभवहीनपणीतादिना सब्बप्पकारेनपि. कामभवोति वुत्तं कामतण्हाहेतुकतो कामतण्हाय आरम्मणभावतो च. रूपभवूपगकम्मं रूपभवो, तथा अरूपभवूपगकम्मं अरूपभवो, तंतंनिब्बत्तक्खन्धा रूपारूपुपत्तिभवा, रूपारूपभवभावो पन तेसं ‘‘कामभवो’’ति एत्थ वुत्तनयेनेव वेदितब्बो.

भववारवण्णना निट्ठिता.

उपादानवारवण्णना

९५. उपादानन्ति चतुब्बिधम्पि उपादानं. यथा हि कामस्सादवसेन, भवस्सादवसेन वा तंतंसुगतिभवूपगं कम्मं करोन्तस्स कामुपादानं, एवं उच्छेदादिमिच्छाभिनिवेसवसेनाति चत्तारिपि उपादानानि यथारहं तस्स तस्स कुसलकम्मभवस्स उपनिस्सयवसेनेव पच्चया होन्ति, अकुसलकम्मभवस्स असहजातस्स अनन्तरस्स उपनिस्सयवसेनपि आरम्मणवसेनपि. सहजातस्स कामुपादानं सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगत-हेतु-वसेन सत्तधा, सेसउपादानानि तत्थ हेतुपच्चयभावं पहाय मग्गपच्चयं पक्खिपित्वा सत्तधाव पच्चया होन्ति. अनन्तरस्स पन अनन्तरसमनन्तरअनन्तरूपनिस्सयनत्थिविगतासेवनवसेन पच्चया होन्ति. तस्सिदम्पि सहजातादीति आदि-सद्देन सङ्गहितन्ति दट्ठब्बं. वत्थुकामं उपादियति चित्तं, पुग्गलो वा एतेनाति अत्थो. न्ति वत्थुकामं. कामेतीति कामो च सो उपादियतीति उपादानञ्चाति योजना. वुत्तनयेनाति अभिधम्मे वुत्तनयेन.

सस्सतो अत्ताति इदं पुरिमदिट्ठिं उपादियमानं उत्तरदिट्ठिं निदस्सेतुं वुत्तं. यथा एसा दिट्ठि दळ्हीकरणवसेन पुरिमं पुरिमं उत्तरा उत्तरा उपादियति, एवं ‘‘नत्थि दिन्न’’न्तिआदिकापीति. अत्तग्गहणं पन अत्तवादुपादानन्ति नयिदं दिट्ठुपादानदस्सनन्ति दट्ठब्बं. लोको चाति अत्तग्गहणविनिमुत्तगहणं दिट्ठुपादानभूतं इध पुरिमदिट्ठिउत्तरदिट्ठिवचनेहि वुत्तन्ति वेदितब्बं. सब्बदिट्ठिगतस्स ‘‘दिट्ठुपादान’’न्ति एतं अधिवचनं ‘‘सब्बापि दिट्ठि दिट्ठुपादान’’न्ति वचनतो.

सीलब्बतं उपादियन्तीति सीलब्बतं ‘‘सुद्धिमग्गो’’ति उपादियन्ति. एतेन मिच्छाभिनिवेसेन. सयं वा तं मिच्छाभिनिवेससहगतं. सीलब्बतसहचरणतो सीलब्बतञ्च तं दळ्हग्गाहभावतो उपादानञ्चाति सीलब्बतुपादानं. एवं सुद्धीति अभिनिवेसतोति एवं गोसीलगोवतादिचरणेन संसारसुद्धीति अभिनिवेसभावतो. एतेन तं सहचरणतो अभिनिवेसस्स तंसद्दारहतं दस्सेति.

वदन्तीति ‘‘अत्थि मे अत्ता’’तिआदिना वोहरन्ति. एतेन दिट्ठिगतेन. अत्तवादमत्तमेवाति अत्ताति वाचामत्तमेव. एतेन वाचावत्थुमत्तमेतं, यदिदं बाहिरकपरिकप्पितो अत्ताति दस्सेति.

तण्हा कामुपादानस्साति एत्थ ‘‘तत्थ कतमं कामुपादानं? यो कामेसु कामच्छन्दो कामरागो कामनन्दी कामतण्हा कामस्नेहो कामपरिळाहो काममुच्छा कामज्झोसानं. इदं वुच्चति कामुपादान’’न्ति वचनतो तण्हादळ्हत्तं कामुपादानं. तण्हादळ्हत्तन्ति च पुरिमतण्हाउपनिस्सयपच्चयतो दळ्हभूता उत्तरतण्हा एव. केचि पनाहु –

‘‘अप्पत्तविसयपत्थना तण्हा अन्धकारे चोरस्सहत्थप्पसारणं विय, सम्पत्तविसयग्गहणं उपादानं तस्सेव भण्डग्गहणं विया’’ति. अप्पिच्छसन्तुट्ठिपटिपक्खा एते धम्मा परियेसनारक्खदुक्खमूलानि, तस्मा वुत्तलक्खणा तण्हा वुत्तलक्खणस्सेव उपादानस्स अनानन्तरस्स उपनिस्सयवसेन पच्चयो, आरम्मणादिवसेनपि पच्चयो होतियेव, अनन्तरादीनं पन अनन्तरादिवसेन पच्चयो. सब्बस्सपि हि लोभस्स तण्हापरियायोपि कामुपादानपरियायोपि लब्भतेवाति. अवसेसानन्ति दिट्ठुपादानादीनं. सहजातादिवसेनाति सहजातानं सहजातादिवसेन, असहजातानं अनन्तरउपनिस्सयादिवसेनाति सब्बं हेट्ठा वुत्तनयेनेव वेदितब्बं.

उपादानवारवण्णना निट्ठिता.

तण्हावारवण्णना

९६. ‘‘चक्खुसम्फस्सो’’तिआदि फस्सस्स मातितो नामं विय पुत्तस्स वत्थुतो तस्स निस्सयभावेन उप्पत्तिहेतुत्ता, आरम्मणं पन केवलं उप्पत्तिहेतूति वुत्तं ‘‘सेट्ठि…पे… नाम’’न्ति. कामरागभावेनाति वत्थुकामस्स रज्जनवसेन. रूपं अस्सादेन्तीति रुपारम्मणं तण्हाभिनन्दनावसेन अभिरममाना एव अस्सादेन्ती. निच्चन्तिआदिना दिट्ठाभिनन्दनामुखेन रूपं अभिरमन्ती. पेच्च न भविस्सतीति भिज्जित्वा न होति पुन अनुप्पज्जनतो. तथा सद्दकण्हादयोपीति यथा रूपतण्हा कामरागभावेन सस्सतरागवसेन उच्छेदरागवसेनाति च पवत्तिया तिस्सो तण्हा, तथा सद्दतण्हा गन्धरसफोट्ठब्बधम्मतण्हापि. तण्हाविचरितानीति तण्हासमुदाचारा, समुदाचारवसेन पवत्ततण्हाति अत्थो.

अज्झत्तिकस्सुपादायाति (विभ. अट्ठ. ९७३; सं. नि. टी. २.२.२) अज्झत्तिकं खन्धपञ्चकं उपादाय. उपयोगत्थे हि इदं सामिवचनं. अस्मीति होतीति यदेतं अज्झत्तं खन्धपञ्चकं उपादाय तण्हामानदिट्ठिवसेन समूहगाहतो अस्मीति एवं होति, तस्मिं सतीति अत्थो. इत्थस्मीति होतीति खत्तियादीसु ‘‘इदंपकारो अह’’न्ति एवं तण्हामानदिट्ठिवसेन होतीति इदमेत्थ अनुपनिधाय गहणं. एवमादिनाति आदि-सद्देन ‘‘एवंस्मीति, अञ्ञथास्मीति, भविस्सन्ति, इत्थं भविस्सन्ति, एवं भविस्सन्ति, अञ्ञथा भविस्सन्ति, असस्मीति, सतस्मीति, सियन्ति, इत्थं सियन्ति, एवं सियन्ति, अञ्ञथा सियन्ति, अपाहं सियन्ति, अपाहं इत्थं सियन्ति, अपाहं एवं सियन्ति, अपाहं अञ्ञथा सिय’’न्ति (विभ. ९७३) इमेसं तण्हाविचरितानं गहणं. तत्थ एवंस्मीति इदं समतो उपनिधाय गहणं, यथा अयं खत्तियो, यथा अयं ब्राह्मणो, एवं अहम्पीति अत्थो. अञ्ञथास्मीति इदं असमणो उपनिधाय गहणं, यथा अयं खत्तियो, यथा अयं ब्राह्मणो, ततो अञ्ञथा अहं हीनो वा अधिको वाति अत्थो. इति इमानि पुब्बे वुत्तानि द्वेति एतानि पच्चुप्पन्नवसेन चत्तारि तण्हाविचरितानि. भविस्सन्तिआदीनि पन चत्तारि अनागतवसेन वुत्तानि. तेसं पुरिमचतुक्के वुत्तनयेनेव अत्थो वेदितब्बो. असस्मीति असतीति असं. निच्चस्सेतं अधिवचनं, तस्मा सस्सतो अस्मीति अत्थो. सतस्मीति सीदतीति सतं. अनिच्चस्सेतं अधिवचनं, तस्मा असस्सतो अस्मीति अत्थो. इति इमानि द्वे सस्सतुच्छेदवसेन वुत्तानि. इतो परानि सियन्तिआदीनि चत्तारि संसयपरिवितक्कवसेन वुत्तानि, तानि पुरिमचतुक्के वुत्तनयेन अत्थतो वेदितब्बानि. अपाहं सियन्तिआदीनि चत्तारि ‘‘अपि नामाहं भवेय्य’’न्ति एवं पत्थनाकप्पनवसेन वुत्तानि, तानि पुरिमचतुक्के वुत्तनयेनेव वेदितब्बानि.

एत्थ च सस्सतुच्छेदवसेन वुत्ता द्वे दिट्ठिसीसा नाम, अस्मि, भविस्सं, सियं, अपाहं सियन्ति एते पन चत्तारो सुद्धसीसा एव, ‘‘इत्थस्मी’’तिआदयो तयो तयोति द्वादस सीसमूलका नाम. एवमेतानि द्वे दिट्ठिसीसा, चत्तारो सुद्धसीसा, द्वादस सीसमूलकाति अज्झत्तिकस्सुपादाय अट्ठारस्स तण्हाविचरितानि वेदितब्बानि.

बाहिरस्सुपादायाति बाहिरं खन्धपञ्चकं उपादाय. इदम्पि हि उपयोगत्थे सामिवचनं. इमिनाति इमिना रुपेन वा…पे… विञ्ञाणेन वाति एवं रूपादीसु एकमेव ‘‘अह’’न्ति, इतरं किञ्चनपलिबोधभावेन गहेत्वा तण्हादिवसेन ‘‘अस्मी’’ति अभिनिविसति, ‘‘इमिना’’ति अयमेत्थ विसेसो. अस्मीति इमिना खग्गेन वा छत्तेन वा अभिसेकेन वा ‘‘खत्तियोहमस्मी’’ति अभिनिविसति. बाहिररूपादिनिस्सितानीति बाहिरानि परसन्ततिपरियापन्नानि रूपवेदनादीनि निस्सितानि. अट्ठारसाति इमिना ‘‘अस्मी’’तिआदिनयप्पवत्तानि अट्ठारस, तानि पुब्बे वुत्तनयेनेव वेदितब्बानि. ‘‘इमिना’’ति हि अयमेवेत्थ विसेसो, तस्मा ‘‘द्वे दिट्ठिसीसा’’तिआदिना वुत्तनयेनेव निद्धारेत्वा वेदितब्बा. उभयं पन एकज्झं कत्वा आह ‘‘छत्तिंसा’’ति.

निद्देसत्थेनाति ‘‘छयिमे आवुसो तण्हाकाया’’तिआदिनिद्देसपाळिया अत्थवचनेन. निद्देसवित्थाराति तस्स च निद्देसस्स अट्ठसततण्हाविचरितवसेन वित्थारेन. वित्थारस्स च पुन सङ्गहतोति द्वीहि आकारेहि वित्थारितस्स अट्ठारसतण्हाविचरितपभेदस्स छळेव तिस्सोयेवाति च पुन सङ्गहणतो च.

विपाकवेदना अधिप्पेता विसेसतो अत्तानं अस्सादेतब्बतो. तमेव हिस्सा अस्सादेतब्बतं पकासेतुं ‘‘कथ’’न्तिआदि वुत्तं. अस्सादनेनाति अभिरतिया. ममायन्ताति धनायन्ता. चित्तकारादीनन्ति आदि-सद्देन इट्ठवण्णारम्मणदायकानं सङ्गहो. सिप्पसन्दस्सनकादीनन्ति आदि-सद्देन वेज्जादीनं सङ्गहो. वेज्जा हि रसायतनोजावसेन तदुपत्थम्भितवसेन च धम्मारम्मणस्स दायका. स्वायं आदि-सद्दो ‘‘वीणावादकादी’’तिआदिना पच्चेकञ्च योजेतब्बो, पुत्तं ममायन्ताति पुत्तं सम्पियायन्ता. पुत्तो विय चेत्थ वेदना दट्ठब्बा, सप्पायसप्पिखीरादीनि विय वेदनाय पच्चयभूतानि इट्ठरूपादिआरम्मणानि, धाति विय रूपादिछळारम्मणदायका चित्तकारादयो दट्ठब्बा.

तण्हावारवण्णना निट्ठिता.

वेदनावारवण्णना

९७. चक्खुसम्फस्सजा एव वेदना अतीतादिभेदभिन्ना रासिवसेन एकज्झं गहेत्वा एको वेदनाकायो यथा वेदनाक्खन्धो, एवं सोतसम्फस्सजादिकाति पाळियं ‘‘छयिमे आवुसो वेदनाकाया’’ति वुत्तन्ति आह ‘‘वेदनाकायाति वेदनासमूहा’’ति. चक्खुसम्फस्सतो जाता चक्खुसम्फस्सजा वेदना. सा पन उपादिन्नापि अनुपादिन्नापि, तदुभयस्सपि सङ्गण्हन्तेन अत्थवण्णनाय कतत्ता आह ‘‘अयं तावेत्थ सब्बसङ्गाहिककथा’’ति. इदानि ‘‘विपाकविधि अय’’न्ति उपादिन्नयेव गण्हन्तो ‘‘विपाकवसेना’’तिआदिमाह. मनोद्वारे मनोविञ्ञाणधातुसम्पयुत्ताति तदारम्मणमनोविञ्ञाणधातुसम्पयुत्ता.

अवसेसानन्ति सम्पटिच्छनादिवेदनानं. उपनिस्सयादीति आदि-सद्देन अनन्तरादीनं सङ्गहो दट्ठब्बो. अनन्तरानञ्हि अनन्तरादिवसेन, इतरेसं उपनिस्सयवसेन फस्सो पच्चयो होति, मनोद्वारे पन तदारम्मणवेदनानं मनोसम्फस्सो उपनिस्सयवसेन पच्चयो. अद्वारिकानन्ति द्वाररहितानं. न हि पटिसन्धिआदिवेदनानं किञ्चि द्वारं अत्थि. सहजातमनोसम्फस्ससमुदयाति एतेनस्स तासं सहजातकोटिया पच्चयभावमाह.

वेदनावारवण्णना निट्ठिता.

फस्सवारवण्णना

९८. चक्खुं निस्साय उप्पन्नो सम्फस्सो चक्खुसम्फस्सो. पञ्चवत्थुकाति चक्खादिपञ्चवत्थुका चक्खादिपञ्चवत्थुसन्निस्सया. ‘‘उपादिन्नककथा एसा’’ति बावीसतिग्गहणं, पवत्तिकथाभावतो लोकियग्गहणं. विपाकमनसम्पयुत्तफस्साति विपाकमनोविञ्ञाणसम्पयुत्ता फस्सा. पच्चयुप्पन्नेन विय पच्चयेनपि उपादिन्नकेनेव भवितब्बन्ति ‘‘छन्नं चक्खादीनं आयतनान’’न्ति वुत्तं.

फस्सवारवण्णना निट्ठिता.

सळायतनवारवण्णना

९९. निदस्सनमत्तञ्चेतं, तस्मा यथा एत्थ अरूपलोकापेक्खाय छट्ठायतनञ्च सळायतनञ्च सळायतनन्ति एकसेसो इच्छितब्बो, एवं येसं पच्चयुप्पन्नो उपादिन्नो, पच्चयो पन अनुपादिन्नोतिपि इच्छितब्बो. तेसं मतेन बाहिरायतनवसेनपि एकसेसो वेदितब्बो ‘‘छट्ठायतनञ्च सळायतनञ्च सळायतनञ्च सळायतन’’न्ति. विसुद्धिमग्गोपि इमस्स आगमस्स अत्थसंवण्णनाति आह ‘‘विसुद्धिमग्गे…पे… वुत्तनयमेवा’’ति. एस नयो अञ्ञत्थापि विसुद्धिमग्गग्गहणे.

सळायतनवारवण्णना निट्ठिता.

नामरूपवारवण्णना

१००. नमनलक्खणन्ति आरम्मणाभिमुखं नमनसभावं तेन विना अपवत्तनतो. रुप्पनं सीतादिविरोधिपच्चयसन्निपाते विसदिसुप्पत्ति. इमे पन तयोतिआदिना सब्बचित्तुप्पादसाधारणवसेनेव तंसङ्खारक्खन्धग्गहणं, तस्मा ये यत्थ असाधारणा, तेपि अत्थतो गहितायेवाति दस्सेति.

उपादियित्वाति पच्चये कत्वा. पच्चयकरणमेव हि पच्चयुप्पन्नस्स पच्चयभूतधम्मानं उपादियनं. समूहसम्बन्धे सामिवचनं एतन्ति ‘‘समूहत्थे एतं सामिवचन’’न्ति वुत्तं तेन विना सम्बन्धस्स अभावतो. तेनाति तस्मा. तं सब्बम्पीति तं भूतुपादायपभेदं सब्बम्पि सत्तवीसतिविधं. यस्स नामस्साति चतुवोकारभवे नामस्स. विञ्ञाणम्पि तप्परियापन्नमेव वेदितब्बं. रूपस्साति एकवोकारभवे रूपस्स. विञ्ञाणं पन पञ्चवोकारभवे सङ्खारविञ्ञाणमेव. यस्स पञ्चवोकारभवे नामरूपस्स. तस्स वसेनाति सहजातस्स सहजातादिवसेन, अनन्तरस्स अनन्तरादिवसेन, इतरस्स उपनिस्सयादिवसेन तस्स नामस्स यथारहं तस्स तस्स विञ्ञाणस्स पच्चयभावो वेदितब्बो.

नामरूपवारवण्णना निट्ठिता.

विञ्ञाणवारवण्णना

१०१. तेभूमकविपाकग्गहणे कारणं हेट्ठा वुत्तमेव. सङ्खारो यस्स विञ्ञाणस्साति एत्थ अट्ठविधोपि कामावचरपुञ्ञाभिसङ्खारो सोळसविधस्स कामावचरविपाकविञ्ञाणस्स, पञ्चविधोपि रूपावचरपुञ्ञाभिसङ्खारो पञ्चविधस्स रूपावचरविपाकविञ्ञाणस्स, द्वादसविधोपि अपुञ्ञाभिसङ्खारो सत्तविधस्स अकुसलविपाकविञ्ञाणस्स, चतुब्बिधोपि आनेञ्जाभिसङ्कारो चतुब्बिधस्स अरूपावचरविपाकविञ्ञाणस्स यथारहं पटिसन्धिपवत्तीसु कम्मपच्चयेन चेव उपनिस्सयपच्चयेन च पच्चयो होति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. २.६२०) वुत्तनयेन वेदितब्बो.

विञ्ञाणवारवण्णना निट्ठिता.

सङ्खारवारवण्णना

१०२. अभिसङ्खरणलक्खणोति अभिसञ्चेतयितसभावो, आयूहनलक्खणोति अत्थो. चोपनवसेनाति कायविञ्ञत्तिसङ्खातचोपनवसेन. तेन पञ्चद्वारिकचेतना पटिक्खिपति. वचनभेदवसेनाति वाचानिच्छारणवसेन. वचीविञ्ञत्तिसमुट्ठापनवसेनाति अत्थो. यथावुत्ता वीसति, नव महग्गतकुसलचेतना चाति एकूनतिंस मनोसञ्चेतना. ‘‘कुसलानं उपनिस्सयवसेना’’ति वुत्तं, एकच्चानं आरम्मणवसेनपीति वत्तब्बं. सहजातादिवसेनाति सहजात-अञ्ञमञ्ञ-निस्सय-सम्पयुत्त-अत्थि-अविगतहेतुवसेन, अनन्तरानं अनन्तरसमनन्तरअनन्तरूपनिस्सयनत्थिविगतासेवनसेन पच्चयो. अपि-सद्देन उपनिस्सयं सङ्गण्हाति.

सङ्खारवारवण्णना निट्ठिता.

अविज्जावारवण्णना

१०३. ‘‘दुक्खसच्चेअञ्ञाण’’न्ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘तत्था’’तिआदि आरद्धं. न्ति अञ्ञाणं. सतिपि पहातब्बत्ते परिञ्ञेय्यत्तवसेन अन्तोगधं. दुक्खसच्चञ्चस्साति वत्थुसङ्खातं सम्पयुत्तखन्धसङ्खातञ्च दुक्खसच्चं अस्स अञ्ञाणस्स. तं हिस्स निस्सयपच्चयो होति. तस्साति दुक्खसच्चस्स. याथावलक्खणपटिवेधनिवारणेनाति सङ्खतअविपरीतसभावपटिविज्झनस्स निवारणेन. एतेनस्स परिञ्ञाभिसमयसङ्खातस्स अरियमग्गपटिवेधस्स विबन्धकभावमाह. ञाणप्पवत्तियाति ‘‘इदं दुक्खं, एत्तकं दुक्ख’’न्ति अनुबुज्झनाकाराय पुब्बभागञाणप्पवत्तिया. एत्थाति दुक्खसच्चे. अप्पदानेनाति अविस्सज्जनेन. एतेनस्सा अनुबोधञाणस्सपि विबन्धकतमाह.

तीहि कारणेहि वेदितब्बं अन्तोगधाभावतो. इध सम्पयुत्तखन्धवसेनेव वत्थुतो समुदये अञ्ञाणं दट्ठब्बं. एकेनेवाति इतरं कारणत्तयं पटिक्खिपति. यदिपि अञ्ञाणं निरोधमग्गे आरम्मणं न करोति, कुतो तदन्तोगधतब्बत्थुता, ते पन जानितुकामस्स तप्पटिच्छादनवसेन अनिरोधमग्गेसु निरोधमग्गग्गाहहेतुतावसेन च पवत्तमानं ‘‘निरोधे पटिपदायञ्च अञ्ञाण’’न्ति वुच्चति. तेनाह ‘‘पटिच्छादनतो’’तिआदि. तस्सत्थो वुत्तोयेव. गम्भीरत्ताति सभावेनेव गम्भीरत्ता. अगाधअपतिट्ठाभावेन तंविसयस्स ञाणस्स उप्पादेतुं असक्कुणेय्यत्ता दुद्दसं. पुरिमं पन सच्चद्वयं. वञ्चनीयट्ठेनाति वञ्चकभावेन अयाथावभावेन उपट्ठानतो दुद्दसत्ता गम्भीरं, न सभावतो, तस्मा तंविसयं अञ्ञाणं उप्पज्जति. तत्थाति तस्मिं पुरिमसच्चद्वये अनिच्चादिसभावलक्खणस्स दुद्दसत्ता एव निच्चादिविपल्लासवसेन पवत्तति अञ्ञाणन्ति आनेत्वा सम्बन्धितब्बं.

इदानि निद्देसविभागेनपि अविज्जाय सच्चेसु पवत्तिविभागं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ दुक्खेति एत्तकेन भुम्मनिद्देसेन. सङ्गहतोति परिञ्ञेय्यताय दुक्खेन सङ्गहेतब्बतो. तेन निद्धारणत्थं दस्सेति. दुक्खस्मिञ्हि अविज्जा निद्धारीयति, न अञ्ञस्मिं. वत्थुतोति आधारत्थं. दुक्खसन्निस्सया हि अविज्जा. आरम्मणतोति विसयत्थं तं आरब्भ पवत्तनतो. किच्चतोति ब्यापनत्थं छादनवसेन तं ब्यापेत्वा पवत्तनतो. इमिना नयेन सेसेसुपि अत्थो वेदितब्बो. अविसेसतोति विसेसाभावतो, वुत्तनयेन दुक्खादीसु पवत्तिआकारविसेसं अग्गहेत्वाति अत्थो. सभावतोति सरसलक्खणतो. चतुन्नम्पि सच्चानं अजाननसभावा हि अविज्जा. कामरागभवरागा कामासवभवासवाति आह ‘‘सहजातादिवसेना’’ति. ननु अविज्जा एव अविज्जासवो, सो कथं अविज्जाय पच्चयोति आह ‘‘पुब्बुप्पन्ना’’तिआदि.

अविज्जावारवण्णना निट्ठिता.

आसववारवण्णना

१०४. आसववारे आसव-सद्दत्थो आसवविचारो च हेट्ठा वुत्तोयेव. कस्मा पनायं वारो वुत्तो, ननु अविज्जादिकाव पटिच्चसमुप्पाददेसनाति चोदनं सन्धाय ‘‘अयं वारो’’तिआदि आरद्धं. पटिच्चसमुप्पादपदेसूति पटिच्चसमुप्पादकोट्ठासेसु. द्वादसकोट्ठासा हि सत्थु पटिच्चसमुप्पाददेसना. तस्सापि पच्चयदस्सनवसेनाति नायं कापिलानं मूलपकति विय अप्पच्चया, अथ खो सप्पच्चयाति अविज्जायपि पच्चयदस्सनवसेन. आसवसमुदयेनाति अतीतभवे आसवानं समुदयेन एतरहि अविज्जाय समुदयो, एतरहि अविज्जाय समुदयेन अनागते आसवसमुदयोति एवं आसवाविज्जानं पच्चयपच्चयुप्पन्नकभावेन अपरापरं पवत्तमानं आदिकोटिअभावेनेव तन्निमित्तस्स संसारस्स आदिकोटिअभावतो अनमतग्गतासिद्धि वेदितब्बा.

द्वत्तिंस ठानानीति द्वत्तिंस सच्चप्पटिवेधकारणानि, द्वत्तिंस वा चतुसच्चकम्मट्ठानानि. इमम्हा सम्मादिट्ठिसुत्ताति याय अरियसावको सम्मादिट्ठि नाम होति, सा अरिया सम्मादिट्ठि एत्थ वुत्ताति सम्मादिट्ठिसुत्तं, इतो सम्मादिट्ठिसुत्ततो.

चतुसच्चपरियायेहीति चतुसच्चाधिगमकारणेहि. अरहत्तपरियायेहीति ‘‘सो सब्बसो रागानुसयं पहाया’’तिआदिना अरहत्ताधिगमकारणेहि. तेनाह ‘‘चतुसट्ठिया कारणेही’’ति.

आसववारवण्णना निट्ठिता.

सम्मादिट्ठिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

१०. सतिपट्ठानसुत्तवण्णना

१०५. जानपदिनोति (दी. नि. टी. २.९५) जनपदवन्तो, जनपदस्स वा इस्सरा राजकुमारा. गोत्तवसेन कुरू नाम. तेसं निवासो यदि एको जनपदो, कथं बहुवचनन्ति आह ‘‘रुळ्हीसद्देना’’ति. अक्खरचिन्तका हि ईदिसेसु ठानेसु युत्ते विय सलिङ्गवचनानि (पाणिनि १.२५१) इच्छन्ति, अयमेत्थ रुळ्ही यथा अञ्ञत्थापि ‘‘अङ्गेसु विहरति, मल्लेसु विहरती’’ति च. तब्बिसेसने पन जनपद-सद्दे जाति-सद्दे एकवचनमेव. अट्ठकथाचरिया पनाति पन-सद्दो विसेसत्थजोतनो. तेन पुथुअत्थविसयताय एवं तं बहुवचनन्ति ‘‘बहुके पना’’तिआदिना वक्खमानं विसेसं दीपेति. सुत्वाति मन्धातुमहाराजस्स आनुभावदस्सनानुसारेन परम्परागतं कथं सुत्वा. अनुसंयायन्तेनाति अनुविचरन्तेन. एतेसं ठानन्ति चन्दिमसूरियमुखेन चातुमहाराजिकभवनमाह. तेनाह ‘‘तत्थ अगमासी’’तिआदि. सोति मन्धातुमहाराजा. न्ति चातुमहाराजिकरज्जं. गहेत्वाति सम्पटिच्छित्वा. पुन पुच्छि परिणायकरतनं. दोवारिकभूमियं तिट्ठन्ति सुधम्माय देवसभाय देवपुरस्स च चतूसु द्वारेसु आरक्खाय अधिकतत्ता. दिब्बरुक्खसहस्सपटिमण्डितन्ति इदं ‘‘चित्तलतावन’’न्तिआदीसुपि योजेतब्बं.

पथवियं पतिट्ठासीति भस्सित्वा पथविया आसन्ने ठाने अट्ठासि, ठत्वा च नचिरस्सेव अन्तरधायि तेनत्तभावेन रञ्ञो चक्कवत्तिस्सरियस्स अभावतो. ‘‘चिरतरं कालं ठत्वा’’ति अपरे. देवभावो पातुरहोसि देवलोके पवत्तिविपाकदायिनो अपरापरियायवेदनीयस्स कम्मस्स कतोकासत्ता. अवयवे सिद्धो विसेसो समुदायस्स विसेसको होतीति एकम्पि रट्ठं बहुवचनेन वोहरीयति.

द-कारेन अत्थं वण्णयन्ति निरुत्तिनयेन. कम्मासोति कम्मासपादो वुच्चति उत्तरपदलोपेन यथा ‘‘रूपभवो रूप’’न्ति. कथं पन सो कम्मासपादोति आह ‘‘तस्स किरा’’तिआदि. दमितोति एत्थ कीदिसं दमनं अधिप्पेतन्ति आह ‘‘पोरिसादभावतो पटिसेधितो’’ति. इमे पन थेराति मज्झिमभाणके वदति, ते पन चूळकम्मासदम्मं सन्धाय तथा वदन्ति. यक्खिनिपुत्तो हि कम्मासपादो अलीनसत्तुकुमारकाले बोधिसत्तेन तत्थ दमितो, सुतसोमकाले पन बाराणसिराजा पोरिसादभावपटिसेधनेन यत्थ दमितो, तं महाकम्मासदम्मं नाम. पुत्तोति वत्वा अत्रजोति वचनं ओरसपुत्तभावदस्सनत्थं.

येहि आवसितपदेसो कुरुरट्ठन्ति नामं लभि, ते उत्तरकुरुतो आगता मनुस्सा तत्थ रक्खितनियामेनेव पञ्च सीलानि रक्खिंसु, तेसं दिट्ठानुगतिया पच्छिमा जनताति, सो देसधम्मवसेन अविच्छेदतो वत्तमानो कुरुवत्तधम्मोति पञ्ञायित्थ, अयञ्च अत्थो कुरुधम्मजातकेन (जा. १.३.७६-७८) दीपेतब्बो. सो अपरभागे यत्थ पठमं संकिलिट्ठो जातो, तं दस्सेतुं ‘‘कुरुरट्ठवासीन’’न्तिआदि वुत्तं. यत्थ भगवतो वसनोकासो कोचि विहारो न होति, तत्थ केवलं गोचरगामकित्तनं निदानकथाय पकति, यथा तंसक्केसु विहरति देवदहं नाम सक्कानं निगमोति इममत्थं दस्सेन्तो ‘‘अवसनोकासतो’’तिआदिमाह.

उद्देसवारकथावण्णना

१०६. कस्मा भगवा इमं सुत्तमभासीति असाधारणसमुट्ठानं पुच्छति, साधारणं पन पाकटन्ति अनामट्ठं, तेन सुत्तनिक्खेपो पुच्छितोति कत्वा इतरो ‘‘कुरुरट्ठवासीन’’न्तिआदिना अपरज्झासयोयं सुत्तनिक्खेपोति दस्सेति. एतेन बाहिरसमुट्ठानं विभावितन्ति दट्ठब्बं. अज्झत्तिकं पन असाधारणञ्च मूलपरियायसुत्तादिटीकायं वुत्तनयेनेव वेदितब्बं. कुरुरट्ठं किर (दी. नि. टी. २.३७३) तदा तन्निवासीनं सत्तानं येभुय्येन योनिसोमनसिकारवन्तताय पुब्बे च कतपुञ्ञताबलेन उतुआदिसम्पन्नमेव अहोसि. तेन वुत्तं ‘‘उतुपच्चयादिसम्पन्नत्ता’’ति. आदि-सद्देन भोजनादिसम्पत्तिं सङ्गण्हाति. केचि पन ‘‘पुब्बे कुरुवत्तधम्मानुट्ठानवासनाय उत्तरकुरु विय येभुय्येन उतुआदिसम्पन्नमेव होन्तं भगवतो काले सातिसयं उतुसप्पायादियुत्तं तं रट्ठं अहोसी’’ति वदन्ति. चित्तसरीरकल्लतायाति चित्तस्स सरीरस्स च अरोगताय. अनुग्गहितपञ्ञाबलाति लद्धुपकारञाणानुभावा, अनु अनु वा आचिण्णपञ्ञातेजा. एकवीसतिया ठानेसूति कायानुपस्सनावसेन चुद्दससुठानेसु, वेदनानुपस्सनावसेन एकस्मिं ठाने, तथा चित्तानुपस्सनावसेन, धम्मानुपस्सनावसेन पञ्चसु ठानेसूति एवं एकवीसतिया ठानेसु. कम्मट्ठानं अरहत्ते पक्खिपित्वाति चतुसच्चकम्मट्ठानं यथा अरहत्तं पापेति, एवं देसनावसेन अरहत्ते पक्खिपित्वा. सुवण्णचङ्कोटकसुवण्णमञ्जूसासु पक्खित्तानि सुमनचम्पकादिनानापुप्फानि मणिपुत्तादिसत्तरतनानि च यथा भाजनसम्पत्तिया सविसेसं सोभन्ति, किच्चकरानि च होन्ति मनुञ्ञाभावतो, एवं सीलदस्सनादिसम्पत्तिया भाजनविसेसभूताय कुरुरट्ठवासिपरिसाय देसिता च भगवतो अयं देसना भिय्योसोमत्ताय सोभति, किच्चकारी च होतीति इममत्थं दस्सेति ‘‘यथा हि पुरिसो’’तिआदिना. एत्थाति कुरुरट्ठे.

पकतियाति सरसतो, इमिस्सा सतिपट्ठानसुत्तदेसनाय पुब्बेपीति अधिप्पायो. अनुयुत्ता विहरन्ति सत्थु देसनानुसारतोति अधिप्पायो. विस्सट्ठअत्तभावनाति अनिच्चादिवसेन किस्मिञ्चि योनिसोमनसिकारे चित्तं अनियोजेत्वा रूपादिआरम्मणे अभिरतिवसेन विस्सट्ठचित्तेन भवितुं न वट्टति, पमादविहारं पहाय अप्पमत्तेन भवितब्बन्ति अधिप्पायो.

एकायनोति एत्थ अयन-सद्दो मग्गपरियायो. न केवलमयनमेव, अथ खो अञ्ञेपि बहू मग्गपरियायाति पदुद्धारं करोन्तो ‘‘मग्गस्स ही’’तिआदि वत्वा यदि मग्गपरियायो अयन-सद्दो, कस्मा पुन मग्गोति वुत्तन्ति चोदनं सन्धायाह ‘‘तस्मा’’तिआदि. तत्थ एकमग्गोति एको एव मग्गो. न हि निब्बानगामी मग्गो अञ्ञो अत्थीति. ननु सतिपट्ठानं इध ‘‘मग्गो’’ति अधिप्पेतं, तदञ्ञे च बहू मग्गधम्मा अत्थीति? सच्चं अत्थि, ते पन सतिपट्ठानग्गहणेनेव गहिता तदविनाभावतो. तथा हि ञाणवीरियादयो निद्देसे गहिता. उद्देसे पन सतिया एव गहणं वेनेय्यज्झासयवसेनाति दट्ठब्बं. न द्वेधापथभूतोति इमिना इमस्स मग्गस्स अनेकमग्गताभावं विय अनिब्बानगामिभावाभावञ्च दस्सेति. एकेनाति असहायेन. असहायता च दुविधा अत्तदुतियताभावेन वा, या ‘‘वूपकट्ठकायता’’ति वुच्चति, तण्हादुतियताभावेन वा, या ‘‘पविवित्तचित्तता’’ति वुच्चति. तेनाह ‘‘वूपकट्ठेन पविवित्तचित्तेना’’ति. सेट्ठोपि लोके ‘‘एको’’ति वुच्चति ‘‘याव परे एकतो करोसी’’तिआदीसूति आह ‘‘एकस्साति सेट्ठस्सा’’ति. यदि संसारतो निस्सरणट्ठो अयनट्ठो अञ्ञेसम्पि उपनिस्सयसम्पन्नानं साधारणो कथं भगवतोति आह ‘‘किञ्चापी’’तिआदि. इमस्मिं खोति एत्थ खो-सद्दो अवधारणे, तस्मा इमस्मिं येवाति अत्थो. देसनाभेदोयेव हेसो, यदिदं मग्गोति वा अयनोति वा. तेनाह ‘‘अत्थो पनेको’’ति.

नानामुखभावनानयप्पवत्तोति कायानुपस्सनादिमुखेन तत्थापि आनापानादिमुखेन भावनानयेन पवत्तो. एकायनन्ति एकगामिनं, निब्बानगामिनन्ति अत्थो. निब्बानञ्हि अदुतियत्ता सेट्ठत्ता च ‘‘एक’’न्ति वुच्चति. यथाह ‘‘एकञ्हि सच्चं न दुतीयमत्थी’’ति (सु. नि. ८९०) ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति (अ. नि. ४.३४; इतिवु. ९०) च. खयो एव अन्तोति खयन्तो, जातिया खयन्तं दिट्ठवाति जातिखयन्तदस्सी. अविभागेन सब्बेपि सत्ते हितेन अनुकम्पतीति हितानुकम्पी. अतरिंसूति तरिंसु. पुब्बेति पुरिमका बुद्धा, पुब्बे वा अतीतकाले.

न्ति तं तेसं वचनं, तं वा किरियावुत्तिवाचकत्तं न युज्जति. न हि सङ्खेय्यप्पधानताय सत्तवाचिनो एक-सद्दस्स किरियावुत्तिवाचकता अत्थि. ‘‘सकिम्पि उद्धं गच्छेय्या’’तिआदीसु (अ. नि. ७.७२) विय ‘‘सकिं अयनो’’ति इमिना ब्यञ्जनेन भवितब्बं. एवं अत्थं योजेत्वाति एवं पदत्थं योजेत्वा. उभयथापीति पुरिमनयेन पच्छिमनयेन च. न युज्जति इधाधिप्पेतमग्गस्स अनेकवारं पवत्तिसब्भावतो. तेनाह ‘‘कस्मा’’तिआदि. अनेकवारम्पि अयतीति पुरिमनयस्स, अनेकञ्चस्स अयनं होतीति पच्छिमनयस्स च पटिक्खेपो.

इमस्मिं पदेति ‘‘एकायनो अयं भिक्खवे मग्गो’’ति इमस्मिं वाक्ये, इमस्मिं वा ‘‘पुब्बभागमग्गो लोकुत्तरमग्गो’’ति संसयट्ठाने. मिस्सकमग्गोति लोकियेन मिस्सको लोकुत्तरमग्गो. विसुद्धिआदीनं निप्परियायहेतुं सङ्गण्हन्तो आचरियत्थेरो ‘‘मिस्सकमग्गो’’ति आह, इतरो परियायहेतु इधाधिप्पेतोति ‘‘पुब्बभागमग्गो’’ति.

सद्दं सुत्वावाति ‘‘कालो, भन्ते, धम्मस्सवनाया’’ति कालारोचनसद्दं सुत्वा. एवं उक्खिपित्वाति. एवं ‘‘मधुरं इमं कुहिं छड्डेमा’’ति अछड्डेन्ता उच्छुभारं विय पग्गहेत्वा न विचरन्ति. आलुळेतीति विलुळितो आकुलो होतीति अत्थो. एकायनमग्गो वुच्चति पुब्बभागसतिपट्ठानमग्गोति. एत्तावता इधाधिप्पेतत्थे सिद्धे तस्सेव अलङ्कारत्थं सो पन यस्स पुब्बभागमग्गो, तं दस्सेतुं ‘‘मग्गानट्ठङ्गिको’’तिआदिका गाथापि पटिसम्भिदामग्गतोव आनेत्वा ठपिता.

निब्बानगमनट्ठेनाति निब्बानं गच्छति अधिगच्छति एतेनाति निब्बानगमनं, सो एव अविपरीतसभावताय अत्थो, तेन निब्बानगमनट्ठेन, निब्बानाधिगमुपायतायाति अत्थो. मग्गनीयट्ठेनाति गवेसितब्बताय, ‘‘गमनीयट्ठेना’’ति वा पाठो, उपगन्तब्बत्ताति अत्थो. रागादीहीति. इमिना रागदोसमोहानंयेव गहणं ‘‘रागो मलं, दोसो मलं, मोहो मल’’न्ति (विभ. ९२४) वचनतो. ‘‘अभिज्झाविसमलोभादीही’’ति पन इमिना सब्बेसम्पि उपक्किलेसानं सङ्गण्हनत्थं ते विसुं उद्धटा. सत्तानं विसुद्धियाति वुत्तस्स अत्थस्स एकन्तिकतं दस्सेन्तो ‘‘तथा ही’’तिआदिमाह. कामं ‘‘विसुद्धिया’’ति सामञ्ञजोतना, चित्तविसुद्धि एव पनेत्थ अधिप्पेताति दस्सेतुं ‘‘रूपमलवसेन पना’’तिआदि वुत्तं. न केवलं अट्ठकथावचनमेव, अथ खो इदमेत्थ आहच्चभासितन्ति दस्सेन्तो ‘‘तथा ही’’तिआदिमाह.

सा पनायं चित्तविसुद्धि सिज्झमाना यस्मा सोकादीनं अनुप्पादाय संवत्तति, तस्मा वुत्तं ‘‘सोकपरिदेवानं समतिक्कमाया’’तिआदि. तत्थ सोचनं ञातिब्यसनादिनिमित्तं चेतसो सन्तापो अन्तोनिज्झानं सोको. ञातिब्यसनादिनिमित्तमेव सोकाधिकताय ‘‘कहं, एकपुत्तक, कहं, एकपुत्तका’’ति परिदेववसेन लपनं परिदेवो, आयतिं अनुप्पज्जनं इध समतिक्कमोति आह ‘‘पहानाया’’ति. तं पनस्स समतिक्कमावहतं निदस्सनवसेन दस्सेन्तो ‘‘अयं ही’’तिआदिमाह.

तत्थ यं पुब्बे तं विसोधेहीति अतीतेसु खन्धेसु तण्हासंकिलेसविसोधनं वुत्तं. पच्छाति परतो. तेति तुय्हं. माहूति मा अहु. किञ्चनन्ति रागादिकिञ्चनं. एतेन अनागतेसु खन्धेसु संकिलेसविसोधनं वुत्तं. मज्झेति तदुभयवेमज्झे. नो चे गहेस्ससीति न उपादियिस्ससि चे. एतेन पच्चुप्पन्ने खन्धपबन्धे उपादानप्पवत्ति वुत्ता. उपसन्तो चरिस्ससीति एवं अद्धत्तयगतसंकिलेसविसोधने सति निब्बुतसब्बपरिळाहताय उपसन्तो हुत्वा विहरिस्ससीति अरहत्तनिकूटेन गाथं निट्ठपेसि. तेनाह ‘‘इमं गाथ’’न्तिआदि.

पुत्ताति ओरसा, अञ्ञेपि वा ये केचि. पिताति जनको. बन्धवाति ञातका. अयञ्हेत्थ अत्थो – पुत्ता वा पिता वा बन्धवा वा अन्तकेन मच्चुना अधिपन्नस्स अभिभूतस्स मरणतो ताणाय न होन्ति, तस्मा नत्थि ञातीसु ताणताति. न हि ञातीनं वसेन मरणतो आरक्खा अत्थि, तस्मा पटाचारे ‘‘उभो पुत्ता कालकता’’तिआदिना (अप. थेरी २.२.४९८) मा निरत्थकं परिदेवि, धम्मंयेव पन याथावतो पस्साति अधिप्पायो.

सोतापत्तिफले पतिट्ठिताति यथानुलोमं पवत्तिताय सामुक्कंसिकाय धम्मदेसनाय परियोसाने सहस्सनयपटिमण्डिते सोतापत्तिफले पतिट्ठहि. कथं पनायं सतिपट्ठानमग्गवसेन सोतापत्तिफले पतिट्ठासीति आह ‘‘यस्मा पना’’तिआदि. न हि चतुसच्चकम्मट्ठानकथाय विना सावकानं अरियमग्गाधिगमो अत्थि. ‘‘इमं गाथं सुत्वा’’ति पन इदं सोकविनोदनवसेन पवत्तिताय गाथाय पठमं सुतत्ता वुत्तं. एस नयो इतरगाथायपि. भावनाति पञ्ञाभावना. सा हि इधाधिप्पेता. तस्माति यस्मा रूपादीनं अनिच्चादितो अनुपस्सनापि सतिपट्ठानभावना, तस्मा. तेपीति सन्ततिमहामत्तपटाचारा.

पञ्चसते चोरेति सतसतचोरपरिवारे पञ्च चोरे पटिपाटिया पेसेसि. ते अरञ्ञं पविसित्वा थेरं परियेसन्ता अनुक्कमेन थेरस्स समीपे समागच्छिंसु. तेनाह ‘‘ते गन्त्वा थेरं परिवारेत्वा निसीदिंसू’’ति. वेदनं विक्खम्भेत्वा पीतिपामोज्जं उप्पज्जीति सम्बन्धो. थेरस्स हि सीलं पच्चवेक्खतो सुपरिसुद्धं सीलं निस्साय उळारं पीतिपामोज्जं उप्पज्जमानं ऊरुट्ठिभेदजनितं दुक्खवेदनं विक्खम्भेसि. पादानीति पादे. सञ्ञपेस्सामीति सञ्ञत्तिं करिस्सामि. अड्डियामीति जिगुच्छामि. हरायामीति लज्जामि. विपस्सिसन्ति सम्मसिं.

पचलायन्तानन्ति पचलायनं निद्दं उपगतानं. वतसम्पन्नोति धुतचरणसम्पन्नो. पमादन्ति पचलायनं सन्धायाह. ओरुद्धमानसोति उपरुद्धअधिचित्तो. पञ्जरस्मिन्ति सरीरे. सरीरञ्हि न्हारुसम्बन्धअट्ठिसङ्घातताय इध ‘‘पञ्जर’’न्ति वुत्तं.

पीतवण्णाय पटाकाय परिहरणतो मल्लयुद्धचित्तकताय च पीतमल्लो. तीसु रज्जेसूति पण्डुचोळगोळरज्जेसु. मल्ला सीहळदीपे सक्कारसम्मानं लभन्तीति तम्बपण्णिदीपं आगम्म. तंयेव अङ्कुसं कत्वाति ‘‘रूपादयो ‘ममा’ति न गहेतब्बा’’ति न तुम्हाकवग्गेन (सं. नि. ३.३३-३४) पकासितमत्थं अत्तनो चित्तमत्तहत्थिनो अङ्कुसं कत्वा. जण्णुकेहि चङ्कमति ‘‘निसिन्ने निद्दाय अवसरो होती’’ति. ब्याकरित्वाति अत्तनो वीरियारम्भस्स सफलतापवेदनमुखेन सब्रह्मचारीनं उस्साहं जनेन्तो अञ्ञं ब्याकरित्वा. भासितन्ति वचनं. कस्स पन तन्ति आह ‘‘बुद्धसेट्ठस्स, सब्बलोकग्गवादिनो’’ति. न तुम्हाकन्तिआदि तस्स पवत्तिआकारदस्सनं. तयिदं मे सङ्खारानं अच्चन्तवूपसमकारणन्ति दस्सेन्तो ‘‘अनिच्चा वता’’ति गाथं आहरि. तेन इदानाहं सङ्खारानं खणे खणे भङ्गसङ्खातस्स रोगस्स अभावेन अरोगो परिनिब्बुतोति दस्सेति.

अस्साति सक्कस्स. उपपत्तीति देवूपपत्ति. पुनपाकतिकाव अहोसि सक्कभावेनेव उपपन्नत्ता. सुब्रह्माति एवं नामो. अच्छरानं निरयूपपत्तिं दिस्वा ततो पभुति सततं पवत्तमानं अत्तनो चित्तुत्रासं सन्धायाह ‘‘निच्चं उत्रस्तमिदं चित्त’’न्तिआदि. तत्थ उत्रस्तन्ति सन्तस्तं भीतं. उब्बिग्गन्ति संविग्गं. उत्रस्तन्ति वा संविग्गं. उब्बिग्गन्ति भयवसेन सह कायेन सञ्चलितं. अनुप्पन्नेसूति अनागतेसु. किच्छेसूति दुक्खेसु. निमित्तत्थे भुम्मवचनं, भावीदुक्खपवत्तिनिमित्तन्ति अत्थो. उप्पतितेसूति उप्पन्नेसु किच्छेसूति योजना, तदा अत्तनो परिवारस्स उप्पन्नदुक्खनिमित्तन्ति अधिप्पायो.

बोज्झाति बोधितो, अरियमग्गतोति अत्थो. अञ्ञत्राति च पदं अपेक्खित्वा निस्सक्कवचनं, तस्मा बोधिं ठपेत्वाति अत्थो. एस नयो सेसेसुपि. तपसाति तपोकम्मतो. तेन मग्गाधिगमस्स उपायभूतं धुतङ्गसेवनादिसल्लेखपटिपदं दस्सेति. इन्द्रियसंवराति मनच्छट्ठानं इन्द्रियानं संवरणतो. एतेन सतिसंवरसीसेन सब्बम्पि संवरसीलं, लक्खणहारनयेन वा सब्बम्पि चतुपारिसुद्धिसीलं दस्सेति. सब्बनिस्सग्गाति सब्बुपधिनिस्सज्जनतो सब्बकिलेसप्पहानतो. किलेसेसु हि निस्सट्ठेसु कम्मवट्टं विपाकवट्टञ्च निस्सट्ठमेव होतीति. सोत्थिन्ति खेमं अनुपद्दवतं.

ञायति निच्छयेन कमति निब्बानं, तं वा ञायति पटिविज्झीयति एतेनाति ञायो, अरियमग्गोति आह ‘‘ञायो वुच्चति अरियो अट्ठङ्गिको मग्गो’’ति. तण्हावानविरहितत्ताति तण्हासङ्खातवानविवित्तत्ता. तण्हा हि खन्धेहि खन्धं, कम्मुना वा फलं, सत्तेहि वा दुक्खं विनति संसिब्बतीति वानन्ति वुच्चति. तयिदं नत्थि एत्थ वानं, न वा एतस्मिं अधिगते पुग्गलस्स वानन्ति निब्बानं, असङ्खता धातु. परपच्चयेन विना पच्चक्खकरणं सच्छिकिरियाति आह ‘‘अत्तपच्चक्खताया’’ति.

ननु ‘‘विसुद्धिया’’ति चित्तविसुद्धिया अधिप्पेतत्ता विसुद्धिग्गहणेनेवेत्थ सोकसमतिक्कमादयोपि गहिता एव होन्ति, ते पुन कस्मा गहिताति अनुयोगं सन्धाय ‘‘तत्थ किञ्चापी’’तिआदि वुत्तं. सासनयुत्तिकोविदेति सच्चपटिच्चसमुप्पादादिलक्खणायं धम्मनीतियं छेके. तं तं अत्थं ञापेतीति ये ये बोधनेय्यपुग्गला सङ्खेपवित्थारादिवसेन यथा यथा बोधेतब्बा, अत्तनो देसनाविलासेन भगवा ते ते तथा तथा बोधेन्तो तं तमत्थं ञापेति. तं तं पाकटं कत्वा दस्सेन्तोति अत्थापत्तिं अगणेन्तो तं तं अत्थं पाकटं कत्वा दस्सेन्तो. न हि सम्मासम्बुद्धा अत्थापत्तिञापकादिसाधनीयवचनाति. संवत्ततीति जायति, होतीति अत्थो. यस्मा अनतिक्कन्तसोकपरिदेवस्स न कदाचि चित्तविसुद्धि अत्थि सोकपरिदेवसमतिक्कममुखेनेव चित्तविसुद्धिया इज्झनतो, तस्मा आह ‘‘सोकपरिदेवानं समतिक्कमेन होती’’ति. यस्मा पन दोमनस्सपच्चयेहि दुक्खधम्मेहि पुट्ठं पुथुज्जनं सोकादयो अभिभवन्ति, परिञ्ञातेसु च तेसु ते न होन्ति, तस्मा वुत्तं ‘‘सोकपरिदेवानं समतिक्कमो दुक्खदोमनस्सानं अत्थङ्गमेना’’ति. ञायस्साति अग्गमग्गस्स ततियमग्गस्स च. तदधिगमेन हि यथाक्कमं दुक्खदोमनस्सानं अत्थङ्गमो. सच्छिकिरियाभिसमयसहभावीपि इतराभिसमयो तदविनाभावतो सच्छिकिरियाभिसमयहेतुको विय वुत्तो ‘‘ञायस्साधिगमो निब्बानस्स सच्छिकिरियाया’’ति. फलञाणेन वा पच्चक्खकरणं सन्धाय वुत्तं ‘‘निब्बानस्स सच्छिकिरियाया’’ति. सम्पदानवचनञ्चेतं दट्ठब्बं.

वण्णभणनन्ति पसंसावचनं. तयिदं न इधेव, अथ खो अञ्ञत्थापि सत्था अकासियेवाति दस्सेन्तो ‘‘यथेव ही’’तिआदिमाह. तत्थआदिम्हि कल्याणं, आदि वा कल्याणं एतस्साति आदिकल्याणं. सेसपदद्वयेपि एसेव नयो. अत्थसम्पत्तिया सात्थं. ब्यञ्जनसम्पत्तिया सब्यञ्जनं. सीलादिपञ्चधम्मक्खन्धपारिपूरितो उपनेतब्बस्स अभावा च केवलपरिपुण्णं. निरुपक्किलेसतो अपनेतब्बस्स अभावा परिसुद्धं. सेट्ठचरियभावतो सासन ब्रह्मचरियं मग्गब्रह्मचरियञ्च वो पकासेस्सामीति अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.१४७) वुत्तनयेन वेदितब्बो. अरियवंसाति अरियानं बुद्धादीनं वंसा पवेणियो. अग्गञ्ञाति ‘‘अग्गा’’ति जानितब्बा सब्बवंसेहि सेट्ठभावतो. रत्तञ्ञाति ‘‘चिररत्ता’’ति जानितब्बा. वंसञ्ञाति ‘‘बुद्धादीनं वंसा’’ति जानितब्बा. पोराणाति पुरातना अनधुनातनत्ता. असंकिण्णाति अविकिण्णा अनपनीता. असंकिण्णपुब्बाति ‘‘किं इमेही’’ति अरियेहि न अपनीतपुब्बा. न संकीयन्तीति इदानिपि तेहि न अपनीयन्ति. न संकीयिस्सन्तीति अनागतेपि तेहि न अपनीयिस्सन्ति. अप्पटिकुट्ठा…पे… विञ्ञूहीति ये लोके विञ्ञू समणब्राह्मणा, तेहि अपच्चक्खता अनिन्दिता, अगरहिताति अत्थो. विसुद्धियातिआदीहीति विसुद्धिआदिदीपनेहि. पदेहीति वाक्येहि, विसुद्धिअत्थतादिभेदभिन्नेहि वा धम्मकोट्ठासेहि.

उपद्दवेति अनत्थे. विसुद्धिन्ति विसुज्झनं संकिलेसप्पहानं. वाचुग्गतकरणं उग्गहो. परियापुणनं परिचयो. अत्थस्स हदये ठपनं धारणं. परिवत्तनं वाचनं. गन्धारकोति गन्धारदेसे उप्पन्नो. पहोन्तीति सक्कोन्ति अनिय्यानमग्गाति मिच्छामग्गा, मिच्छत्तनियतानियतमग्गापि वा. सुवण्णन्ति कूटसुवण्णम्पि वुच्चति. पणीति काचमणिपि. मुत्ताति वेळुजापि. पवाळन्ति पल्लवोपि वुच्चतीति रत्तजम्बुनदादिपदेहि ते विसेसिता.

न ततो हेट्ठाति (सं. नि. टी. २.५.३६७; दी. नि. टी. २.३७३) इधाधिप्पेतकायादीनं वेदनादिसभावत्ताभावा, कायवेदनाचित्तविमुत्तस्स तेभूमकधम्मस्स विसुं विपल्लासवत्थन्तरभावेन गहितत्ता च हेट्ठागहणेसु विपल्लासवत्थूनं अनिट्ठानं सन्धाय वुत्तं, पञ्चमस्स पन विपल्लासवत्थुनो अभावा ‘‘न उद्ध’’न्ति आह. आरम्मणविभागेन हेत्थ सतिपट्ठानविभागोति. तयो सतिपट्ठानाति सतिपट्ठानसद्दस्स अत्थुद्धारदस्सनं, न इध पाळियं वुत्तस्स सतिपट्ठानसद्दस्स अत्थदस्सनन्ति. आदीसु हि सतिगोचरोति एत्थ आदि-सद्देन ‘‘फस्ससमुदया वेदनानं समुदयो, नामरूपसमुदया चित्तस्स समुदयो, मनसिकारसमुदया धम्मानं समुदयो’’ति सतिपट्ठानाति वुत्तानं सतिगोचरानं पकासके सुत्तपदेसे सङ्गण्हाति. एवं पटिसम्भिदापाळियम्पि (पटि. म. ३.३४) अवसेसपाळिप्पदेसदस्सनत्थो आदि-सद्दो दट्ठब्बो. सतिया पट्ठानन्ति सतिया पतिट्ठातब्बट्ठानं. दानादीनि सतिया करोन्तस्स रूपादीनि कसिणादीनि च सतिया ठानं होन्तीति तंनिवारणत्थमाह ‘‘पधानं ठान’’न्ति. प-सद्दो हि इध ‘‘पणीता धम्मा’’तिआदीसु (ध. स. १४ तिकमातिका) विय पधानत्थदीपकोति अधिप्पायो.

अरियोति अरियं सब्बसत्तसेट्ठं सम्मासम्बुद्धमाह. एत्थाति एतस्मिं सळायतनविभङ्गसुत्ते (म. नि. ३.३११). सुत्तेकदेसेन हि सुत्तं दस्सेति. तत्थ हि –

‘‘तयो सतिपट्ठाना यदरियो…पे… मरहतीति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं. इध, भिक्खवे, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय ‘‘इदं वो हिताय इदं वो सुखाया’ति. तस्स सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठपेन्ति, वोक्कम्म च सत्थुसासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो. इदं, भिक्खवे, पठमं सतिपट्ठानं, यदरियो…पे… अरहति.

पुन चपरं, भिक्खवे, सत्था…पे… इदं वो सुखायाति. तस्स एकच्चे सावका न सुस्सूसन्ति…पे… वत्तन्ति. एकच्चे सावका सुस्सूसन्ति…पे… न च वोक्कम्म सत्थुसासना वत्तन्ति. तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति, न चेव अत्तमनो होति, न च अत्तमनतं पटिसंवेदेति. अनत्तमनतञ्च अत्तमनतञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खतो विहरति सतो सम्पजानो. इदं वुच्चति, भिक्खवे, दुतियं सतिपट्ठानं…पे… अरहति.

पुन चपरं…पे… सुखायाति. तस्स सावका सुस्सूसन्ति…पे… वत्तन्ति. तत्र, भिक्खवे, तथागतो अत्तमनो चेव होति, अत्तमनतञ्च पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो. इदं वुच्चति, भिक्खवे, ततियं सतिपट्ठानं…पे… अरहती’’ति (म. नि. ३.३११) –

एवं पटिघानुनयेहि अनवस्सुतता, निच्चं उपट्ठितस्सतिताय तदुभयवीतिवत्तता ‘‘सतिपट्ठान’’न्ति वुत्ता. बुद्धानंयेव हि निच्चं उपट्ठितस्सतिता होति आवेणिकधम्मभावतो, न पच्चेकबुद्धादीनं. -सद्दो आरम्भं जोतेति, आरम्भो च पवत्तीति कत्वा आह ‘‘पवत्तयितब्बतोति अत्थो’’ति. सतिया करणभूताय पट्ठानं पट्ठपेतब्बं सतिपट्ठानं. अन-सद्दो हि बहुलवचनेन कम्मत्थोपि होतीति.

तथास्स कत्तुअत्थोपि लब्भतीति ‘‘पतिट्ठातीति पट्ठान’’न्ति वुत्तं. तत्थ -सद्दो भूसत्थविसिट्ठं पक्खन्धनं दीपेतीति ‘‘ओक्कन्तित्वा पक्खन्दित्वा पवत्ततीति अत्थो’’ति आह. पुन भावत्थं सति-सद्दं पट्ठान-सद्दञ्च वण्णेन्तो ‘‘अथ वा’’तिआदिमाह. तेन पुरिमविकप्पे सति-सद्दो पट्ठान-सद्दो च कत्थुअत्थोति विञ्ञायति. सरणट्ठेनाति चिरकतस्स चिरभासितस्स च अनुस्सरणट्ठेन. इदन्ति यं ‘‘सतियेव सतिपट्ठान’’न्ति वुत्तं, इदं इध इमस्मिं सुत्तपदेसे अधिप्पेतं.

यदि एवन्ति यदि सति एव सतिपट्ठानं, सति नाम एको धम्मो, एवं सन्ते कस्मा ‘‘सतिपट्ठाना’’ति बहुवचनन्ति आह ‘‘सतिबहुत्ता’’तिआदि. यदि बहुका एता सतियो, अथ कस्मा ‘‘मग्गो’’ति एकवचनन्ति योजना. मग्गट्ठेनाति निय्यानट्ठेन. निय्यानिको हि मग्गधम्मो, तेनेव निय्यानिकभावेन एकत्तुपगतो एकन्ततो निब्बानं गच्छति, अत्थिकेहि च तदत्थं मग्गीयतीति अत्तनाव पुब्बे वुत्तं पच्चाहरति ‘‘वुत्तञ्चेत’’न्ति. तत्थ चतस्सोपि चेताति कायानुपस्सनादिवसेन चतुब्बिधापि च एता सतियो. अपरभागेति अरियमग्गक्खणे. किच्चं साधयमानाति पुब्बभागे कायादीसु आरम्मणेसु सुभसञ्ञादिविधमनेन विसुं विसुं पवत्तित्वा मग्गक्खणे सकिंयेव तत्थ चतुब्बिधस्सपि विपल्लासस्स समुच्छेदवसेन पहानकिच्चं साधयमाना आरम्मणकरणवसेन निब्बानं गच्छन्ति. चतुब्बिधकिच्चसाधनेनेव हेत्थ बहुवचननिद्देसो. एवञ्च सतीति मग्गट्ठेन एकत्तं उपादाय ‘‘मग्गो’’ति एकवचनेन आरम्मणभेदेन चतुब्बिधतं उपादाय ‘‘चत्तारो’’ति च वत्तब्बताय सतिविज्जमानत्ता. वचनानुसन्धिना ‘‘एकायनो अय’’न्तिआदिका देसना सानुसन्धिकाव, न अननुसन्धिकाति अधिप्पायो. वुत्तमेवत्थं निदस्सनेन पटिपादेतुं ‘‘मारसेनप्पमद्दन’’न्ति सुत्तपदं (सं. नि. ५.२२४) आनेत्वा ‘‘यथा’’तिआदिना निदस्सनं संसन्देति. तस्मातिआदि निगमनं.

विसेसतो कायो च वेदना च अस्सादस्सकारणन्ति तप्पहानत्थं तेसु तण्हावत्थूसु ओळारिकसुखुमेसु असुभदुक्खभावदस्सनानि मन्दतिक्खपञ्ञेहि तण्हाचरितेहि सुकरानीति तानि तेसं ‘‘विसुद्धिमग्गो’’ति वुत्तानि तथा ‘‘निच्चं अत्ता’’ति अभिनिवेसवत्थुताय दिट्ठिया विसेसकारणेसु चित्तधम्मेसु अनिच्चानत्ततादस्सनानि सरागादिवसेन सञ्ञाफस्सादिवसेन नीवरणादिवसेन च नातिप्पभेदअतिप्पभेदगतेसु तेसु तप्पहानत्थं मन्दतिक्खपञ्ञानं दिट्ठिचरितानं सुकरानीति तेसं तानि ‘‘विसुद्धिमग्गो’’ति वुत्तानि. एत्थ च यथा चित्तधम्मानम्पि तण्हाय वत्थुभावो सम्भवति, तथा कायवेदनानम्पि दिट्ठियाति सतिपि नेसं चतुन्नम्पि तण्हादिट्ठिया वत्थुभावे यो यस्स सातिसयपच्चयो, तंदस्सनत्थं विसेसग्गहणं कतन्ति दट्ठब्बं. तिक्खपञ्ञसमथयानिको ओळारिकारम्मणं परिग्गण्हन्तो तत्थ अट्ठत्वा झानं समापज्जित्वा वुट्ठाय वेदनं परिग्गण्हातीति वुत्तं. ‘‘ओळारिकारम्मणे असण्ठहनतो’’ति. विपस्सनायानिकस्स पन सुखुमे चित्ते धम्मेसु च चित्तं पक्खन्दतीति चित्तधम्मानुपस्सनानं मन्दतिक्खपञ्ञाविपस्सनायानिकानं विसुद्धिमग्गता वुत्ता.

तेसं तत्थाति एत्थ तत्थ-सद्दस्स ‘‘पहानत्थ’’न्ति एतेन योजना. परतो तेसं तत्थाति एत्थापि एसेवनयो. पञ्च कामगुणा सविसेसा काये लब्भन्तीति विसेसेन कायो कामोघस्स वत्थु, भवेसु सुखग्गहणवसेन भवस्सादो होति भवोघस्स वेदना वत्थु, सन्ततिघनगहणवसेन विसेसतो चित्ते अत्ताभिनिवेसो होतीति दिट्ठोघस्स चित्तं वत्थु, धम्मेसु विनिब्भोगस्स दुक्करत्ता धम्मानं धम्ममत्तताय दुप्पटिविज्झत्ता सम्मोहो होतीति अविज्जोघस्स धम्मा वत्थु, तस्मा तेसं पहानत्थं चत्तारोव वुत्ता.

यदग्गेन च कायो कामोघस्स वत्थु, तदग्गेन अभिज्झाकायगन्थस्स वत्थु, दुक्खाय वेदनाय पटिघानुसयो अनुसेतीति दुक्खदुक्खविपरिणामदुक्खसङ्खारदुक्खभूता वेदना विसेसेन ब्यापादकायगन्थस्स वत्थु, चित्ते निच्चग्गहणवसेन सस्सतस्स अत्तनो सीलेन सुद्धीतिआदि परामसनं होतीति सीलब्बतपरामासस्स चित्तं वत्थु, नामरूपपरिच्छेदेन भूतं भूततो अपस्सन्तस्स भवविभवदिट्ठिसङ्खातो इदंसच्चाभिनिवेसो होतीति तस्स धम्मा वत्थु, सुखवेदनास्सादवसेन परलोकनिरपेक्खो ‘‘नत्थि दिन्न’’न्तिआदिकं परामासं उप्पादेतीति दिट्ठुपादानस्स वेदना वत्थु सन्ततिघनगहणवसेन सरागादिचित्ते सम्मोहो होतीति मोहागतिया चित्तं वत्थु, धम्मसभावानवबोधेन भयं होतीति भयागतिया धम्मा वत्थु. ये पनेत्थ अवुत्ता, तेसं वुत्तनयेन वत्थुभावो योजेतब्बो. तथा हि ओघेसु वुत्तनया एव योगासवेसुपि योजना अत्थतो अभिन्नत्ता. तथा पठमोघततियचतुत्थगन्थयोजनाय वुत्तनया एव कायचित्तधम्मानं इतरूपादानवत्थुता योजना, तथा कामोघब्यापादकायगन्थयोजनाय वुत्तनया एव कायवेदनानं छन्ददोसागति वत्थुता योजना वा.

‘‘आहारसमुदया कायसमुदयो, फस्ससमुदया वेदनासमुदयो, (सं. नि. ५.४०८) सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूप’’न्ति (म. नि. ३.१२६; उदा. १; विभ. २२५) वचनतो कायादीनं समुदयभूता कबळीकाराहारफस्समनोसञ्चेतनाविञ्ञाणाहारा कायादिपरिजाननेन परिञ्ञाता होन्तीति आह ‘‘चतुब्बिधाहारपरिञ्ञत्थ’’न्ति पकरणनयोति नेत्तिपकरणवसेन सुत्तन्तसंवण्णनानयो.

सरणवसेनाति कायादीनं कुसलादिधम्मानञ्च उपधारणवसेन. सरन्ति गच्छन्ति निब्बानं एतायाति सतीति इमस्मिं अत्थे एकत्ते एकसभावे निब्बाने समोसरणं समागमो एकत्तसमोसरणं. एतदेव हि दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. एकनिब्बानपवेसहेतुभूता वा समानता एको सतिपट्ठानस्स भावो एकत्तं, तत्थ समोसरणं तंसभागता एकत्तसमोसरणं. एकनिब्बानपवेसहेतुभावं पन दस्सेतुं ‘‘यथा ही’’तिआदिमाह. एतस्मिं अत्थे सरणेकत्तसमोसरणानि सहेव सतिपट्ठानेकभावस्स कारणत्थेन वुत्तानीति दट्ठब्बानि, पुरिमस्मिं विसुं. सरणवसेनाति वा ‘‘गमनवसेना’’ति अत्थे सति तदेव गमनं समोसरणन्ति, समोसरणे वा सतिसद्दत्थवसेन अवुच्चमाने धारणताव सतीति सतिसद्दत्थन्तराभावा पुरिमं सतिभावस्स कारणं, पच्छिमं एकभावस्साति निब्बानसमोसरणेपि सहितानेव तानि सतिपट्ठानेकभावस्स कारणानि वुत्तानि होन्ति. चुद्दसविधेन, नवविधेन, सोळसविधेन, पञ्चविधेनाति इदं उपरि पाळियं (म. नि. १.१०७) आगतानं आनापानपब्बादीनं वसेन वुत्तं, तेसं पन अन्तरभेदवसेन तदनुगतभेदवसेन च भावनाय अनेकविधता लब्भतियेव. चतूसु दिसासु उट्ठानकभण्डसदिसता कायानुपस्सनादितंतंसतिपट्ठानभावनानुभावस्स दट्ठब्बा.

‘‘गोचरे, भिक्खवे, चरथ सके पेत्तिके विसये’’तिआदिवचनतो (दी. नि. ३.८०; सं. नि. ५.३७२) भिक्खुगोचरा एते धम्मा, यदिदं कायानुपस्सनादयो. तत्थ यस्मा कायानुपस्सनादिपटिपत्तिया भिक्खु होति, तस्मा ‘‘कायानुपस्सी विहरती’’तिआदिना भिक्खुं दस्सेति, भिक्खुम्हि तं नियमतोति आह ‘‘पटिपत्तिया भिक्खुभावदस्सनतो’’ति. सत्थु चरियानुविधायकत्ता सकलसासनसम्पटिग्गाहकत्ता च सब्बप्पकाराय अनुसासनिया भाजनभावो.

समं चरेय्याति कायादिविसमचरियं पहाय कायादीहि समं चरेय्य. रागादिवूपसमेन सन्तो. इन्द्रियदमेन दन्तो. चतुमग्गनियामेन नियतो. सेट्ठचरिताय ब्रह्मचारी. कायदण्डादिओरोपनेन निधाय दण्डं. अरियभावे ठितो सो एवरूपो बाहितपापसमितपापभिन्नकिलेसताहि ब्राह्मणो समणो भिक्खूति वेदितब्बो.

‘‘अयञ्चेव कायो बहिद्धो च नामरूप’’न्तिआदीसु (दी. नि. टी. २.३७३) खन्धपञ्चकं, ‘‘सुखञ्च कायेन पटिसंवेदेती’’तिआदीसु (म. नि. १.२७१, २८७; पारा. ११) नामकायो कायोति वुच्चतीति ततो विसेसनत्थं ‘‘कायेति रूपकाये’’ति आह.

असम्मिस्सतोति ‘‘वेदनादयोपि एत्थ सिता एत्थ पटिबद्धा’’ति काये वेदनादिअनुपस्सनापसङ्गेपि आपन्ने ततो असम्मिस्सतोति अत्थो. समूहविसयताय चस्स काय-सद्दस्स समुदायुपादानताय च असुभाकारस्स ‘‘काये’’ति एकवचनं, तथा आरम्मणादिविभागेन अनेकभेदभिन्नम्पि चित्तं चित्तभावसामञ्ञेन एकज्झं गहेत्वा ‘‘चित्ते’’ति एकवचनं, वेदना पन सुखादिभेदभिन्ना विसुं विसुं अनुपस्सितब्बाति दस्सेन्तेन ‘‘वेदनासू’’ति बहुवचनेन वुत्ता, तथेव च निद्देसो पवत्तितो, धम्मा च परोपण्णासभेदा अनुपस्सितब्बाकारेन च अनेकभेदा एवाति तेपि बहुवचनवसेनेव वुत्ता. अवयवीगाह-समञ्ञातिधावन-सारादानाभिनिवेसनिसेधनत्थं कायं अङ्गपच्चङ्गेहि, तानि च केसादीहि, केसादिके च भूतुपादायरूपेहि विनिब्भुज्जन्तो ‘‘तथा न काये’’तिआदिमाह. पासादादिनगरावयवसमूहे अवयवीवादिनोपि अवयवीगाहं न करोन्ति, नगरं नाम कोचि अत्थो अत्थीति पन केसञ्चि समञ्ञातिधावनं सियाति इत्थिपुरिसादिसमञ्ञातिधावने नगरनिदस्सनं वुत्तं. अङ्गपच्चङ्गसमूहो, केसलोमादिसमूहो भूतुपादायसमूहो च यथावुत्तसमूहे तब्बिनिमुत्तो कायोपि नाम कोचि नत्थि, पगेव इत्थिआदयोति आह ‘‘कायो वा…पे… दिस्सती’’ति. कोचि धम्मोति इमिना सत्तजीवादिं पटिक्खिपति, अवयवी पन कायपटिक्खेपेनेव पटिक्खित्तोति. यदि एवं कथं कायादिसञ्ञाभिधानानीतिआह ‘‘यथावुत्त…पे… करोन्ती’’ति.

यं पस्सति इत्थिं पुरिसं वा. ननु चक्खुना इत्थिपुरिसदस्सनं नत्थीति? सच्चमेतं, ‘‘इत्थिं पस्सामि, पुरिसं पस्सामी’’ति पन पवत्तसञ्ञाय वसेन ‘‘यं पस्सती’’ति वुत्तं. मिच्छादस्सनेन वा दिट्ठिया यं पस्सति, न तं दिट्ठं, तं रूपायतनं न होतीति अत्थो विपरीतग्गाहवसेन मिच्छापरिकप्पितरूपत्ता. अथ वा तं केसादिभूतुपादायसमूहसङ्खातं दिट्ठं न होति अचक्खुविञ्ञाणविञ्ञेय्यत्ता, दिट्ठं वा तं न होति. यं दिट्ठं तं न पस्सतीति यं रूपायतनं केसादिभूतुपादायसमूहसङ्खातं दिट्ठं, तं पञ्ञाचक्खुना भूततो न पस्सतीति अत्थो. अपस्सं बज्झतेति इमं अत्तभावं यथाभूतं पञ्ञाचक्खुना अपस्सन्तो ‘‘एतं मम, एसोहमस्मि, एसो मे अत्तो’’ति किलेसबन्धनेन बज्झति.

अञ्ञधम्मानुपस्सीति न अञ्ञसभावानुपस्सी, असुभादितो अञ्ञाकारानुपस्सी न होतीति अत्थो. किं वुत्तं होतीतिआदिना तमेवत्थं पाकटं करोति. पथवीकायन्ति केसादिकोट्ठासपथविं धम्मसमूहत्ता ‘‘कायो’’ति वदति, लक्खणपथविमेव वा अनेकप्पभेदं सकलसरीरगतं पुब्बापरियभावेन च पवत्तमानं समूहवसेन गहेत्वा ‘‘कायो’’ति वदति. आपोकायन्तिआदीसुपि एसेव नयो.

एवं गहेतब्बस्साति ‘‘अहं मम’’न्ति एवं अत्तत्तनियभावेन अन्धबालेहि गहेतब्बस्स. इदानि सत्तन्नं अनुपस्सनाकारानम्पि वसेन कायानुपस्सनं दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. तत्थ अनिच्चतो अनुपस्सतीति चतुसमुट्ठानिककायं ‘‘अनिच्च’’न्ति अनुपस्सति, एवं पस्सन्तो एवं चस्स अनिच्चाकारम्पि अनुपस्सतीति वुच्चति. तथाभूतस्स चस्स निच्चग्गाहस्स लेसोपि न होतीति वुत्तं ‘‘नो निच्चतो’’ति तथाहेस ‘‘निच्चसञ्ञं पजहती’’ति (पटि. म. ३.३५) वुत्तो. एत्थ च ‘‘अनिच्चतो एव अनुपस्सती’’ति एव-कारो लुत्तनिद्दिट्ठोति तेन निवत्तितमत्थं दस्सेतुं ‘‘नो निच्चतो’’ति वुत्तं. न चेत्थ दुक्खतो अनुपस्सनादिनिवत्तनमासङ्कितब्बं पटियोगीनिवत्तनपरत्ता एव-कारस्स, उपरिदेसनारुळ्हत्ता च तासं.

दुक्खतो अनुपस्सतीतिआदीसुपि एसेव नयो. अयं पन विसेसो – अनिच्चस्स दुक्खत्ता तमेव कायं दुक्खतो अनुपस्सति, दुक्खस्स अनत्तत्ता अनत्ततो अनुपस्सति. यस्मा पन यं अनिच्चं दुक्खं अनत्ता, तं अनभिनन्दितब्बं, न तत्थ रज्जितब्बं, तस्मा वुत्तं ‘‘निब्बिन्दति नो नन्दति, विरज्जति नो रज्जती’’ति. सो एवं अरज्जन्तो रागं निरोधेति नो समुदेति, समुदयं न करोतीति अत्थो. एवं पटिपन्नो च पटिनिस्सज्जति नो आदियति. अयञ्हि अनिच्चादिअनुपस्सना तदङ्गवसेन सद्धिं कायतन्निस्सयखन्धाभिसङ्खारेहि किलेसानं परिच्चजनतो, सङ्खतदोसदस्सनेन तब्बिपरीते निब्बाने तन्निन्नताय पक्खन्दनतो ‘‘परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चा’’ति वुच्चति, तस्मा ताय समन्नागतो भिक्खु वुत्तनयेन किलेसे च परिच्चजति, निब्बाने च पक्खन्दति, तथाभूतो च निब्बत्तनवसेन किलेसे न आदियति, नापि अदोसदस्सितावसेन सङ्खतारम्मणं. तेन वुत्तं ‘‘पटिनिस्सज्जति नो आदियती’’ति. इदानिस्स ताहि अनुपस्सनाहि येसं धम्मानं पहानं होति, तं दस्सेतुं ‘‘सो तं अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहती’’ति. तत्थ निच्चसञ्ञन्ति ‘‘सङ्खारा निच्चा’’ति एवं पवत्तविपरीतसञ्ञं. दिट्ठिचित्तविपल्लासपहानमुखेनेव सञ्ञाविपल्लासप्पहानन्ति सञ्ञागहणं, सञ्ञासीसेन वा तेसम्पि गहणं दट्ठब्बं. नन्दिन्ति सप्पीतिकतण्हं. सेसं वुत्तनयेमेव.

विहरतीति इमिना कायानुपस्सनासमङ्गिनो इरियापथविहारो वुत्तोति आह ‘‘इरियती’’ति इरियापथं पवत्तेतीति अत्थो. आरम्मणकरणवसेन अभिब्यापनतो ‘‘तीसु भवेसू’’ति वुत्तं, उप्पज्जनवसेन पन किलेसा परित्तभूमका एवाति. यदिपि किलेसानं पहानं आतापनन्ति तं सम्मादिट्ठिआदीनम्पि अत्थेव, आताप-सद्दो पन वीरियेयेव निरुळ्होति वुत्तं ‘‘वीरियस्सेतं नाम’’न्ति. अथ वा पटिपक्खपहाने सम्पयुत्तधम्मानं अब्भुस्सहनवसेन पवत्तमानस्स वीरियस्स सातिसयं तदातापनन्ति वीरियमेव तथा वुच्चति, न अञ्ञे धम्मा. आतापीति चायमीकारो पसंसाय, अतिसयस्स वा दीपकोति आतापीगहणेन सम्मप्पधानसमङ्गितं दस्सेति. सम्मा, समन्ततो, सामञ्च पजानन्तो सम्पजानो, असम्मिस्सतो ववत्थाने अञ्ञधम्मानुपस्सिताभावेन सम्मा अविपरीतं, सब्बाकारपजाननेन समन्ततो, उपरूपरि विसेसावहभावेन पवत्तिया सयं पजानन्तोति अत्थो. यदि पञ्ञाय अनुपस्सति, कथं सतिपट्ठानताति आह ‘‘न ही’’तिआदि. सब्बत्थिकन्ति सब्बत्थ भवं सब्बत्थ लीने उद्धते च चित्ते इच्छितब्बत्ता, सब्बे वा लीने उद्धते च भावेतब्बा बोज्झङ्गा अत्थिका एतायाति सब्बत्थिका. सतिया लद्धूपकाराय एव पञ्ञाय एत्थ यथावुत्ते काये कम्मट्ठानिको भिक्खु कायानुपस्सी विहरति. अन्तोसङ्खेपो अन्तो ओलीयनो, कोसज्जन्ति अत्थो. उपायपरिग्गहेति एत्थ सीलविसोधनादि गणनादि उग्गहकोसल्लादि च उपायो, तब्बिपरियायतो अनुपायो वेदितब्बो. यस्मा च उपट्ठितस्सति यथावुत्तउपायं न परिच्चजति, अनुपायञ्च न उपादियति, तस्मा वुत्तं ‘‘मुट्ठस्सति…पे… असमत्थो होती’’ति. तेनाति उपायानुपायानं परिग्गहपरिवज्जनेसु अपरिच्चागापरिग्गहेसु च असमत्थभावेन अस्स योगिनो.

यस्मा सतियेवेत्थ सतिपट्ठानं वुत्ता, तस्मास्स सम्पयुत्ता धम्मा वीरियादयो अङ्गन्ति आह ‘‘सम्पयोगङ्गञ्चस्स दस्सेत्वा’’ति. अङ्ग-सद्दो चेत्थ कारणपरियायो दट्ठब्बो, सतिग्गहणेनेव चेत्थ समाधिस्सति गहणं दट्ठब्बं तस्सा समाधिक्खन्धे सङ्गहितत्ता. यस्मा वा सतिसीसेनायं देसना. न हि केवलाय सतिया किलेसप्पहानं होति, निब्बानाधिगमो वा, न च केवला सति पवत्तति, तस्मास्स झानदेसनायं सवितक्कादिवचनस्स विय सम्पयोगङ्गदस्सनताति अङ्ग-सद्दस्स अवयवपरियायता दट्ठब्बा. पहानङ्गन्ति ‘‘विविच्चेव कामेही’’तिआदीसु (दी. नि. १.२२६; म. नि. १.२७१, २८७; सं. नि. २.१५२; अ. नि. ४.१२३; पारा. ११) विय पहातब्बङ्गं दस्सेतुं. यस्मा एत्थ लोकियमग्गो अधिप्पेतो, न लोकुत्तरमग्गो, तस्मा पुब्बभागियमेव विनयं दस्सेन्तो ‘‘तदङ्गविनयेन वा विक्खम्भनविनयेन वा’’ति आह. तेसं धम्मानन्ति वेदनादिधम्मानं. तेसञ्हि तत्थ अनधिप्पेतत्ता ‘‘अत्थुद्धारनयेनेतं वुत्त’’न्ति वुत्तं.

अविसेसेन द्वीहिपि नीवरणप्पहानं वुत्तन्ति कत्वा पुन एकेकेन वुत्तं पहानविसेसं दस्सेतुं ‘‘विसेसेना’’ति आह. अथ वा ‘‘विनेय्य नीवरणानी’’ति अवत्वा अभिज्झादोमनस्सवचनस्स पयोजनं दस्सेन्तो ‘‘विसेसेना’’तिआदिमाह. कायानुपस्सनाभावनाय हि उजुविपच्चनीकानं अनुरोधादीनं पहानं दस्सनं एतस्स पयोजनन्ति. कायसम्पत्तिमूलकस्साति रूप-बल-योब्बनारोग्यादि-सरीरसम्पदा-निमित्तस्स. वुत्तविपरियायतो कायविपत्तिमूलको विरोधो वेदितब्बो. कायभावनायाति कायानुपस्सनाभावनाय. सा हि इध ‘‘कायभावना’’ति अधिप्पेता. तेनाति अनुरोधादिप्पहानवचनेन. योगानुभावो हीतिआदि वुत्तस्सेवत्थस्स पाकटकरणं.

सतिसम्पजञ्ञेनाति अतिसम्पजञ्ञग्गहणेन. सब्बत्थिककम्मट्ठानन्ति बुद्धानुस्सति मेत्ता मरणस्सति असुभभावना च. इदञ्हि चतुक्कं योगिना परिहरियमानं ‘‘सब्बत्थिककम्मट्ठान’’न्ति वुच्चति अतिसम्पजञ्ञबलेन अविच्छिन्नस्स तस्स परिहरितब्बत्ता, सतिया वा समथो वुत्तो तस्सा समाद्धिक्खन्धेन सङ्गहितत्ता.

तेनाति सद्दत्थं अनादियित्वा भावत्थस्सेव विभजनवसेन पवत्तेन विभङ्गपाठेन सह. अट्ठकथानयोति सद्दत्थस्सपि विवरणवसेन यथारहं वुत्तो अत्थसंवण्णनानयो. यथा संसन्दतीति यथा अत्थतो अधिप्पायतो च अविलोमेन्तो अञ्ञदत्थु संसन्दति समेति, एवं वेदितब्बो.

वेदनादीनं पुन वचनेति एत्थ निस्सयपच्चयभाववसेन चित्तधम्मानं वेदनासन्निस्सितत्ता पञ्चवोकारभवे अरूपधम्मानं रूपपटिबद्धवुत्तितो च वेदनाय कायादिअनुपस्सनापसङ्गेपि आपन्ने तदसम्मिस्सतो ववत्थानदस्सनत्थं घनविनिब्भोगादिदस्सनत्थञ्च दुतियवेदनागहणं. तेन न वेदनायं कायानुपस्सी, चित्तधम्मानुपस्सी वा, अथ खो वेदनानुपस्सीयेवाति वेदनासङ्खाते वत्थुस्मिं वेदनानुपस्सनाकारस्सेव दस्सनेन असम्मिस्सतो ववत्थानं दस्सितं होति. तथा ‘‘यस्मिं समये सुखा वेदना, न तस्मिं समये दुक्खा अदुक्खमसुखा वा वेदना. यस्मिं वा पन समये दुक्खा अदुक्खमसुखा वा वेदना, न तस्मिं समये इतरा वेदना’’ति वेदनाभावसामञ्ञे अट्ठत्वा तं तं वेदनं विनिब्भुजित्वा दस्सनेन घनविनिब्भोगो धुवभावविवेको दस्सितो होति. तेन तासं खणमत्तावट्ठानदस्सनेन अनिच्चताय ततो एव दुक्खताय अनत्तताय च दस्सनं विभावितं होति. घनविनिब्भोगादीति आदि-सद्देन अयम्पि अत्थो वेदितब्बो. अयञ्हि वेदनायं वेदनानुपस्सीयेव, न अञ्ञधम्मानुपस्सी. किं वुत्तं होति – यथा नाम बालो अमणिसभावेपि उदकबुब्बुळके मणिआकारानुपस्सी होति, न एवमयं ठितिरमणीयेपि वेदयिते, पगेव इतरस्मिं मनुञ्ञाकारानुपस्सी, अथ खो खणभङ्गुरताय अवसवत्तिताय किलेसासुचिपग्घरणताय च अनिच्चअनत्तअसुभाकारानुपस्सी, विपरिणामदुक्खताय सङ्खारदुक्खताय च विसेसतो दुक्खानुपस्सीयेवाति वुत्तं होति. एवं चित्तधम्मेसुपि यथारहं पुन वचने पयोजनं वत्तब्बं. ‘‘केवलं पनिधा’’तिआदिना इध ‘एत्तकं वेदितब्ब’’न्ति वेदितब्बपरिच्छेदं दस्सेति. एस नयोति इमिना यथा चित्तं धम्मा च अनुपस्सितब्बा, तथा तानि अनुपस्सन्तो ‘‘चित्ते चित्तानुपस्सी, धम्मेसु धम्मानुपस्सी’’ति वेदितब्बोति इममत्थं अतिदिसति.

यो सुखं दुक्खतो अद्दाति यो भिक्खु सुखवेदनं विपरिणामदुक्खताय ‘‘दुक्ख’’न्ति पञ्ञाचक्खुना अद्दक्खि. दुक्खमद्दक्खि सल्लतोति दुक्खवेदनं पीळाजननतो अन्तोतुदनतो दुन्नीहरणतो च सल्लन्ति अद्दक्खि पस्सि. अदुक्खमसुखन्ति उपेक्खावेदनं. सन्तन्ति सुखदुक्खानि विय अनोळारिकताय पच्चयवसेन वूपसन्तसभावताय च सन्तं. अनिच्चतोति हुत्वा अभावतो उदयब्बयवन्ततो तावकालिकतोनिच्चपटिक्खेपतो च ‘‘अनिच्च’’न्ति यो अद्दक्खि. स वे सम्मद्दसो भिक्खु एकंसेन परिब्यत्तं वा वेदनाय सम्मा पस्सनकोति अत्थो.

दुक्खातिपीति सङ्खारदुक्खताय दुक्खा इतिपि. सब्बं तं दुक्खस्मिन्ति सब्बं तं वेदयितं दुक्खस्मिं अन्तोगधं परियापन्नं वदामि सङ्खारदुक्खतानतिवत्तनतो. सुखदुक्खतोपि चाति सुखादीनं ठितिविपरिणामञ्ञाणसुखताय विपरिणामठितिअञ्ञाणदुक्खताय च वुत्तत्ता तिस्सोपि सुखतो, तिस्सोपि च दुक्खतो अनुपस्सितब्बाति अत्थो. रूपादि-आरम्मणछन्दादि-अधिपति-ञाणादि-सहजात- कामावचरादि-भूमिनानत्तभेदानं कुसलाकुसल-तंविपाककिरिया-नानत्तादिभेदानञ्च, आदि-सद्देन सङ्खारिकासङ्खारिकस-वत्थुकावत्थुकादि-नानत्तभेदानञ्च वसेनाति योजेतब्बं. सुञ्ञतधम्मस्साति ‘‘धम्मा होन्ती’’तिआदिना (ध. स. १२१) सुञ्ञतवारे आगतसुञ्ञतसभावस्स वसेन. ‘‘कामञ्चेत्था’’तिआदिना पुब्बे पहीनत्ता पुन पहानं न वत्तब्बन्ति चोदनं दस्सेति, मग्गचित्तक्खणे वा एकत्थ पहीनं सब्बत्थ पहीनमेव होतीति विसुं विसुं न वत्तब्बन्ति. तत्थ पुरिमाय चोदनाय नानापुग्गलपरिहारो, पच्छिमाय नानाचित्तक्खणिकपरिहारो. लोकियभावनाय हि काये पहीनं न वेदनादीसु पहीनं होति यदिपि न पवत्तेय्य, न पटिपक्खभावनाय तत्थ सा अभिज्झादोमनस्सस्स अप्पवत्ति होतीति पुन तप्पहानं वत्तब्बमेवाति. एकत्थ पहीनं सेसेसुपि पहीनं होतीति मग्गसतिपट्ठानभावनं, लोकियभावनाय वा सब्बत्थ अप्पवत्तिमत्तं सन्धाय वुत्तं. ‘‘पञ्चपि खन्धा लोको’’ति हि विभङ्गे (विभ. ३६२, ३६४, ३६६, ३७३) चतूसुपि ठानेसु वुत्तन्ति.

उद्देसवारवण्णनाय लीनत्थप्पकासना समत्ता.

कायानुपस्सनावण्णना

आनापानपब्बवण्णना

१०७. बाहिरकेसुपि इतो एकदेसस्स सम्भवतो सब्बप्पकारग्गहणं कतं ‘‘सब्बप्पकारकायानुपस्सनानिब्बत्तकस्सा’’ति. तेन ये इमे आनापानपब्बादिवसेन आगता चुद्दसप्पकारा, तदन्तोगधा च अज्झत्तादिअनुपस्सना पकारा, तथा कायगतासतिसुत्ते (म. नि. ३.१५४) वुत्ता केसादिवण्णसण्ठानकसिणारम्मणचतुक्कज्झानप्पकारा, लोकियादिप्पकारा च, ते सब्बेपि अनवसेसतो सङ्गण्हाति. इमे च पकारा इमस्मिंयेव सासने, न इतो बहिद्धाति वुत्तं ‘‘सब्बप्पकार…पे… पटिसेधनो चा’’ति. तत्थ तथाभावपटिसेधनोति सब्बप्पकारकायानुपस्सनानिब्बत्तकस्स पुग्गलस्स अञ्ञसासनस्स निस्सयभावपटिसेधनो. एतेन ‘‘इध, भिक्खवे’’ति एत्थ इध-सद्दो अन्तोगधएवसद्दत्थोति दस्सेति. सन्ति हि एकपदानिपि सावधारणानि यथा ‘‘वायुभक्खो’’ति (दी. नि. टी. २.३७४). तेनाह ‘‘इधेव समणो’’तिआदि. परिपुण्णसमणकरणधम्मो हि सो, यो सब्बप्पकारकायानुपस्सनानिब्बत्तको. परप्पवादाति परेसं अञ्ञतित्थियानं नानप्पकारा वादा तित्थायतनानि.

अरञ्ञादिकस्सेव भावनानुरूपसेनासनतं दस्सेतुं ‘‘इमस्स ही’’तिआदि वुत्तं. दुद्दमो दमथं अनुपगतो गोणो कूटगोणो. दोहनकाले यथा थनेहि अनवसेसतो खीरं न पग्घरति, एवं दोहपटिबन्धिनी कूटधेनु. रूपसद्दादिके पटिच्च उप्पज्जनकअस्सादो रूपारम्मणादिरसो. पुब्बे आचिण्णारम्मणन्ति पब्बज्जातो पुब्बे, अनादिमति वा संसारे परिचितारम्मणं.

निबन्धेय्याति बन्धेय्य. सतियाति सम्मदेव कम्मट्ठानस्स सल्लक्खणवसेन पवत्ताय सतिया. आरम्मणेति कम्मट्ठानारम्मणे. दळ्हन्ति थिरं, यथा सतोकारिस्स उपचारप्पनाभेदो समाधि इज्झति, तथा थामगतं कत्वाति अत्थो.

विसेसाधिगमदिट्ठधम्मसुखविहारपदट्ठानन्ति सब्बेसं बुद्धानं, एकच्चानं पच्चेकबुद्धानं, बुद्धसावकानञ्च विसेसाधिगमस्स, अञ्ञेन कम्मट्ठानेन अधिगतविसेसानं दिट्ठधम्मसुखविहारस्स च पदट्ठानभूतं. वत्थुविज्जाचरियो विय भगवा योगीनं अनुरूपनिवासट्ठानुपदिसनतो. भिक्खु दीपिसदिसो अरञ्ञे एकाकी विहरित्वा पटिपक्खनिम्मथनेन इच्छितत्थसाधनतो. फलमुत्तमन्ति सामञ्ञफलं सन्धायाह. परक्कमजवयोग्गभूमिन्ति भावनुस्साहजवस्स योग्गकरणभूमिभूतं.

अस्सासपस्सासानं वसेन सिक्खतोति अस्सासपस्सासानं दीघरस्सतापजानन-सब्बकायपटिसंवेदन-ओळारिकोळारिकपटिप्पस्सम्भनवसेन भावनानुयोगं सिक्खतो, तथाभूतो वा हुत्वा तिस्सो सिक्खा पवत्तयतो. अस्सासपस्सासनिमित्तेति अस्सासपस्साससन्निस्सयेन उपट्ठितपटिभागनिमित्ते. अस्सासपस्सासे परिग्गण्हाति रूपमुखेन विपस्सनं अभिनिविसन्तो, यो ‘‘अस्सासपस्सासकम्मिको’’ति वुत्तो. झानङ्गानि परिग्गण्हाति अरूपमुखेन विपस्सनं अभिनिविसन्तो. वत्थु नाम करजकायो चित्तचेतसिकानं पवत्तिट्ठानभावतो. अञ्ञो सत्तो वा पुग्गलो वा नत्थीति विसुद्धदिट्ठि ‘‘तयिदं धम्ममत्तं न अहेतुकं, नापि इस्सरादिविसमहेतुकं, अथ खो अविज्जादीहि एव सहेतुक’’न्ति अद्धत्तयेपि कङ्खावितरणेन वितिण्णकङ्खो ‘‘यं किञ्चि रूप’’न्तिआदिना (म. नि. १.३६१; म. नि. २.११३; म. नि. ३.८६; अ. नि. ४.१८१; पटि. म. १.४८) कलापसम्मसनवसेन तिलक्खणं आरोपेत्वा उदयब्बयानुपस्सनादिवसेन विपस्सनं वड्ढेन्तो अनुक्कमेन मग्गपटिपाटिया.

परस्स वा अस्सासपस्सासकायेति इदं सम्मसनचारवसेनायं पाळि पवत्ताति कत्वा वुत्तं, समथवसेन पन परस्स अस्सासपस्सासकाये अप्पनानिमित्तुप्पत्ति एव नत्थीति. इदं उभयं न लब्भतीति ‘‘अज्झत्तं, बहिद्धा’’ति च वुत्तं इदं धम्मद्वयघटितं एकतो आरम्मणभावेन न लब्भति.

समुदेति एतस्माति समुदयो, सो एव कारणट्ठेन धम्मोति समुदयधम्मो, अस्सासपस्सासानं पवत्तिहेतुकरजकायादि. तस्स अनुपस्सनसीलो समुदयधम्मानुपस्सी. तं पन समुदयधम्मं उपमामुखेन दस्सेन्तो ‘‘यथा नामा’’तिआदिमाह. तत्थ भस्तन्ति रुत्तिं. गग्गरनाळिन्ति उक्कापनाळिं. तेति करजकायादिके. यथा अस्सासपस्सासकायो करजकायादिसम्बन्धी फलभावेन, एवं तेपि अस्सासपस्सासकायसम्बन्धिनो हेतुभावेनाति ‘‘समुदयधम्मा कायस्मि’’न्ति वत्तब्बतं लभन्तीति वुत्तं ‘‘समुदय…पे… वुच्चती’’ति. पकतिवाची वा धम्म-सद्दो ‘‘जातिधम्मान’’न्तिआदीसु (म. नि. १.१३१; म. नि. ३.३७३; पटि. म. १.३३) वियाति कायस्स पच्चयसमवाये उप्पज्जनपकतिकानुपस्सी ‘‘समुदयधम्मानुपस्सी’’ति वुत्तो. तेनाह – ‘‘करजकायञ्चा’’तिआदि. एवञ्च कत्वा कायस्मिन्ति भुम्मवचनञ्च समत्थितं होति. वयधम्मानुपस्सीति एत्थ अहेतुकत्तेपि विनासस्स येसं हेतुधम्मानं अभावे यं न होति, तदभावो तस्स अभावस्स होतु विय वोहरीयतीति उपचारतो करजकायादिअभावो अस्सासपस्सासकायस्स वयकारणं वुत्तो. तेनाह ‘‘यथा भस्ताया’’तिआदि. अयं तावेत्थ पठमविकप्पवसेन अत्थविभावना. दुतियविकप्पवसेन पन उपचारेन विनायेव अत्थो वेदितब्बो. अज्झत्तबहिद्धानुपस्सना विय भिन्नवत्थुविसयताय समुदयवयधम्मानुपस्सनापि एककाले न लब्भतीति आह ‘‘कालेन समुदयं कालेन वयं अनुपस्सन्तो’’ति.

अत्थि कायोति एव-सद्दो लुत्तनिद्दिट्ठोति ‘‘कायोव अत्थी’’ति वत्वा अवधारणेन निवत्थितं दस्सेन्तो ‘‘न सत्तो’’तिआदिमाह. तस्सत्थो – यो रूपादीसु सत्तविसत्तताय परेसञ्च सज्जापनट्ठेन, सत्वगुणयोगतो वा ‘‘सत्तो’’ति परेहि परिकप्पितो. तस्स सत्तनिकायस्स पूरणतो च चवनुपपज्जनधम्मताय गलनतो च ‘‘पुग्गलो’’ति. थीयति संहञ्ञति एत्थ गब्भोति ‘‘इत्थी’’ति. पुरि पुरे भागे सेति पवत्ततीति ‘‘पुरिसो’’ति. आहितो अहंमानो एत्थाति ‘‘अत्ता’’ति, अत्तनो सन्तकभावेन ‘‘अत्तनिय’’न्ति. परो न होतीति कत्वा ‘‘अह’’न्ति, मम सन्तकन्ति कत्वा ‘‘मम’’न्ति. वुत्तप्पकारविनिमुत्तो अञ्ञोति कत्वा ‘‘कोची’’ति, तस्स सन्तकभावेन ‘‘कस्सची’’ति परिकप्पेतब्बो कोचि नत्थि, केवलं कायो एव अत्थीति अत्तत्तनियसुञ्ञतमेव कायस्स विभावेति. एवन्ति ‘‘कायोव अत्थी’’तिआदिना वुत्तप्पकारेन. ञाणपमाणत्थायाति कायानुपस्सनाञाणपरं पमाणं पापनत्थाय. सतिपमाणत्थायाति कायपरिग्गाहिकसतिपवत्तं सतिपरं पमाणं पापनत्थाय. इमस्स हि वुत्तनयेन ‘‘अत्थि कायो’’ति अपरापरुप्पत्तिवसेन पच्चुपट्ठिता सति भिय्योसो मत्ताय तत्थ ञाणस्स सतिया च परिब्रूहनाय होति. तेनाह ‘‘सतिसम्पजञ्ञानं वड्ढत्थाया’’ति.

इमिस्सा भावनाय तण्हादिट्ठिगाहानं उजुपटिपक्खत्ता वुत्तं ‘‘तण्हा…पे… विहरती’’ति. तथाभूतो च लोके किञ्चि ‘‘अह’’न्ति वा ‘‘मम’’न्ति वा गहेतब्बं न पस्सति, कुतो गण्हेय्य. तेनाह ‘‘न च किञ्ची’’तिआदि. एवम्पीति एत्थ पि-सद्दो हेट्ठा निद्दिट्ठस्स तादिसस्स अत्थस्स अभावतो अवुत्तसमुच्चयत्थोति दस्सेन्तो ‘‘उपरि अत्थं उपादाया’’ति आह. ‘‘एव’’न्ति पन निद्दिट्ठाकारस्स पच्चामसनं निगमनवसेन कतन्ति आह ‘‘इमिना पन…पे… दस्सेती’’ति. पुब्बभागसतिपट्ठानस्स इधाधिप्पेतत्ता वुत्तं ‘‘सति दुक्खसच्च’’न्ति. सा पन सति यस्मिं अत्तभावे, तस्स समुट्ठापिका तण्हा तस्सापि समुट्ठापिका एव नाम होति तदभावे अभावतोति आह ‘‘तस्सा समुट्ठापिका पुरिमतण्हा’’ति. अप्पवत्तीति अप्पवत्तिनिमित्तं, न पवत्तति एत्थाति वा अप्पवत्ति. चतुसच्चवसेनाति चतुसच्चकम्मट्ठानवसेन. उस्सक्कित्वाति विसुद्धिपरम्पराय आरुहित्वा, भावनं उपरि नेत्वाति अत्थो. निय्यानमुखन्ति वट्टदुक्खतो निस्सरणूपायो.

आनापानपब्बवण्णना निट्ठिता.

इरियापथपब्बवण्णना

१०८. इरियापथवसेनाति इरियनं इरिया, किरिया, इध पन कायिकपयोगो वेदितब्बो. इरियानं पथो पवत्तिमग्गोति इरियापथो, गमनादिसरीरावत्था. गच्छन्तो वा हि सत्तो कायेन कत्तब्बकिरियं करेय्य ठितो वा निसिन्नो वा निपन्नो वाति. तेसं वसेन, इरियापथविभागेनाति अत्थो. पुन चपरन्ति पुन च अपरं, यथावुत्तआनापानकम्मट्ठानतो भिय्योपि अञ्ञं कायानुपस्सनाकम्मट्ठानं कथेमि, सुणाथाति वा अधिप्पायो. गच्छन्तो वातिआदि गमनादिमत्तजाननस्स गमनादिगतविसेसजाननस्स च साधारणवचनं. तत्थ गमनादिमत्तजाननं इध नाधिप्पेतं, गमनादिगतविसेसजाननं पन अधिप्पेतन्ति तं विभजित्वा दस्सेतुं ‘‘तत्थ काम’’न्तिआदि वुत्तं. सत्तूपलद्धिन्ति सत्तो अत्थीति उपलद्धिं सत्तग्गाहं न जहति न परिच्चजति ‘‘अहं गच्छामि, मम गमन’’न्ति गाहसब्भावतो. ततो एव अत्तसञ्ञं ‘‘अत्थि अत्ता कारको वेदको’’ति एवं पवत्तं विपरीतसञ्ञं न उग्घाटेति नापनेति अपटिपक्खभावतो, अननब्रूहनतो वा. एवं भूतस्स चस्स कुतो कम्मट्ठानादिभावोति आह ‘‘कम्मट्ठानं वा सतिपट्ठानभावना वा न होती’’ति. इमस्स पनातिआदिसुक्कपक्खस्स वुत्तविपरियायेन अत्थो वेदितब्बो. तमेव हि अत्थं विवरितुं ‘‘इदं ही’’तिआदि वुत्तं. तत्थ को गच्छतीति गमनकिरियाय कत्तुपुच्छा, सा कत्तुभावविसिट्ठअत्तपटिक्खेपत्था धम्ममत्तस्सेव गमनसिद्धिदस्सनतो. कस्स गमनन्ति अकत्तुताविसिट्ठअत्तग्गाहपटिक्खेपत्था. किंकारणाति पन पटिक्खित्तकत्तुकाय गमनकिरियाय अविपरीतकारणपुच्छा ‘‘गमनन्ति अत्ता मनसा संयुज्जति, मनो इन्द्रियेहि, इन्द्रियानि अत्तेही’’ति एवमादिगमनकारणपटिक्खेपनतो. तेनाह ‘‘तत्था’’तिआदि.

न कोचि सत्तो वा पुग्गलो वा गच्छति धम्ममत्तस्सेव गमनसिद्धितो तब्बिनिमुत्तस्स च कस्सचि अभावतो. इदानि धम्ममत्तस्सेव गमनसिद्धिं दस्सेतुं ‘‘चित्तकिरियवायोधातुविप्फारेना’’तिआदि वुत्तं. तत्थ चित्तकिरिया च सा वायोधातुया विप्फारो विप्फन्दनञ्चाति चित्तकिरियवायोधातुविप्फारो, तेन. एत्थ च चित्तकिरियग्गहणेन अनिन्द्रियबद्धवायोधातुविप्फारं निवत्तेति, वायोधातुविप्फारग्गहणेन चेतनावचीविञ्ञत्तिभेदं चित्तकिरियं निवत्तेति, उभयेन पन कायविञ्ञत्तिं विभावेति. ‘‘गच्छती’’ति वत्वा यथा पवत्तमाने काये ‘‘गच्छती’’ति वोहारो होति, तं दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं. न्ति गन्तुकामतावसेन पवत्तचित्तं. वायं जनेतीति वायोधातुअधिकं रूपकलापं जनेति, अधिकता चेत्थ सामत्थियतो, न पमाणतो. गमनचित्तसमुट्ठितं सहजातरूपकायस्स थम्भनसन्धारणचलनानं पच्चयभूतेन आकारविसेसेन पवत्तमानं वायोधातुं सन्धायाह ‘‘वायो विञ्ञत्तिं जनेती’’ति. अधिप्पायसहभावी हि विकारो विञ्ञत्ति, यथावुत्तअधिकभावेनेव च वायोगहणं, न वायोधातुया एव जनकभावतो, अञ्ञथा विञ्ञत्तिया उपादायरूपभावो दुरुपपादो सिया. पुरतो अभिनीहारो पुरतोभागेन कायस्स पवत्तनं, यो ‘‘अभिक्कमो’’ति वुच्चति.

‘‘एसेव नयो’’ति अतिदेसवसेन सङ्खेपतो वत्वा तमेवत्थं विवरितुं ‘‘तत्रापि ही’’तिआदि वुत्तं. कोटितो पट्ठायाति हेट्ठिमकोटितो पट्ठाय. उस्सितभावोति उब्बिद्धभावो.

एवं पजानतोति एवं चित्तकिरियवायोधातुविप्फारेनेव गमनादिभावो होतीति पजानतो तस्स एवं पजाननाय निच्छयगमनत्थं ‘‘एवं होती’’ति विचारणा वुच्चति लोके यथाभूतं अजानन्तेहि मिच्छाभिनिवेसवसेन, लोकवोहारवसेन वा. अत्थि पनाति अत्तनो एव वीमंसनवसेन पुच्छावचनं. नत्थीति निच्छयवसेन सत्तस्स पटिक्खेपवचनं. यथा पनातिआदि तस्सेवत्थस्स उपमाय विभावनं.

नावा मालुतवेगेनाति यथा अचेतना नावा वातवेगेन देसन्तरं याति, यथा च अचेतनो तेजनं कण्डो जियावेगेन देसन्तरं याति, तथा अचेतनो कायो वाताहतो यथावुत्तवायुना नीतो देसन्तरं यातीति एवं उपमासंसन्दनं वेदितब्बं. सचे पन कोचि वदेय्य ‘‘यथा नावाय तेजनस्स च पेल्लकस्स पुरिसस्स वसेन देसन्तरगमनं, एवं कायस्सापी’’ति, होतु, एवं इच्छितोवायमत्थो. यथा हि नावा तेजनानं संहतलक्खणस्सेव पुरिसस्स वसेन गमनं, न असंहतलक्खणस्स, एवं कायस्सापीति का नो हानि, भिय्योपि धम्ममत्तताव पतिट्ठं लभति, न पुरिसवादो. तेनाह ‘‘यन्तं सुत्तवसेना’’तिआदि.

तत्थ पयुत्तन्ति हेट्ठा वुत्तनयेन गमनादिकिरियावसेन पयोजितं. ठातीति तिट्ठति. एत्थाति इमस्मिं लोके. विना हेतुपच्चयेति गन्तुकामताचित्त-तंसमुट्ठान-वायोधातु-आदिहेतुपच्चयेहि विना. तिट्ठेति तिट्ठेय्य. वजेति वजेय्य गच्छेय्य को नामाति सम्बन्धो. पटिक्खेपत्थो चेत्थ किं-सद्दोति हेतुपच्चयविरहेन ठानगमनपटिक्खेपमुखेन सब्बायपि धम्मप्पवत्तिया पच्चयाधीनवुत्तिताविभावनेन अत्तसुञ्ञता विय अनिच्चदुक्खतापि विभाविताति दट्ठब्बा.

पणिहितोति यथा यथा पच्चयेहि पकारतो निहितो ठपितो. सब्बसङ्गाहिकवचनन्ति सब्बेसं चतुन्नम्पि इरियापथानं सङ्गण्हनवचनं, पुब्बे विसुं विसुं इरियापथानं वुत्तत्ता इदं तेसं एकज्झं गहेत्वा वचनन्ति अत्थो. पुरिमनयो वा इरियापथप्पधानो वुत्तोति तत्थ कायो अप्पधानो अनुनिप्फादीति इध कायं पधानं अप्पधानञ्च इरियापथं अनुनिप्फादं कत्वा दस्सेतुं दुतियनयो वुत्तोति एवम्पेत्थ द्विन्नं नयानं विसेसो वेदितब्बो. ठितोति पवत्तो.

इरियापथपरिग्गण्हनम्पि इरियापथवतो कायस्सेव परिग्गण्हनं तस्स अवत्थाविसेसभावतोति वुत्तं ‘‘इरियापथपरिग्गहणेन काये कायानुपस्सी विहरती’’ति. तेनेवेत्थ रूपक्खन्धवसेनेव समुदयादयो उद्धटा. एस नयो सेसवारेसुपि. आदिनाति एत्थ आदि-सद्देन यथा ‘‘तण्हासमुदया कम्मसमुदया आहारसमुदया’’ति निब्बत्तिलक्खणं पस्सन्तोपि रुपक्खन्धस्स उदयं पस्सतीति इमे चत्तारो आहारा सङ्गय्हन्ति, एवं ‘‘अविज्जानिरोधा रूपनिरोधा’’तिआदयोपि पञ्च आकारा सङ्गहिताति दट्ठब्बो. सेसं वुत्तनयमेव.

इरियापथपब्बवण्णना निट्ठिता.

चतुसम्पजञ्ञपब्बवण्णना

१०९. चतुसम्पजञ्ञवसेनाति (दी. नि. टी. १.२८४; सं. नि. ५.३६८; दी. नि. अभि. टी. २.२१४) समन्ततो पकारेहि, पकट्ठं वा सविसेसं जानातीति सम्पजानो, सम्पजानस्स भावो सम्पजञ्ञं, तथापवत्तं ञाणं. चत्तारि सम्पजञ्ञानि समाहटानि चतुसम्पजञ्ञं, तस्स वसेन. अभिक्कमनं अभिक्कन्तन्ति आह ‘‘अभिक्कन्तं वुच्चति गमन’’न्ति. तथा पटिक्कमनं पटिक्कन्तन्ति आह ‘‘पटिक्कन्तं वुच्चति निवत्तन’’न्ति. निवत्तनन्ति च निवत्तिमत्तं, निवत्तित्वा पन गमनं गमनमेव. अभिहरन्तोति गमनवसेन कायं उपनेन्तो.

सम्मा पजाननं सम्पजानं, तेन अत्तना कातब्बस्स करणसीलो सम्पजानकारीति आह ‘‘सम्पजञ्ञेन सब्बकिच्चकारी’’ति. सम्पजानसद्दस्स सम्पजञ्ञपरियायता पुब्बे वुत्तायेव. सम्पजञ्ञं करोतेवाति अभिक्कन्तादीसु असम्मोहं उप्पादेति एव. सम्पजानस्स वा कारो एतस्स अत्थीति सम्पजानकारी. धम्मतो वड्ढिसङ्खातेन सह अत्थेन पवत्ततीति सात्थकं, अभिक्कन्तादि. सात्थकस्स सम्पजाननं सात्थकसम्पजञ्ञं. सप्पायस्स अत्तनो उपकारावहस्स हितस्स सम्पजाननं सप्पायसम्पजञ्ञं अभिक्कमादीसु भिक्खाचारगोचरे, अञ्ञत्थापि च पवत्तेसु अविजहिते कम्मट्ठानसङ्खाते गोचरे सम्पजञ्ञं गोचरसम्पजञ्ञं. अभिक्कमादीसु असम्मुय्हनमेव सम्पजञ्ञं असम्मोहसम्पजञ्ञं. परिग्गण्हित्वाति पटिसङ्खाय.

तस्मिन्ति सात्थकसम्पजञ्ञवसेन परिग्गहितअत्थे. अत्थो नाम धम्मतो वड्ढीति यं सात्थकन्ति अधिप्पेतं गमनं, तं सप्पायमेवाति सिया कस्सचि आसङ्काति तन्निवत्तनत्थं ‘‘चेतियदस्सनं तावा’’तिआदि आरद्धं. चित्तकम्मरूपकानि वियाति चित्तकम्मकतपटिमायो विय, यन्तपयोगेन वा विचित्तकम्मपटिमायो विय. असमपेक्खनं गेहसितअञ्ञाणुपेक्खावसेन आरम्मणस्स अयोनिसो गहणं. यं सन्धाय वुत्तं ‘‘चक्खुना रूपं दिस्वा उप्पज्जति उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्सा’’तिआदि (म. नि. ३.३०८). हत्थिआदिसम्मद्देन जीवितन्तरायो, विसभागरूपदस्सनादिना ब्रह्मचरियन्तरायो.

पब्बजितदिवसतो पट्ठाय भिक्खूनं अनुवत्तनकथा आचिण्णा, अननुवत्तनकथा पन तस्सा दुतिया नाम होतीति आह ‘‘द्वे कथा नाम न कथितपुब्बा’’ति.

एवन्ति ‘‘सचे पना’’तिआदिकं सब्बम्पि वुत्ताकारं पच्चामसति, न ‘‘पुरिसस्स मातुगामासुभ’’न्तिआदिकं वुच्चमानं. योगकम्मस्स पवत्तिट्ठानताय भावनाय आरम्मणं कम्मट्ठानन्ति वुच्चतीति आह ‘‘कम्मट्ठानसङ्खातं गोचर’’न्ति. उग्गहेत्वाति यथा उग्गहनिमित्तं उप्पज्जति, एवं उग्गहकोसल्लस्स सम्पादनवसेन उग्गहेत्वा. हरतीति कम्मट्ठानं पवत्तेति, याव पिण्डपातपटिक्कमा अनुयुञ्जतीति अत्थो. पच्चाहरतीति आहारूपभोगतो याव दिवाट्ठानुपसङ्कमना कम्मट्ठानं न पटिनेति.

सरीरपरिकम्मन्ति मुखधोवनादिसरीरपटिजग्गनं. द्वे तयो पल्लङ्केति द्वे तयो निसज्जावारे, द्वे तीणि उण्हासनानि. तेनाह ‘‘उसुमं गाहापेन्तो’’ति. कम्मट्ठानसीसेनेवाति कम्मट्ठानग्गेनेव, कम्मट्ठानं पधानं कत्वा एवाति अत्थो. तेन ‘‘पत्तोपि अचेतनो’’तिआदिना (म. नि. अट्ठ. १.१०९) वक्खमानं कम्मट्ठानं, यथापरिहरियमानं वा अविजहित्वाति दस्सेति. ‘‘परिभोगचेतियतो सरीरचेतियं गरुतर’’न्ति कत्वा ‘‘चेतियं वन्दित्वा’’ति पुब्बकालकिरियावसेन वुत्तं. तथा हि अट्ठकथायं (विभ. अट्ठ. ८०९; म. नि. अट्ठ. ३.१२८; अ. नि. अट्ठ. १.१.२७५) ‘‘चेतियं बाधयमाना बोधिसाखा हरितब्बा’’ति वुत्ता.

जनसङ्गहत्थन्ति ‘‘मयि अकथेन्ते एतेसं को कथेस्सती’’ति धम्मानुग्गहेन जनसङ्गहत्थं. तस्माति. यस्मा ‘‘धम्मकथा नाम कथेतब्बायेवा’’ति अट्ठकथाचरिया वदन्ति, यस्मा च धम्मकथा कम्मट्ठानविनिमुत्ता नाम नत्थि, तस्मा. अनुमोदनं कत्वाति एत्थापि ‘‘कम्मट्ठानसीसेनेवा’’ति आनेत्वा सम्बन्धो. सम्पत्तपरिच्छेदेनेवाति ‘‘परिचितो अपरिचितो’’तिआदिविभागं अकत्वा सम्पत्तकोटियाव. भयेति परचक्कादिभये.

कम्मजतेजोति गहणिं सन्धायाह. कम्मट्ठानवीथिं नारोहति खुदापरिस्समेन किलन्तकायत्ता समाधानाभावतो. अवसेसट्ठानेति यागुया अग्गहितट्ठाने. पोङ्खानुपोङ्खन्ति कम्मट्ठानुपट्ठानस्स अविच्छेददस्सनवचनमेतं, यथा पोङ्खानुपोङ्खपवत्ताय सरपटिपाटिया अविच्छेदो, एवमेतस्सापीति.

निक्खित्तधुरो भावनानुयोगे. वत्तपटिपत्तिया अपूरणेन सब्बवत्थानि भिन्दित्वा. ‘‘कामे अवीतरागो होति, काये अवीतरागो, रूपे अवीतरागो, यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरती’’ति (दी. नि. ३.३२०; म. नि. १.१८६) एवं वुत्त पञ्चविधचेतोखिलविनिबन्धचित्तो. चरित्वाति पवत्तित्वा.

अत्तकामाति अत्तनो हितसुखं इच्छन्ता, धम्मच्छन्दवन्तोति अत्थो. धम्मोति हि हितं, तन्निमित्तकञ्च सुखन्ति. अथ वा विञ्ञूनं निब्बिसेसत्ता अत्तभावपरियापन्नत्ता च अत्ता नाम धम्मो, तं कामेन्ति इच्छन्तीति अत्तकामा. उसभं नाम वीसति यट्ठियो. ताय सञ्ञायाति ताय पासाणसञ्ञाय, एत्तकं ठानं आगताति जानन्ताति अधिप्पायो. सोयेव नयोति ‘‘अयं भिक्खू’’तिआदिको यो ठाने वुत्तो, सो एव निसज्जायपि नयो. पच्छतो आगच्छन्तानं छिन्नभत्तभावभयेनपि योनिसोमनसिकारं परिब्रूहेति.

बहापधानं पूजेस्सामीति अम्हाकं अत्थाय लोकनाथेन छ वस्सानि कतं दुक्करचरियं एवाहं यथासत्ति पूजेस्सामीति. पटिपत्तिपूजा हि सत्थुपूजा, न आमिसपूजा. ठानचङ्कमनमेवाति अधिट्ठातब्बइरियापथवसेन वुत्तं, न भोजनादिकालेसु अवस्सं कत्तब्बनिसज्जाय पटिक्खेपवसेन.

वीथिं ओतरित्वा इतो चितो च अनोलोकेत्वा पठममेव वीथियो सल्लक्खेतब्बाति आह ‘‘वीथियो सल्लक्खेत्वा’’ति. यं सन्धाय वुच्चति ‘‘पासादिकेन अभिक्कन्तेना’’ति, तं दस्सेतुं ‘‘तत्थ चा’’तिआदि वुत्तं.

पच्चेकबोधिं सच्छिकरोति, यदि उपनिस्सयसम्पन्नो होतीति सम्बन्धो. एवं सब्बत्थ इतो परेसुपि. तत्थ पच्चेकबोधिया उपनिस्सयसम्पदा कप्पानं द्वे असङ्ख्येय्यानि सतसहस्सञ्च तज्जं पुञ्ञञाणसम्भरणं, सावकबोधियं अग्गसावकानं एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च, महासावकानं कप्पसतसहस्समेव, इतरेसं अतीतासु जातीसु विवट्टसन्निस्सयवसेन निब्बत्तितं निब्बेधभागियं कुसलं. बाहियो दारुचीरियोति बहि विसये सञ्जातसंवड्ढताय बाहियो, दारुचीरपरिहरणेन दारुचीरियोति च समञ्ञातो. सो हि आयस्मा –

‘‘तस्मा तिह ते, बाहिय, एवं सिक्खितब्बं ‘दिट्ठे दिट्ठमत्तं भविस्सति, सुते… मुते… विञ्ञाते विञ्ञातमत्तं भविस्सती’ति. यतो खो ते, बाहिय, दिट्ठे दिट्ठमत्तं भविस्सति, सुते… मुते… विञ्ञाते विञ्ञातमत्तं भविस्सति, ततो त्वं, बाहिय, न तेन. यतो त्वं, बाहिय, न तेन, ततो त्वं, बाहिय, न तत्थ. यतो त्वं, बाहिय, न तत्थ, ततो त्वं, बाहिय, नेविध न हुरं न उभयमन्तरेन, एसेवन्तो दुक्खस्सा’’ति (उदा. १०) – एत्तकाय देसनाय अरहत्तं सच्छाकासि.

न्ति असम्मुय्हनं. एवन्ति इदानि वुच्चमानाकारेन वेदितब्बं. अत्ता अभिक्कमतीति इमिना अन्धपुथुज्जनस्स दिट्ठिग्गाहवसेन अभिक्कमे सम्मुय्हनं दस्सेति, अहं अभिक्कमामीति पन इमिना मानग्गाहवसेन, तदुभयं पन तण्हाय विना न होतीति तण्हाग्गाहवसेनपि सम्मुय्हनं दस्सितमेव होति. ‘‘तथा असम्मुय्हन्तो’’ति वत्वा तं असम्मुय्हनं येन घनविनिब्भोगेन होति, तं दस्सेन्तो ‘‘अभिक्कमामी’’तिआदिमाह. तत्थ यस्मा वायोधातुया अनुगता तेजोधातु उद्धरणस्स पच्चयो. उद्धरणगतिका हि तेजोधातूति उद्धरणे वायोधातुया तस्सा अनुगतभावो, तस्मा इमासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो ‘‘एकेक…पे… बलवतियो’’ति आह. यस्मा पन तेजोधातुया अनुगता वायोधातु अतिहरणवीतिहरणानं पच्चयो. तिरियगतिकाय हि वायोधातुया अतिहरणवीतिहरणेसु सातिसयो ब्यापारोति तेजोधातुया तस्सा अनुगतभावो, तस्मा इमासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो ‘‘तथा अतिहरणवीतिहरणेसू’’ति आह. सतिपि अनुगमनानुगन्तब्बताविसेसे तेजोधातु-वायोधातु-भावमत्तं सन्धाय तथा-सद्दग्गहणं. तत्थ अक्कन्तट्ठानतो पादस्स उक्खिपनं उद्धरणं, ठितट्ठानं अतिक्कमित्वा पुरतो हरणं अतिहरणं खाणुआदिपरिहरणत्थं, पतिट्ठितपादघट्टनपरिहरणत्थं वा पस्सेन हरणं वीतिहरणं, याव पतिट्ठितपादो, ताव आहरणं अतिहरणं, ततो परं हरणं वीतिहरणन्ति अयं वा एतेसं विसेसो.

यस्मा पथवीधातुया अनुगता आपोधातु वोस्सज्जनस्स पच्चयो. गरुतरसभावा हि आपोधातूति वोस्सज्जने पथवीधातुया तस्सा अनुगतभावो, तस्मा तासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो आह ‘‘वोस्सज्जने…पे… बलवतियो’’ति. यस्मा पन आपोधातुया अनुगता पथवीधातु सन्निक्खेपनस्स पच्चयो, पतिट्ठाभावे विय पतिट्ठापनेपि तस्सा सातिसयकिच्चत्ता आपोधातुया तस्सा अनुगतभावो, तथा घट्टनकिरियाय पथवीधातुया वसेन सन्निरुम्भनस्स सिज्झनतो तत्थापि पथवीधातुया आपोधातुअनुगतभावो, तस्मा वुत्तं ‘‘तथा सन्निक्खेपनसन्निरुम्भनेसू’’ति. तत्थाति तस्मिं अभिक्कमने, तेसु वा वुत्तेसु उद्धरणादीसु छसु कोट्ठासेसु. उद्धरणेति उद्धरणक्खणे. रूपारूपधम्माति उद्धरणाकारेन पवत्ता रूपधम्मा, तंसमुट्ठापका अरूपधम्मा च अतिहरणं न पापुणन्ति खणमत्तावट्ठानतो. तत्थ तत्थेवाति यत्थ यत्थ उप्पन्ना, तत्थ तत्थेव. न हि धम्मानं देसन्तरसङ्कमनं अत्थि. पब्बं पब्बन्तिआदि उद्धरणादिकोट्ठासे सन्धाय वुत्तं, तं सभागसन्ततिवसेन वुत्तन्ति वेदितब्बं. अतिइत्तरो हि रूपधम्मानम्पि पवत्तिक्खणो गमनस्सादानं देवपुत्तानं हेट्ठुपरियेन पटिमुखं धावन्तानं सिरसि पादे च बद्धधुरधारासमागमतोपि सीघतरो. यथा तिलानं भज्जियमानानं पटपटायनेन भेदो लक्खीयति, एवं सङ्खतधम्मानं उप्पादेनाति दस्सनत्थं ‘‘पटपटायन्ता’’ति वुत्तं. उप्पन्ना हि एकन्ततो भिज्जन्तीति.

सद्धिं रूपेनाति इदं तस्स तस्स चित्तस्स निरोधेन सद्धिं निरुज्झनकरूपधम्मानं वसेन वुत्तं, यं ततो सत्तरसमचित्तस्स उप्पादक्खणे उप्पन्नं. अञ्ञथा यदि रूपारूपधम्मा समानक्खणा सियुं, ‘‘रूपं गरुपरिणामं दन्धनिरोध’’न्तिआदिवचनेहि (विभ. अट्ठ. २६) विरोधो सिया, तथा ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं लहुपरिवत्तं, यथयिदं चित्त’’न्ति एवमादिपाळिया (अ. नि. १.४८). चित्तचेतसिका हि सारम्मणसभावा यथाबलं अत्तनो आरम्मणपच्चयभूतमत्थं विभावेन्तो एव उप्पज्जन्तीति तेसं तंसभावनिप्फत्तिअनन्तरं निरोधो, रूपधम्मा पन अनारम्मणा पकासेतब्बा, एवं तेसं पकासेतब्बभावनिवत्ति सोळसहि चित्तेहि होतीति तङ्खणायुकता तेसं इच्छिता, लहुविञ्ञाणविसयसङ्गतिमत्तपच्चयताय तिण्णं खन्धानं, विसयसङ्गतिमत्तताय च विञ्ञाणस्स लहुपरिवत्तिता, दन्धमहाभूतपच्चयताय रूपधम्मानं दन्धपरिवत्तिता, नानाधातुया यथाभूतञाणं खो पन तथागतस्सेव, तेन च पुरेजातपच्चयो रूपधम्मोव वुत्तो, पच्छाजातपच्चयो च तस्सेवाति रूपारूपधम्मानं समानक्खणता न युज्जतेव, तस्मा वुत्तनयेनेवेत्थ अत्थो वेदितब्बो.

अञ्ञं उप्पज्जते चित्तं, अञ्ञं चित्तं निरुज्झतीति यं पुरिमुप्पन्नं चित्तं, तं अञ्ञं, तं पन निरुज्झन्तं अपरस्स अनन्तरादिपच्चयभावेनेव निरुज्झतीति ततो लद्धपच्चयं अञ्ञं उप्पज्जते चित्तं. यदि एवं तेसं अन्तरो लब्भेय्याति नोति आह ‘‘अवीचिमनुसम्बन्धो’’ति, यथा वीचि अन्तरो न लब्भति, तदेवेतन्ति अविसेसविदु मञ्ञन्ति, एवं अनु अनु सम्बन्धो चित्तसन्तानो रूपसन्तानो च नदीसोतोव नदियं उदकप्पवाहो विय वत्तति.

अभिमुखं लोकितं आलोकितन्ति आह ‘‘पुरतोपेक्खन’’न्ति. यस्मा यंदिसाभिमुखो गच्छति तिट्ठति निसीदति वा, तदभिमुखं पेक्खनं आलोकितं, तस्मा तदनुगतं विदिसालोकनं विलोकितन्ति आह ‘‘विलोकितं नाम अनुदिसापेक्खन’’न्ति. सम्मज्जनपरिभण्डादिकरणे ओलोकितस्स, उल्लोकहरणादीसु उल्लोकितस्स, पच्छतो आगच्छन्तपरिस्सयस्स परिवज्जनादीसु अपलोकितस्स सिया सम्भवोति आह ‘‘इमिना वा मुखेन सब्बानिपि तानि गहितानेवा’’ति.

कायसक्खिन्ति कायेन सच्छिकतवन्तं, पच्चक्खकारिनन्ति अत्थो. सो हि आयस्मा विपस्सनाकाले एव ‘‘यमेवाहं इन्द्रियेसु अगुत्तद्वारतं निस्साय सासने अनभिरतिआदिविप्पकारं पत्तो, तमेव सुट्ठु निग्गण्हिस्सामी’’ति उस्साहजातो बलवहिरोत्तप्पो, तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्कंसपारमिप्पत्तो, तेनेव नं सत्था ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इन्द्रियेसु गुत्तद्वारानं यदिदं नन्दो’’ति (अ. नि. १.२३५) एतदग्गे ठपेसि.

सात्थकता च सप्पायता च आलोकितविलोकितस्स वेदितब्बा. तस्माति ‘‘कम्मट्ठानाविजहनस्सेव गोचरसम्पजञ्ञभावतो’’ति वुत्तमेवत्थं हेतुभावेन पच्चामसति. अत्तनो कम्मट्ठानवसेनेव आलोकनविलोकनं कातब्बं, खन्धादिकम्मट्ठाना अञ्ञो उपायो न गवेसितब्बोति अधिप्पायो. आलोकितादिसमञ्ञापि यस्मा धम्ममत्तस्सेव पवत्तिविसेसो, तस्मा तस्स याथावतो जाननं असम्मोहसम्पजञ्ञन्ति दस्सेतुं ‘‘अब्भन्तरे’’तिआदि वुत्तं.

‘‘पठमजवनेपि …पे… न होती’’ति इदं पञ्चद्वारविञ्ञाणवीथियं ‘‘इत्थी पुरिसो’’ति रज्जनादीनं अभावं सन्धाय वुत्तं. तत्थ हि आवज्जनवोट्ठब्बनानं अयोनिसो आवज्जनवोट्ठब्बनवसेन इट्ठे इत्थिरूपादिम्हि लोभो, अनिट्ठे च पटिघो उप्पज्जति, मनोद्वारे पन ‘‘इत्थी पुरिसो’’ति रज्जनादि होति, तस्स पञ्चद्वारजवनं मूलं, यथावुत्तं वा सब्बं भवङ्गादि, एवं मनोद्वारजवनस्स मूलवसेन मूलपरिञ्ञा वुत्ता. आगन्तुकतावकालिकता पन पञ्चद्वारजवनस्सेव अपुब्बभाववसेन इत्तरभाववसेन च वुत्ता. हेट्ठुपरियवसेन भिज्जित्वा पतितेसूति हेट्ठिमस्स उपरिमस्स च अपरापरं भङ्गप्पत्तिमाह. न्ति जवनं. तस्स न युत्तन्ति सम्बन्धो. आगन्तुको अब्भागतो. उदयब्बयपरिच्छिन्नो तावतको कालो एतेसन्ति तावकालिकानि.

एतं असम्मोहसम्पजञ्ञं. तत्थाति पञ्चक्खन्धवसेन आलोकनविलोकने पञ्ञायमाने तब्बिनिमुत्तो को एको आलोकेति, को विलोकेति. उपनिस्सयपच्चयोति इदं सुत्तन्तनयेन परियायतो वुत्तं. सहजातपच्चयोति निदस्सनमत्तमेतं अञ्ञमञ्ञ-सम्पयुत्त-अत्थिअविगतादिपच्चयानम्पि लब्भनतो.

मणिसप्पो नाम एका सप्पजातीति वदन्ति. लळनन्ति कम्पनन्ति वदन्ति, लीळाकरणं वा लळनं.

उण्हपकतिको परिळाहबहुलो. सीलस्स विदूसनेन अहितावहत्ता मिच्छाजीववसेन उप्पन्नं असप्पायं. चीवरम्पि अचेतनन्तिआदिना चीवरस्स विय ‘‘कायोपि अचेतनो’’ति कायस्स अत्तसुञ्ञताविभावनेन ‘‘अब्भन्तरे’’तिआदिना वुत्तमेवत्थं विभावेन्तो इतरीतरसन्तोसस्स कारणं दस्सेति. तेनाह ‘‘तस्मा’’तिआदि. चतुपञ्चगण्ठिकाहतोति आहतचतुपञ्चगण्ठिको, चतुपञ्चगण्ठिकाहि वा हतसोभो.

अट्ठविधोपि अत्थोति अट्ठविधोपि पयोजनविसेसो. पथवीसन्धारकजलस्स तंसन्धारकवायुना विय परिभुत्तस्स आहारस्स वायोधातुनाव आसये अवट्ठानन्ति आह ‘‘वायोधातुवसेनेव तिट्ठती’’ति. अतिहरतीति याव मुखा अभिहरति. वीतिहरतीति ततो याव कुच्छि, ताव हरति. अतिहरतीति वा मुखद्वारं अतिक्कामेन्तो हरति. वीतिहरतीति कुच्छिगतं पस्सतो हरति. परिवत्तेतीति अपरापरं चारेति. एत्थ च आहारस्स धारणपरिवत्तनसंचुण्णनविसोसनानि पथवीधातुसहिता एव वायोधातु करोति, न केवलाति तानि पथवीधातुयापि किच्चभावेन वुत्तानि. अल्लत्तञ्च अनुपालेतीति वायुआदीहि अतिसोसनं यथा न होति, तथा अनुपालेति अल्लआदीहि अतिसोसनं यथा न होति, तथा अनुपालेति अल्लभावं. तेजोधातूति गहणीसङ्खाता तेजोधातु. सा हि अन्तो पविट्ठं आहारं परिपाचेति. अञ्जसो होतीति आहारस्स पवेसनादीनं मग्गो होति. आभुजतीति परियेसनज्झोहरणजिण्णाजिण्णतादिं आवज्जेति, विजानातीति अत्थो. तंतंविजानननिप्फादकोयेव हि पयोगो ‘‘सम्मापयोगो’’ति वुत्तो. येन हि पयोगेन परियेसनादि निप्फज्जति, सो तब्बिसयविजाननम्पि निप्फादेति नाम तदविनाभावतो. अथ वा सम्मापयोगं सम्मापटिपत्तिं अन्वाय आगम्म आभुजति समन्नाहरति. आभोगपुब्बको हि सब्बोपि विञ्ञाणब्यापारोति तथा वुत्तं.

गमनतोति भिक्खाचारवसेन गोचरगामं उद्दिस्स गमनतो. परियेसनतोति गोचरगामे भिक्खत्थं आहिण्डनतो. परिभोगतोति आहारस्स परिभुञ्जनतो. आसयतोति पित्तादिआसयतो. आसयति एत्थ एकज्झं पवत्तमानोपि कम्मबलवत्थितो हुत्वा मरियादवसेन अञ्ञमञ्ञं असङ्करतो सयति तिट्ठति पवत्ततीति आसयो, आमासयस्स उपरि तिट्ठनको पित्तादिको. मरियादत्थो हि अयमाकारो. निधेति यथाभुत्तो आहारो निचितो हुत्वा तिट्ठति एत्थाति निधानं, आमासयो. ततो निधानतो. अपरिपक्कतोति गहणीसङ्खातेन कम्मजतेजेन अविपक्कतो. परिपक्कतोति यथाभुत्तस्स आहारस्स विपक्कभावतो. फलतोति निप्फत्तितो. निस्सन्दतोति इतो चितो च विस्सन्दनतो. सम्मक्खनतोति सब्बसो मक्खनतो. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गसंवण्णनाय (विसुद्धि. महाटी. १.२९४) गहेतब्बो.

अञ्ञे च रोगा कण्णसूलभगन्दरादयो. अट्ठानेति मनुस्सामनुस्सपरिग्गहिते अयुत्ते ठाने खेत्तदेवायतनादिके. निस्सट्ठत्ता नेव अत्तनो कस्सचि अनिस्सज्जितत्ता जिगुच्छनीयत्ता च न परस्स. उदकतुम्बतोति वेळुनाळिआदिउदकभाजनतो. न्ति छड्डितउदकं.

अद्धानइरियापथा चिरप्पवत्तिका दीघकालिका इरियापथा. मज्झिमा भिक्खाचरणादिवसेन पवत्ता. चुण्णिकइरियापथा विहारे अञ्ञत्थापि इतो चितो च परिवत्तनादिवसेन पवत्ताति वदन्ति. ‘‘गतेति गमने’’ति पुब्बे अभिक्कमपटिक्कमग्गहणेन गमनेनपि पुरतो पच्छतो च कायस्स अतिहरणं वुत्तन्ति इध गमनमेव गहितन्ति केचि.

यस्मा महासीवत्थेरवादे अनन्तरे अनन्तरे इरियापथे पवत्तरूपारूपधम्मानं तत्थ तत्थेव निरोधदस्सनवसेन सम्पजानकारिता गहिता, इदञ्चेत्थ सम्पजञ्ञविपस्सनाचारवसेन आगतं, तस्मा वुत्तं ‘‘तयिदं महासीवत्थेरेन वुत्तं असम्मोहधुरं इमस्मिं सतिपट्ठानभुत्ते अधिप्पेत’’न्ति. सामञ्ञफले (दी. नि. १.२१४; दी. नि. अट्ठ. १.२१४; दी. नि. टी. १.२१४) पन सब्बम्पि चतुब्बिधं सम्पजञ्ञं लब्भति यावदेव सामञ्ञफलविसेसदस्सनपरत्ता तस्सा देसनाय. सतिसम्पयुत्तस्सेवाति इदं यथा सम्पजञ्ञकिच्चस्स पधानता, एवं सतिकिच्चस्सापीति दस्सनत्थं, न सतिया सब्भावमत्तदस्सनत्थं. न हि कदाचि सतिरहिता ञाणप्पवत्ति अत्थि. एतानि पदानीति सम्पजञ्ञपदानि. विभत्तानेवाति विसुं विभत्तानेव. इमिनापि सम्पजञ्ञस्स विय सतियापि पधानतंयेव विभावेति.

अपरो नयो – एको भिक्खु गच्छन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो गच्छति, एको कम्मट्ठानं अविस्सज्जेत्वाव गच्छति, तथा एको तिट्ठन्तो निसीदन्तो सयन्तो अञ्ञं चिन्तेन्तो अञ्ञं वितक्केन्तो सयति, एको कम्मट्ठानं अविस्सज्जेत्वाव सयति, एत्थकेन पन न पाकटं होतीति चङ्कमनेन दीपेन्ति. यो हि भिक्खु चङ्कमनं ओतरित्वा चङ्कमनकोटियं ठितो परिग्गण्हाति ‘‘पाचीनचङ्कमनकोटियं पवत्ता रूपारूपधम्मा पच्छिमचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, पच्छिमचङ्कमनकोटियं पवत्तापि पाचीनचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्दा, चङ्कमनमज्झे पवत्ता उभो कोटियो अप्पत्वा एत्थेव निरुद्धा, चङ्कमे पवत्ता रूपारूपधम्मा ठानं अप्पत्वा एत्थेव निरुद्धा, ठाने पवत्ता निसज्जं, निसज्जाय पवत्ता सयनं अप्पत्वा एत्थेवनिरुद्धा’’ति, एवं परिग्गण्हन्तो परिग्गण्हन्तोयेव चित्तं भवङ्गं ओतारेति, उट्ठहन्तो कम्मट्ठानं गहेत्वाव उट्ठहति, अयं भिक्खु गतादीसु सम्पजानकारी नाम होति, एवम्पि सुत्ते कम्मट्ठानं अविभूतं होति, तस्मा यो भिक्खु याव सक्कोति, ताव चङ्कमित्वा ठत्वा निसीदित्वा सयमानो एवं परिग्गहेत्वा सयति ‘‘कायो अचेतनो, मञ्चो अचेतनो, कायो न जानाति ‘‘अहं मञ्चे सयितो’ति, मञ्चो न जानाति ‘‘मयि कायो सयितो’’ति, अचेतनो कायो अचेतने मञ्चे सयितो’’ति, एवं परिग्गण्हन्तोयेव चित्तं भवङ्गं ओतारेति, पबुज्झन्तो कम्मट्ठानं गहेत्वाव पबुज्झति, अयं सुत्ते सम्पजानकारी नाम होतीति.

कायादिकिरियानिब्बत्तनेन तम्मयत्ता आवज्जनकिरियासमुट्ठितत्ता च जवनं, सब्बम्पि वा छद्वारप्पवत्तं किरियामयपवत्तं नाम, तस्मिं सति जागरितं नाम होतीति परिग्गण्हन्तो जागरिते सम्पजानकारी नाम. अपिच रत्तिन्दिवं छ कोट्ठासे कत्वा पञ्च कोट्ठासे जग्गन्तोपि जागरिते सम्पजानकारी नाम होति. विमुत्तायतनसीसेन धम्मं देसेन्तोपि बात्तिंसतिरच्छानकथं पहाय दसकथावत्थुनिस्सितं सप्पायकथं कथेन्तोपि भासिते सम्पजानकारी नाम. अट्ठतिंसाय आरम्मणेसु चित्तरुचियं मनसिकारं पवत्तेन्तोपि दुतियं झानं समापन्नोपि तुण्हीभावे सम्पजानकारी नाम. दुतियञ्हि झानं वचीसङ्खारविरहतो विसेसतो तुण्हीभावो नाम. रूपधम्मस्सेव पवत्तिआकारविसेसा अभिक्कमादयोति वुत्तं ‘‘रूपक्खन्धस्सेव समुदयो च वयो च नीहरितब्बो’’ति. सेसं वुत्तनयमेव.

चतुसम्पजञ्ञपब्बवण्णना निट्ठिता.

पटिकूलमनसिकारपब्बवण्णना

११०. पटिकूलमनसिकारवसेनाति (दी. नि. टी. २.३७७) जिगुच्छनीयताय. पटिकूलमेव पटिकूलं यो पटिकूलसभावो पटिकूलाकारो, तस्स मनसिकरणवसेन. अन्तरेनपि हि भाववाचिनं सद्दं भावत्थो विञ्ञायति यथा ‘‘पटस्स सुक्क’’न्ति. यस्मा विसुद्धिमग्गे (विसुद्धि. १.१८२-१८३) वुत्तं, तस्मा तत्थ तंसंवण्णनायञ्च वुत्तनयेन वेदितब्बं. वत्थादीहि पसिब्बकाकारेन बन्धित्वा कतं आवटनं पुतोळि. विभूताकारोति पण्णत्तिं समतिक्कमित्वा असुभभावस्स उपट्ठिताकारो. इति-सद्दस्स आकारत्थतं दस्सेन्तो ‘‘एव’’न्ति वत्वा तं कारणं सरूपतो दस्सेन्तो ‘‘केसादिपरिग्गहणेना’’ति आह.

पटिकूलमनसिकारपब्बवण्णना निट्ठिता.

धातुमनसिकारपब्बवण्णना

१११. धातुमनसिकारवसेनाति पथवीधातुआदिका चतस्सो धातुयो आरब्भ पवत्तभावनामनसिकारवसेन, चतुधातुववत्थानवसेनाति अत्थो. धातुमनसिकारो धातुकम्मट्ठानं चतुधातुववत्थानन्ति हि अत्थतो एकं. गोघातकोति जीविकत्थाय गुन्नं घातको. अन्तेवासिकोति कम्मकरणवसेन तस्स समीपवासी. ठित-सद्दो ‘‘ठितो वा’’तिआदीसु (दी. नि. १.२६३; अ. नि. ५.२८) ठानसङ्खातइरियापथसमङ्गिताय, ठा-सद्दस्स वा गतिविनिवत्तिअत्थताय अञ्ञत्थ ठपेत्वा गमनं सेसइरियापथसमङ्गिताय बोधको, इध पन यथा तथा रूपकायस्स पवत्तिआकारबोधको अधिप्पेतोति आह ‘‘चतुन्नं इरियापथानं येन केनचि आकारेन ठितत्ता यथाठित’’न्ति. तत्थ आकारेनाति ठानादिना रूपकायस्स पवत्तिआकारेन. ठानादयो हि इरियापथसङ्खाताय कायिककिरियाय पथो पवत्तिमग्गोति ‘‘इरियापथो’’ति वुच्चन्ति. यथाठितन्ति यथापवत्तं. यथावुत्तट्ठानमेवेत्थ ‘‘पणिधान’’न्ति अधिप्पेतन्ति आह ‘‘यथाठितत्ता च यथापणिहित’’न्ति. ठितन्ति वा कायस्स ठानसङ्खातइरियापथसमायोगपरिदीपनं. पणिहितन्ति तदञ्ञइरियापथसमायोगपरिदीपनं. ठितन्ति वा कायसङ्खातानं रूपधम्मानं तस्मिं तस्मिं खणे सकिच्चवसेन अवट्ठानपरिदीपनं. पणिहितन्ति पच्चयकिच्चवसेन तेहि तेहि पच्चयेहि पकारतो निहितं पणिहितन्ति एवम्पेत्थ अत्थो वेदितब्बो. पच्चवेक्खतीति पति पति अवेक्खति, ञाणचक्खुना विनिब्भुजित्वा विसुं विसुं पस्सति.

इदानि वुत्तमेवत्थं भावत्थविभावनवसेन दस्सेतुं ‘‘यथा गोघातकस्सा’’तिआदि वुत्तं. तत्थ पोसेन्तस्साति मंसूपचयपरिब्रूहनाय कुण्डकभत्तकप्पासट्ठिआदीहि संवड्ढेन्तस्स. वधितं मतन्ति हिंसितं हुत्वा मतं. मतन्ति च मतमत्तं. तेनेवाह ‘‘तावदेवा’’ति. गावीति सञ्ञा न अन्तरधायति यानि अङ्गपच्चङ्गानि यथासन्निविट्ठानि उपादाय गावीसमञ्ञा मतमत्तायपि गाविया, तेसं तंसन्निवेसस्स अविनट्ठत्ता. विलीयन्ति भिज्जन्ति विभुज्जन्तीति बीला भागा व-कारस्स ब-कारं, इ-कारस्स ई-कारं कत्वा. बीलसोति बीलं बीलं कत्वा. विभजित्वाति अट्ठिसङ्घाटतो मंसं विवेचेत्वा, ततो वा विवेचितमंसं भागसो कत्वा. तेनेवाह ‘‘मंससञ्ञा पवत्तती’’ति. पब्बजितस्सपि अपरिग्गहितकम्मट्ठानस्स. घनविनिब्भोगन्ति सन्ततिसमूहकिच्चघनानं विनिब्भुजनं विवेचनं. धातुसो पच्चवेक्खतोति घनविनिब्भोगकरणेन धातुं धातुं पथवीआदिधातुं विसुं विसुं कत्वा पच्चवेक्खन्तस्स. सत्तसञ्ञाति अत्तानुदिट्ठिवसेन पवत्ता सञ्ञाति वदन्ति, वोहारवसेन पवत्तसत्तसञ्ञायपि तदा अन्तरधानं युत्तमेव याथावतो घनविनिब्भोगस्स सम्पादनतो. एवञ्हि सति यथावुत्तओपम्मत्थेन उपमेय्यत्थो अञ्ञदत्थु संसन्दति समेति. तेनेवाह ‘‘धातुवसेनेव चित्तं सन्तिट्ठती’’ति. दक्खोति छेको तंतंसमञ्ञाय कुसलो, यथाजाते सूनस्मिं नङ्गुट्ठखुरविसाणादिवन्ते अट्ठिमंसादिअवयवसमुदाये अविभत्ते गावीसमञ्ञा, न विभत्ते, विभत्ते पन अट्टिंमंसादिअवयवसमञ्ञाति जाननको. चतुमहापथो विय चतुइरियापथोति गाविया ठितचतुमहापथो विय कायस्स पवत्तिमग्गभूतो चतुब्बिधो इरियापथो. यस्मा विसुद्धिमग्गे (विसुद्धि. १.३०६) वित्थारिता, तस्मा तत्थ तंसंवण्णनायञ्च (विसुद्धि. महाटी. १.३०६) वुत्तनयेनेव वेदितब्बा.

धातुमनसिकारपब्बवण्णना निट्ठिता.

नवसिवथिकपब्बवण्णना

११२. सिवथिकाय अपविद्धउद्धुमातकादिपटिसंयुत्तानं ओधिसो पवत्तानं कथानं तदभिधेय्यानञ्च उद्धुमातकादिअसुभभागानं सिवथिकपब्बानीति सङ्गीतिकारेहि गहितसमञ्ञा. तेनाह ‘‘सिवथिकपब्बेहि विभजितु’’न्ति. उद्धं जीवितपरियादानाति जीवितक्खयतो उपरि मरणतो परं. समुग्गतेनाति उट्ठितेन. उद्धुमातत्ताति उद्धं उद्धं धुमातत्ता सूनत्ता. सेतरत्तेहि विपरिभिन्नं विमिस्सितं नीलं विनीलं, पुरिमवण्णविपरिणामभूतं वा नीलंविनीलं, विनीलमेव विनीलकन्ति क-कारेन पदवड्ढनमाह अनत्थन्तरतो यथा ‘‘पीतकं लोहितक’’न्ति (ध. स. ६१६). पटिकूलकत्ताति जिगुच्छनीयत्ता. कुच्छितं विनीलं विनीलकन्ति कुच्छनत्थो वा अयं क-कारोति दस्सेतुं वुत्तं यथा ‘‘पापको कित्तिसद्दो अब्भुग्गच्छती’’ति (दी. नि. ३.३१६; अ. नि. ५.२१३; महाव. २८५). परिभिन्नट्ठानेहि काककङ्कादीहि. विस्सन्दमानं पुब्बन्ति विस्सवन्तं पुब्बं, तहं तहं पग्घरन्तपुब्बन्ति अत्थो. तथाभावन्ति विस्सन्दमानपुब्बभावं.

सो भिक्खूति यो ‘‘पस्सेय्य सरीरं सिवथिकाय छड्डित’’न्ति वुत्तो, सो भिक्खु. उपसंहरति सदिसतं. अयम्पि खोतिआदि उपसंहरणाकारदस्सनं. आयूति रूपजीवितिन्द्रियं, अरूपजीवितिन्द्रियं पनेत्थ विञ्ञाणगतिकमेव. उस्माति कम्मजतेजो. एवंपूतिकसभावोति एवं अतिविय पूतिकसभावो, न आयुआदीनं अविगमे विय मत्तसोति अधिप्पायो. एदिसो भविस्सतीति एवंभावीति आह ‘‘एवंउद्धुमातादिभेदो भविस्सती’’ति.

लुञ्चित्वा लुञ्चित्वाति उप्पाटेत्वा उप्पाटेत्वा. सेसावसेसमंसलोहितयुत्तन्ति सब्बसो अखादितत्ता तहं तहं सेसेन अप्पावसेसेन मंसलोहितेन युत्तं. अञ्ञेन हत्थट्ठिकन्ति अविसेसेन हत्थट्ठिकानं विप्पकिण्णता जोतिताति अनवसेसतो तेसं विप्पकिण्णतं दस्सेन्तो ‘‘चतुसट्ठिभेदम्पी’’तिआदिमाह. तेरोवस्सिकानीति तिरोवस्सं गतानि. तानि पन संवच्छरं वीतिवत्तानि होन्तीति आह ‘‘अतिक्कन्तसंवच्छरानी’’ति. पुराणताय घनभावविगमेन विचुण्णता इध पूतिभावोति सो यथा होति, तं दस्सेन्तो ‘‘अब्भोकासे’’तिआदिमाह. खज्जमानतादिवसेन दुतियसिवथिकपब्बादीनं ववत्थितत्था वुत्तं ‘‘खज्जमानादीनं वसेन योजना कातब्बा’’ति.

नवसिवथिकपब्बवण्णना निट्ठिता.

इमानेव द्वेति अवधारणेन अप्पनाकम्मट्ठानं तत्थ नियमेति अञ्ञपब्बेसु तदभावतो. यतो हि एव-कारो, ततो अञ्ञत्थ नियमेति, तेन पब्बद्वयस्स विपस्सनाकम्मट्ठानतापि अप्पटिसिद्धाति दट्ठब्बा अनिच्चादिदस्सनतो. सङ्खारेसु आदीनवविभावनानि सिवथिकपब्बानीति आह ‘‘सिवथिकानं आदीनवानुपस्सनावसेन वुत्तत्ता’’ति. इरियापथपब्बादीनं अनप्पनावहता पाकटा एवाति ‘‘सेसानि द्वादसापी’’ति वुत्तं. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेवाति.

कायानुपस्सनावण्णना निट्ठिता.

वेदनानुपस्सनावण्णना

११३. सुखं वेदनन्ति एत्थ सुखयतीति सुखा, सम्पयुत्तधम्मे कायञ्च लद्धस्सादे करोतीति अत्थो. सुट्ठु वा खादति, खनति वा कायिकं चेतसिकञ्च आबाधन्ति सुखा. सुकरं ओकासदानं एतिस्साति सुखाति अपरे. वेदयति आरम्मणरसं अनुभवतीति वेदना. वेदयमानोति अनुभवमानो. कामन्तिआदीसु यं वत्तब्बं, तं इरियापथपब्बे वुत्तमेव. सम्पजानस्स वेदियनं सम्पजानवेदियनं.

‘‘वोहारमत्तं होती’’ति एतेन ‘‘सुखं वेदनं वेदयमानो सुखं वेदनं वेदयामी’’ति इदं वोहारमत्तन्ति दस्सेति. वत्थुआरम्मणाति रूपादिआरम्मणा. रूपादिआरम्मणञ्हि वेदनाय पवत्तिट्ठानताय ‘‘वत्थू’’ति अधिप्पेतं. अस्साति भवेय्य. धम्मविनिमुत्तस्स अञ्ञस्स कत्तु अभावतो धम्मस्सेव कत्तुभावं दस्सेन्तो ‘‘वेदनाव वेदयती’’ति आह. नित्थुनन्तोति. बलवतो वेदनावेगस्स निरोधने आदीनवं दिस्वा तस्स अवसरदानवसेन नित्थुनन्तो. वीरियसमतं योजेत्वाति अधिवासनवीरियस्स अधिमत्तत्ता तस्स हापनवसेन समाधिना समरसतापादनेन वीरियसमतं योजेत्वा. सह पटिसम्भिदाहीति लोकुत्तरपटिसम्भिदाहि सह. लोकियानम्पि वा सति उप्पत्तिकाले तत्थ समत्थतं सन्धायाह ‘‘सह पटिसम्भिदाही’’ति. समसीसीति वारसमसीसी हुत्वा, पच्चवेक्खणवारस्स अनन्तरवारे परिनिब्बायीति अत्थो.

यथा च सुखं, एवं दुक्खन्ति यथा ‘‘सुखं वेदयती’’तिआदिना सम्पजानवेदियनं सन्धाय वुत्तं, एवं दुक्खम्पि. तत्थ दुक्खयतीति दुक्खा, सम्पयुत्तधम्मे कायञ्च पीळेति विबाधतीति अत्थो. दुट्ठुं वा खादति, खनति वा कायिकं चेतसिकञ्च सातन्ति दुक्खा. दुक्करं ओकासदानं एतिस्साति दुक्खाति अपरे. अरूपकम्मट्ठानन्ति अरूपपरिग्गहं, अरूपधम्ममुखेन विपस्सनाभिनिवेसन्ति अत्थो. रूपकम्मट्ठानेन पन समथाभिनिवेसोपि सङ्गय्हति, विपस्सनाभिनिवेसो पन इधाधिप्पेतोति दस्सेन्तो आह. ‘‘रूपपरिग्गहो अरूपपरिग्गहोतिपि एतदेव वुच्चती’’ति. चतुधातुववत्थानं कथेसीति एत्थापि ‘‘येभुय्येना’’ति पदं आनेत्वा सम्बन्धितब्बं. तदुभयन्ति चतुधातुववत्थानस्स सङ्खेपवित्थारद्वयमाह. सङ्खेपमनसिकारवसेन महासतिपट्ठाने, वित्थारमनसिकारवसेन राहुलोवाद- (म. नि. २.११५-११७) धातुविभङ्गादीसु (विभ. १७४-१७५).

येभुय्यग्गहणेन तदञ्ञधम्मवसेनपि अरूपकम्मट्ठानकथाय अत्थिता दीपिताति तं विभागेन दस्सेतुं ‘‘तिविधो ही’’तिआदि वुत्तं. तत्थ अभिनिवेसोति अनुप्पवेसो, आरम्भोति अत्थो. आरम्भे एव हि अयं विभागो, सम्मसनं पन अनवसेसतोव धम्मे परिग्गहेत्वा वत्तति. परिग्गहिते रूपकम्मट्ठानेति इदं रूपमुखेन विपस्सनाभिनिवेसं सन्धाय वुत्तं, अरूपमुखेन पन विपस्सनाभिनिवेसो येभूय्येन समथयानिकस्स इच्छितब्बो, सो च पठमं झानङ्गानि परिग्गहेत्वा ततो परं सेसधम्मे परिग्गण्हाति. पठमाभिनिपातोति सब्बे चेतसिका चित्तायत्ता चित्तकिरियभावेन वुच्चन्तीति फस्सो चित्तस्स पठमाभिनिपातो वुत्तो, उप्पन्नफस्सो पुग्गलो, चित्तचेतसिकरासि वा आरम्मणेन फुट्ठो फस्ससहजाताय वेदनाय तंसमकालमेव वेदेति, फस्सो पन ओभासस्स विय पदीपो वेदनादीनं पच्चयविसेसो होतीति पुरिमकालो विय वुच्चति, या तस्स आरम्मणाभिनिरोपनलक्खणता वुच्चति. फुसन्तोति आरम्मणस्स फुसनाकारेन. अयञ्हि अरूपधम्मता एकदेसेन अनल्लीयमानोपि रूपं विय चक्खु, सद्दो विय च सोतं चित्तं आरम्मणञ्च फुसन्तो विय सङ्घट्टेन्तो विय च पवत्तति. तथाहेस ‘‘सङ्घट्टनरसो’’ति वुच्चति.

आरम्मणं अनुभवन्तीति इस्सरवताय विसविताय सामिभावेन आरम्मणरसं अनुभवन्ती. फस्सादीनञ्हि सम्पयुत्तधम्मानं आरम्मणे एकदेसेनेव पवत्ति फुसनादिमत्तभावतो, वेदनाय पन इट्ठाकारसम्भोगादिवसेन पवत्तनतो आरम्मणे निप्पदेसतो पवत्ति. फुसनादिभावेन हि आरम्मणग्गहणं एकदेसानुभवनं, वेदयिताभावेन गहणं यथाकामं सब्बानुभवनं एवसभावानेव तानि गहणानीति न वेदनाय विय फस्सादीनम्पि यथासकं किच्चकरणेन सामिभावानुभवनं चोदेतब्बं. विजानन्तन्ति परिच्छिन्दनवसेन विसेसतो जानन्तं. विञ्ञाणञ्हि मिनितब्बवत्थुं नाळिया मिनन्तो पुरिसो विय आरम्मणं परिच्छिज्ज विभावेन्तं पवत्तति, न सञ्ञा विय सञ्जाननमत्तं हुत्वा. तथा हि अनेन कदाचि लक्खणत्तयविभावनापि होति. इमेसं पन फस्सादीनं तस्स तस्स पाकटभावो पच्चयविसेससिद्धस्स पुब्बाभोगस्स वसेन वेदितब्बा.

एवं तस्स तस्सेव पाकटभावेपि ‘‘सब्बं, भिक्खवे, अभिञ्ञेय्य’’न्ति (सं. नि. ४.४६; पटि. म. १.३) ‘‘सब्बञ्च खो, भिक्खवे, अभिजान’’न्ति (सं. नि. ४.२६) च एवमादिवचनतो सब्बे सम्मसनुपगा धम्मा परिग्गहेतब्बाति दस्सेन्तो ‘‘तत्थ यस्सा’’तिआदिमाह. तत्थ फस्सपञ्चमकेयेवाति अवधारणं तदन्तोगधत्ता तग्गहणेनेव गहितत्ता चतुन्नं अरूपक्खन्धानं. फस्सपञ्चमकग्गहणञ्हि तस्स सब्बचित्तुप्पादसाधारणभावतो, तत्थ च फस्सचेतनाग्गहणेन सब्बसङ्खारक्खन्धधम्मसङ्गहो चेतनापधानत्ता तेसं. तथा हि सुत्तन्तभाजनीये सङ्खारक्खन्धविभङ्गे (विभ. १२) ‘‘चक्खुसम्फस्सजा चेतना’’तिआदिना चेतनाव विभत्ता, इतरे पन खन्धा सरूपेनेव गहिता.

वत्थुं निस्सिताति एत्थ वत्थु-सद्दो करजकायविसयोति कथमिदं विञ्ञायतीति आह ‘‘यं सन्धाय वुत्त’’न्तिआदि. कत्थ पन वुत्तं? सामञ्ञफले. सोति करजकायो. पञ्चक्खन्धविनिमुत्तं नामरूपं नत्थीति इदं अधिकारवसेन वुत्तं. अञ्ञथा हि खन्धविनिमुत्तम्पि नामं अत्थेवाति. अविज्जादिहेतुकाति अविज्जातण्हुपादानादिहेतुका. विपस्सनापटिपाटिया…पे… विचरतीति इमिना बलवविपस्सनं वत्वा पुन तस्स उस्सुक्कापनं विसेसाधिगमनञ्च दस्सेन्तो ‘‘सो’’तिआदिमाह.

इधाति इमिस्सं दुतियसतिपट्ठानदेसनायं, तस्सा पन वेदनानुपस्सनावसेन कथेतब्बत्ता भगवा वेदनावसेन कथेसि. यथावुत्तेसु च तीसु कम्मट्ठानाभिनिवेसेसु वेदनावसेन कम्मट्ठानाभिनिवेसो सुकरो वेदनानं विभूतभावतोति दस्सेतुं ‘‘फस्सवसेन ही’’तिआदि वुत्तं. न पाकटं होतीति इदं तादिसे पुग्गले सन्धाय वुत्तं, येसं आदितो वेदनाव विभूततरा हुत्वा उपट्ठाति. एवञ्हि यं वुत्तं ‘‘फस्सो पाकटो होति, विञ्ञाणं पाकटं होती’’ति, तं अविरोधितं होति. वेदनानं उप्पत्तिपाकटतायाति च इदं सुखदुक्खवेदनानं वसेन वुत्तं. तासञ्हि पवत्ति ओळारिका, न इतराय. तदुभयग्गहणमुखेन वा गहेतब्बत्ता इतरायपि पवत्ति विञ्ञूनं पाकटा एवाति ‘‘वेदनान’’न्ति अविसेसग्गहणं दट्ठब्बं. यदा सुखं उप्पज्जतीतिआदि सुखवेदनाय पाकटभावविभावनं. नेव तस्मिं समये दुक्खं वेदनं वेदेतीति तस्मिं सुखवेदनासमङ्गिसमये नेव दुक्खं वेदनं वेदेति निरुद्धत्ता, अनुप्पन्नत्ता च यथाक्कमं अतीतानागतानं, पच्चुप्पन्नाय पन असम्भवो वुत्तोयेव. सकिच्चक्खणमत्तावट्ठानतो अनिच्चा. समेच्चसम्भुय्य पच्चयेहि कतत्ता सङ्खता. वत्थारम्मणादिपच्चयं पटिच्च उप्पन्नत्ता पटिच्चसमुप्पन्ना. खयवयपलुज्जननिरुज्झनपकतिताय खयधम्मा…पे… निरोधधम्माति दट्ठब्बा.

किलेसेहि आमसितब्बतो आमिसं नाम पञ्च कामगुणा, आरम्मणकरणवसेन सह आमिसेहीति आमिसा. तेनाह ‘‘पञ्चकामगुणामिसनिस्सिता’’ति. इतो परन्ति ‘‘अत्थि वेदना’’ति एवमादिपाळिं सन्धायाह ‘‘कायानुपस्सनायं वुत्तनयमेवा’’ति.

वेदनानुपस्सनावण्णना निट्ठिता.

चित्तानुपस्सनावण्णना

११४. सम्पयोगवसेन (दी. नि. टी. २.३८१) पवत्तमानेन सह रागेनाति सरागं. तेनाह ‘‘लोभसहगत’’न्ति. वीतरागन्ति. एत्थ कामं सरागपदपटियोगिना वीतरागवसेन भवितब्बं, सम्मसनचारस्स पन इधाधिप्पेतत्ता तेभूमकस्सेव गहणन्ति ‘‘लोकियकुसलाब्याकत’’न्ति वत्वा ‘‘इदं पना’’तिआदिना तमेव अधिप्पायं विवरति. सेसानि द्वे दोसमूलानि, द्वे मोहमूलानीति चत्तारि अकुसलचित्तानि. तेसञ्हि रागेन सम्पयोगाभावतो नत्थेव सरागता, तन्निमित्तकताय पन सिया तंसहिततालेसोति नत्थेव वीतरागतापीति दुकविनिमुत्तता एवेत्थ लब्भतीति आह ‘‘नेव पुरिमपदं, न पच्छिमपदं भजन्ती’’ति. यदि एवं पदेसिकं पजाननं आपज्जतीति? नापज्जति दुकन्तरपरियापन्नत्ता तेसं. अकुसलमूलेसु सह मोहेनेव वत्ततीति समोहन्ति आह ‘‘विचिकिच्छासहगतञ्चेव उद्धच्चसहगतञ्चा’’ति. यस्मा चेत्थ सहेव मोहेनाति समोहन्ति पुरिमपदावधारणम्पि लब्भतियेव, तस्मा वुत्तं ‘‘यस्मा पना’’तिआदि. यथा पन अतिमूळ्हताय पाटिपुग्गलिकनयेन सविसेसं मोहवन्तताय मोमूहचित्तन्ति वत्तब्बतो विचिकिच्छुद्धच्चसहगतद्वयं विसेसतो ‘‘समोह’’न्ति वुच्चति, न तथा सेसाकुसलचित्तानीति ‘‘वट्टन्तियेवा’’ति वुत्तं. सम्पयोगवसेन थिनमिद्धेन अनुपतितं अनुगतन्ति थिनमिद्धानुपतितं पञ्चविधं ससङ्खारिकाकुसलचित्तं सङ्कुटितचित्तं. सङ्कुटितचित्तं नाम आरम्मणे सङ्कोचनवसेन पवत्तनतो. पच्चयविसेसवसेन थामजातेन उद्धच्चेन सहगतं पवत्तं संसट्ठन्ति उद्धच्चसहगतं, अञ्ञथा सब्बम्पि अकुसलचित्तं उद्धच्चसहगतमेवाति. पसटचित्तं नाम सातिसयं विक्खेपवसेन पवत्तनतो.

किलेसविक्खम्भनसमत्थताय विपुलफलताय दीघसन्तानताय च महन्तभावं गतं, महन्तेहि वा उळारच्छन्दादीहि गतं पटिपन्नन्ति महग्गतं. तं पन रूपारूपभूमिकं ततो महन्तस्स लोके अभावतो. तेनाह ‘‘रूपारूपावचर’’न्ति. तस्स चेत्थ पटियोगी परित्तमेवाति आह ‘‘अमहग्गतन्ति कामावचर’’न्ति. अत्तानं उत्तरितुं समत्थेहि सह उत्तरेहीति सउत्तरं, तप्पटिपक्खेन अनुत्तरं, तदुभयं उपादाय वेदितब्बन्ति आह ‘‘सउत्तरन्ति कामावचर’’न्तिआदि. पटिपक्खविक्खम्भनसमत्थेन समाधिना सम्मदेव आहितं समाहितं. तेनाह ‘‘यस्सा’’तिआदि. यस्साति यस्स चित्तस्स. यथावुत्तेन समाधिना न समाहितन्ति असमाहितं. तेनाह ‘‘उभयसमाधिरहित’’न्ति. तदङ्गविमुत्तिया विमुत्तं, कामावचरं कुसलं. विक्खम्भनविमुत्तिया विमुत्तं, महग्गतन्ति तदुभयं सन्धायाह ‘‘तदङ्गविक्खम्भनविमुत्तीहि विमुत्त’’न्ति. यत्थ तदुभयविमुत्ति नत्थि, तं उभयविमुत्तिरहितन्ति गय्हमाने लोकुत्तरचित्तेपि सिया आसङ्काति तन्निवत्तनत्थं ‘‘समुच्छेद…पे… ओकासोव नत्थी’’ति आह. ओकासाभावो च सम्मसनचारस्स अधिप्पेतत्ता वेदितब्बो. यं पनेत्थ अत्थतो अविभत्तं, तं हेट्ठा वुत्तनयमेवाति.

चित्तानुपस्सनावण्णना निट्ठिता.

धम्मानुपस्सनावण्णना

नीवरणपब्बवण्णना

११५. पहातब्बादिधम्मविभागदस्सनवसेन पञ्चधा धम्मानुपस्सना निद्दिट्ठाति अयमत्थो पाळितो एव विञ्ञायतीति तमत्थं उल्लिङ्गेन्तो ‘‘पञ्चविधेन धम्मानुपस्सनं कथेतु’’न्ति वुत्तं. यदि एवं कस्मा नीवरणादिवसेनेव निद्दिट्ठन्ति? वेनेय्यज्झासयतो. येसञ्हि वेनेय्यानं पहातब्बधम्मेसु पठमं नीवरणानि विभागेन वत्तब्बानि, तेसं वसेनेत्थ भगवता पठमं नीवरणेसु धम्मानुपस्सना कथिता. तथा हि कायानुपस्सनापि समथपुब्बङ्गमा देसिता, ततो परिञ्ञेय्येसु खन्धेसु आयतनेसु, भावेतब्बेसु बोज्झङ्गेसु परिञ्ञेयादिविभागेसु सच्चेसु च उत्तरा देसना देसिता, तस्मा चेत्थ समथभावनापि यावदेव विपस्सनत्थं इच्छिता, विपस्सनापधाना विपस्सनाबहुला च सतिपट्ठानदेसनाति तस्सा विपस्सनाभिनिवेसविभागेन देसितभावं विभावेन्तो ‘‘अपिचा’’तिआदिमाह. तत्थ खन्धायतनदुक्खसच्चवसेन मिस्सकपरिग्गहकथनं दट्ठब्बं. सञ्ञासङ्खारक्खन्धपरिग्गहम्पीति पि-सद्देन सकलपञ्चुपादानक्खन्धपरिग्गहं सम्पिण्डेति इतरेसं तदन्तोगधत्ता. ‘‘कण्हसुक्कानं युगन्धता नत्थी’’ति पजाननकाले अभावा ‘‘अभिण्हसमुदाचारवसेना’’ति वुत्तं. यथाति येनाकारेन. सो पन ‘‘कामच्छन्दस्स उप्पादो होती’’ति वुत्तत्ता कामच्छन्दस्स कारणाकारोव, अत्थतो कारणमेवाति आह ‘‘येन कारणेना’’ति. -सद्दो वक्खमानत्थसमुच्चयत्थो.

तत्थाति ‘‘यथा चा’’तिआदिना वुत्तपदे. सुभम्पीति कामच्छन्दोपि. सो हि अत्तनो गहणाकारेन ‘‘सुभ’’न्ति वुच्चति, तेनाकारेन पवत्तनकस्स अञ्ञस्स कामच्छन्दस्स निमित्तत्ता ‘‘सुभनिमित्त’’न्ति च. इट्ठं, इट्ठाकारेन वा गय्हमानं रूपादि सुभारम्मणं. आकङ्खितस्स हितसुखस्स अनुपायभूतो मनसिकारो अनुपायमनसिकारो. तन्ति अयोनिसोमनसिकारं. तत्थाति निप्फादेतब्बे आरम्मणभूते च दुविधेपि सुभनिमित्ते. आहारोति पच्चयो.

असुभम्पीति असुभज्झानम्पि उत्तरपदलोपेन. तं पन दससु अविञ्ञाणकासुभेसु, केसादीसु च पवत्तं दट्ठब्बं. केसादीसु हि सञ्ञा असुभसञ्ञाति गिरिमानन्दसुत्ते (अ. नि. १०.६०) वुत्ताति. एत्थ च चतुब्बिधस्स अयोनिसोमनसिकारस्स योनिसोमनसिकारस्स च गहणं निरवसेसदस्सनत्थं कतन्ति दट्ठब्बं. तेसु पन असुभे ‘‘सुभ’’न्ति, ‘‘असुभ’’न्ति च मनसिकारो इधाधिप्पेतो, तदनुकूलत्ता वा इतरेपीति.

एकादससु (अ. नि. टी. १.१.१६) असुभेसु पटिकूलाकारस्स उग्गण्हनं, यथा वा तत्थ उग्गहनिमित्तं उप्पज्जति, तथा पटिपत्ति असुभनिमित्तस्स उग्गहो. उपचारप्पनावहाय असुभभावनाय अनुयुञ्जनं असुभभावनानुयोगो. भोजने मत्तञ्ञुनो थिनमिद्धाभिभवाभावा ओतारं अलभमानो कामच्छन्दो पहीयतीति वदन्ति. भोजननिस्सितं पन आहारे पटिकूलसञ्ञं, तब्बिपरिणामस्स, तदाधारस्स, तस्स च उदरियभूतस्स असुभतादस्सनं, कायस्स आहारट्ठितिकतादस्सनञ्च यो सम्मदेव जानाति, सो विसेसतो भोजने मत्तञ्ञू नाम, तस्स च कामच्छन्दो पहीयतेव. असुभकम्मिकतिस्सत्थेरो दन्तट्ठिदस्सावी. अभिधम्मपरियायेन (ध. स. ११५९, १५०३) सब्बोपि लोभो कामच्छन्दनीवरणन्ति आह ‘‘अरहत्तमग्गेना’’ति.

पटिघम्पि पुरिमुप्पन्नं पटिघनिमित्तं परतो उप्पज्जनकपटिघस्स कारणन्ति कत्वा. मेज्जति हितफरणवसेन सिनिय्हतीति मित्तो, तस्मिं मित्ते भवा, मित्तस्स वा एसाति मेत्ता, तस्सा मेत्ताय.

मेत्तायनस्स सत्तेसु हितफरणस्स उप्पादनं पवत्तनं मेत्तानिमित्तस्स उग्गहो. ओधिसकअनोधिसकदिसाफरणानन्ति अत्तअतिपियसहायमज्झत्तवेरीवसेन ओधिसकता, सीमासम्भेदे कते अनोधिसकता, एकादिदिसाफरणवसेन दिसाफरणता मेत्ताय उग्गहणे वेदितब्बा. विहाररच्छागामादिवसेन वा ओधिसकदिसाफरणं, विहारादिउद्देसरहितं पुरत्थिमादिदिसावसेन अनोधिसकदिसाफरणन्ति एवं वा द्विधा उग्गहणं सन्धाय ‘‘ओधिसकअनोधिसकदिसाफरणान’’न्ति वुत्तं. उग्गहो च याव उपचारा दट्ठब्बो, उग्गहिताय आसेवना भावना. तत्थ ‘‘सब्बे सत्ता, पाणा, भूता, पुग्गला, अत्तभावपरियापन्ना’’ति एतेसं वसेन पञ्चविधा, एकेकस्मिं ‘‘अवेरा होन्तु, अब्यापज्जा, अनीघा, सुखी अत्तानं परिहरन्तू’’ति चतुधा पवत्तितो वीसतिविधा अनोधिसकफरणा मेत्ता, ‘‘सब्बा इत्थियो, पुरिसा, अरिया, अनरिया, देवा, मनुस्सा, विनिपातिका’’ति सत्तोधिकरणवसेन पवत्ता सत्तविधा अट्ठवीसतिविधा वा, दसहि दिसाहि दिसोधिकरणवसेन पवत्ता दसविधा च, एकेकाय वा दिसाय सत्तादिइत्थादिअवेरादिभेदेन असीताधिकचतुसतप्पभेदा च ओधिभोफरणा वेदितब्बा.

येन अयोनिसोमनसिकारेन अरतिआदिकानि उप्पज्जन्ति, सो अरतिआदीसु अयोनिसोमनसिकारो, तेन. निप्फादेतब्बे हि इदं भुम्मं. एस नयो इतो परेसुपि. उक्कण्ठिता पन्तसेनासनेसु अधिकुसलेसु धम्मेसु च उप्पज्जनभावरिञ्चना. कायविनामनाति कायस्स विरूपेनाकारेन नामना.

कुसलधम्मसम्पटिपत्तिया पट्ठपनसभावताय, तप्पटिपक्खानं विसोसनसभावताय च आरम्भधातुआदितो पवत्तवीरियन्ति आह ‘‘पठमारम्भवीरिय’’न्ति. यस्मा पठमारम्भमत्तस्स कोसज्जविधमनं थामगमनञ्च नत्थि, तस्मा वुत्तं ‘‘कोसज्जतो निक्खन्तताय ततो बलवतर’’न्ति. यस्मा पन अपरापरुप्पत्तिया लद्धासेवनं उपरूपरिविसेसं आवहन्तं अतिविय थामगतमेव होति, तस्मा वुत्तं ‘‘परं परं ठानं अक्कमनतो ततोपि बलवतर’’न्ति.

अतिभोजने निमित्तग्गाहोति अतिभोजने थिनमिद्धस्स निमित्तग्गाहो, ‘‘एत्तके भुत्ते थिनमिद्धस्स कारणं होति, एत्तके न होती’’ति थिनमिद्धस्स कारणाकारणग्गाहो होतीति अत्थो. दिवा सूरियालोकन्ति दिवा गहितनिमित्तं सूरियालोकं रत्तियं मनसिकरोन्तस्सपीति एवमेत्थ अत्थो वेदितब्बो. धुतङ्गानं वीरियनिस्सितत्ता वुत्तं ‘‘धुतङ्गनिस्सितसप्पायकथायपी’’ति.

कुक्कुच्चम्पि कताकतानुसोचनवसेन पवत्तमानं चेतसो अवूपसमावहताय उद्धच्चेन समानलक्खणमेवाति ‘‘अवूपसमो नाम अवूपसन्ताकारो, उद्धच्चकुक्कुच्चमेवेतं अत्थतो’’ति वुत्तं.

बहुस्सुतस्स गन्थतो अत्थतो च सुत्तादीनि विचारेन्तस्स अत्थवेदादिपटिलाभसब्भावतो विक्खेपो न होति, यथाविधिपटिपत्तिया यथानुरूपपटिकारप्पवत्तिया च कताकतानुसोचनञ्च न होतीति ‘‘बाहुसच्चेनपि…पे… उद्धच्चकुक्कुच्चं पहीयती’’ति आह. यदग्गेन बाहुसच्चेन उद्धच्चकुक्कुच्चं पहीयति, तदग्गेन परिपुच्छकताविनयपकतञ्ञुताहिपि तं पहीयतीति दट्ठब्बं. बुद्धसेविता च बुद्धसीलितं आवहतीति चेतसो वूपसमकरत्ता उद्धच्चकुक्कुच्चपहानकारी वुत्ता. बुद्धत्तं पन अनपेक्खित्वा विनयधरा कुक्कुच्चविनोदका कल्याणमित्ता वुत्ताति दट्ठब्बा. विक्खेपो च भिक्खुनो येभुय्येन कुक्कुच्चहेतुको होतीति ‘‘कप्पियाकप्पियपरिपुच्छामहुलस्सा’’तिआदिना विनयनयेनेव परिपुच्छकतादयो निद्दिट्ठा. पहीने उद्धच्चकुक्कुच्चेति निद्धारणे भुम्मं. कुक्कुच्चस्स दोमनस्ससहगतत्ता अनागामिमग्गेन आयतिं अनुप्पादो वुत्तो.

तिट्ठति पवत्तति एत्थाति ठानीया, विचिकिच्छाय ठानीया विचिकिच्छाट्ठानीया, विचिकिच्छाय कारणभूता धम्मा. तिट्ठतीति वा ठानीया, विचिकिच्छा ठानीया एतिस्साति विचिकिच्छाट्ठानीया, अत्थतो विचिकिच्छा एव. सा हि पुरिमुप्पन्ना परतो उप्पज्जनकविचिकिच्छाय सभागहेतुताय असाधारणं.

कुसलाकुसलाति कोसल्लसम्भूतट्ठेन कुसला, तप्पटिपक्खतो अकुसला. ये अकुसला, ते सावज्जा असेवितब्बा हीना च. ये कुसला, ते अनवज्जा सेवितब्बा पणीता च. कुसलापि वा हीनेहि छन्दादीहि आरद्धा हीना, पणीतेहि पणीता. कण्हाति काळका, चित्तस्स अपभस्सरभावकरणा. सुक्काति ओदाता, चित्तस्स पभस्सरभावकरणा. कण्हाभिजातिहेतुतो वा कण्हा, सुक्काभिजातिहेतुतो सुक्का. ते एव सप्पटिभागा. कण्हा हि उजुविपच्चनीकताय सुक्केहि सप्पटिभागा, तथा सुक्कापि इतरेहि. अथ वा कण्हसुक्का च सप्पटिभागा च कण्हसुक्कसप्पटिभागा. सुखा हि वेदना दुक्खायवेदनाय सप्पटिभागा, दुक्खा च वेदना सुखाय वेदनाय सप्पटिभागाति.

कामं बाहुसच्चपरिपुच्छकताहि अट्ठवत्थुकापि विचिकिच्छा पहीयति, तथापि रतनत्तयविचिकिच्छामूलिका सेसविचिकिच्छाति कत्वा आह ‘‘तीणि रतनानि आरब्भा’’ति. रतनत्तयगुणावबोधे हि ‘‘सत्थरि कङ्खती’’ति (ध. स. १००८, ११२३, ११६७, १२४१, १२६३, १२७०; विभ. ९१५) आदिविचिकिच्छाय असम्भवोति. विनये पकतञ्ञुता ‘‘सिक्खाय कङ्खती’’ति (ध. स. १००८, ११२३, ११६७, १२४१, १२६३, १२७०; विभ. ९१५) वुत्ताय विचिकिच्छाय पहानं करोतीति आह ‘‘विनये चिण्णवसीभावस्सपी’’ति. ओकप्पनीयसद्धासङ्खातअधिमोक्खबहुलस्साति सद्धेय्यवत्थुनो अनुपविसनसद्धासङ्खातअधिमोक्खेन अधिमुच्चनबहुलस्स. अधिमुच्चनञ्च अधिमोक्खुप्पादनमेवाति दट्ठब्बं. सद्धाय वा निन्नपोणता अधिमुत्ति अधिमोक्खो.

सुभनिमित्तअसुभनिमित्तादीसूति ‘‘सुभनिमित्तादीसु असुभनिमित्तादीसू’’ति आदि-सद्दो पच्चेकं योजेतब्बो. तत्थ पठमेन आदि-सद्देन पटिघनिमित्तादीनं सङ्गहो, दुतियेन मेत्ताचेतोविमुत्तिआदीनं. सेसमेत्थ यं वत्तब्बं, तं वुत्तनयमेवाति.

नीवरणपब्बवण्णना निट्ठिता.

खन्धपब्बवण्णना

११६. उपादानेहि आरम्मणकरणादिवसेन उपादातब्बा वा खन्धा उपादानक्खन्दा. इति रूपन्ति एत्थ इति-सद्दो इदं-सद्देन समानत्थोति अधिप्पायेनाह ‘‘इदं रूप’’न्ति. तयिदं सरूपतो अनवसेसपरियादानं होतीति आह – ‘‘एत्तकं रूपं, न इतो परं रूपं अत्थी’’ति. इतीति वा पकारत्थे निपातो, तस्मा ‘‘इति रूप’’न्ति इमिना भूतुपादादिवसेन यत्तको रूपस्स भेदो, तेन सद्धिं रूपं अनवसेसतो परियादियित्वा दस्सेति. सभावतोति रुप्पनसभावतो चक्खादिवण्णादिसभावतो च. वेदनादीसुपीति एत्थ ‘‘अयं वेदना, एत्तका वेदना, न इतो परं वेदना अत्थीति सभावतो वेदनं पजानाती’’तिआदिना, सभावतोति च अनुभवनसभावतो सातादिसभावतो चाति एवमादिना योजेतब्बं.

खन्धपब्बवण्णना निट्ठिता.

आयतनपब्बवण्णना

११७. छसु अज्झत्तिकबाहिरेसूति (दी. नि. टी. २.३८४) ‘‘छसु अज्झत्तिकेसु छसु बाहिरेसु’’ति ‘‘छसू’’ति पदं पच्चेकं योजेतब्बं. कस्मा पनेतानि उभयानि छळेव वुत्तानि? छविञ्ञाणकायुप्पत्तिद्वारारम्मणववत्थानतो. चक्खुविञ्ञाणवीथिया परियापन्नस्स हि विञ्ञाणकायस्स चक्खायतनमेव उप्पत्तिद्वारं, रूपायतनमेव च आरम्मणं, तथा इतरानि इतरेसं, छट्ठस्स पन भवङ्गमनसङ्खातो मनायतनेकदेसो उप्पत्तिद्वारं, असाधारणञ्च धम्मायतनं आरम्मणं. चक्खतीति चक्खु, रूपं अस्सादेति विभावेति चाति अत्थो. सुणातीति सोतं. घायतीति घानं. जीवितनिमित्तताय रसो जीवितं, तं जीवितमव्हायतीति जिव्हा. कुच्छितानं सासवधम्मानं आयो उप्पत्तिदेसोति कायो. मुनाति आरम्मणं विजानातीति मनो. रूपयति वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति रूपं. सप्पति अत्तनो पच्चयेहि हरीयति सोतविञ्ञेय्यभावं गमीयतीति सद्दो. गन्धयति अत्तनो वत्थुं सूचेतीति गन्धो. रसन्ति तं सत्ता अस्सादेन्तीति रसो. फुसीयतीति फोट्ठब्बं. अत्तनो लक्खणं धारेन्तीति धम्मा. सब्बानि पन आयानं तननादिअत्थेन आयतनानि. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. २.५१०-५१२) तंसंवण्णनाय (विसुद्धि. महाटी. २.५१०) च वुत्तनयेन वेदितब्बो.

चक्खुञ्च पजानातीति एत्थ चक्खु नाम पसादचक्खु, न ससम्भारचक्खु, नापि दिब्बचक्खुआदिकन्ति आह ‘‘चक्खुपसाद’’न्ति. यं सन्धाय वुत्तं ‘‘यं चक्खु चतुन्नं महाभूतानं उपादाय पसादो’’ति (ध. स. ५९६-५९९). -सद्दो वक्खमानत्थसमुच्चयत्थो. याथावसरसलक्खणवसेनाति अविपरीतस्स अत्तनो रसस्स चेव लक्खणस्स च वसेन, रूपेसु आविञ्छनकिच्चस्स चेव रूपाभिघातारहभूतपसादलक्खणस्स च वसेनाति अत्थो. ‘‘चक्खुञ्च पटिच्च रूपे चा’’तिआदीसु (म. नि. १.२०४, ४००; ३.४२१, ४२५-४२६; सं. नि. २.४३-४५; ४.५४-५५; कथा. ४६५, ४६७) समुदितानियेव रूपायतनानि चक्खुविञ्ञाणुप्पत्तिहेतु, न विसुं विसुन्ति इमस्स अत्थस्स दस्सनत्थं ‘‘रूपे चा’’ति पुथुवचनग्गहणं, ताय एव च देसनागतिया कामं इधापि ‘‘रूपे च पजानाती’’ति वुत्तं, रूपभावसामञ्ञेन पन सब्बं एकज्झं गहेत्वा ‘‘बहिद्धा चतुसमुट्ठानिकरूपञ्चा’’ति एकवचनवसेन अत्थो वुत्तो. सरसलक्खणवसेनाति चक्खुविञ्ञाणस्स विसयभावकिच्चस्स चेव चक्खुपटिहननलक्खणस्स च वसेनाति योजेतब्बं.

उभयं पटिच्चाति चक्खुं उपनिस्सयपच्चयवसेन पच्चयभूतं, रूपे आरम्मणाधिपतिआरम्मणूपनिस्सयवसेन पच्चयभूते च पटिच्च. कामञ्चायं सुत्तन्तसंवण्णना, निप्परियायकथा नाम अभिधम्मसन्निस्सिता एवाति अभिधम्मनयेनेव संयोजनानि दस्सेन्तो ‘‘कामराग…पे… अविज्जासंयोजन’’न्ति आह. तत्थ कामेसु रागो, कामो च सो रागो चाति कामरागो, सो एव बन्धनट्ठेन संयोजनं. अयञ्हि यस्स संविज्जति, तं पुग्गलं वट्टस्मिं संयोजेति बन्धति, इति दुक्खेन सत्तं, भवादिके वा भवन्तरादीहि, कम्मुना वा विपाकं संयोजेति बन्धतीति संयोजनं. एवं पटिघसंयोजनादीनम्पि यथारहं अत्थो वत्तब्बो. सरसलक्खणवसेनाति एत्थ पन सत्तस्स वट्टतो अनिस्सज्जनसङ्खातस्स अत्तनो किच्चस्स चेव यथावुत्तबन्धनसङ्खातस्स लक्खणस्स च वसेनाति योजेतब्बं.

भवस्साद-दिट्ठिस्साद-निवत्तनत्थं कामस्सादग्गहणं. अस्सादयतोति अभिरमन्तस्स. अभिनन्दतोति सप्प्पीतिकतण्हावसेन नन्दन्तस्स. पदद्वयेनपि बलवतो कामरागस्स पच्चयभूता कामरागुप्पत्ति वुत्ता. एस नयो सेसेसुपि. एतं आरम्मणन्ति एतं एवंसुखुमं एवंदुब्बिभागं आरम्मणं. निच्चं धुवन्ति एतं निदस्सनमत्तं, ‘‘उच्छिज्जिस्सति विनस्सिस्सतीति गण्हतो’’ति एवमादीनम्पि सङ्गहो इच्छितब्बो. भवं पत्थेन्तस्साति ‘‘ईदिसे सम्पत्तिभवे यस्मा अम्हाकं इदं इट्ठारम्मणं सुलभं जातं, तस्मा आयतिम्पि सम्पत्तिभवो भवेय्या’’ति भवं निकामेन्तस्स. एवरूपं सक्का लद्धुन्ति योजना. उसूयतोति उसूयं इस्सं उप्पादयतो. अञ्ञस्स मच्छरायतोति अञ्ञेन असाधारणभावकरणेन मच्छरियं करोतो. सब्बेहेव यथावुत्तेहि नवहि संयोजनेहि.

तञ्च कारणन्ति सुभनिमित्तपटिघनिमित्तादिविभावं इट्ठानिट्ठादिरूपारम्मणञ्चेव तज्जायोनिसोमनसिकारञ्चाति तस्स तस्स संयोजनस्स कारणं. अविक्खम्भितअसमूहतभूमिलद्धुप्पन्नतं सन्धाय ‘‘अप्पहीनट्ठेन उप्पन्नस्सा’’ति वुत्तं. वत्तमानुप्पन्नता समुदाचारग्गहणेनेव गहिता. येन कारणेनाति येन विपस्सनासमथभावनासङ्खातेन कारणेन. ञ्हि तस्स तदङ्गवसेन चेव विक्खम्भनवसेन च पहानकारणं. इस्सामच्छरियानं अपायगमनीयताय पठममग्गवज्झता वुत्ता. यदि एवं ‘‘तिण्णं संयोजनानं परिक्खया सोतापन्नो होती’’ति (अ. नि. ४.२४१) सुत्तपदं कथन्ति? तं सुत्तन्तपरियायेन वुत्तं. यथानुलोमसासनञ्हि सुत्तन्तदेसना, अयं पन अभिधम्मनयेन संवण्णनाति नायं दोसो. ओळारिकस्साति थूलस्स, यतो अभिण्हसमुप्पत्तिपरियुट्ठानतिब्बताव होति. अणुसहगतस्साति वुत्तप्पकारओळारिकाभावेन अणुभावं सुखुमभावं गतस्स. उद्धच्चसंयोजनस्सपेत्थ अनुप्पादो वुत्तोयेव यथावुत्तसंयोजनेहि अविनाभावतो. सोतादीनं सभावसरसलक्खणवसेन पजानना, तप्पच्चयानं संयोजनानं उप्पादादिपजानना च वुत्तनयेनेव वेदितब्बाति दस्सेन्तो ‘‘एसेव नयो’’ति अतिदिसति.

अत्तनो वा धम्मेसूति अत्तनो अज्झत्तिकायतनधम्मेसु, अत्तनो उभयधम्मेसु वा. इमस्मिं पक्खे अज्झत्तिकायतनपरिग्गहणेनाति अज्झत्तिकायतनपरिग्गण्हनमुखेनाति अत्थो, एवञ्च अनवसेसतो सपरसन्तानेसु आयतनानं परिग्गहो सिद्धो होति. परस्स वा धम्मेसूति एत्थापि एसेव नयो. रूपायतनस्साति अड्ढेकादसपभेदरूपसभावस्स आयतनस्स. रूपक्खन्धे वुत्तनयेन नीहरितब्बाति आनेत्वा सम्बन्धितब्बं. सेसखन्धेसूति वेदनासञ्ञासङ्खारक्खन्धेसु. वुत्तनयेनाति इमिना अतिदेसेन रूपक्खन्धे आहारसमुदयाति, विञ्ञाणक्खन्धे नामरूपसमुदयाति, सेसक्खन्धेसु फस्ससमुदयाति इमं विसेसं विभावेति, इतरं पन सब्बत्थ समानन्ति. खन्धपब्बे विय आयतनपब्बेपि लोकुत्तरनिवत्तनं पाळियं गहितं नत्थीति आह ‘‘लोकुत्तरधम्मा न गहेतब्बा’’ति.

आयतनपब्बवण्णना निट्ठिता.

बोज्झङ्गपब्बवण्णना

११८. बुज्झनकसत्तस्साति किलेसनिद्दाय पटिबुज्झनकसत्तस्स, अरियसच्चानं वा पटिविज्झनकसत्तस्स. अङ्गेसूति कारणेसु, अवयवेसु वा. उदयब्बयञाणुप्पादतो पट्ठाय सम्बोधिपटिपदायं ठितो नाम होतीति आह ‘‘आरद्धविपस्सकतो पट्ठाय योगावचरोति सम्बोधी’’ति.

‘‘सतिसम्बोज्झङ्गट्ठानीया’’ति पदस्स अत्थो ‘‘विचिकिच्छट्ठानीया’’ति एत्थ वुत्तनयेन वेदितब्बो.न्ति योनिसोमनसिकारं. तत्थाति सतियं. निप्फादेतब्बे चेतं भुम्मं.

सति च सम्पजञ्ञञ्च सतिसम्पजञ्ञं (दी. नि. टी. २.३८५; सं. नि. टी. २.५.२३२; अ. नि. टी. १.१.४१८). अथ वा सतिपधानं अभिक्कन्तादिसात्थकभावपरिग्गण्हनञाणं सतिसम्पजञ्ञं. तं सब्बत्थ सतोकारिभावावहत्ता सतिसम्बोज्झङ्गस्स उप्पादाय होति. यथा पच्चनीकधम्मानं पहानं अनुरूपधम्मसेवना च अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय होति, एवं सतिरहितपुग्गलविवज्झना, सतोकारीपुग्गलसेवना, तत्थ च युत्तपयुत्तता सतिसम्बोज्झङ्गस्स उप्पादाय होतीति इममत्थं दस्सेति ‘‘सतिसम्पजञ्ञ’’न्तिआदिना.

धम्मानं, धम्मेसु वा विचयो धम्मविचयो, सो एव सम्बोज्झङ्गो, तस्स धम्मविचयसम्बोज्झङ्गस्स. ‘‘कुसलाकुसला धम्मा’’तिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. तत्थ योनिसोमनसिकारबहुलीकारोति कुसलादीसु तंतंसभावरसलक्खणादिकस्स याथावतो अवबुज्झनवसेन उप्पन्नो ञाणसम्पयुत्तचित्तुप्पादो. सो हि अविपरीतमनसिकारताय ‘‘योनिसोमनसिकारो’’ति वुत्तो, तदाभोगताय आवज्जनापि तग्गतिकाव, तस्स अभिण्हपवत्तनं बहुलीकारो. भिय्योभावायाति पुनप्पुनभावाय. वेपुल्लायाति विपुलभावाय. पारिपूरियाति परिब्रूहनाय.

परिपुच्छकताति परियोगाहेत्वा पुच्छकभावो. आचरिये पयिरुपासित्वा पञ्चपि निकाये सह अट्ठकथाय परियोगाहेत्वा यं यं तत्थ गण्ठिट्ठानभूतं, तं तं ‘‘इदं भन्ते कथं, इमस्स को अत्थो’’ति खन्धायतनादिअत्थं पुच्छन्तस्स धम्मविचयसम्बोज्झङ्गो उप्पज्जति. तेनाह ‘‘खन्धधातु…पे… बहुलता’’ति.

वत्थुविसदकिरियाति एत्थ चित्तचेतसिकानं पवत्तिट्ठानभावतो सरीरं, तप्पटिबद्धानि चीवरादीनि च इध ‘‘वत्थूनी’’ति अधिप्पेतानि. तानि यथा चित्तस्स सुखावहानि होन्ति, तथा करणं तेसं विसदभावकरणं. तेन वुत्तं ‘‘अज्झत्तिकबाहिरान’’न्तिआदि. उस्सन्नदोसन्ति वातादिउस्सन्नदोसं. सेदमलमक्खितन्ति सेदेन चेव जल्लिकासङ्खातेन सरीरमलेन च मक्खितं. -सद्देन अञ्ञम्पि सरीरस्स पीळावहं सङ्गण्हाति. सेनासनं वाति वा-सद्देन पत्तादीनं सङ्गहो दट्ठब्बो. अविसदे सति, विसयभूते वा. कथं भावनमनुयुत्तस्स तानि विसयो? अन्तरन्तरा पवत्तनकचित्तुप्पादवसेनेवं वुत्तं. ते हि चित्तुप्पादा चित्तेकग्गताय अपरिसुद्धभावाय संवत्तन्ति. चित्तचेतसिकेसु निस्सयादिपच्चयभूतेसु. ञाणम्पीति पि-सद्दो सम्पिण्डनत्थो. तेन न केवलं तं वत्थुयेव, अथ खो तस्मिं अपरिसुद्धे ञाणम्पि अपरिसुद्धं होतीति निस्सयापरिसुद्धिया तंनिस्सितापरिसुद्धि विय विसयस्स अपरिसुद्धताय विसयीनं अपरिसुद्धिं दस्सेति.

समभावकरणन्ति किच्चतो अनूनाधिकभावकरणं. यथापच्चयं सद्धेय्यवत्थुस्मिं अधिमोक्खकिच्चस्स पटुतरभावेन पञ्ञाय अविसदताय वीरियादीनञ्च सिथिलतादिना सद्धिन्द्रियं बलवं होति. तेनाह ‘‘इतरानि मन्दानी’’ति. ततोति तस्मा सद्धिन्द्रियस्स बलवभावतो इतरेसञ्च मन्दत्ता. कोसज्जपक्खे पतितुं अदत्वा सम्पयुत्तधम्मानं पग्गण्हनं अनुबलप्पदानं पग्गहो, पग्गहोव किच्चं पग्गहकिच्चं. ‘‘कातुं न सक्कोती’’ति आनेत्वा सम्बन्धितब्बं. आरम्मणं उपगन्त्वा ठानं, अनिस्सज्जनं वा उपट्ठानं. विक्खेपपटिपक्खो, येन वा सम्पयुत्ता अविक्खित्ता होन्ति, सो अविक्खेपो. रूपगतं विय चक्खुना येन याथावतो विसयसभावं पस्सति, तं दस्सनकिच्चं कातुं न सक्कोति बलवता सद्धिन्द्रियेन अभिभूतत्ता. सहजातधम्मेसु इन्दट्ठं कारेन्तानं सहपवत्तमानानं धम्मानं एकरसतावसेनेव अत्थसिद्धि, न अञ्ञथा.

तस्माति वुत्तमेवत्थं कारणभावेन पच्चामसति. न्ति सद्धिन्द्रियं. धम्मसभावपच्चवेक्खणेनाति यस्स सद्धेय्यवत्थुनो उळारतादिगुणे अधिमुच्चनस्स सातिसयप्पवत्तिया सद्धिन्द्रियं बलवं जातं, तस्स पच्चयपच्चयुप्पन्नतादिविभागतो याथावतो वीमंसनेन. एवञ्हि एवंधम्मतानयेन सभावसरसतो परिग्गय्हमाने सविप्फारो अधिमोक्खो न होति ‘‘अयं इमेसं धम्मानं सभावो’’ति परिजाननवसेन पञ्ञाब्यापारस्स सातिसयत्ता. धुरियधम्मेसु हि यथा सद्धाय बलवभावे पञ्ञाय मन्दभावो होति, एवं पञ्ञाय बलवभावे सद्धाय मन्दभावो होति. तेन वुत्तं ‘‘तं धम्मसभावपच्चवेक्खणेन…पे… हापेतब्ब’’न्ति. तथा अमनसिकारेनाति येनाकारेन भावनमनुयुञ्जन्तस्स सद्धिन्द्रियं बलवं जातं, तेनाकारेन भावनाय अननुयुञ्जनतोति वुत्तं होति. इध दुविधेन सद्धिन्द्रियस्स बलवभावो अत्तनो वा पच्चयविसेसवसेन किच्चुत्तरियतो वीरियादीनं वा मन्दकिच्चताय. तत्थ पठमविकप्पे हापनविधि दस्सितो, दुतियविकप्पे पन यथा मनसिकरोतो वीरियादीनं मन्दकिच्चताय सद्धिन्द्रियं बलवं जातं, तथा अमनसिकारेन, वीरियादीनं पटुकिच्चभावावहेन मनसिकारेन सद्धिन्द्रियं तेहि समरसं करोन्तेन हापेतब्बं. इमिना नयेन सेसिन्द्रियेसुपि हापनविधि वेदितब्बो.

वक्कलित्थेरवत्थूति सो हि आयस्मा सद्धाधिमुत्ताय कताधिकारो सत्थु रूपकायदस्सनपसुतो एव हुत्वा विहरन्तो सत्थारा ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन, यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’तिआदिना (सं. नि. ३.८७) ओवदित्वा कम्मट्ठाने नियोजितोपि तं अननुयुञ्जन्तो पणामितो अत्तानं विनिपातेतुं पपातट्ठानं अभिरुहि. अथ नं सत्था यथानिसिन्नोव ओभासगिस्सज्जनेन अत्थानं दस्सेत्वा –

‘‘पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने;

अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति. (ध. प. ३८१);

गाथं वत्वा ‘‘एहिवक्कली’’ति आह. सो तेन अमतेनेव अभिसित्तो हट्ठतुट्ठो हुत्वा विपस्सनं पट्ठपेसि, सद्धाय पन बलवभावतो विपस्सनावीथिं न ओतरति. तं ञत्वा भगवा तस्स इन्द्रियसमत्तपटिपादनाय कम्मट्ठानं सोधेत्वा अदासि. सो सत्थारा दिन्ननयेन विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया अरहत्तं पापुणि. तेन वुत्तं ‘‘वक्कलित्थेरवत्थु चेत्थ निदस्सन’’न्ति.

इतरकिच्चभेदन्ति उपट्ठानादिकिच्चविसेसं. पस्सद्धादीति आदि-सद्देन समाधिउपेक्खासम्बोज्झङ्गानं सङ्गहो. हापेतब्बन्ति यथा सद्धिन्द्रियस्स बलवभावो धम्मसभावपच्चवेक्खणेन हायति, एवं वीरियिन्द्रियस्स अधिमत्तता पस्सद्धिआदिभावनाय हायति समाधिपक्खियत्ता तस्सा. तथाहि सा समाधिन्द्रियस्स अधिमत्ततं कोसज्जपाततो रक्खन्ती वीरियादिभावना विय वीरियिन्द्रियस्स अधिमत्ततं उद्धच्चपाततो रक्खन्ती एकंसतो हापेति. तेन वुत्तं ‘‘पस्सद्धादिभावनाय हापेतब्ब’’न्ति. सोणत्थेरस्स वत्थूति सुखुमालसोणत्थेरस्स वत्थु. सो हि आयस्मा, सत्थु, सन्तिके कम्मट्ठानं गहेत्वा सीतवने विहरन्तो ‘‘मम सरीरं सुखुमालं, न च सक्का सुखेनेव सुखं अधिगन्तुं, कायं किलमेत्वापि समणधम्मो कातब्बो’’ति ठानचङ्कममेव अधिट्ठाय पधानमनुयुञ्जन्तो पादतलेसु फोटेसु उट्ठितेसुपि वेदनं अज्झुपेक्खित्वा दळ्हवीरियं करोन्तो अच्चारद्धवीरियताय विसेसं निब्बत्तेतुं नासक्खि. सत्था तत्थ गन्त्वा वीणूपमोवादेन ओवदित्वा वीरियसमतायोजनविधिं दस्सेन्तो कम्मट्ठानं सोधेत्वा गिज्झकूटं गतो. थेरोपि सत्थारा दिन्ननयेन वीरियसमतं योजेत्वा भावेन्तो विपस्सनं उस्सुक्कापेत्वा अरहत्ते पतिट्ठासि. तेन वुत्तं ‘‘सोणत्थेरस्स वत्थु दस्सेतब्ब’’न्ति. सेसेसुपीति सतिसमाधिपञ्ञिन्द्रियेसुपि.

समतन्ति सद्धापञ्ञानं अञ्ञमञ्ञं अनूनानधिकभावं, तथा समाधिवीरियानं. यथा हि सद्धापञ्ञानं विसुं विसुं धुरियधम्मभूतानं किच्चतो अञ्ञमञ्ञानातिवत्तनं विसेसतो इच्छितब्बं, यतो नेसं समधुरताय अप्पना सम्पज्जति, एवं समाधिवीरियानं कोसज्जुद्धच्चपक्खिकानं समरसताय सति अञ्ञमञ्ञूपत्थम्भनतो सम्पयुत्तधम्मानं अन्तद्वयपाताभावेन सम्मदेव अप्पना इज्झतीति. बलवसद्धोतिआदि वुत्तस्सेवत्थस्स ब्यतिरेकमुखेन समत्थनं. तस्सत्थो – यो बलवतिया सद्धाय समन्नागतो अविसदञाणो, सो मुधापसन्नो होति, अवेच्चप्पसन्नो. तथा हि सो अवत्थुस्मिं पसीदति सेय्यथापि तित्थियसावका. केराटिकपक्खन्ति साठेय्यपक्खं भजति. सद्धाहीनाय पञ्ञाय अतिधावन्तो ‘‘देय्यवत्थुपरिच्चागेन विना चित्तुप्पादमत्तेनपि दानमयं पुञ्ञं होती’’तिआदीनि परिकप्पेति हेतुपतिरूपकेहि वञ्चितो, एवंभूतो च सुक्खतक्कविलुत्तचित्तो पण्डितानं वचनं नादियति, सञ्ञत्तिं न गच्छति. तेनाह ‘‘भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होती’’ति. यथा चेत्थ सद्धापञ्ञानं अञ्ञमञ्ञं समभावो अत्थावहो, अनत्थावहो विसमभावो, एवं समाधिवीरियानं अञ्ञमञ्ञं अविक्खेपावहो समभावो, इतरो विक्खेपावहो चाति. कोसज्जं अधिभवति, तेन अप्पनं न पापुणातीति अधिप्पायो. उद्धच्चं अधिभवतीति एत्थापि एसेव नयो. तदुभयन्ति सद्धापञ्ञाद्वयं समाधिवीरियद्वयञ्च. समं कातब्बन्ति समरसं कातब्बं.

समाधिकम्मिकस्साति समथकम्मट्ठानिकस्स. एवन्ति एवं सन्ते, सद्धाय थोकं बलवभावे सतीति अत्थो. सद्दहन्तोति ‘‘पथवीति मनसिकारमत्तेन कथं झानुप्पत्ती’’ति अचिन्तेत्वा ‘‘अद्धा सम्मासम्बुद्धेन वुत्तविधि इज्झिस्सती’’ति सद्दहन्तो सद्धं जनेन्तो. ओकप्पेन्तोति आरम्मणं अनुपविसित्वा विय अधिमुच्चनवसेन अवकप्पेन्तो पक्खन्दन्तो. एकग्गता बलवती वट्टति समाधिप्पधानत्ता झानस्स. उभिन्नन्ति समाधिपञ्ञानं. समाधिकम्मिकस्स समाधिनो अधिमत्तताय पञ्ञाय अधिमत्ततापि इच्छितब्बाति आह ‘‘समतायपी’’ति, समभावेनपीति अत्थो. अप्पनाति लोकियअप्पना. तथा हि ‘‘होतियेवा’’ति सासङ्कं वदति. लोकुत्तरप्पना पन तेसं समभावेनेव इच्छिता. यथाह ‘‘समथविपस्सनं युगनद्धं भावेती’’ति (अ. नि. ४.१७; पटि. म. २.५). यदि विसेसतो सद्धापञ्ञानं समाधिवीरियानञ्च समता इच्छिता, कथं सतीति आह ‘‘सति पन सब्बत्थ बलवती वट्टती’’ति. सब्बत्थाति लीनुद्धच्चपक्खिकेसु पञ्चसु इन्द्रियेसु. उद्धच्चपक्खिकेकदेसे गण्हन्तो ‘‘सद्धावीरियपञ्ञान’’न्ति आह. अञ्ञथा पीति च गहेतब्बा सिया. तथा हि ‘‘कोसज्जपक्खिकेन समाधिना’’इच्चेव वुत्तं, न ‘‘पस्सद्धिसमाधिउपेक्खाही’’ति. साति सति. सब्बेसु राजकम्मेसु नियुत्तो सब्बकम्मिको. तेनाति तेना सब्बत्थ इच्छितब्बत्थेन कारणेन. आह अट्ठकथायं. सब्बत्थ नियुत्ता सब्बत्थिका, सब्बेन वा लीनुद्धच्चपक्खियेन बोज्झङ्गेन अत्थेतब्बा सब्बत्थिया, सब्बत्थियाव सब्बत्थिका. चित्तन्ति कुसलचित्तं. तस्स हि सति पटिसरणं परायणं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय. तेनाह ‘‘आरक्खपच्चुपट्ठाना’’तिआदि.

खन्धादिभेदे अनोगाळ्हपञ्ञानन्ति परियत्तिबाहुसच्चवसेनपि खन्धायतनादीसु अप्पतिट्ठितबुद्धीनं. बहुस्सुतसेवना हि सुतमयञाणावहा. तरुणविपस्सनासमङ्गीपि भावनामयञाणे ठितत्ता एकंसतो पञ्ञवा एव नाम होतीति आह ‘‘समपञ्ञास…पे… पुग्गलसेवना’’ति. ञेय्यधम्मस्स गम्भीरभाववसेन तप्परिच्छेदकञाणस्स गम्भीरभावग्गहणन्ति आह ‘‘गम्भीरेसु खन्धादीसु पवत्ताय गम्भीरपञ्ञाया’’ति. तञ्हि ञेय्यं तादिसाय पञ्ञाय चरितब्बतो गम्भीरञाणचरियं, तस्सा वा पञ्ञाय तत्थ पभेदतो पवत्ति गम्भीरञाणचरिया, तस्सा पच्चवेक्खणाति आह ‘‘गम्भीरपञ्ञाय पभेदपच्चवेक्खणा’’ति. यथा सतिवेपुल्लप्पत्तो नाम अरहा एव, एवं सो एव पञ्ञावेपुल्लप्पत्तोपीति आह ‘‘अरहत्तमग्गेन भावनापारिपूरी होती’’ति. वीरियादीसुपि एसेव नयो.

‘‘तत्तं अयोखिलं हत्थे गमेन्ती’’तिआदिना (म. नि. ३.२५०, २६७; अ. नि. ३.३६) पञ्चविधबन्धनकम्मकारणं निरये निब्बत्तसत्तस्स येभुय्येन सब्बपठमं करोन्तीति देवदूतसुत्तादीसु तस्सा आदितो वुत्तत्ता च आह ‘‘पञ्चविधबन्धनकम्मकारणतो पट्ठाया’’ति. सकटवाहनादिकालेति आदि-सद्देन तदञ्ञं मनुस्सेहि तिरच्छानेहि च विबाधियमानकालं सङ्गण्हाति. एकं बुद्धन्तरन्ति इदं अपरापरं पेतेसुयेव उप्पज्जनकसत्तवसेन वुत्तं, एकच्चानं वा पेतानं एकच्चतिरच्छानानं विय तथा दीघायुकभावतो. तथा हि काळो नागराजा चतुन्नं बुद्धानं अधिगतरूपदस्सनो.

एवं आनिसंसदस्साविनोति वीरियायत्तो एव सब्बो लोकुत्तरो लोकियो च विसेसाधिगमोति एवं वीरिये आनिसंसदस्सनसीलस्स. गमनवीथिन्ति सपुब्बभागं निब्बानगामिनिं अरियमग्गपटिपदं. सा हि भिक्खुनो वट्टनिस्सरणाय गन्तब्बा पटिपज्जितब्बा पटिपदाति कत्वा गमनवीथि नाम. कायदळ्हीबहुलोति यथा तथा कायस्स दळ्हीकम्मपसुतो. पिण्डन्ति रट्ठपिण्डं. पच्चयदायकानं अत्तनि कारस्स अत्तनो सम्मापटिपत्तिया महप्फलभावस्स करणेन पिण्डस्स भिक्खाय पटिपूजना पिण्डापचायनं.

नीहरन्तोति पत्तत्थविकतो नीहरन्तो. तं सद्दं सुत्वाति तं उपासिकाय वचनं पण्णसालद्वारे ठितोव पञ्चाभिञ्ञताय दिब्बसोतेन सुत्वा. मनुस्ससम्पत्ति दिब्बसम्पत्ति अन्ते निब्बानसम्पत्तीति तिस्सो सम्पत्तियो. दातुं सक्खिस्ससीति ‘‘तयि कतेन दानमयेन वेय्यावच्चमयेन च पुञ्ञकम्मेन खेत्तविसेसभावूपगमनेन अपरापरं देवमनुस्ससम्पत्तियो अन्ते निब्बानसम्पत्तिञ्च दातुं सक्खिस्ससी’’ति थेरो अत्तानं पुच्छति. सितं करोन्तोवाति ‘‘अकिच्छेनेव मया वट्टदुक्खं समतिक्कन्त’’न्ति पच्चवेक्खणावसाने सञ्जातपामोज्जवसेन सितं करोन्तो एव.

विप्पटिपन्नन्ति जातिधम्मकुलधम्मादिलङ्घनेन असम्मापटिपन्नं. एवं यथा असम्मापटिपन्नो पुत्तो ताय एव असम्मापटिपत्तिया कुलसन्तानतो बाहिरो हुत्वा पितु सन्तिका दायज्जस्स न भागी, एवं कुसीतोपि तेनेव कुसीतभावेन असम्मापटिपन्नो सत्थु सन्तिका लद्धब्बअरियधनदायज्जस्स न भागी. आरद्धवीरियोव लभति सम्मापटिपज्जनतो. उप्पज्जति वीरियसम्बोज्झङ्गोति योजना. एवं सब्बत्थ.

महाति सीलादीहि गुणेहि महन्तो विपुलो अनञ्ञसाधारणो. तं पनस्स गुणमहत्तं दससहस्सिलोकधातुकम्पनेन लोके पाकटन्ति दस्सेन्तो ‘‘सत्थुनो ही’’तिआदिमाह.

यस्मा सत्थुसासने पब्बजितस्स पब्बज्जुपगमेन सक्यपुत्तियभावो सम्पजायति, तस्मा बुद्धपुत्तभावं दस्सेन्तो ‘‘असम्भिन्नाया’’तिआदिमाह.

अलसानं भावनाय नाममत्तम्पि अजानन्तानं कायदळ्हीबहुलानं यावदत्थं भुञ्जित्वा सेय्यसुखादिअनुयुञ्जनकानं तिरच्छानकथिकानं पुग्गलानं दूरतो वज्जना कुसीतपुग्गलपरिवज्जना. ‘‘दिवसं चङ्कमेन निसज्जाया’’तिआदिना (म. नि. १.४२३; ३.७५; सं. नि. ४.१२०; अ. नि. ३.१६; विभ. ५१९; महानि. १६१) भावनारम्भवसेन आरद्धवीरियानं दळ्हपरक्कमानं कालेन कालं उपसङ्कमना आरद्धवीरियपुग्गलसेवना. तेनाह – ‘‘कुच्छिं पूरेत्वा’’तिआदि. विसुद्धिमग्गे पन जातिमहत्तपच्चवेक्खणा सब्रह्मचारिमहत्तपच्चवेक्खणाति इदं द्वयं न गहितं, थिनमिद्धविनोदनता सम्मप्पधानपच्चवेक्खणताति इदं द्वयं गहितं. तत्थ आनिसंसदस्साविताय एव सम्मप्पधानपच्चवेक्खणा गहिता होति लोकियलोकुत्तरविसेसाधिगमस्स वीरियायत्ततादस्सनभावतो. थिनमिद्धविनोदनं तदधिमुत्तताय एव गहितं, वीरियुप्पादने युत्तप्पयुत्तस्स थिनमिद्धविनोदनं अत्थसिद्धमेव. तत्थ थिनमिद्धविनोदन-कुसीतपुग्गलपरिवज्जन-आरद्धवीरियपुग्गलसेवन-तदधिमुत्तता पटिपक्खविधमनपच्चयूपसंहारवसेन, अपायपच्चवेक्खणादयो समुत्तेजनवसेन वीरियसम्बोज्झङ्गस्स उप्पादका दट्ठब्बा.

पुरिमुप्पन्ना पीति परतो उप्पज्जनकपीतिया कारणभावतो ‘‘पीतियेव पीतिसम्बोज्झङ्गट्ठानीया धम्मा’’ति वुत्ता, तस्सा पन बहुसो पवत्तिया पुथुत्तं उपादाय बहुवचननिद्देसो, यथा सा उप्पज्जति, एवं पटिपत्ति, तस्सा उप्पादकमनसिकारो.

बुद्धानुस्सतिया उपचारसमाधिनिट्ठत्ता वुत्तं ‘‘याव उपचारा’’ति. सकलसरीरं फरमानोति पीतिसमुट्ठानेहि पणीतरूपेहि सकलसरीरं फरमानो. धम्मगुणे अनुस्सरन्तस्सपि याव उपचारा सकलसरीरं फरमानो पीतिसम्बोज्झङ्गो उप्पज्जतीति. एवं सेसअनुस्सतीसु पसादनीयसुत्तन्तपच्चवेक्खणायञ्च योजेतब्बं तस्सापि विमुत्तायतनभावेन तग्गतिकत्ता. समापत्तिया…पे… समुदाचरन्तीति इदञ्च उपसमानुस्सतिदस्सनं. सङ्खारानञ्हि सप्पदेसवूपसमेपि निप्पदेसवूपसमे विय तथा पञ्ञाय पवत्तितो भावनामनसिकारो किलेसविक्खम्भनसमत्थो हुत्वा उपचारसमाधिं आवहन्तो तथारूपपीतिसोमनस्ससमन्नागतो पीतिसम्बोज्झङ्गस्स उप्पादाय होतीति. पसादनीयेसु ठानेसु पसादसिनेहाभावेन थुससमहदयता लूखता, सा तत्थ आदरगारवाकरणेन विञ्ञायतीति आह ‘‘असक्कच्चकिरियाय संसूचितलूखभावे’’ति.

कायचित्तदरथवूपसमलक्खणा पस्सद्धि एव पस्सद्धिसम्बोज्झङ्गो, तस्स पस्सद्धिसम्बोज्झङ्गस्स.

पणीतभोजनसेवनताति पणीतसप्पायभोजनसेवनता. उतुइरियापथसुखग्गहणेन सप्पायउतुइरियापथग्गहणं दट्ठब्बं. तञ्हि तिविधं सप्पायं सेवियमानं कायस्स कल्लतापादनवसेन चित्तस्स कल्लतं आवहन्तं दुविधायपि पस्सद्धिया कारणं होति. अहेतुकं सत्तेसु लब्भमानं सुखं दुक्खन्ति अयमेको अन्तो, इस्सरादिविसमहेतुकन्ति पन अयं दुतियो, एते उभो अन्ते अनुपगम्म यथासकं कम्मुना होतीति अयं मज्झिमा पटिपत्ति. मज्झत्तो पयोगो यस्स होति मज्झत्तपयोगो, तस्स भावो मज्झत्तपयोगता. अयञ्हि पहाय सारद्धकायतं पस्सद्धकायताय कारणं होन्ती पस्सद्धिद्वयं आवहति, एतेनेव सारद्धकायपुग्गलपरिवज्जनपस्सद्धकायपुग्गलवसेनानं तदावहनता संवण्णिताति दट्ठब्बं.

यथासमाहिताकारसल्लक्खणवसेन गय्हमानो पुरिमुप्पन्नो समथो एव समथनिमित्तं. नानारम्मणे परिब्भमनेन विविधं अग्गं एतस्साति ब्यग्गो, विक्खेपो. तथा हि सो अनवट्ठानरसो भन्ततापच्चुपट्ठानो च वुत्तो. एकग्गताभावतो ब्यग्गपटिपक्खोति अब्यग्गो, समाधि. सो एव निमित्तन्ति पुब्बे विय वत्तब्बं. तेनाह ‘‘अविक्खेपट्ठेन च अब्यग्गनिमित्त’’न्ति.

वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना च पञ्ञावहा वुत्ता, समाधानावहापि ता होन्ति समाधानावहभावेनेव पञ्ञावहभावतोति वुत्तं ‘‘वत्थुविसद…पे… वेदितब्बा’’ति.

करणभावनाकोसल्लानं अविनाभावतो, रक्खणकोसल्लस्स च तम्मूलकत्ता ‘‘निमित्तकुसलता नाम कसिणनिमित्तस्स उग्गहणकुसलता’’इच्चेव वुत्तं. कसिणनिमित्तस्साति च निदस्सनमत्तं दट्ठब्बं. असुभनिमित्तस्सादिकस्सपि हि यस्स कस्सचि झानुप्पत्तिनिमित्तस्स उग्गहणकोसल्लं निमित्तकुसलता एवाति.

अतिसिथिलवीरियतादीहीति आदि-सद्देन पञ्ञापयोगमन्दतं पमोदवेकल्लञ्च सङ्गण्हाति. तस्स पग्गहणन्ति तस्स लीनस्स चित्तस्स धम्मविचयसम्बोज्झङ्गादिसमुट्ठापनेन लयापत्तितो समुद्धरणं. वुत्तञ्हेतं भगवता –

‘‘यस्मिञ्च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरियसम्बोज्झङ्गस्स भावनाय, कालो पीतिसम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? लीनं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुसमुट्ठापयं होति. सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य, सुक्खानि च गोमयानि पक्खिपेय्य, सुक्खानि च कट्ठानि पक्खिपेय्य, मुखवातञ्च ददेय्य, न च पंसुकेन ओकिरेय्य, भब्बो नु खो सो पुरिसो परित्तं अग्गिं उज्जालेतुन्ति? एवं सन्ते’’ति (सं. नि. ५.२३४).

एत्थ च यथासकं आहारवसेन धम्मविचयसम्बोज्झङ्गादीनं भावना समुट्ठापनाति वेदितब्बं, सा अनन्तरं विभाविता एव.

अच्चारद्धवीरियतादीहीति आदि-सद्देन पञ्ञापयोगबलवतं पमोदुप्पिलावनञ्च सङ्गण्हाति. तस्स निग्गहणन्ति तस्स उद्धतचित्तस्स समाधिसम्बोज्झङ्गादिसमुट्ठापनेन उद्धतापत्तितो निसेधनं. वुत्तम्पि चेतं भगवता –

‘‘यस्मिञ्च खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधिसम्बोज्झङ्गस्स भावनाय, कालो उपेक्खासम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुवूपसमयं होति. सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ अल्लानि चेव तिणानि…पे… पंसुकेन च ओकिरेय्य, भब्बो नु खो सो पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुन्ति? एवं भन्ते’’ति (सं. नि. ५.२३४).

एत्थापि यथासकं आहारवसेन पस्सद्धिसम्बोज्झङ्गादीनं भावना समुट्ठापनाति वेदितब्बा. तत्थ पस्सद्धिसम्बोज्झङ्गस्स भावना वुत्ता एव, समाधिसम्बोज्झङ्गस्स वुच्चमाना, इतरस्स अनन्तरं वक्खति.

पञ्ञापयोगमन्दतायाति पञ्ञाब्यापारस्स अप्पभावेन. यथा हि दानं अलोभप्पधानं, सीलं अदोसप्पधानं, एवं भावना अमोहप्पधाना. तत्थ यदा पञ्ञा न बलवती होति, तदा भावना पुब्बेनापरं विसेसावहा न होति, अनभिसङ्खतो विय आहारो पुरिसस्स योगिनो चित्तस्स अभिरुचिं न जनेति, तेन तं निरस्सादं होति, तथा भावनाय सम्मदेव अवीथिपटिपत्तिया उपसमसुखं न विन्दति, तेनापि चित्तं निरस्सादं होति. तेन वुत्तं ‘‘पञ्ञापयोग…पे… निरस्सादं होती’’ति. तस्स संवेगुप्पादनं पसादुप्पादनञ्च तिकिच्छनन्ति तं दस्सेन्तो ‘‘अट्ठ संवेगवत्थूनी’’तिआदिमाह. तत्थ जातिजराब्याधिमरणानि यथारहं सुगतियं दुग्गतियञ्च होन्तीति तदञ्ञमेव पञ्चविधबन्धनादि-खुप्पिपासादि-अञ्ञमञ्ञविबाधनादिहेतुकं अपायदुक्खं दट्ठब्बं, तयिदं सब्बं तेसं तेसं सत्तानं पच्चुप्पन्नभवनिस्सितं गहितन्ति अतीते अनागते च काले वट्टमूलकदुक्खानि विसुं गहितानि. ये पन सत्ता आहारूपजीविनो, तत्थ च उट्ठानफलूपजीविनो, तेसं अञ्ञेहि असाधारणं जीविकदुक्खं अट्ठमं संवेगवत्थु गहितन्ति दट्ठब्बं. अयं वुच्चति समये सम्पहंसनताति अयं सम्पहंसितब्बसमये वुत्तनयेन तेन संवेजनवसेन चेव पसादुप्पादनवसेन च सम्मदेव पहंसना, संवेगजननपुब्बकपसादुप्पादनेन भावनाचित्तस्स तोसनाति अत्थो.

सम्मापटिपत्तिं आगम्माति लीनुद्धच्चविरहेन समथवीथिपटिपत्तिया च सम्मा अविसमं सम्मदेव भावनापटिपत्तिं आगम्म. अलीनन्तिआदीसु कोसज्जपक्खियानं धम्मानं अनधिमत्तताय अलीनं, उद्धच्चपक्खियानं अनधिमत्तताय अनुद्धतं, पञ्ञापयोगसत्तिया उपसमसुखाधिगमेन च अनिरस्सादं, ततो एव आरम्मणे समप्पवत्तं समथवीथिपटिपन्नञ्च. तत्थ अलीनताय पग्गहे, अनुद्धतताय निग्गहे, अनिरस्सादताय सम्पहंसने न ब्यापारं आपज्जति, अलीनानुद्धतताहि आरम्मणे समप्पवत्तं, अनिरस्सादताय समथवीथिपटिपन्नं. समप्पवत्तिया वा अलीनं अनुद्धतं, समथवीथिपटिपत्तिया अनिरस्सादन्ति दट्ठब्बं. अयं वुच्चति समये अज्झुपेक्खनताति अयं अज्झुपेक्खितब्बसमये भावनाचित्तस्स पग्गहनिग्गहसम्पहंसनेसु ब्यावटतासङ्खातं पटिपक्खं अभिभुय्य पेक्खना वुच्चति.

पटिपक्खविक्खम्भनतो विपस्सनाय अधिट्ठानभावूपगमनतो च उपचारज्झानम्पि समादानकिच्चनिप्फत्तिया पुग्गलस्स समाहितभावसाधनमेवाति तत्थ समधुरभावेनाह ‘‘उपचारं वा अप्पनं वा’’ति.

उपेक्खासम्बोज्झङ्गट्ठानीया धम्माति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तानुसारेन वेदितब्बं.

अनुरोधविरोधविप्पहानवसेन मज्झत्तभावो उपेक्खासम्बोज्झङ्गस्स कारणं तस्मिं सति सिज्झनतो, असति च असिज्झनतो, सो च मज्झत्तभावो विसयवसेन दुविधोति आह ‘‘सत्तमज्झत्तता सङ्खारमज्झत्तता’’ति. तदुभये च विरुज्झनं पस्सद्धिसम्बोज्झङ्गभावनाय एव दूरीकतन्ति अनुरुज्झनस्सेव पहानविधिं दस्सेन्तेन ‘‘सत्तमज्झत्तता’’तिआदि वुत्तं. तेनेवाह ‘‘सत्तसङ्खारकेलायनपुग्गलपरिवज्जनता’’ति. उपेक्खाय हि विसेसतो रागो पटिपक्खो. तथा चाह ‘‘उपेक्खा रागबहुलस्स विसुद्धिमग्गो’’ति (विसुद्धि. १.२६९).

द्वीहाकारेहीति कम्मस्सकतापच्चवेक्खणं अत्तसुञ्ञतापच्चवेक्खणन्ति इमेहि द्वीहि कारणेहि. द्वीहेवाति अवधारणं सङ्ख्यासमानताय. अस्सामिकभावो अनत्तनियता. सति हि अत्तनि तस्स किञ्चनभावेन चीवरं अञ्ञञ्च किञ्चि अत्तनियं नाम सिया, सो पन कोचि नत्थेवाति अधिप्पायो. अनद्धनियन्ति न अद्धानक्खमं, न चिरट्ठायि इत्तरं अनिच्चन्ति अत्थो. तावकालिकन्ति तस्सेव वेवचनं.

ममायतीति ममत्तं करोति, ‘‘मम’’न्ति तण्हाय परिग्गय्ह तिट्ठति. धनायन्ताति धनं द्रब्यं करोन्ता.

अयं सतिपट्ठानदेसना पुब्बभागमग्गवसेन देसिताति पुब्बभागियबोज्झङ्गे सन्धायाह ‘‘बोज्झङ्गपरिग्गाहिका सति दुक्खसच्च’’न्ति.

बोज्झङ्गपब्बवण्णना निट्ठिता.

चतुसच्चपब्बवण्णना

११९. यथासभावतोति अविपरीतसभावतो बाधनलक्खणतो, यो यो वा सभावो यथासभावो, ततो, रुप्पनादिकक्खळादिसभावतोति अत्थो. जनिकं समुट्ठापिकन्ति पवत्तलक्खणस्स दुक्खस्स जनिकं निमित्तलक्खणस्स समुट्ठापिकं. पुरिमतण्हन्ति दुक्खनिब्बत्तितो पुरेतरसिद्धं तण्हं.

ससन्ततिपरियापन्नानं दुक्खसमुदयानं अप्पवत्तिभावेन परिग्गय्हमानो निरोधोपि ससन्ततिपरियापन्नो विय होतीति कत्वा वुत्तं ‘‘अत्तनो वा चत्तारि सच्चानी’’ति. परस्स वाति एत्थापि एसेव नयो. तेनाह भगवा – ‘‘इमस्मिंयेव ब्याममत्ते कळेवरे ससञ्ञिम्हि समनके लोकञ्च पञ्ञपेमि, लोकसमुदयञ्च पञ्ञपेमि, लोकनिरोधञ्च पञ्ञपेमि, लोकनिरोधगामिनिपटिपदञ्च पञ्ञपेमी’’ति (सं. नि. १.१०७). कथं पन आदिकम्पिको निरोधसच्चानि परिग्गण्हातीति? अनुस्सवादिसिद्धमाकारं परिग्गण्हाति, एवञ्च कत्वा लोकुत्तरबोज्झङ्गे उद्दिस्सपि परिग्गहो न विरुज्झति. यथासम्भवतोति सम्भवानुरूपं, ठपेत्वा निरोधसच्चं सेससच्चवसेन समुदयवया वेदितब्बाति अत्थो.

चतुसच्चपब्बवण्णना निट्ठिता.

‘‘अट्ठिकसङ्खलिकं समंस’’न्तिआदिका सत्त सिवथिका अट्ठिककम्मट्ठानताय इतरासं उद्धुमातकादीनं सभावेनेवाति नवन्नं सिवथिकानं अप्पनाकम्मट्ठानता वुत्ता. द्वेयेवाति ‘‘आनापानं, द्वत्तिंसाकारो’’ति इमानि द्वेयेव. अभिनिवेसोति विपस्सनाभिनिवेसो, सो पन सम्मसनीयधम्मे परिग्गहो. इरियापथा आलोकितादयो च रूपधम्मानं अवत्थाविसेसमत्तताय न सम्मसनुपगा विञ्ञत्तिआदयो विय. नीवरणबोज्झङ्गा आदितो न परिग्गहेतब्बाति वुत्तं ‘‘इरियापथ…पे… न जायती’’ति. केसादिअपदेसेन तदुपादानधम्मा विय इरियापथादिअपदेसेन तदवत्था रूपधम्मा परिग्गय्हन्ति, नीवरणादिमुखेन च तं सम्पयुत्ता तंनिस्सयधम्माति अधिप्पायेन महासीवत्थेरो ‘‘इरियापथादीसुपि अभिनिवेसो जायती’’ति आह. अत्थि नु खो मेतिआदि पन सभावतो इरियापथादीनं आदिकम्मिकस्स अनिच्छितभावदस्सनं. अपरिञ्ञापुब्बिका हि परिञ्ञाति.

१३७. कामं ‘‘इध, भिक्खवे, भिक्खू’’तिआदिना उद्देसनिद्देसेसु तत्थ तत्थ भिक्खुग्गहणं कतं, तं पटिपत्तिया भिक्खुभावदस्सनत्थं, देसना पन सब्बसाधारणाति दस्सेतुं ‘‘यो हि कोचि, भिक्खवे’’इच्चेव वुत्तं, न भिक्खुयेवाति दस्सेन्तो ‘‘यो हि कोचि, भिक्खु वा’’तिआदिमाह. दस्सनमग्गेन ञातमरियादं अनतिक्कमित्वा जानन्ती सिखाप्पत्ता अग्गमग्गपञ्ञा अञ्ञा नाम, तस्स फलभावतो अग्गफलम्पीति आह ‘‘अञ्ञाति अरहत्त’’न्ति. अप्पतरेपि काले सासनस्स निय्यानिकभावं दस्सेन्तोति योजना.

१३८. निय्यातेन्तोति निगमेन्तो.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

सतिपट्ठानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

निट्ठिता च मूलपरियायवग्गवण्णना.

पठमो भागो निट्ठितो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मज्झिमनिकाये

मूलपण्णास-टीका

(दुतियो भागो)

२. सीहनादवग्गो

१. चूळसीहनादसुत्तवण्णना

१३९. सुत्तदेसनावत्थुसङ्खातस्स अत्थस्स उप्पत्ति अट्ठुप्पत्ति, सा तस्स अत्थीति अट्ठुप्पत्तिकोति वुत्तोवायमत्थो. लाभसक्कारपच्चयाति लाभसक्कारनिमित्तं, भगवतो सङ्घस्स च उप्पन्नलाभसक्कारहेतु, अत्तनो वा लाभसक्कारुप्पादनहेतु. तित्थियपरिदेवितेति तित्थियानं ‘‘किं भो समणोयेव गोतमो समणो’’तिआदिना विप्पलपनिमित्तं. ‘‘महालाभसक्कारो उप्पज्जी’’ति वत्वा समन्तपासादिकत्थं तस्स उप्पत्तिकारणं दस्सेन्तो ‘‘चतुप्पमाणिको ही’’तिआदिमाह. चत्तारि पमाणानि चतुप्पमाणानि, चतुप्पमाणानि एतस्स अत्थीति चतुप्पमाणिको. लोकोयेव सङ्गम्म समागम्म वसनट्ठेन लोकसन्निवासो, सत्तकायोति अत्थो. पमिनाति उळारतादिविसेसं एतेनाति पमाणं (अ. नि. टी. २.४.६५) रूपं रूपकायो पमाणं एतस्साति रूपप्पमाणो. ततो एव रूपे पसन्नोति रूपप्पसन्नो. सेसपदेसुपि एसेव नयो. घोसोति पवत्तथुतिघोसो (अ. नि. टी. २.४.६५). लूखन्ति पच्चयलूखता. धम्मोति सीलादयो गुणधम्मा अधिप्पेता.

तेसं पुग्गलानं. आरोहन्ति उच्चतं. सा च खो तस्मिं तस्मिं काले पमाणयुत्ता दट्ठब्बा. परिणाहन्ति नातिकिसनातिथूलतावसेन मितपरिणाहं. सण्ठानन्ति तेसं तेसं अङ्गपच्चङ्गानं सुसण्ठिततं. पारिपूरिन्ति सब्बेसं सरीरावयवानं परिपुण्णतं अवेकल्लतं. तत्थ पमाणं गहेत्वाति तस्मिं रूपे रूपसम्पत्तियं पमाणभावं उपादाय. पसादं जनेतीति अधिमोक्खं उप्पादेति.

परवण्णनायाति ‘‘अमुको एदिसो च एदिसो चा’’ति यसगुणवचनेन. परथोमनायाति सम्मुखाव परस्स सिलाघुप्पादनेन अभित्थवनेन. परपसंसनायाति परम्मुखा परस्स गुणसंकित्तनेन. परवण्णहारिकायाति परम्परवण्णहारिकाय परम्पराय परस्स कित्तिसद्दूपसंहारेन. तत्थाति तस्मिं थुतिघोसे.

चीवरलूखन्ति थूलजिण्णबहुतुन्नकतादिं चीवरस्स लूखभावं. पत्तलूखन्ति अनेकगन्थिकाहतादिं पत्तस्स लूखभावं. विविधं वा दुक्करकारिकन्ति धुतङ्गसेवनादिवसेन पवत्तं नानाविधं दुक्करचरियं.

सीलं वा पस्सित्वाति सीलपारिपूरिवसेन विसुद्धं कायवचीसुचरितं ञाणचक्खुना पस्सित्वा. झानादिअधिगमसिद्धं समाधिं वा. विपस्सनाभिञ्ञासङ्खातं पञ्ञं वा.

भगवतो सरीरं दिस्वाति सम्बन्धो. रूपप्पमाणोपि सम्मासम्बुद्धेयेव पसीदति अपरिमितकालसमुपचितपुञ्ञानुभावनिप्फन्नाय सब्बसो अनवज्जाय सब्बाकारपरिपुण्णावयवाय रूपकायसम्पत्तिया समन्तपासादिकत्ता, यस्सा रुचिरभावो विसुद्धे विगतवलाहके देवे पुण्णमासियं परिपुण्णकलाभागमण्डलं चन्दमण्डलं अभिभवित्वा अतिरोचति, पभस्सरभावो सरदसमयं संवद्धितदिगुणतेजकिरणजालसमुज्जलं सूरियमण्डलं अभिभवति, सोम्मकिरणरससमुज्जलभावेहि तदुभयेहि अभिभुय्य वत्तमानं एकस्मिं खणे दससहस्सिलोकधातुं विज्जोतनसमत्थं महाब्रह्मुनो पभासमुदयं अभिविहच्च भासते तपते विरोचति च.

सतिपि अङ्गपरिच्चागादीनं दानपारमिभावे परिच्चागविसेसभावदस्सनत्थञ्चेव सुदुक्करभावदस्सनत्थञ्च अङ्गपरिच्चागादिग्गहणं, तत्थापि च अङ्गपरिच्चागतो विसुं नयनपरिच्चागग्गहणं, परिच्चागभावसामञ्ञेपि रज्जपरिच्चागतो पुत्तदारपरिच्चागग्गहणञ्च कतं. आदिना नयेनाति आदि-सद्देन पुब्बयोगपुब्बचरियादिहेतुसम्पत्तिया, ‘‘इतिपि सो भगवा’’तिआदिना (दी. नि. १.१५७, २५५) वुत्ताय फलसम्पत्तिया, ‘‘सो धम्मं देसेती’’तिआदिना (दी. नि. १.२५५) वुत्ताय सत्तुपकारकिरियाय च सङ्गहो दट्ठब्बो. सम्मासम्बुद्धेयेव पसीदति यथावुत्तगुणानं अनञ्ञसाधारणभावतो अच्छरियब्भुतभावतो च. सेसेसुपि एसेव नयो.

‘‘चीवरलूखं दिस्वा’’ति वत्वा तं दस्सेतुं ‘‘सचे भगवा’’तिआदि वुत्तं. साणपंसुकूलचीवरेनाति मतकळेवरं पलिवेठेत्वा छड्डितेन तुम्बमत्ते किमी पप्फोटेत्वा गहितेन साणपंसुकूलचीवरेन. भारियन्ति गरुकं, दुक्करन्ति अत्थो. वधुयुवतीमज्झिमित्थिवसेन, बालयोब्बनपुराणवसेन वा तिविधनाटकता. हरेणुयूसं मण्डलकलायरसो. ‘‘यापेस्सति नामा’’ति नाम-सद्दं आनेत्वा सम्बन्धो. नाम-सद्दयोगेन हि अनागतकालस्स विय पयोगो, यापेति इच्चेव अत्थो. अप्पाणकन्ति निरस्सासं निरोधितस्सासपस्सासं.

समाधिगुणन्ति साधारणतो वुत्तमत्थं विवरति झानादिग्गहणेन. मानदब्बनिम्मदनेन निब्बिसेवनभावापादनम्पि दमनमेवाति वुत्तं ‘‘पाथिकपुत्तदमनादीनी’’ति. आदि-सद्देन सच्चकाळवकबकदमनादीनं सङ्गहो. बावेरुन्ति एवंनामकं विसयं. सरसम्पन्नोति अट्ठङ्गसमन्नागतेन सरेन समन्नागतो. तेन ब्रह्मस्सरताकरवीकभाणितादस्सनेन लक्खणहारनयेन अवसेसलक्खणपारिपूरिं विय तदविनाभावतो बुद्धानं देसनाविलासञ्च विभावेति.

हतप्पभाति बुद्धानुभावेन विगततेजा. काळपक्खूपमेति सत्तानं ब्यामोहन्धकाराभिभवेन काळपक्खरत्तूपमे. सूरियेति सूरिये उदयित्वा ओभासेन्तेति अधिप्पायो.

सिङ्घाटकेति तिकोणरच्छायं. चतुक्केति सन्धियं. परिदेवन्तीति अनुत्थुननवसेन विप्पलपन्ति. सोकाधिककतो हि वचीपलापो परिदेवो. लोके उप्पज्जमानेयेव उप्पन्नाति अत्तनो दिट्ठिवादस्स पुरातनभावं दीपेन्ति.

सेसपदेसुपीति ‘‘इध दुतियो समणो’’तिआदीसु सेसवारेसुपि (अ. नि. टी. २.४.२४१-२४२) यथा हि ‘‘विविच्चेव कामेही’’ति (पारा. ११; दी. नि. १.२२६; सं. नि. २.१५२; अ. नि. ४.१२३) एत्थ कतो नियमो ‘‘विविच्च अकुसलेही’’ति (पारा. ११; दी. नि. १.२२६; सं. नि. २.१५२; अ. नि. ४.१२३) एत्थापि कतोयेव होति सावधारणस्सेव अत्थस्स इच्छितब्बत्ता, एवमिधापीति. तेनाह ‘‘दुतियादयोपी’’तिआदि. सामञ्ञफलाधिगमवसेन निप्परियायतो समणभावोति तेसं वसेनेत्थ चत्तारो समणा देसिताति तमत्थं सुत्तन्तरेन समत्थेतुं ‘‘तेनेवाहा’’तिआदि वुत्तं. पटिपत्तिक्कमेन देसनाक्कमेन च सकदागामिआदीनं दुतियादिता वुत्ताति सोतापन्नस्स पठमता अवुत्तसिद्धाति न चोदिता. फलट्ठकसमणाव अधिप्पेता समितपापसमणग्गहणतो. कस्मा पनेत्थ महापरिनिब्बाने विय मग्गट्ठा तदत्थाय पटिपन्ना च न गहिताति? वेनेय्यज्झासयतो. तत्थ हि मग्गाधिगमत्थाय विपस्सनापि इतो बहिद्धा नत्थि, कुतो मग्गफलानीति दस्सेन्तेन भगवता ‘‘ञायस्स धम्मस्स पदेसवत्ती, इतो बहिद्धा समणोपि नत्थी’’ति वुत्तं. इध पन निट्ठानप्पत्तमेव तंतंसमणभावं गण्हन्तेन फलट्ठकसमणाव गहिता ‘‘मग्गट्ठतो फलट्ठो सविसेसं दक्खिणेय्यो’’ति. स्वायमत्थो द्वीसु सुत्तेसु देसनाभेदेनेव विञ्ञायतीति.

रित्ताति विवित्ता. तुच्छाति निस्सारा पटिपन्नकसाराभावतो. पवदन्ति एतेहीति पवादा, दिट्ठिगतिकानं नानादिट्ठिदीपका समयाति आह ‘‘चत्तारो सस्सतवादा’’तिआदि. तत्थ यं वत्तब्बं, तं परतो आगमिस्सति. तेति यथावुत्तसमणा. एत्थाति ‘‘परप्पवादा’’ति वुत्ते बाहिरकसमये.

न्ति यस्मिं. भुम्मत्थे हि इदं पच्चत्तवचनं. ञायो वुच्चति सह विपस्सनाय अरियमग्गो. तेन हि निब्बानं ञायति गम्मति पटिविज्झतीति. सो एव निब्बानसम्पापकहेतुताय धम्मोति आह ‘‘ञायस्स धम्मस्सा’’ति.

तेसं परप्पवादसासनानं अखेत्तता खेत्तता च अरियमग्गस्स अभावभावा सुपरिसुद्धस्स सीलस्स सुपरिसुद्धाय समथविपस्सनाय अभावतो सावतो च. तदुभयञ्च दुरक्खातस्वाक्खातभावहेतुकं, सो च असम्मासम्बुद्धसम्मासम्बुद्धपवेदिततायाति पराजिकाय सत्थु विपत्तिहेतुताय सासनस्स अनिय्यानभावोति दस्सेति.

इदानि यथावुत्तमत्थं परियायतो च पाळिया च समत्थेतुं ‘‘तेनाह भगवा’’तिआदिना पाळिं दस्सेत्वा उपमापदेसेन तत्थ सुत्तं विभावेन्तो ‘‘यस्मा’’तिआदिमाह. तत्थ यस्मा एकच्चानं विसेसतो सीहानं पुरिमं पादद्वयं हत्थकिच्चम्पि करोति, तस्मा आह ‘‘सुरत्तहत्थपादो’’ति. सीहस्स केसा नाम केसरायतना खन्धलोमा. गोचरियहत्थिकुलं नाम पकतिहत्थिकुलं, यं ‘‘कालावक’’न्तिपि वुच्चति. घोटको नाम अस्सखळुङ्को. सिनेरुपरिभण्डे सिम्बलिरुक्खेहि सञ्छादितो पञ्ञासयोजनो दहो सिम्बलिदहो, तं परिवारेत्वा महन्तं सिम्बलिवनं, तं सन्धायाह ‘‘सिम्बलिदहवने’’ति. अञ्ञतित्थावासभूमियं इमेसु समणेसु एकच्चो न उप्पज्जति, ईदिसो पनेत्थ विकप्पो नत्थि, सब्बेन सब्बं न उप्पज्जन्तेवाति दस्सेन्तो ‘‘एकसमणोपी’’ति आह. अरियमग्गपरिक्खतेति अरियमग्गुप्पत्तिया अभिसङ्खते, यदा सासनिकानं सम्मापटिपत्तिया अरियमग्गो दिब्बति, तदाति अत्थो.

सम्माति सुट्ठु. सुट्ठु नदनं नाम हेतुयुत्तं सुट्ठु कत्वा कथनन्ति आह ‘‘हेतुना’’ति. सो च हेतु अविपरीतो एव इच्छितब्बोति आह ‘‘नयेना’’ति, ञायेनाति अत्थो. एवंभूतो च सो यथाधिप्पेतत्थं करोति साधेतीति दस्सेन्तो आह ‘‘कारणेना’’ति. यदि तिरच्छानसीहस्स नादो सब्बतिरच्छानएकच्चमनुस्सामनुस्सनादतो सेट्ठत्ता सेट्ठनादो, किमङ्गं पन तथागतसीहनादोति आह ‘‘सीहनादन्ति सेट्ठनाद’’न्ति. यदि तिरच्छानसीहनादस्स सेट्ठनादता निब्भयताय अप्पटिसत्तुताय इच्छिता, तथागतसीहनादस्सेव अयमत्थो सातिसयोति आह ‘‘अभीतनादं अप्पटिनाद’’न्ति. इदानिस्स सेट्ठनादभावं कारणेन पटिपादेन्तो ‘‘इमेसञ्ही’’तिआदिमाह. तेन ‘‘सम्मा’’ति वुत्तमत्थं समत्थेति. तत्थ अत्थितायाति इमिना सीहनादस्स उत्तमत्थतं दस्सेति. भूतट्ठो हि उत्तमट्ठो. ताय एव भूतट्ठताय अभीतनादताति दस्सेन्तो ‘‘इमे समणा…पे… नाम होती’’ति आह. अभूतञ्हि वदतो कुतोचि भयं वा आसङ्का वा सियाति ‘‘इधेवा’’ति नियमस्स अविपरीततं दस्सेन्तो ‘‘अम्हाकम्पि…पे… अप्पटिनादो नाम होती’’ति आह. यञ्हि अञ्ञत्थापि अत्थि, तं इधेवाति अवधारेतुं न युत्तन्ति.

१४०. खोति अवधारणे. तेन विज्जति एवाति दस्सेति. यन्ति करणत्थे पच्चत्तन्ति आह ‘‘येन कारणेना’’ति. तित्थं नाम द्वासट्ठि दिट्ठियो तब्बिनिमुत्तस्स कस्सचि दिट्ठिविप्फन्दितस्स अभावतो. पारगमनसङ्खातं तरणं दिट्ठिगतिकानं (अ. नि. टी. २.३.६२) तत्थ तत्थेव अपरापरं उम्मुज्जननिमुज्जनवसेन पिलवनन्ति आह ‘‘तरन्ति उप्पलवन्ती’’ति. उप्पादेताति पूरणादिको. तित्थे जाताति तित्थिया, यथावुत्तं वा दिट्ठिगतसङ्खातं तित्थं एतेसं अत्थीति तित्थिका, तित्थिका एव तित्थिया. अस्ससन्ति एत्थ, एतेनाति वा अस्सासो, अवस्सयो.

पकतत्थनिद्देसो यं-तं-सद्दोति तस्स ‘‘भगवता’’तिआदीहि पदेहि समानाधिकरणभावेन वुत्तस्स येन अभिसम्बुद्धभावेन भगवा पकतो सत्थुभावेन अधिगतो सुपाकटो च, तं अभिसम्बुद्धभावं सद्धिं आगमनपटिपदाय अत्थभावेन दस्सेन्तो ‘‘यो सो…पे… अभिसम्बुद्धो’’ति आह. सतिपि ञाणदस्सनसद्दानं इध पञ्ञावेवचनभावे तेन तेन विसेसेन नेसं सविसये विसेसप्पवत्तिदस्सनत्थं (सारत्थ. टी. परिवार ३.१) असाधारणविसेसवसेन विज्जात्तयवसेन विज्जाभिञ्ञानावरणवसेन सब्बञ्ञुतञ्ञाणमंसचक्खुवसेन पटिवेधदेसनाञाणवसेन च ते योजेत्वा दस्सेन्तो ‘‘तेसं तेस’’न्तिआदिमाह. तत्थ आसयानुसयं जानता आसयानुसयञाणेन, सब्बं ञेय्यधम्मं पस्सता सब्बञ्ञुतानावरणञाणेहि. पुब्बेनिवासादीहीति पुब्बेनिवासआसवक्खयञाणेहि. अनञ्ञसाधारणपुञ्ञानुभावनिब्बत्तो अनुत्तरञाणाधिगमलद्धपुरावत्तको च भगवतो रूपकायो अतिक्कम्मेव देवानं देवानुभावं वत्ततीति आह ‘‘सब्बसत्तानं…पे… पस्सता’’ति. पटिवेधपञ्ञायाति मग्गपञ्ञाय. ताय हि सब्बसो ञेय्यधम्मेसु सम्मोहस्स विधमितत्ता पच्छा पवत्तजाननं तस्स जाननं विय वुच्चति.

अरीनन्ति किलेसारीनं, पञ्चविधमारानं वा सासनपच्चत्थिकानं वा अञ्ञतित्थियानं, तेसं हननं पाटिहारियेहि अभिभवनं अप्पटिभानताकरणं अज्झुपेक्खनं वा. केसिविनयसुत्तञ्चेत्थ (अ. नि. ४.१११) निदस्सनं. तथा च ठानाट्ठानादीनि वा जानता, यथाकम्मुपगे सत्ते पस्सता, सवासनानमासवानं खीणत्ता अरहता, अभिञ्ञेय्यादिभेदे धम्मे अभिञ्ञेय्यादितो अविपरीतावबोधेन सम्मासम्बुद्धेन. अथ वा तीसु कालेसु अप्पटिहतञाणताय जानता, कायकम्मादीनं ञाणानुपरिवत्तनेन निसम्मकारिताय पस्सता, रवादीनम्पि (सारत्थ. टी. परिवार ३.१) अभावसाधिकाय पहानसम्पदाय अरहता, छन्दादीनं अहानिहेतुभूताय अक्खयपटिभानसाधिकाय सब्बञ्ञुताय सम्मासम्बुद्धेन. एवं दसबलअट्ठारसावेणिकबुद्धधम्मवसेनपि योजना वेदितब्बा. येति चतुरो धम्मे. अत्तनीति अम्हेसु. न राजराजमहामत्तादीसु उपत्थम्भं सम्पस्समाना, न कायबलं सम्पस्समानाति योजना.

उप्पन्नपसादोति अवेच्चप्पसादं वदति. वक्खति हि ‘‘चत्तारि सोतापन्नस्स अङ्गानि कथितानी’’ति (म. नि. अट्ठ. १.१४०). कामं असेक्खापि असेक्खाय समसिक्खताय सहधम्मिका एव, चिण्णब्रह्मचरियताय पन सहधम्मं चरन्तीति न वत्तब्बाति असेक्खवारो न गहितो. सब्बेपेतेति एते यथावुत्ता भिक्खुआदयो सोतापन्नादयो च पुथुज्जना अरिया चाति सब्बेपि एते तंतंसिक्खाहि समानधम्मत्ता सहधम्मत्ता ‘‘सहधम्मिका’’ति वुच्चन्ति. इदानि निब्बत्तितअरियधम्मवसेनेव सहधम्मिके दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. मग्गदस्सनम्हीति परिञ्ञाभिसमयादिवसेन सच्चपटिवेधेन ‘‘नव मग्गङ्गानि, अट्ठ बोज्झङ्गानी’’तिआदिना विवादो नत्थि. एकधम्मचारितायाति समानधम्मचारिताय. न हि पटिविद्धसच्चानं ‘‘मया धम्मो सुदिट्ठो, तया दुद्दिट्ठो’’तिआदिना विवादो अत्थि. दिट्ठिसीलसामञ्ञेन सङ्घाता हि ते उत्तमपुरिसा. इमिनाति ‘‘सहधम्मिका खो पना’’तिआदिवचनेन. तत्थ पियमनापग्गहणेन सीलेसु परिपूरकारितापदेसेन एकदेसेन गहितं सङ्घसुप्पटिपत्तिं परिपुण्णं कत्वा दस्सेति. ये हि सम्पन्नसीला सुविसुद्धदस्सना, ते विञ्ञूनं पिया मनापाति. एत्तावताति ‘‘अत्थि खो नो आवुसो’’तिआदिनयप्पवत्तेन रतनत्तयपसादजोतनेन अक्खाता तेसु तेसु सुत्तपदेसेसु.

१४१. सत्थरि पसादोति पसादग्गहणेन ‘‘भगवता’’तिआदिना वा पसादनीया धम्मा गहिता. तेन बुद्धसुबुद्धतं दस्सेति, तथा ‘‘धम्मे पसादो’’ति इमिना धम्मसुधम्मतं, इतरेन सङ्घसुप्पटिपन्नतं. येन चित्तेन अञ्ञत्थ अनुपलब्भमानेन सासनेयेव समणो इतो बहिद्धा नत्थीति अयमत्थो, सम्मदेव, पतिट्ठापितोति वेदितब्बं. तत्रायं योजना – यस्मा सम्मासम्बुद्धो अम्हाकं सत्था, तस्मा अत्थि खो नो, आवुसो, सत्थरि पसादो, सम्मासम्बुद्धत्ता चस्स स्वाखातो धम्मोति अत्थि धम्मे पसादो, ततो एव च अत्थि सीलेसु परिपूरकारिताति सहधम्मिका…पे… पब्बजिता चाति एवमेत्थ सत्थरि पसादेन धम्मे पसादो, तेन सङ्घसुप्पटिपत्तीति अयञ्च नयो लेसेनपि परप्पवादेसु नत्थीति इधेव समणो…पे… समणेहि अञ्ञेहीति.

पटिविद्धसच्चानं पहीनानुरोधानं गेहस्सितपेमस्स असम्भवो एवाति ‘‘इदानी’’ति वुत्तं. यदि एवं ‘‘उपज्झायेन, भिक्खवे, सद्धिविहारिकम्हि पुत्तपेमं उपट्ठपेतब्बं’’तिआदिवचनं (महाव. ६५) कथन्ति? नयिदं गेहस्सितपेमं सन्धाय वुत्तं, तंसदिसत्ता पन पेममुखेन वुत्तो मेत्तास्नेहो. न हि भगवा भिक्खू संकिलेसे नियोजेति. एवरूपं पेमं सन्धायाति पसादावहगुणावहतो पूरणादीसु भत्ति पसादो न होति, पसादपतिरूपका पन लोभपवत्तीति दट्ठब्बा. थेरोति महासङ्घरक्खितत्थेरो. येन अट्ठकथा पोत्थकं आरोपिता. एकोव सत्था अनञ्ञसाधारणगुणत्ता, अञ्ञथा अनच्छरियत्ता सत्थुलक्खणमेव न परिपूरेय्य. विसुं कत्वाति अञ्ञेहि विवेचेत्वा अत्तनो आवेणिकं कत्वा. ‘‘अम्हाकं सत्था’’ति ब्यावदन्तानं अञ्ञेसं सत्था न होतीति अत्थतो आपन्नमेव होति, तथा च पदेसवत्तिनिं तस्स सत्थुतं पटिजानन्ता परिपुण्णलक्खणसत्थुतं इच्छन्तानम्पि ततो विरुद्धा सत्थुभावपरियेसनेन पराजिता होन्ति. परियत्तिधम्मेति अधिकब्रह्मगुणसुत्तगेय्यादिप्पभेदसमये. तत्थ अजसील…पे… कुक्कुरसीलादीसूति इदं येभुय्येन अञ्ञतित्थियानं तादिसं वतसमादानसब्भावतो वुत्तं, आदि-सद्देन यमनियमचातुयामसंवरादीनं सङ्गहोति. अधिप्पयासोति अधिकं पयसति पयुज्जति एतेनाति अधिप्पयासो, सविसेसं अधिकत्तब्बकिरिया (अ. नि. टी. २.३.११७). तेनाह ‘‘अधिकप्पयोगो’’ति.

तस्स पसादस्स परियोसानभूताति तस्स सत्थरि धम्मे च पसादस्स निट्ठानभूता. निट्ठाति मोक्खो. समयवादीनञ्हि तस्मिं तस्मिं समये तदुपदेसके च पसादो यावदेव मोक्खाधिगमनट्ठो. दिट्ठिगतिका तथा तथा अत्तनो लद्धिवसेन निट्ठं परिकप्पेन्ति येवाति आह ‘‘निट्ठं अपञ्ञपेन्तो नाम नत्थी’’ति. ब्राह्मणानन्ति ब्राह्मणवादीनं. तेसं एकच्चे ब्रह्मुना सलोकता निट्ठाति वदन्ति, एकच्चे तस्स समीपता, एकच्चे तेन संयोगो निट्ठाति वदन्ति. तत्थ ये सलोकतावादिनो समीपतावादिनो च, ते द्वेधावादिनो, इतरे अद्वेधावादिनो. सब्बेपि ते अत्थतो ब्रह्मलोकुपपत्तियंयेव निट्ठासञ्ञिनो. तत्थ हि नेसं निच्चाभिनिवेसो यथा तं बकस्स ब्रह्मुनो. तेन वुत्तं ‘‘ब्रह्मलोको निट्ठा’’ति. ब्रह्मलोकोति पठमज्झानभूमि. महातापसानन्ति वेखनसादितापसानं. महाब्रह्मा विय पठमज्झानभूमियं आभस्सरेसु एको सब्बसेट्ठो नत्थीति ‘‘आभस्सरा’’ति पुथुवचनं. परिब्बाजकानन्ति सञ्चयादिपरिब्बाजकानं. अन्तो च मनो च एतस्स नत्थीति अनन्तमानसो. आजीवकानञ्हि सब्बदाभावतो अनन्तो, सुखदुक्खादिसमतिक्कमनतो अमानसो. इमिना अट्ठहि लोकधम्मेहि उपक्किलिट्ठचित्ततं दस्सेति.

पपञ्चे यं वत्तब्बं, तं हेट्ठा वुत्तमेव. तण्हादिट्ठियोव अधिप्पेता ममङ्कारअहङ्कारविगमस्स अधिप्पेतत्ता. यथा पञ्चसु ठानेसु एकोव किलेसो लोभो आगतो, एवं द्वीसु ठानेसु तयो किलेसा आगता ‘‘दोसो मोहो दिट्ठी’’ति. ‘‘सदोसस्सा’’ति हि वुत्तट्ठाने पटिघं अकुसलमूलं गहितं, ‘‘पटिविरुद्धस्सा’’ति विरोधो, ‘‘समोहस्सा’’ति मोहो अकुसलमूलं, ‘‘अविद्दसुनो’’ति मल्यं, असम्पजञ्ञं वा, ‘‘सउपादानस्सा’’ति ‘‘नत्थि दिन्न’’न्तिआदिना नयेन गहणं, ‘‘पपञ्चारामस्सा’’ति पपञ्चुप्पत्तिवसेन.

आकारतोति पवत्तिआकारतो. पदन्तरेन रागविसेसस्स वुच्चमानत्ताआदितो वुत्तं सरागवचनं ओळारिकं रागविसयन्ति आह ‘‘पञ्चकामगुणिकरागवसेना’’ति. गहणवसेनाति दळ्हग्गहणवसेन. ‘‘अनुरुद्धपटिविरुद्धस्सा’’ति एकपदवसेन पाळियं आगतत्ता एकज्झं पदुद्धारो कतो. तत्थ पन ‘‘अनुरुद्धस्सा’’ति सुभवसेनाति एवमत्थो वत्तब्बो. न हि पटिविरुज्झनं सुभवसेन होति. पपञ्चुप्पत्तिदस्सनवसेनाति किलेसकम्मविपाकानं अपरापरुप्पत्तिपच्चयताय संसारस्स पपञ्चनं पपञ्चो, तस्स उप्पत्तिहेतुभावदस्सनवसेन. तण्हा हि भवुप्पत्तिया विसेसपच्चयो. तण्हापच्चया उपादानदस्सनवसेनाति तण्हापच्चयस्स उपादानस्स दस्सनवसेन, यदवत्था तण्हा उपादानस्स पच्चयो, तदवत्थादस्सनवसेन. फलेन हि हेतुविसेसकित्तनमेतन्ति. एवं विद्धंसेथाति कामरागभवतण्हादिवसेन लोभं कस्मा एवं विप्पकिरेथ. तण्हाकरणवसेनाति तण्हायनकरणवसेन सुभाकारग्गहणवसेन. सुभन्ति हि आरम्मणे पवत्तो रागो ‘‘सुभ’’न्ति वुत्तो.

१४२. वदन्ति एतेनाति वादो, दिट्ठिवादो. दिट्ठिवसेन हि ‘‘सस्सतो अत्ता च लोको च, असस्सतो अत्ता च लोको चा’’ति च दिट्ठिगतिका पञ्ञपेन्ति. तेनाह ‘‘द्वेमा, भिक्खवे, दिट्ठियो’’ति (म. नि. १.१४२). तण्हारहिताय दिट्ठिया अभावतो तण्हावसेनेव च अत्तनो सस्सतभावाभिनिवेसोति कत्वा वुत्तं ‘‘तण्हादिट्ठिवसेना’’ति. अल्लीनाति निस्सिता. उपगताति अविस्सज्जनवसेन एकिभावमिव गता. अज्झोसिताति ताय दिट्ठिया गिलित्वा परिनिट्ठापिता विय तदन्तोगधा. तेनाह ‘‘अनुपविट्ठा’’ति. यथा गहट्ठानं कामज्झोसानं विवादमूलं, एवं पब्बजितानं दिट्ठज्झोसानन्ति आह ‘‘विभवदिट्ठिया ते पटिविरुद्धा’’ति. दिट्ठिविरोधेन हि दिट्ठिगतिकविरोधो.

खणिकसमुदयो उप्पादक्खणोति आह ‘‘दिट्ठीनं निब्बत्ती’’ति. दिट्ठिनिब्बत्तिग्गहणेनेव चेत्थ यथा दिट्ठीनं पटिच्चसमुप्पन्नता विभाविता, एवं दिट्ठिवत्थुनोपीति उभयेसम्पि अनिच्चता दुक्खता अनत्तता च विभाविताति दट्ठब्बं. यानि पटिसम्भिदानयेन (पटि. म. १.१२२) ‘‘पच्चयसमुदयो अट्ठ ठानानी’’ति वुत्तानि, तानि दस्सेन्तो ‘‘खन्धापी’’तिआदिमाह. तत्थ खन्धापि दिट्ठिट्ठानं आरम्मणट्ठेन ‘‘रूपं अत्ततो समनुपस्सती’’तिआदिवचनतो (सं. नि. ३.८१; ४.३४५). अविज्जापि दिट्ठिट्ठानं उपनिस्सयादिवसेन पच्चयभावतो. यथाह – ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो’’तिआदि (म. नि. १.२, ४६१; सं. नि. ३.१, ७). फस्सोपि दिट्ठिट्ठानं. यथा चाह ‘‘तदपि फस्सपच्चया (दी. नि. १.११८-१३०), फुस्स फुस्स पटिसंवेदियन्ती’’ति (दी. नि. १.१४४) च. सञ्ञापि दिट्ठिट्ठानं. वुत्तञ्हेतं ‘‘सञ्ञानिदाना हि पपञ्चसङ्खाति (सु. नि. ८८०), पथविं पथवितो सञ्ञत्वा’’ति (म. नि. १.२) च आदि. वितक्कोपि दिट्ठिट्ठानं. वुत्तम्पि चेतं ‘‘तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहू’’ति (सु. नि. ८९२; महानि. १२१) ‘‘तक्की होति वीमंसी’’ति (दी. नि. १.३४) च आदि. अयोनिसोमनसिकारोपि दिट्ठिट्ठानं. यथाह भगवा ‘‘तस्सेव अयोनिसो मनसिकरोतो छन्नं दिट्ठीनं अञ्ञतरा दिट्ठि उप्पज्जति, अत्थि मे अत्ताति अस्स सच्चतो थेततो दिट्ठि उप्पज्जती’’तिआदि (म. नि. १.१९). समुट्ठाति एतेनाति समुट्ठानं, तस्स भावो समुट्ठानट्ठो, तेन. खणिकत्थङ्गमो खणिकनिरोधो. पच्चयत्थङ्गमो अविज्जादीनं अच्चन्तनिरोधो. सो पन येन होति, तं दस्सेन्तो ‘‘सोतापत्तिमग्गो’’ति आह. चत्तारो हि अरियमग्गा यथारहं तस्स तस्स सङ्खारगतस्स अच्चन्तनिरोधहेतु, खणिकनिरोधो पन अहेतुको.

आनिसंसन्ति उदयं. सो पन दिट्ठधम्मिकसम्परायिकवसेन दुविधो. तत्थ सम्परायिको दुग्गतिपरिकिलेसतायआदीनवपक्खिको एवाति इतरं दस्सेन्तो ‘‘यं सन्धाया’’तिआदिमाह. आदीनवम्पि दिट्ठधम्मिकमेव दस्सेन्तो ‘‘दिट्ठिग्गहणमूलकं उपद्दव’’न्तिआदिमाह. सोतिआदीनवो. आदीनन्ति आदि-सद्देन नग्गियानसनसङ्कटिवतादीनं सङ्गहो. निस्सरति एतेनाति निस्सरणन्ति वुच्चमाने दस्सनमग्गो एव दिट्ठीनं निस्सरणं सिया, तस्स पन अत्थङ्गमपरियायेन गहितत्ता सब्बसङ्खतनिस्सटं निब्बानं दिट्ठीहिपि निस्सटन्ति कत्वा वुत्तं ‘‘दिट्ठीनं निस्सरणं नाम निब्बान’’न्ति. इमिनातिआदीसु वत्तब्बं अनुयोगवत्ते वुत्तनयमेव.

१४३. दिट्ठिच्छेदनं दस्सेन्तोति सब्बुपादानपरिञ्ञादस्सनेन सब्बसो दिट्ठीनं समुच्छेदविधिं दस्सेन्तो. वुत्तायेवाति –

‘‘उपादानानि चत्तारि, तानि अत्थविभागतो;

धम्मसङ्खेपवित्थारा, कमतो च विभावये’’ति. (विसुद्धि. २.६४५) –

गाथं उद्दिसित्वा अत्थविभागादिवसेन वुत्तायेव. कामं इतो बाहिरकानं ‘‘इमानि उपादानानि एत्तकानि चत्तारि, न इतो भिय्यो’’ति ईदिसं ञाणं नत्थि, केवलं पन केचि ‘‘कामा पहातब्बा’’ति वदन्ति, केचि ‘‘नत्थि परो लोकोति च, मिच्छा’’ति वदन्ति, अपरे ‘‘सीलब्बतेन सुद्धीति च, मिच्छा’’ति वदन्ति, अत्तदिट्ठिया पन मिच्छाभावं सब्बसो न जानन्ति एव. यत्तकं पन जानन्ति, तस्सपि अच्चन्तप्पहानं न जानन्ति, तथापि सब्बस्स परिञ्ञेय्यस्स परिञ्ञेय्यं पञ्ञपेमइच्चेव तिट्ठन्ति. एवंभूतानं पन नेसं तत्थ यादिसी पटिपत्ति, तं दस्सेन्तो सत्था ‘‘सन्ति, भिक्खवे’’तिआदिमाह. तत्थ सन्तीति संविज्जन्ति. तेन तेसं दिट्ठिगतिकानं विज्जमानताय अविच्छेदतं दस्सेति. एकेति एकच्चे. समणब्राह्मणाति पब्बज्जुपगमनेन समणा, जातिमत्तेन च ब्राह्मणा. सब्बेसन्ति अनवसेसानं उपादानानं समतिक्कमं पहानं. सम्मा न पञ्ञपेन्तीति येसं पञ्ञपेन्ति, तेसम्पि सम्मा परिञ्ञं न पञ्ञपेन्ति. इदानि तं अत्थं वित्थारतो दस्सेतुं ‘‘केची’’तिआदि वुत्तं. तत्थ होतिक-कुटीचक-बहूदक-हंस-परमहंस-काजक-तिदण्ड-मोनवत-सेव-पारुपक-पञ्चमरत्तिक- सोमकारक-मुगब्बत-चरबाक-तापस-निगन्था-जीवक-इसि-पारायनिक-पञ्चातपिक-कापिल- काणाद-संसारमोचक-अग्गिभत्तिक-मगवतिक-गोवतिक-कुक्कुरवतिक-कामण्डलुक- वग्गुलिवतिक-एकसाटक-ओदकसुद्धिक-सरीरसन्तापक-सीलसुद्धिक-झानसुद्धिक-चतुब्बिध- सस्सतवादादयो छन्नवुति तण्हापासेन डंसनतो, अरियधम्मस्स वा विबाधनतो पासण्डा. वत्थुपटिसेवनं कामन्ति ब्यापारस्स वत्थुनो पटिसेवनसङ्खातं कामं. थेय्येन सेवन्तीति पटिहत्थआदिसमञ्ञाय लोकस्स वचनवसेन सेवन्ति. तीणि कारणानीति ‘‘नत्थि दिन्न’’न्तिआदिनयप्पवत्तानि दिट्ठिविसेसभूतानि वट्टकारणानि.

अत्थसल्लापिकाति अत्थस्स सल्लापिका, द्विन्नं अधिप्पेतत्थसल्लापविभाविनीति अधिप्पायो. द्विन्नञ्हि वचनं सल्लापो. तेनाह ‘‘पथवी किरा’’तिआदि.

यो तित्थियानं अत्तनो सत्थरि धम्मे सहधम्मिकेसु च पसादो वुत्तो, तस्स अनायतनगतत्ता अप्पसादकभावदस्सनं पसादपच्छेदो. तथापवत्तो वादो पसादपच्छेदवादो वुत्तो. एवरूपेति ईदिसे वुत्तनयेन किलेसानं अनुपसमसंवत्तनिके. धम्मेति धम्मपतिरूपके. विनयेति विनयपतिरूपके. तित्थिया हि कोहञ्ञे ठत्वा लोकं वञ्चेन्ता धम्मं कथेमाति ‘‘सत्तिमे काया अकटा अकटविधा’’तिआदिना (दी. नि. १.१७४) यं किञ्चि कथेत्वा तथा ‘‘विनयं पञ्ञपेमा’’ति गोसीलवग्गुलिवतादीनि पञ्ञपेत्वा तादिसं सावके सिक्खापेत्वा ‘‘धम्मविनयो’’ति कथेन्ति, तं सन्धायेतं वुत्तं ‘‘धम्मविनये’’ति. तेनाह ‘‘उभयेनपि अनिय्यानिकं सासनं दस्सेती’’ति. परित्तम्पि नाम पुञ्ञं कातुकामं मच्छेरमलाभिभूतताय निवारेन्तस्स अन्तरायं तस्स करोतो दिट्ठेव धम्मे विञ्ञूहि गरहितब्बता सम्पराये च दुग्गति पाटिकङ्खा, किमङ्गं पन सकलवट्टदुक्खनिस्सरणावहे जिनचक्के पहारदायिनो तित्थकरस्स तदोवादकरस्स चाति इममत्थं दस्सेन्तो ‘‘अनिय्यानिकसासनम्हि ही’’तिआदिमाह. यथा सो पसादो सम्पराये न सम्मग्गतो अत्तनो पवत्तिवसेनाति दस्सेन्तो ‘‘कञ्चि कालं गन्त्वापि पच्छा विनस्सति येवा’’ति आह, अवेच्चप्पसादो विय अच्चन्तिको न होतीति अत्थो.

सम्पज्जमाना यथाविधिपटिपत्तिया तिरच्छानयोनिं आवहति. कम्मसरिक्खकेन हि विपाकेनेव भवितब्बं. सब्बम्पि कारणभेदन्ति सब्बम्पि यथावुत्तं तित्थकरानं सावकानं अपायदुक्खावहं मिच्छापटिपत्तिसङ्खातं कारणविसेसं. सो पनेस पसादो न निय्याति मिच्छत्तपक्खिकत्ता सुरापीतसिङ्गाले पसादो विय. सुरं परिस्सावेत्वा छड्डितकसटं सुराजल्लिकं. ब्राह्मणा नाम धनलुद्धाति अधिप्पायेनाह ‘‘इमं वञ्चेस्सामी’’ति. कंससताति कहापणसता.

१४४. तस्साति पसादस्स. सब्बोपि लोभो कामुपादानन्तेव वुच्चतीति आह ‘‘अरहत्तमग्गेन कामुपादानस्स पहानपरिञ्ञ’’न्ति. एवरूपेति ईदिसे सब्बसो किलेसानं उपसमसंवत्तनिके. यथानुसिट्ठं पटिपज्जमानानं अपायेसु अपतनवसेन धारणट्ठेन धम्मे. सब्बसो विनयनट्ठेन विनये. तत्थ भवदुक्खनिस्सरणाय संवत्तने.

नमस्समानो अट्ठासि द्वे असङ्ख्येय्यानि पच्चेकबोधिपारमीनं पूरणेन तत्थ बुद्धसासने परिचयेन च भगवति पसन्नचित्तताय च. ‘‘उलूका’’त्यादिगाथा रुक्खदेवताय भासिता. कालुट्ठितन्ति सायन्हकाले दिवाविहारतो उट्ठितं. दुग्गतेसो न गच्छतीति दुग्गतिं एसो न गमिस्सति. मोरजिको मुरजवादको. महाभेरिवादकवत्थुआदीनिपि सितपातुकरणं आदिं कत्वा वित्थारेतब्बानि.

परमत्थेति लोकुत्तरधम्मे. किं पन वत्तब्बन्ति धम्मेपि परमत्थे निमित्तं गहेत्वा सुणन्तानं. सामणेरवत्थूति पब्बजितदिवसेयेव सप्पेन दट्ठो हुत्वा कालं कत्वा देवलोकं उपपन्नसामणेरवत्थु.

खीरोदनन्ति खीरेन सद्धिं सम्मिस्सं ओदनं. तिम्बरुसकन्ति तिन्दुकफलं. तिपुससदिसा एका वल्लिजाति तिम्बरुसं, तस्स फलं तिम्बरुसकन्ति च वदन्ति. कक्कारिकन्ति खुद्दकएलाळुकं. महातिपुसन्ति च वदन्ति. वल्लिपक्कन्ति खुद्दकतिपुसवल्लिया फलं. हत्थपतापकन्ति मन्दामुखि. अम्बकञ्जिकन्ति अम्बिलकञ्जिकं. खळयागुन्तिपि वदन्ति. दोणिनिम्मज्जनिन्ति सतेलं तिलपिञ्ञाकं. विधुपनन्ति चतुरस्सबीजनिं. तालवण्टन्ति तालपत्तेहि कतमण्डलबीजनिं. मोरहत्थन्ति मोरपिञ्छेहि कतं मकसबीजनिं.

वुत्तनयानुसारेनेवाति यस्मा इधापि यथावुत्तं सब्बम्पि कारणभेदं एकतो कत्वा दस्सेन्तो सत्था ‘‘तं किस्स हेतू’’न्तिआदिमाह, तस्मा तत्थ अनिय्यानिकसासने वुत्तनयस्स अनुस्सरणवसेन योजेत्वा वेदितब्बं.

१४५. परिञ्ञन्ति पहानपरिञ्ञं. तेसं पच्चयं दस्सेतुन्ति उपादानानं परिञ्ञा नाम पहानपरिञ्ञा. तेसं अच्चन्तनिरोधो अधिप्पेतो, सो च पच्चयनिरोधेन होतीति तेसं पच्चयं मूलकारणतो पभुति दस्सेतुं. अयन्ति इदानि वुच्चमानो एत्थ ‘‘इमे चा’’तिआदिपाठे ‘‘किं निदाना’’तिआदिसमासपदानं अत्थो. सब्बपदेसूति ‘‘तण्हासमुदया’’तिआदीसु सब्बेसु पदेसु. इमिना एव च सब्बग्गहणेन ‘‘फस्सनिदाना’’तिआदीनम्पि पदानं सङ्गहो दट्ठब्बो. इमे अञ्ञतित्थिया उपादानानम्पि समुदयं न जानन्ति, कुतो निरोधं, तथागतो पन तेसं तप्पच्चयपच्चयानम्पि समुदयञ्च अत्थङ्गमञ्च याथावतो जानाति, तस्मा – ‘‘इधेव, भिक्खवे, समणो…पे… सुञ्ञा परप्पवादा समणेभि अञ्ञेही’’ति (म. नि. १.१३९) यथारद्धसीहनादं मत्थकं पापेत्वा दस्सेन्तो ‘‘इमे च, भिक्खवे, चत्तारो उपादाना’’तिआदिना (म. नि. १.१४५) नयेन देसनं पटिच्चसमुप्पादमुखेन ओतारेन्तो वट्टं दस्सेत्वा ‘‘यतो च खो’’तिआदिना विवट्टं दस्सेन्तो अरहत्तेन देसनाय कूटं गण्हि, तमत्थं दस्सेन्तो ‘‘यस्मा पन भगवा’’तिआदिमाह. तं सुविञ्ञेय्यमेव.

चूळसीहनादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

२. महासीहनादसुत्तवण्णना

वेसालीनगरवण्णना

१४६. अपरापरन्ति पुनप्पुनं. विसालीभूततायाति गावुतन्तरं गावुतन्तरं पुथुभूतताय. तत्राति तस्सं विसालीभूततायं. छड्डितमत्तेति विस्सट्ठमत्ते. ऊमिभयादीहीति ऊमिकुम्भीलआवट्टसंसुकाभयेहि. उदकप्पवाहेनागतस्सपि च उस्मा न विगच्छति, उस्मा च नाम ईदिसस्स सविञ्ञाणकताय भवेय्याति ‘‘सिया गब्भो’’ति चिन्तेसि. तथा हीतिआदि तत्थ कारणचिन्ता. पुञ्ञवन्तताय दुग्गन्धं नाहोसि, सउसुमताय पूतिकभावो. दारकानं पुञ्ञूपनिस्सयतो अङ्गुट्ठकतो चस्स खीरं निब्बत्ति, खीरभत्तञ्च लभि. चरिमकभवे बोधिसत्ते कुच्छिगते बोधिसत्तमातु विय उदरच्छविया अच्छविप्पसन्नताय निच्छवि वियाति कत्वा आह ‘‘निच्छवी अहेसु’’न्ति. तेसन्ति द्विन्नं दारकानं. मातापितरोति पोसकमातापितरो. अभिसिञ्चित्वा राजानं अकंसु रज्जसम्पत्तिया दायकस्स कम्मस्स कतत्ता, असम्भिन्ने एव राजकुले उप्पन्नत्ता च. कुमारस्स पुञ्ञानुभावसञ्चोदिता देवताधिग्गहिताति केचि.

पुरस्स अपरेति पुरस्स अपरदिसाय गावुतमत्ते ठाने जीवकम्बवनं विय सपाकारमन्दिरके. अचिरपक्कन्तोति एत्थ न देसन्तरपक्कमनं अधिप्पेतं, अथ खो सासनतो अपक्कमनन्ति दस्सेन्तो ‘‘विब्भमित्वा’’तिआदिमाह. तेनेवाह ‘‘इमस्मा धम्मविनया’’ति. परिसतीति परिसायं, जनसमूहेति अत्थो. जनसमूहगतो पन ‘‘परिसमज्झे’’ति वुत्तो. भावनामनसिकारेन विना पकतियाव मनुस्सेहि निब्बत्तेतब्बो धम्मोति मनुस्सधम्मो, मनुस्सत्तभावावहो वा धम्मो मनुस्सधम्मो, अनुळारं परित्तकुसलं. यं असतिपि बुद्धुप्पादे वत्तति, यञ्च सन्धायाह ‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जती’’ति. ‘‘अम्हाकं बुद्धो’’ति बुद्धे ममत्तकारिनो बुद्धमामका. सेसपदद्वयेपि एसेव नयो.

उत्तरिमनुस्सधम्मादिवण्णना

अलं अरियाय अरियभावायाति अलमरियो, रूपायतनं जानाति चक्खुविञ्ञाणं विय पस्सति चाति ञाणदस्सनं, दिब्बचक्खु. सम्मसनुपगे च पन धम्मे लक्खणत्तयञ्च तथा जानाति पस्सति चाति ञाणदस्सनं, विपस्सना. निब्बानं, चत्तारि वा सच्चानि असम्मोहपटिवेधतो जानाति पस्सति चाति ञाणदस्सनं, मग्गो. फलं पन निब्बानवसेनेव योजेतब्बं. पच्चवेक्खणा मग्गाधिगतस्स अत्थस्स पच्चक्खतो जाननट्ठेन ञाणदस्सनं, सब्बञ्ञुता अनावरणताय समन्तचक्खुताय च ञाणदस्सनं. लोकुत्तरमग्गो अधिप्पेतो, तस्मिञ्हि पटिसिद्धे सब्बेसम्पि बुद्धगुणानं असम्भवोति अधिप्पायो. तेनाह ‘‘तञ्हि सो भगवतो पटिसेधेती’’ति.

सुखुमं धम्मन्तरं नाम झानविपस्सनादिकं आचरियानुग्गहेन गहितं नाम नत्थि. तक्कपरियाहतन्ति ‘‘इति भविस्सति, एवं भविस्सती’’ति तंतंदस्सेतब्बमत्थतक्कनेन वितक्कनमत्तेन परितो आहतं परिवत्तितं कत्वा. तेनाह ‘‘तक्केत्वा’’तिआदि. लोकियपञ्ञं अनुजानाति उपनिसिन्नपरिसाय अनुकूलधम्मकथनतोति अधिप्पायो. तेनाह ‘‘समणो गोतमो’’तिआदि. पटिभातीति पटिभानं, ‘‘इति वक्खामी’’ति एवंपवत्तं कथनचित्तं, ततो पटिभानतो जाननं पटिभानं, आगमाभावतो सयमेव उपट्ठितत्ता सयंपटिभानं. तेनाह ‘‘इमिनास्स धम्मेसु पच्चक्खभावं पटिबाहती’’ति. सुफुसितन्ति निब्बिवरं. अफुसितत्ते हि सुखेन वचीघोसो न निच्छरति. दन्तावरणन्ति ओट्ठद्वयं. जिव्हापि थद्धताय सुखेन वचीघोसो न निच्छरतीति आह ‘‘मुदुका जिव्हा’’ति. करवीकरुतमञ्जुताय मधुरो सरो. एलं वुच्चति दोसो, एलं गळतीति एलगळा, न एलगळा अनेलगळा, निद्दोसा, न रुज्झतीति अत्थो. सब्बमेतं रञ्जनस्सेव कारणं दस्सेन्तो वदति.

पञ्च धम्माति गम्भीरञाणचरियभूतानं खन्धादीनं उग्गहण-सवन-धारण-परिचय-योनिसोमनसिकारे सन्धायाह. तक्करस्स सम्मा दुक्खक्खयायाति एत्थ सम्मा-सद्दो उभयत्थापि योजेतब्बो ‘‘सम्मा तक्करस्स सम्मा दुक्खक्खयाया’’ति. यो हि सम्मा धम्मं पटिपज्जति, तस्सेव सम्मा दुक्खक्खयो होति. यो पन वुत्तनयेन तक्करो, तस्स निय्यानं अत्थतो धम्मस्सेव निय्यानन्ति आह ‘‘सो धम्मो…पे… निय्याति गच्छती’’ति.

१४७. कोधनोति कुज्झनसीलो. यस्मा पन सुनक्खत्तो कोधवसेन कुरूरो फरुसवचनो च, तस्मा आह ‘‘कोधनोति चण्डो फरुसो चा’’ति. तस्मिं अत्तभावे मग्गफलानं उपनिस्सयो नत्थीति तस्मिं अत्तभावे उप्पज्जनारहानं मग्गफलानं उपनिस्सयो नत्थि. तं बुद्धा ‘‘मोघपुरिसो’’ति वदन्ति यथा तं सुदिन्नलाळुदायिआदिके. उपनिस्सये सतिपि तस्मिं खणे मग्गे वा फले वा असति ‘‘मोघपुरिसो’’ति वदन्ति यथा तं धनियूपसेनत्थेरादिके. समुच्छिन्नोपनिस्सये पन वत्तब्बमेव नत्थि. यथा ‘‘मक्खलि मोघपुरिसो मनुस्सखिप्पं मञ्ञे’’ति (अ. नि. १.३११) तथा सुनक्खत्तोपीति आह ‘‘इमस्स पना’’तिआदि. अस्साति एतेन. कत्तरि हिदं सामिवचनं. कोधेनाति कोधहेतुना.

भगवतोति सम्पदानवचनं कुद्धपदापेक्खाय. पुब्बेति भिक्खुकाले. सद्दं सोतुकामोति सो किर दिब्बचक्खुना तावतिंसभवने देवतानं रूपं पस्सन्तो ओट्ठचलनं पस्सति, न पन सद्दं सुणाति, तस्मा तासं सद्दं सोतुकामो अहोसि. तेन वुत्तं ‘‘सद्दं सोतुकामो…पे… पुच्छी’’ति. सो च अतीते एकं सीलवन्तं भिक्खुं कण्णसक्खलियं पहरित्वा बधिरमकासि, तस्मा परिकम्मं करोन्तोपि अभब्बोव दिब्बसोताधिगमाय. तं सन्धाय वुत्तं ‘‘उपनिस्सयो नत्थीति ञत्वा परिकम्मं न कथेसी’’ति. चिन्तेसीति अत्तनो मिच्छापरिवितक्कितेन अयोनिसो उम्मुज्जन्तो चिन्तेसि.

निय्यानिकत्तावबोधनतो अभेदोपचारेन ‘‘देसनाधम्मो निय्यानिको’’ति वुत्तो. निय्यानो वा अरियमग्गो बोधेतब्बो एतस्स अत्थीति निय्यानिको देसनाधम्मो. अत्तनि अत्थितं दस्सेति किच्चसिद्धिदस्सनेन तत्थ तत्थ पाकटीकतत्ता, न पटिञ्ञामत्तेन. तथा हि यथापराधं तंतंसिक्खापदपञ्ञत्तिया यथाधम्मं वेनेय्यज्झासयानुरूपञ्च अविपरीतधम्मदेसनाय देवमनुस्सेहि यथाभिसङ्खतपञ्हानं तदज्झासयानुकूलं ठानसो विस्सज्जनेन च भगवतो सब्बत्थ अप्पटिहतञाणचारभावेन सब्बञ्ञुतञ्ञाणं विञ्ञूनं पाकटं, तथा तत्थ तत्थ यमकपाटिहारियकरणादीसु इद्धिविधञाणादीनीति. तेनाह ‘‘मय्हञ्चा’’तिआदि. अन्वेति यथागहितसङ्केतस्स अनुगमनवसेन एति जानातीति अन्वयो. तेनाह ‘‘अनुबुज्झतीति अत्थो’’ति. सङ्केतानुगमनञ्चेत्थ ‘‘यथापराधं तंतंसिक्खापदपञ्ञत्तिया’’तिआदिना वुत्तनयमेव. एवं योजना वेदितब्बाति यथा सब्बञ्ञुतञ्ञाणेन योजना कता, एवं ‘‘एवरूपम्पि नाम मय्हं इद्धिविधञाणसङ्खातं उत्तरिमनुस्सधम्म’’न्तिआदिना तत्थ तत्थ योजना वेदितब्बा.

उत्तरिमनुस्सधम्मादिवण्णना निट्ठिता.

दसबलञाणवण्णना

१४८. यदिपि आदितो अभिञ्ञात्तयवसेन देसनाय आगतत्ता चेतोपरियञाणानन्तरं उपरि तिस्सो अभिञ्ञा वत्तब्बा सियुन्ति वत्तब्बं सिया, अत्थतो पन विज्जात्तयं यथावुत्तअभिञ्ञात्तयमेवाति कत्वा ‘‘तिस्सो विज्जा वत्तब्बा सियु’’न्ति वुत्तं. कस्मा पनेत्थ ‘‘तासु वुत्तासु उपरि दसबलञाणं न परिपूरती’’ति वुत्तं, ननु इमानि ञाणानि सेसाभिञ्ञा विय अत्तनो विसयस्स अभिजाननट्ठं उपादाय अभिञ्ञासु वत्तब्बानि, अकम्पियट्ठं पन उपत्थम्भनट्ठञ्च उपादाय बलञाणेसु यथा सम्मासतिआदयो इन्द्रियबलबोज्झङ्गमग्गङ्गेसूति? नयिदमेवं. तत्थ हि धम्मानं धम्मकिच्चविसेसविभावनपराय देसनाय वुत्तं, इध पन सत्थु गुणविसेसविभावनपराय देसनाय तथा वत्तुं न सक्का अत्थतो अनञ्ञत्ता, एकच्चानं पुथुज्जनानं एवं चित्तं उप्पज्जेय्य ‘‘किमिदं भगवा हेट्ठा वुत्तगुणे पुनपि गण्हन्तो गुणाधिकदस्सनं करोती’’ति. तस्मा सुवुत्तमेतं ‘‘उपरि दसबलञाणं न परिपूरती’’ति.

अञ्ञेहि असाधारणानीति कस्मा वुत्तं (अ. नि. टी. ३.१०.२१), ननु चेतानि सावकानम्पि एकच्चानं उप्पज्जन्तीति? कामं उप्पज्जन्ति, यादिसानि पन बुद्धानं ठानाट्ठानञाणादीनि, न तादिसानि तदञ्ञेसं कदाचिपि उप्पज्जन्तीति अञ्ञेहि असाधारणानीति. तेनाह ‘‘तथागतस्सेव बलानी’’ति. इममेव हि यथावुत्तलेसं अपेक्खित्वा तदभावतो आसयानुसयञाणादीसु एव असाधारणगुणसमञ्ञा निरुळ्हा. कामं ञाणबलानं ञाणसम्भारो विसेसपच्चयो, पुञ्ञसम्भारोपि पन नेसं पच्चयो एव, ञाणसम्भारस्सपि वा पुञ्ञसम्भारभावतो ‘‘पुञ्ञुस्सयसम्पत्तिया आगतानी’’ति वुत्तं.

पकतिहत्थिकुलन्ति (सं. नि. २.२२) गिरिचरनदीचरवनचरादिप्पभेदा गोचरियकालावकनामा सब्बापि बलेन पाकतिका हत्थिजाति. दसन्नं पुरिसानन्ति थाममज्झिमानं दसन्नं पुरिसानं. एकस्स तथागतस्स कायबलन्ति आनेत्वा सम्बन्धो. एकस्साति च तथा हेट्ठाकथायं आगतत्ता देसनासोतेन वुत्तं. नारायनसङ्घातबलन्ति एत्थ नारा वुच्चन्ति रस्मियो, ता बहू नानाविधा इतो उप्पज्जन्तीति नारायनं, वजिरं, तस्मा नारायनसङ्घातबलन्ति वजिरसङ्घातबलन्ति अत्थो. ञाणबलं पन पाळियं आगतमेव, न कायबलं विय अट्ठकथारुळ्हमेवाति अधिप्पायो. ‘‘संयुत्तके आगतानि तेसत्तति ञाणानि सत्तसत्तति ञाणानी’’ति वुत्तं (विभ. मूलटी. ७६०), तत्थ पन निदानवग्गे सत्तसत्तति आगतानि चतुचत्तारीसञ्च, तेसत्तति पन पटिसम्भिदामग्गे (पटि. म. १.७३ मातिका) सुतमयादीनि आगतानि दिस्सन्ति, न संयुत्तके. अञ्ञानिपीति एतेन ञाणवत्थुविभङ्गे एककादिवसेन वुत्तानि, अञ्ञत्थ च ‘‘पुब्बन्ते ञाण’’न्तिआदिना (ध. स. १०७६) ब्रह्मजालादीसु (दी. नि. १.३६) च ‘‘तयिदं तथागतो पजानाति, इमानि दिट्ठिट्ठानानि एवं गहितानी’’तिआदिना वुत्तानि अनेकानि ञाणप्पभेदानि सङ्गण्हाति. याथावपटिवेधतो सयञ्च अकम्पियं पुग्गलञ्च तंसमङ्गिं नेय्येसु अधिबलं करोतीति आह ‘‘अकम्पियट्ठेन उपत्थम्भनट्ठेन चा’’ति.

उसभस्स इदन्ति आसभं, (अ. नि. टी. २.४.८) सेट्ठं ठानं. सब्बञ्ञुतपटिजाननवसेन अभिमुखं गच्छन्ति, अट्ठ वा परिसा उपसङ्कमन्तीति आसभा, पुब्बबुद्धा. इदं पनाति बुद्धानं ठानं सब्बञ्ञुतमेव वदति. तिट्ठमानोवाति अवदन्तोपि (सं. नि. टी. २.२.२२) तिट्ठमानोव पटिजानाति नामाति अत्थो. उपगच्छतीति अनुजानाति.

अट्ठसु परिसासूति ‘‘अभिजानामि खो पनाहं, सारिपुत्त, अनेकसतं खत्तियपरिसं…पे… तत्र वत मं भयं वा सारज्जं वा ओक्कमिस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामी’’ति (म. नि. १.१५१) वुत्तासु अट्ठसु परिसासु. अभीतनादं नदतीति परतो दस्सितञाणयोगेन दसबलोहन्ति अभीतनादं नदति. सीहनादसुत्तेन खन्धवग्गे (सं. नि. ३.७८) आगतेन.

‘‘देवमनुस्सानं चतुचक्कं वत्तती’’ति (अ. नि. ४.३१) सुत्तसेसेन सप्पुरिसूपस्सयादीनं फलसम्पत्तिपवत्ति, पुरिमसप्पुरिसूपस्सयादिं उपनिस्साय पच्छिमसप्पुरिसूपस्सयादीनं सम्पत्तिपवत्ति वा वुत्ताति आदि-सद्देन तत्थ च चक्क-सद्दस्स गहणं वेदितब्बं. विचक्कसण्ठाना असनि एव असनिविचक्कं. उरचक्कादीसूति आदि-सद्देन आणासमूहादीसुपि चक्क-सद्दस्स पवत्ति वेदितब्बा. ‘‘सङ्घभेदं करिस्साम चक्कभेद’’न्तिआदीसु (पारा. ४०९; चूळव. ३४३) हि आणा ‘‘चक्क’’न्ति वुत्ता, ‘‘देवचक्कं असुरचक्क’’न्तिआदीसु (अ. नि. टी. २.४.८) समूहोति. पटिवेधनिट्ठत्ता अरहत्तमग्गञाणं पटिवेधोति ‘‘फलक्खणे उप्पन्नं नामा’’ति वुत्तं. तेन पटिलद्धस्सपि देसनाञाणस्स किच्चनिप्फत्ति परस्स बुज्झनमत्तेन होतीति ‘‘अञ्ञातकोण्डञ्ञस्स सोतापत्ति…पे… फलक्खणे पवत्तं नामा’’ति वुत्तं. ततो परं पन याव परिनिब्बाना देसनाञाणप्पवत्ति तस्सेव पवत्तितस्स धम्मचक्कस्स ठानन्ति वेदितब्बं पवत्तितचक्कस्स चक्कवत्तिनो चक्करतनस्स ठानं विय.

‘‘तिट्ठती’’ति वुत्तं, किं भूमियं पुरिसो विय? नोति आह ‘‘तदायत्तवुत्तिताया’’ति. ठानन्ति चेत्थ अत्तलाभो धरमानता च, न गतिनिवत्तीति आह ‘‘उप्पज्जति चेव पवत्तति चा’’ति. यत्थ पनेतं दसबलञाणं वित्थारितं, तं दस्सेन्तो ‘‘अभिधम्मे पना’’तिआदिमाह. सेसेसुपि एसेव नयो.

समादियन्तीति समादानानि, तानि पन समादियित्वा कतानि होन्तीति आह ‘‘समादियित्वा कतान’’न्ति. कम्ममेव वा कम्मसमादानन्ति एतेन समादानसद्दस्स अपुब्बत्थाभावं दस्सेति मुत्तगतसद्दे गतसद्दस्स विय. गतीति निरयादिगतियो. उपधीति अत्तभावो. कालोति कम्मस्स विपच्चनारहकालो. पयोगोति विपाकुप्पत्तिया पच्चयभूता किरिया.

अगतिगामिनिन्ति निब्बानगामिनिं. वक्खति हि ‘‘निब्बानञ्चाहं, सारिपुत्त, पजानामि निब्बानगामिञ्च मग्गं निब्बानगामिनिञ्च पटिपद’’न्ति (म. नि. १.१५३). बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु कामं सब्बेसं चेतना तस्सेवेकस्स जीवितिन्द्रियारम्मणा, तं पन कम्मं तेसं नानाकारं. तेसु (विभ. अट्ठ. ८११) हि एको आदरेन छन्दजातो करोति, एको ‘‘एहि त्वम्पि करोही’’ति परेहि निप्पीळितो करोति, एको समानच्छन्दो विय हुत्वा अप्पटिबाहमानो विचरति. तेसु एको तेनेव कम्मेन निरये निब्बत्तति, एको तिरच्छानयोनियं, एको पेत्तिविसये. तं तथागतो आयूहनक्खणे एव – ‘‘इमिना नीहारेन आयूहितत्ता एस निरये निब्बत्तिस्सति, एस तिरच्छानयोनियं, एस पेत्तिविसये’’ति जानाति. निरये निब्बत्तमानम्पि – ‘‘एस महानिरये निब्बत्तिस्सति, एस उस्सदनिरये’’ति जानाति. तिरच्छानयोनियं निब्बत्तमानम्पि – ‘‘एस अपादको भविस्सति, एस द्विपादको, एस चतुप्पदो, एस बहुप्पदो’’ति जानाति. पेत्तिविसये निब्बत्तमानम्पि – ‘‘एस निज्झामतण्हिको भविस्सति, एस खुप्पिपासिको, एस परदत्तूपजीवी’’ति जानाति. तेसु च कम्मेसु – ‘‘इदं कम्मं पटिसन्धिमाकड्ढिस्सति, इदं अञ्ञेन दिन्नाय पटिसन्धिया उपधिवेपक्कं भविस्सती’’ति जानाति.

तथा सकलगामवासिकेसु एकतो पिण्डपातं ददमानेसु कामं सब्बेसम्पि चेतना पिण्डपातारम्मणाव, तं पन कम्मं तेसं नानाकारं. तेसु हि एको आदरेन करोतीति सेसं पुरिमसदिसं, तस्मा तेसु केचि देवलोके निब्बत्तन्ति, केचि मनुस्सलोके, तं तथागतो आयूहनक्खणेयेव जानाति – ‘‘इमिना नीहारेन आयूहितत्ता एस मनुस्सलोके निब्बत्तिस्सति, एस देवलोके, तत्थापि एस खत्तियकुले, एस ब्राह्मणकुले, एस वेस्सकुले, एस सुद्दकुले, एस परनिम्मितवसवत्तीसु, एस निम्मानरतीसु, एस तुसितेसु, एस यामेसु, एस तावतिंसेसु, एस चातुमहाराजिकेसु, एस भुम्मदेवेसू’’तिआदिना तत्थ तत्थ हीनपणीतसुवण्णदुब्बण्णअप्पपरिवारमहापरिवारतादिभेदं तं तं विसेसं आयूहनक्खणेयेव जानाति.

तथा विपस्सनं पट्ठपेन्तेसुयेव – ‘‘इमिना नीहारेन एस किञ्चि सल्लक्खेतुं न सक्खिस्सति, एस महाभूतमत्तमेव ववत्थपेस्सति, एस रूपपरिग्गहेयेव ठस्सति, एस अरूपपरिग्गहेयेव, एस नामरूपपरिग्गहेयेव, एस पच्चयपरिग्गहे एव, एस लक्खणारम्मणिकविपस्सनाय एव, एस पठमफलेयेव, एस दुतियफले एव, एस ततियफले एव, एस अरहत्तं पापुणिस्सती’’ति जानाति. कसिणपरिकम्मं करोन्तेसुपि – ‘‘इमस्स परिकम्ममत्तमेव भविस्सति, एस निमित्तं उप्पादेस्सति, एस अप्पनं एव पापुणिस्सति, एस झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं गण्हिस्सती’’ति जानाति. तेनाह ‘‘इमस्स चेतना’’तिआदि.

कामनतो, कामेतब्बतो, कामपटिसंयुत्ततो च कामो धातु कामधातु. आदि-सद्देन ब्यापादधातु-रूपधातु-आदीनं सङ्गहो. विलक्खणतायाति विसदिससभावताय. खन्धायतनधातुलोकन्ति अनेकधातुं नानाधातुं खन्धलोकं आयतनलोकं धातुलोकं यथाभूतं पजानातीति योजना. ‘‘अयं रूपक्खन्धो नाम…पे… अयं विञ्ञाणक्खन्धो नाम. तेसुपि एकविधेन रूपक्खन्धो, एकादसविधेन रूपक्खन्धो (विभ. ३३). एकविधेन वेदनाक्खन्धो, बहुविधेन वेदनाक्खन्धो (विभ. ३४-६१). एकविधेन सञ्ञाक्खन्धो, बहुविधेन सञ्ञाक्खन्धो (विभ. ६२-९१). एकविधेन सङ्खारक्खन्धो, बहुविधेन सङ्खारक्खन्धो (विभ. ९२-१२०). एकविधेन विञ्ञाणक्खन्धो, बहुविधेन विञ्ञाणक्खन्धो’’ति (विभ. १२१-१४९) एवं ताव खन्धलोकस्स, ‘‘इदं चक्खायतनं नाम…पे… इदं धम्मायतनं नाम. तत्थ दसायतना कामावचरा, द्वे चातुभूमका’’तिआदिना (विभ. १५६-१७१) आयतनलोकस्स, ‘‘अयं चक्खुधातु नाम…पे… अयं मनोविञ्ञाणधातु नाम, तत्थ सोळस धातुयो कामावचरा, द्वे चातुभूमका’’तिआदिना (विभ. १७२-१८८) धातुलोकस्स अनेकसभावं नानासभावञ्च पजानाति. न केवलं उपादिन्नकसङ्खारलोकस्सेव, अथ खो अनुपादिन्नकसङ्खारलोकस्सपि – ‘‘इमाय नाम धातुया उस्सन्नत्ता इमस्स रुक्खस्स खन्धो सेतो, इमस्स काळो, इमस्स मट्ठो, इमस्स सकण्टको, इमस्स बहलत्तचो, इमस्स तनुत्तचो, इमस्स पत्तं वण्णसण्ठानादिवसेन एवरूपं, इमस्स पुप्फं नीलं पीतं लोहितं ओदातं सुगन्धं दुग्गन्धं, इमस्स फलं खुद्दकं महन्तं दीघं रस्सं वट्टं सुसण्ठानं दुस्सण्ठानं मुदुकं फरुसं सुगन्धं दुग्गन्धं मधुरं तित्तकं कटुकं अम्बिलं कसावं, इमस्स कण्टको तिखिणो कुण्ठो उजुको कुटिलो तम्बो काळो ओदातो होती’’तिआदिना पजानाति. सब्बञ्ञुबुद्धादीनं एव हि एतं बलं, न अञ्ञेसं.

नानाधिमुत्तिकतन्ति नानाअज्झासयतं. अधिमुत्ति नाम अज्झासयधातु अज्झासयसभावो. सो पन हीनपणीततासामञ्ञेन पाळियं द्विधाव वुत्तोपि हीनपणीतादिभेदेन अनेकविधोति आह ‘‘हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभाव’’न्ति. तत्थ तत्थ ये ये सत्ता यंयंअधिमुत्तिका, ते ते तंतदधिमुत्तिके एव सेवन्ति भजन्ति पयिरुपासन्ति धातुसभागतो. यथा गूथादीनं धातुसभावो एसो, यं गूथादीहि एव संसन्दन्ति समेन्ति, एवं (पुग्गलानं अज्झासयस्सेवेस सभावो, यं) (विभ. मूलटी. ८१३) हीनज्झासया दुस्सीलादीहि एव संसन्दन्ति समेन्ति, सम्पन्नसीलादयो च सम्पन्नसीलादीहेव. तं नेसं नानाधिमुत्तिकतं भगवा यथाभूतं पजानातीति.

वुद्धिञ्च हानिञ्चाति पच्चयविसेसेन सामत्थियतो अधिकतं अनधिकतञ्च. इन्द्रियपरोपरियत्तञाणनिद्देसे (विभ. ८१४; पटि. म. १.११३) ‘‘आसयं जानाति अनुसयं जानाती’’ति आसयादिजाननं कस्मा निद्दिट्ठन्ति? आसयजाननादिना येहि इन्द्रियेहि परोपरेहि सत्ता कल्याणपापासयादिका होन्ति, तेसं जाननस्स विभावनतो. एवञ्च कत्वा इन्द्रियपरोपरियत्तआसयानुसयञाणानं विसुं असाधारणता, इन्द्रियपरोपरियत्तनानाधिमुत्तिकताञाणानं विसुं बलता च सिद्धा होति. तत्थ आसयन्ति यत्थ सत्ता निवसन्ति, तं तेसं निवासट्ठानं दिट्ठिगतं वा यथाभूतञाणं वा आसयो. अनुसयो अप्पहीनभावेन थामगतो किलेसो. तं पन भगवा सत्तानं आसयं जानन्तो तेसं तेसं दिट्ठिगतानं, विपस्सनामग्गञाणानञ्च अप्पवत्तिक्खणेपि जानाति. वुत्तं हेतं –

‘‘कामं सेवन्तंयेव भगवा जानाति ‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’ति. कामं सेवन्तञ्ञेव जानाति ‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’ति. नेक्खम्मं सेवन्तञ्ञेव जानाति. ब्यापादं, अब्यापादं, थिनमिद्धं, आलोकसञ्ञं सेवन्तंयेव जानाति ‘अयं पुग्गलो थिनमिद्धगरुको थिनमिद्धासयो थिनमिद्धाधिमुत्तो’ति’’ (पटि. म. १.११३).

पठमादीनं चतुन्नं झानानन्ति रूपावचरानं पठमादीनं पच्चनीकझापनट्ठेन आरम्मणूपनिज्झानट्ठेन च झानानं. चतुक्कनयेन हेतं वुत्तं. अट्ठन्नं विमोक्खानन्ति एत्थ पटिपाटिया सत्त अप्पितप्पितक्खणे पच्चनीकधम्मेहि विमुच्चनतो आरम्मणे च अधिमुच्चनतो विमोक्खा नाम, अट्ठमो पन सब्बसो सञ्ञावेदयितेहि विमुत्तत्ता अपगमविमोक्खो नाम. चतुक्कनयपञ्चकनयेसु पठमझानसमाधि सवितक्कसविचारो नाम, पञ्चकनये दुतियज्झानसमाधि अवितक्कविचारमत्तो, नयद्वयेपि उपरि तीसु झानेसु समाधि अवितक्कअविचारो, समापत्तीसु पटिपाटिया अट्ठन्नं समाधीतिपि नामं, समापत्तीतिपि चित्तेकग्गतासब्भावतो, निरोधसमापत्तिया तदभावतो न समाधीति नामं. हानभागियधम्मन्ति अप्पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं कामादिअनुपक्खन्दनं. विसेसभागियधम्मन्ति पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं दुतियज्झानादिपक्खन्दनं. इति सञ्ञामनसिकारानं कामादिदुतियज्झानादिपक्खन्दनानि हानभागियविसेसभागियधम्माति दस्सितानि, तेहि पन झानानं तंसभावता धम्म-सद्देन वुत्ता. तस्माति वुत्तमेवत्थं हेतुभावेन पच्चामसति. वोदानन्ति पगुणतासङ्खातं वोदानं. तञ्हि पठमज्झानादीहि वुट्ठहित्वा दुतियज्झानादिअधिगमस्स पच्चयत्ता ‘‘वुट्ठान’’न्ति वुत्तं. ये (अ. नि. टी. ३.१०.२१) पन ‘‘निरोधतो फलसमापत्तिया वुट्ठानन्ति पाळि नत्थी’’ति वदन्ति, ते ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति इमाय पाळिया (पट्ठा. १.१.४१७) पटिसेधेतब्बा. यो समापत्तिलाभी समानो एव ‘‘न लभामह’’न्ति, कम्मट्ठानं समानं एव ‘‘न कम्मट्ठान’’न्ति सञ्ञी होति, सो सम्पत्तिंयेव समानं ‘‘विपत्ती’’ति पच्चेतीति वेदितब्बो.

१४९. अप्पनन्ति निगमनं. न तथा दट्ठब्बन्ति यथा परवादिना वुत्तं, तथा न दट्ठब्बं. सकसककिच्चमेव जानातीति ठानाट्ठानजाननादिं सकं सकंयेव किच्चं कातुं जानाति, यथासकमेव विसयं पटिविज्झतीति अत्थो. तम्पीति तेहि दसबलञाणेहि जानितब्बम्पि. कम्मन्तरविपाकन्तरमेवाति कम्मन्तरस्सविपाकन्तरमेव जानाति, चेतनाचेतनासम्पयुत्तधम्मे निरयादिनिब्बानगामिनिपटिपदाभूते कम्मन्ति गहेत्वा आह ‘‘कम्मपरिच्छेदमेवा’’ति. धातुनानत्तञ्च धातुनानत्तकारणञ्च धातुनानत्तकारणन्ति एकदेससरूपेकसेसो दट्ठब्बो. तञ्हि ञाणं तदुभयम्पि जानाति, ‘‘इमाय नाम धातुया उस्सन्नत्ता’’तिआदिना (विभ. अट्ठ. ८१२) तथा चेव संवण्णितं. सच्चपरिच्छेदमेवाति परिञ्ञाभिसमयादिवसेन सच्चानं परिच्छिन्दनमेव. अप्पेतुं न सक्कोति अट्ठमनवमबलानि विय तंसदिसं इद्धिविधञाणं विय विकुब्बितुं. एतेनस्स बलसदिसतञ्च निवारेति. झानादिञाणं विय वा अप्पेतुं विकुब्बितुञ्च. यदिपि हि ‘‘झानादिपच्चवेक्खणाञाणं सत्तमबल’’न्ति तस्स सवितक्कसविचारता वुत्ता, तथापि ‘‘झानादीहि विना पच्चवेक्खणा नत्थी’’ति झानादिसहगतं ञाणं तदन्तोगधं कत्वा एवं वुत्तन्ति वेदितब्बं. अथ वा सब्बञ्ञुतञ्ञाणं झानादिकिच्चं विय न सब्बं बलकिच्चं कातुं सक्कोतीति दस्सेतुं ‘‘झानं हुत्वा अप्पेतुं न सक्कोति इद्धि हुत्वा विकुब्बितुं न सक्कोती’’ति वुत्तं, न पन कस्सचि बलस्स झानइद्धिभावतोति दट्ठब्बं. एवं किच्चविसेसवसेनपि दसबलञाणसब्बञ्ञुतञ्ञाणानं विसेसं दस्सेत्वा इदानि वितक्कत्तिकभूमन्तरवसेनपि तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. पटिपाटियातिआदितो पट्ठाय पटिपाटिया.

अनुपदवण्णनं कत्वा वेदितब्बानीति सम्बन्धो. किलेसावरणं नियतमिच्छादिट्ठि, किलेसावरणस्स अभावो आसवक्खयाधिगमस्स ठानं, तब्भावो अट्ठानं, अनधिगमस्स पन तदुभयं यथाक्कमं अट्ठानञ्च ठानञ्चाति तत्थ कारणं दस्सेन्तो ‘‘लोकिय…पे… दस्सनतो चा’’ति आह. तत्थ लोकियसम्मादिट्ठिया ठिति आसवक्खयाधिगमस्स ठानं किलेसावरणाभावस्स कारणत्ता. सा हि तस्मिं सति न होति, असति च होति. एतेन तस्सा अट्ठितिया तस्स अट्ठानता वुत्ता एव. नेसं वेनेय्यसत्तानं. धातुवेमत्तदस्सनतोति कामधातुआदीनं पवत्तिभेददस्सनतो. यदग्गेन धातुवेमत्तं जानाति, तदग्गेन चरियाविसेसम्पि जानाति. धातुवेमत्तदस्सनतोति वा धम्मधातुवेमत्तदस्सनतो. सब्बापि हि चरिया धम्मधातुपरियापन्ना एवाति. पयोगं अनादियित्वापि सन्ततिमहामत्तादीनं (ध. प. १४२) विय. दिब्बचक्खुञाणानुभावतो पत्तब्बेनाति एत्थ दिब्बचक्खुना परस्स हदयवत्थुसन्निस्सयलोहितवण्णदस्सनमुखेन तदा पवत्तमानचित्तजाननत्थं परिकम्मकरणं नाम सावकानं, तञ्च खो आदिकम्मिकानं, यतो दिब्बचक्खुआनुभावतो चेतोपरियञाणस्स पत्तब्बता सिया, बुद्धानं पन यदिपि आसवक्खयञाणाधिगमतो पगेव दिब्बचक्खुञाणाधिगमो, तथापि तथा परिकम्मकरणं नत्थि विज्जात्तयसिद्धिया सिज्झनतो. सेसाभिञ्ञात्तये चेतोपरियञाणं दिब्बचक्खुञाणाधिगमेन पत्तन्ति च वत्तब्बतं लभतीति तथा वुत्तन्ति दट्ठब्बं.

पुन एवरूपिं वाचं न वक्खामीति चित्तं उप्पादेन्तो तं वाचं पजहति नाम. वाचाय पन सो अत्थो पाकटो होतीति ‘‘वदन्तो’’ति वुत्तं. दिट्ठिं न गण्हिस्सामीति दिट्ठिग्गाहपटिक्खेपो. दिट्ठिया अनुप्पादनं पजहनमेवाति आह ‘‘पजहन्तो’’ति. सो अरियूपवादी निरये ठपितोयेव, नास्स निरयूपपत्तिया कोचि विबन्धो एकंसिको अयमत्थोति अधिप्पायो.

अस्साति एकंसिकभावस्स. सिक्खाहि सीलसमाधिपञ्ञाहि, तदत्थाय विपस्सनाय च विना अञ्ञाराधनस्स असम्भवतो ‘‘लोकियलोकुत्तरा सीलसमाधिपञ्ञा वेदितब्बा’’ति वत्वा पुन आसन्नतरे सीलादिके दस्सेन्तो ‘‘लोकुत्तरवसेनेव विनिवत्तेतुम्पि वट्टती’’ति आह, तस्मा अग्गमग्गपरियापन्ना सीलादयो वेदितब्बा. अग्गमग्गट्ठस्स हि दिट्ठेव धम्मे एकंसिका अञ्ञाराधना, इतरेसं अनेकंसिकाति. सम्पज्जनं सम्पदा, निप्फत्तीति अत्थो, तस्मा एवंसम्पदन्ति एवंअविरज्झनकनिप्फत्तिकन्ति वुत्तं होति. तेनाह ‘‘इमम्पि कारण’’न्तिआदि. तत्थ कारणन्ति युत्ति. तत्रायं युत्तिनिद्धारणा ‘‘निरयूपगो अरियूपवादी तदादायस्स अविज्जमानतो सेय्यथापि मिच्छादिट्ठी’’ति. एत्थ च ‘‘तं वाचं अप्पहाया’’तिआदिवचनेन तदादायस्स अप्पहानेन च अरियूपवादो अन्तरायिको अनत्थावहो च, पहानेन पन अच्चयं देसेत्वा खमापनेन अनन्तरायिको अत्थावहो च यथा तं वुट्ठिता देसिता च आपत्तीति दस्सेति.

दसबलञाणवण्णना निट्ठिता.

चतुवेसारज्जञाणवण्णना

१५०. ब्यामोहभयवसेन (अ. नि. टी. २.४.८) सरणपरियेसनं सारज्जनं सारदो, ब्यामोहभयं, विगतो सारदो एतस्साति विसारदो, तस्स भावो वेसारज्जं. तं पन ञाणसम्पदं पहानसम्पदं देसनाविसेससम्पदं खेमं निस्साय पवत्तं चतुब्बिधं पच्चवेक्खणञाणं. तेनाह ‘‘चतूसु ठानेसू’’तिआदि. दस्सितधम्मेसूति वुत्तधम्मेसु. वचनमत्तमेव हि तेसं, न पन दस्सनं तादिसस्सेव धम्मस्स अभावतो. भगवता एव वा ‘‘इमे धम्मा अनभिसम्बुद्धा’’ति परस्स वचनवसेन दस्सितधम्मेसु. ‘‘धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७१८) विय धम्म-सद्दो हेतुपरियायोति आह ‘‘सहधम्मेनाति सहेतुना’’ति. हेतूति च उपपत्तिसाधनहेतु वेदितब्बो, न कारको सम्पापको च. अप्पमाणन्ति अनिदस्सनं. निदस्सनञ्हि अन्वयतो ब्यतिरेकतो पमाणङ्गताय ‘‘पमाण’’न्ति वुच्चति. निमित्तन्ति चोदनाय कारणं. तत्थ चोदको चोदनं करोतीति कारणं, धम्मो चोदनं करोति एतेनाति कारणं. तेनाह ‘‘पुग्गलोपी’’तिआदि. खेमन्ति केनचि अप्पटिबन्धियभावेन अनुपद्दुततं.

अन्तरायो एतेसं अत्थि, अन्तरायेवा युत्ताति अन्तरायिका. एवंभूता पन ते यस्मा अन्तरायकरा नाम होन्ति, तस्मा आह ‘‘अन्तरायं करोन्तीति अन्तरायिका’’ति. असञ्चिच्च वीतिक्कमो न तथा सावज्जोति कत्वा वुत्तं ‘‘सञ्चिच्च वीतिक्कन्ता’’ति. सत्त आपत्तिक्खन्धातिआदि निदस्सनमत्तं इतरेसम्पि चतुन्नं ‘‘अन्तरायिका’’ति वुत्तधम्मानं तब्भावे ब्यभिचाराभावतो. इध पन मेथुनधम्मो अधिप्पेतोति इदं अट्ठुप्पत्तिवसेन वुत्तं अरिट्ठसिक्खापदं (पाचि. ४१७-४२२) विय. यस्मा तङ्खणम्पि कामेसु (अ. नि. टी. २.४.८) आदीनवं दिस्वा विरत्तो (अ. नि. टी. २.४.८) होति चे, विसेसं अधिगच्छति, न कामेसु आसत्तो, तस्मा वुत्तं ‘‘मेथुनं…पे… अन्तरायो होती’’ति. तत्थ यस्स कस्सचीति न केवलं पब्बजितस्सेव, अथ खो यस्स कस्सचि. तथा हि वुत्तं ‘‘मेथुनमनुयुत्तस्स, मुस्सतेवापि सासन’’न्ति. तस्मिं अनिय्यानिकधम्मेति तस्मिं परेन परिकप्पितअनिय्यानिकधम्मनिमित्तं. निमित्तत्थे हि इदं कम्मसंयोगे भुम्मं.

चतुवेसारज्जञाणवण्णना निट्ठिता.

अट्ठपरिसवण्णना

१५१. पुरिसस्स सूरतरभावो नाम सङ्गामे पाकटो होति, न गेहे निसिन्नकाले, एवं वेसारज्जञाणस्स आनुभावो पण्डितपरिसासु यत्थ कत्थचीति दस्सेन्तो ‘‘वेसारज्जञाणस्स बलदस्सनत्थ’’न्ति आह. सन्निपतित्वा निसिन्नट्ठानन्ति ठानसीसेन सन्निपतितखत्तियपरिसमेव दस्सेति. एसेव नयो सब्बत्थाति अतिदेसेन आविभावितमत्थं दस्सेतुं ‘‘मारकायिकान’’न्तिआदि वुत्तं सदिसत्थविसयत्ता अतिदेसस्स. यथा हि खत्तियानं समूहो खत्तियपरिसाति अयमत्थो लब्भति, न एवं ‘‘मारपरिसा’’ति एत्थ, मारस्स परिसाति पन मारपरिसाति अयमत्थो अधिप्पेतो. तेनाह ‘‘मारकायिकानं…पे… न मारान’’न्ति. मारकायिकानन्ति मारपक्खियानं. उग्गट्ठानदस्सनवसेनाति सारज्जितब्बट्ठानदस्सनवसेन, एवं उग्गा खत्तिया अत्तनो पुञ्ञतेजेनाति अधिप्पायो. ब्राह्मणा तीसु वेदेसूति इदं इतरेसं अविसयदस्सनवसेन वुत्तं. वेदे सज्झायन्तापि हि खत्तिया वेस्सा च तदत्थविचारणाय येभुय्येन असमत्था एवाति. कस्मा पनेत्थ यामादिपरिसा न गहिताति? भुसं कामाभिगिद्धताय योनिसोमनसिकारविरहतो. यामादयो हि उळारुळारे कामे पटिसेवन्ता तत्थाभिगिद्धताय धम्मस्सवनाय सभावेन चित्तम्पि न उप्पादेन्ति, महाबोधिसत्तानं पन बुद्धानञ्च आनुभावेन आकड्ढियमाना कदाचि तेसं पयिरुपासनादीनि करोन्ति तादिसे महासमये. तेनेव हि विमानवत्थुदेसनापि तन्निमित्ता बहुला नाहोसि. मनुस्सानं वसेनायं कता.

परचक्कवाळेसु च मनुस्सानं विसेसाधिगमो नत्थीति पुच्छति ‘‘किं पन भगवा अञ्ञानि चक्कवाळानिपि गच्छती’’ति. इतरो यदिपि तेसं अरियधम्माधिगमो नत्थि, वासनाय पन तत्थ गन्त्वा धम्मं देसेतीति दस्सेन्तो ‘‘आमगच्छती’’ति आह. केयूरं नानाविधरतनपरिसिब्बितसुवण्णजालविनद्धं भुजाभरणं. अङ्गदं नानागन्धगन्धितं, केवलं वा सुवण्णमयं बाहुवलयं. छिन्नस्सराति द्विधाभूतस्सरा (दी. नि. टी. २.१७२) गग्गरस्सराति गग्गरिकाय विय गग्गरायमानखरस्सरा (दी. नि. टी. २.१७२; अ. नि. टी. ३.८.६९). भासन्तरन्ति तेसं भासं (दी. नि. टी. २.१७२; अ. नि. टी. ३.८.६९) सन्धायाह. ‘‘वीमंसा उप्पज्जती’’ति सङ्खेपतो वुत्तं विवरितुं ‘‘इदं वुत्तं होती’’तिआदि वुत्तं.

सङ्गम्माति समागन्त्वा. आदितो लापो आलापो, वचनपटिवचनवसेन समं लापो सल्लापो. सम्मा, समञ्ञा वा कथा संकथा, संकथाव साकच्छा.

अट्ठपरिसवण्णना निट्ठिता.

चतुयोनिवण्णना

१५२. यवन्ति ताय सत्ता अमिस्सितापि समानजातिताय मिस्सिता विय होन्तीति योनि. सा पन अत्थतो अण्डादिउप्पत्तिट्ठानविसिट्ठो खन्धानं भागसो पवत्तिविसेसोति आह ‘‘खन्धकोट्ठासो योनि नामा’’ति. अण्डे जाताति पठमाय जातिया वसेन वुत्तं, दुतियाय पन अण्डतो, अण्डे वा भिज्जमाने जाताति एवमत्थो वेदितब्बो. तेनाह ‘‘अभिनिब्भिज्ज जायन्ती’’ति. विनाति एतेहि अण्डादीहि बाहिरपच्चयेहि विना. उप्पतित्वा वियाति उप्पज्जनवसेन पतित्वा विय. बाहिरपच्चयनिरपेक्खत्तायेव वा उपपतने साधुकारिनो उपपातिका, ते एव इध ओपपातिकाति वुत्ता. आदि-सद्देन गब्भमले निब्बत्तमहापदुमकुमारादीनं सङ्गहो. निज्झामतण्हिकपेतानं निच्चं दुक्खातुरताय कामसेवना नत्थि, तस्मा ते गब्भसेय्यका न होन्ति, जालवन्तताय न तासं कुच्छियं गब्भो सण्ठाति, तस्मा ते ओपपातिकायेव संसेदजत्तायपि असम्भवतो. नेरयिका वियाति निदस्सनापदेसेन तेसम्पि ओपपातिकत्तं दीपेति. अवसेसाति निज्झामतण्हिकनेरयिके ठपेत्वा अवसेसा विनिपातिका. यक्खानं चातुमहाराजिकताय ओपपातिकभावे एव आपन्ने तं निवत्तेतुं ‘‘एवं यक्खापी’’ति वुत्तं. तथा हि ते न भुम्मदेवा न च विनिपातिकाति.

चतुयोनिवण्णना निट्ठिता.

पञ्चगतिवण्णना

१५३. गन्तब्बाति उपपज्जितब्बा. यथा हि कम्मभवो परमत्थतो असतिपि कारके पच्चयसामग्गिया सिद्धो तंसमङ्गिना सन्तानलक्खणेन सत्तेन कतोति वोहरीयति, तथा उपपत्तिभवलक्खणा गतियो परमत्थतो असतिपि गमके तंतंकम्मवसेन येसं तानि कम्मानि, तेहि गन्तब्बाति वोहरीयन्तीति. एवं सद्दत्थतो गतिं दस्सेत्वा अत्थुद्धारनयेनपि तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. येसु निरयादिभेदेसु उपपत्तिभवेसु गति-सद्दो निरूळ्हो, ततो अञ्ञत्थापि गतिसद्दप्पवत्ति अत्थि, तं एकेन गति-सद्देन विसेसेत्वा आह ‘‘गतिगती’’ति यथा ‘‘दुक्खदुक्खं, (सं. नि. ४.३२७) रूपरूप’’न्ति (विसुद्धि. २.४४९) च. उप्पादावत्थाय गमनं उपगमनन्ति ‘‘निब्बत्तिगती’’ति वुत्ता. गतिन्ति चित्तगतिं. तेनाह ‘‘अज्झासयगति नामा’’ति, अज्झासयप्पवत्तीति अत्थो. तदट्ठकथायं (म. नि. अट्ठ. २.५०३) पन ‘‘गतिन्ति निप्फत्ति’’न्ति अत्थो वुत्तो. ब्रह्मनिमन्तनसुत्ते (म. नि. १.५०३) हि अयं पाळीति. जुतिन्ति आनुभावं. विभवोति विनासो. सो हि विगमोति अत्थेन गति. तेनेव निब्बानं अरहतो गतीति (परि. ३३९) अनुपादिसेसनिब्बानं अरहतो गति विगमो विभवोति अनेकत्थत्ता धातूनं. द्वेयेव गतियोति द्वेव निप्फत्तियोति अत्थोति आह ‘‘अयं निप्फत्तिगति नामा’’ति.

यस्स उप्पज्जति, तं ब्रूहेन्तो एव उप्पज्जतीति अयो, सुखं. नत्थि एत्थ अयोति निरयो. ततो एव रमितब्बं अस्सादेतब्बं तत्थ नत्थीति दस्सेन्तो आह ‘‘निरतिअत्थेन निरस्सादट्ठेन निरयो’’ति. तिरियं अञ्चिताति देवमनुस्सादयो विय उद्धं दीघा अहुत्वा तिरियं दीघाभि अत्थो. पकट्ठतो सुखतो अयनं अपगमो पेच्चभावो, तं पेच्चभावं पत्तानं विसयोति पेतयोनिमेव वदति. मनसो उस्सन्नत्ताति सतिसूरभावब्रह्मचरिययोग्यतादिगुणवसेन उपचितमानसताय उक्कट्ठगुणचित्ततायाति अत्तो. अयं पनत्थो निप्परियायतो जम्बुदीपवासीवसेन वेदितब्बो. यथाह – ‘‘तीहि, भिक्खवे, ठानेहि जम्बुदीपिका मनुस्सा उत्तरकुरुके मनुस्से अधिग्गण्हन्ति देवे च तावतिंसे. कतमेहि तीहि? सूरा सतिमन्तो इध ब्रह्मचरियवासो’’ति (अ. नि. ९.२१). तेहि पन समानरूपादिताय सद्धिं परित्तदीपवासीहि इतरमहादीपवासिनोपि मनुस्सातेव पञ्ञायिंसु. लोकिया पन ‘‘मनुनो अपच्चभावेन मनुस्सा’’ति वदन्ति. अयमेत्थ सङ्खेपो, वित्थारो पन परमत्थदीपनियं विमानवत्थुसंवण्णनायं (वि. व. अट्ठ. ३) वुत्तनयेन गहेतब्बो. आनुभावेहीति देवानुभावसङ्खातेहि इद्धिविसेसेहि. तत्थ कामा देवा कामगुणेहि चेव इद्धिविसेसेहि च इतरे इद्धिविसेसेहेव दिब्बन्ति कीळन्ति जोतन्ति, सरणन्ति वा गम्मन्ति, अभित्थवियन्तीति वा देवाति.

तिरच्छानयोनिञ्चातिआदीसूति एत्थ तिरच्छानयोनिपेत्तिविसयग्गहणेन खन्धानं एव गहणं तेसं तादिसस्स परिच्छिन्नस्स ओकासस्स अभावतो. यत्थ वा ते अरञ्ञसमुद्दपब्बतादिके निबद्धवासं वसन्ति, तादिसस्स ठानस्स वसेन ओकासोपि गहेतब्बो. निरयूपगादीहि सत्तेहि मग्गितब्बतो मग्गो पटिपज्जितब्बा पटिपदा चाति तं तं कम्ममेव वुत्तन्ति आह ‘‘उभयेनपी’’तिआदि. यथा च पटिपन्नोति इमिना तस्स कम्मस्स कतूपचिताकारमाह. एत्थ च निरयगामिञ्च मग्गं निरयगामिनिञ्च पटिपदन्ति इमिना साधारणतो निरयसंवत्तनियं कम्मं वत्वा पुन तं तं सन्तानपतितताय असाधारणतं दस्सेतुं ‘‘यथापटिपन्नो’’तिआदि वुत्तन्ति दट्ठब्बं. विनिपतन्तीति विवसा, विरूपं वा निपतन्ति. कस्मा पनेत्थ पञ्चगतिपरिच्छेदकञाणं दस्सेन्तो भगवा ‘‘निब्बानञ्चाह’’न्तिआदिमाहाति अनुयोगं सन्धायाह ‘‘इदं पना’’तिआदि. न हि भगवा अत्तनो बुद्धसुबुद्धतं विभावेन्तो सावसेसं कत्वा देसनं देसेति.

पञ्चगतिवण्णना निट्ठिता.

ञाणपवत्ताकारवण्णना

१५४. ञाणप्पवत्ताकारन्ति ञाणस्स पवत्तिआकारं, ञाणस्स वा पवत्तिपकारं. एकन्तदुक्खाति एकन्तेन दुक्खा अच्चन्तदुक्खा. ता पन सब्बकालं दुक्खा सुखालयेनपि असम्मिस्साति दस्सेन्तो आह ‘‘निच्चदुक्खा निरन्तरदुक्खा’’ति. बहलाति अतनुका, महन्ताति अत्थो. तिब्बाति वा तिखिणा. खराति कक्खळा. कटुकाति वा अनिट्ठा. कस्सति खणीयतीति कासु, आवाटो. कसीयति चीयतीति कासु, रासि. फुनन्तीति द्वीहि हत्थेहि अङ्गारानि उक्खिपित्वा पटिवातं ओफुनन्ति, तेन तेसं सकलसरीरं डय्हति. तेनाह ‘‘परिदड्ढगत्ता’’ति. पुरिसप्पमाणं पोरिसं. एकपथेनेवाति एकमग्गभूतेनेव. अनुक्कमनीयेनाति उक्कमितुं अपक्कमितुं असक्कुणेय्येन.

ननु च दिब्बचक्खुञाणं पच्चुप्पन्नवण्णारम्मणं, तेन कथं रूपन्तरसमङ्गिं निरये निब्बत्तसत्तं ‘‘अयं सो’’ति जानातीति चोदनं सन्धायाह ‘‘तत्थ किञ्चापी’’तिआदि. यथाकम्मूपगञाणेन ‘‘अयं सो’’ति सल्लक्खेति, तस्स पन दिब्बचक्खुआनुभावेन पत्तब्बत्ता ‘‘दिब्बचक्खुबलं नाम एतन्ति वुत्तं.

पुरिमनयेनेवाति ‘‘गूथकूपो विय तिरच्छानयोनि दट्ठब्बा’’तिआदिना अङ्गारकासुपमायं वुत्तनयेनेव. दुक्खा वेदना बहुला एतासूति दुक्खबहुला. बहलपत्तपलासोति अविरळतनुविपुलपण्णो. सुखपरिभोगं महापासादं दस्सेतुं ‘‘दीघपासादो’’ति वुत्तं चतुरस्सपासादादीनं खुद्दकत्ता. उण्णामयअत्थरणेनाति उण्णामयलोहितअत्थरणेन. उत्तरं उपरिभागं छादेतीति उत्तरच्छदो, वितानं. तं पन लोहितवितानं इधाधिप्पेतन्ति ‘‘रत्तवितानेना’’ति वुत्तं.

अपरभागयोजनाति पाळियं ‘‘अपरेन समयेना’’ति वुत्तस्स अपरभागस्स योजना. सा पन एकदेसेन पुरिमभागे वुत्ते एव सुविञ्ञेय्या होतीति ‘‘यथा सो’’तिआदिमाह. मग्गारुळ्हमेवाति मग्गं उपगतमत्तमेव.

नियमाभावाति ‘‘दिब्बचक्खुनाव पस्सती’’ति नियमस्स अभावा. ‘‘दिब्बचक्खुनापि पस्सिस्सती’’ति इदं न अनुत्तरसुखानुभवनस्स दिब्बचक्खुगोचरत्ता वुत्तं, अनागतस्स पन तस्स दिब्बचक्खुपरिभण्डभूतेन अनागतंसञाणेन दस्सनमेवाति कारणूपचारेन वुत्तं. पाळियं पन ‘‘चेतसा चेतो परिच्च पजानामि’’च्चेव वुत्तं. ‘‘अत्थतो पन नाना होती’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘देवलोकसुखं ही’’तिआदिं वत्वा यथादस्सितउपमाहिपि अयमत्थो पाकटो एवाति दस्सेन्तो ‘‘उपमायम्पी’’तिआदिमाह. गोत्रभुञाणुप्पादतो पट्ठाय निरोधं पस्सित्वा उप्पन्नमग्गफलपच्चवेक्खणवसेन चेव परतो फलसमापत्तिसमापज्जनवसेन च अरियसावको निरोधे सयितो विय होति तदपस्सयेनेव पवत्तनतोति आह ‘‘निरोधसयनवरगत’’न्ति. तेनाह ‘‘निब्बाना…पे… पस्सती’’ति.

ञाणपवत्ताकारवण्णना निट्ठिता.

दुक्करकारिकादिसुद्धिवण्णना

१५५. पुच्छानुसन्धिआदिअनुसन्धित्तयतो अञ्ञत्ता ‘‘पाटियेक्कं अनुसन्धिवसेना’’ति वुत्तं. न केवलं ‘‘दुक्करकारिकाय सुद्धि होती’’ति एवंलद्धिको एव, अथ खो दुक्करचारीसु अभिप्पसन्नोति दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. चतुकुण्डिकोति द्वीहि पादेहि हत्थेहीति चतूहि अङ्गेहि कुण्डनको आहिण्डनको. छमानिकिण्णन्ति भूमियं खित्तं. भक्खसन्ति आहारं.

मच्छरियमलादिपापधम्मविगमनतो मेत्तादिगुणानुब्रूहनतो च ब्रह्मं सेट्ठं चरियन्ति ब्रह्मचरियं, दानं. तथा हि तं भगवता पण्डितपञ्ञत्तं वुत्तं. एवं सेसेसुपि यथारहं ब्रह्मचरियपरियायो निद्धारेत्वा वत्तब्बो. किन्ति कीदिसं. वतन्ति समादिन्नवतं. सुचिण्णस्साति सुट्ठु चिण्णस्स पुञ्ञस्स. इद्धीति आनुभावो. जुतीति वत्थाभरणोभाससमुज्जला सरीरप्पभा. बलवीरियूपपत्तीति कायबलेन चेव उस्साहेन च समन्नागमो.

तेन पाणि कामददोति तेन अद्धिकानं उपगच्छन्तानं हत्थं पसारेत्वा असय्हसेट्ठिनो दानट्ठानदस्सनमयेन पुञ्ञेन इदानि मय्हं हत्थो कप्परुक्खो विय कामददो इच्छितिच्छितदायी, कामददो होन्तो च मधुस्सवो इट्ठवत्थुविस्सज्जनको जातो. तेन मे ब्रह्मचरियेनाति तेन मम यथावुत्तकायवेय्यावटियकम्मसङ्खातेन सेट्ठचरियेन. पुञ्ञन्ति पुञ्ञफलं. तम्पि हि पुज्जसभावतो, उत्तरपदलोपेन वा ‘‘एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु (दी. नि. ३.८०) ‘‘पुञ्ञ’’न्ति वुच्चति.

पञ्च सिक्खापदानि समाहटानि पञ्चसिक्खापदं यथा ‘‘तिभवं, तिसकट’’न्ति च. ब्रह्मचरियस्मिन्ति धम्मदेसनाय. सा हि विनेय्यानं ब्रह्मभावावहनतो ब्रह्मं सेट्ठं चरियं, ब्रह्मुनो वा भगवतो वाचसिकं चरियन्ति ‘‘ब्रह्मचरिय’’न्ति वुच्चति.

सहस्सं मच्चुहायिनन्ति सहस्समत्ता अरहत्तसमधिगमेन मच्चुविसयातिक्कमेन मच्चुपहायिनो जाता. ब्रह्मचारी भविस्सामाति एत्थ येन ब्रह्मचरियेन ते ब्रह्मचारिनोति वुच्चन्ति, तं ब्रह्मचरियं निद्धारेत्वा आह ‘‘मेथुनविरति ब्रह्मचरियन्ति वुत्ता’’ति.

नातिक्कमामाति न अतिचराम अगमनीयट्ठानेपि इतरत्थापि न वीतिक्कमाम. तेनाह ‘‘अञ्ञत्र ताहि ब्रह्मचरियं चरामा’’ति. अम्हन्ति अम्हाकं.

अत्तदमनवसेनाति यथापटिञ्ञं अरहन्तानं अनुकरणाकारेन पवत्तचित्तदमनवसेन, मनच्छट्ठानं इन्द्रियानं दमनेनाति अत्थो. सिखाप्पत्तसेट्ठचरियताय अरियमग्गो ब्रह्मचरियं. ब्रह्मं सेट्ठं चरति एतेनाति ब्रह्मचरियं, सत्थुसासनं.

अतरमानानन्ति न तरमानानं देसकालं उदिक्खन्तानं. फलासाव समिज्झतीति सुदुल्लभफलेपि आसा सम्मापयोगमन्वाय समिज्झति एव. विपक्कब्रह्मचरियोस्मीति विसेसेन निप्फन्नपणीतज्झासयो परिपुण्णउळारमनोरथो. सो हि सेट्ठमनोसमाचारताय ब्रह्मचरियपरियायेन वुत्तो.

इदमेव सुत्तं आगतट्ठानन्ति अधिप्पायो तेपिटके बुद्धवचने इदमेव सुत्तपदं ‘‘वीरियं ब्रह्मचरिय’’न्ति आगतट्ठानन्ति अत्थो. वीरियञ्हि तस्मिं विसये उत्तमं परमुक्कंसगतं तादिसचरियाहेतु चाति ब्रह्मचरियन्ति इध वुत्तं. चतुरङ्गसमन्नागतन्ति चतुब्बिधदुक्करकिरियाय साधकस्स चतुब्बिधस्स अत्तनो पवत्तिआकारस्स वसेन चतुरङ्गसमन्नागतं.

कोचि छिन्नभिन्नपटपिलोतिकधरो दसन्तयुत्तस्स वत्थस्स अभावतो निच्चेलोति वत्तब्बतं लभेय्याति तं निवत्तेन्तो आह ‘‘नग्गो’’ति. एवं अकासिं, एवम्पि सत्तपीळा मा अहोसीति अधिप्पायो. यथा ‘‘अभिहटं न सादियामी’’तिआदि (म. नि. १.१५५) भिक्खापरियेसने उक्कट्ठचारितादस्सनं, एवं ‘‘नएहि भद्दन्तिकादिभावोपी’’ति गहेतब्बं. पुरिसन्तरगतायाति पुरिससमीपगताय. संकित्तीयन्ति एतायाति संकित्ति, गामवासिआदीहि समुदायवसेन करियमानकिरिया. इध पन भत्तसंकित्ति अधिप्पेताति आह ‘‘संकित्तेत्वा कतभत्तेसू’’ति. ददन्ति तायाति दत्ति. एकाहं अन्तरभूतं एतस्स अत्थीति एकाहिकं. एस नयो सेसपदेसुपि. एकाहवारेनाति एकाहिकवारेन. ‘‘एकाहिक’’न्तिआदिना वुत्तविधिमेव पटिपाटिया पवत्तभावं दस्सेतुं पुन वुत्तं. तेनाह ‘‘इति एवरूप’’न्तिआदि.

एरकतिणादीनि वाति एरकतिणादीनि गन्थित्वा कतनिवासनानि छवदुस्सानि, निहीनदुस्सानीति अत्थो. तन्तावुतानन्ति तन्तं पसारेत्वा वीतानं. पकतिकण्टकेति सलाककण्टके.

१५६. नेकवस्सगणसञ्जातन्ति अनेकवस्ससमूहसञ्जातं. ननु च इदानेव ‘‘सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो’’ति वुत्तं, ‘‘नेकवस्सगणिकं रजोजल्लं काये सन्निचित’’न्ति च, तदुभयं एकस्मिं कथं सम्भवतीति आह ‘‘इदं अत्तनो रजोजल्लकवतसमादानकालं सन्धाय वदती’’ति. एतेनेव ‘‘अचेलको होमी’’ति वुत्तअचेलकपटिञ्ञा, ‘‘साणानिपि धारेमी’’तिआदिना वुत्तछन्नकपटिञ्ञा, तत्थापि साण-मसाण-छवदुस्सादि-निवत्थ-पटिञ्ञा च अविरुद्धाति दट्ठब्बा तस्मिं तस्मिं काले तथा तथा पटिपन्नत्ता. तेति अचेलका. सङ्घातन्ति सब्बसो घातं. तेनाह ‘‘वध’’न्ति. सीलवा नाम नत्थि ‘‘अनभिसन्धिकम्पि पापं होती’’ति एवं लद्धिकत्ता. सीलं अधिट्ठायाति इदं पटिक्कमनकिरियं सन्धाय वुत्तं.

पासण्डपरिग्गहणत्थायाति पासण्डेसु असारसारभाववीमंसनत्थाय. तं पब्बज्जन्ति आजीवकपब्बज्जं. विकटभोजनेति विकतभोजने विरूपभोजने. तेनाह ‘‘अपकतिभोजने’’ति.

१५७. भिंसनकतस्मिन्ति भावसाधनभावी इदं पदन्ति आह ‘‘भिंसनकतस्मिं भिंसनककिरियाया’’ति. ‘‘भिंसनकत्तस्मि’’न्ति वत्तब्बे एकस्स त-कारस्स लोपो दट्ठब्बो. येभुय्यग्गहणं लोमवन्तवसेनपि योजेतब्बं, न लोमवसेनाति आह ‘‘बहुतरानं वा’’तिआदि.

सु-सद्दे उ-कारस्स ओ-कारं कत्वा पाळियं ‘‘सोतत्तो’’ति वुत्तन्ति तदत्थं विवरन्तो ‘‘सुतत्तो’’ति आह. सुट्ठु अवतत्तोति वा सोतत्तो. सोसिन्नोति एत्थापि एसेव नयो. सुद्धिवसनत्थायाति संसारसुद्धिगवेसनत्थाय.

विहारस्मिन्ति पच्चत्ते भुम्मवचनन्ति आह ‘‘विहारो एव हि ‘विहारस्मि’न्ति वुत्तो’’ति. तेनेव चाति तेनेव विभत्तिविपल्लासवसेन. एवं अत्थोति अयं एवं लिङ्गविपल्लासवसेन अत्थो वेदितब्बो. दुक्खप्पत्तोति आनेत्वा सम्बन्धो. सब्बत्थाति सुखदुक्खे लाभालाभादिके च. तुलितोति तुलासदिसो.

दुक्करकारिकादिसुद्धिवण्णना निट्ठिता.

आहारसुद्धिवण्णना

१५८. सुज्झितुन्ति संसारतो सुज्झितुं.

१५९. आसीतिकपब्बानीति आसीतिकपिट्ठिपब्बानि, ‘‘काळपब्बानी’’ति वदन्ति. पब्बानं मज्झे. उन्नतुन्नतानीति मंसे मिलाते द्विन्नं सन्धीनं अन्तरे वातेनुद्धुमातधमनीजालताय उन्नतानि उन्नतानीति. आनिसदन्ति आनिसदट्ठानं. निसिन्नट्ठानन्ति पंसूहि, वालिकाहि वा निचितं निसिन्नट्ठानं. सरपोङ्खेनाति सरस्स पोङ्खप्पदेसेन, सरपोङ्खसञ्ञितेन वा मग्गेन. अक्कन्तन्ति अक्कन्तट्ठानं. तक्कगोळिकसदिसानं, सरीरघंसनत्थं कत कुरुविन्दगोळकानं वा आवळि वट्टनाहारो. वंसतोति पिट्ठिवंसतो. मण्डलेति भित्तिपादानं मत्थके ठपितमण्डलके सीसग्गेन पतिट्ठहन्ति. न एवं फासुळियोति यथा यथा वुत्तगोपानसियो पपता तिट्ठन्ति, न एवं बोधिसत्तस्स फासुकापि पपता ठिता.

ओक्खायिकाति अवक्खायिका, हेट्ठा हुत्वा निन्नभावेन पञ्ञायमाना. एवरूपाति यथावुत्तरूपा, निन्नतराति अत्थो. याव पिट्ठिकण्टकं अल्लीना होतीति मय्हं उदरच्छवि याव पिट्ठिकण्टकं, ताव तं आहच्च ठितत्ता अल्लीना होति उदरियस्स परिक्खयेन अन्तानञ्च सुट्ठुमिलातताय. भारियभारियाति गरुतरा. सहउदरच्छविं पिट्ठिकण्टकं, सहपिट्ठिकण्टकं उदरच्छविन्ति योजना. नेव निक्खमति आहारसन्निस्सयआपोधातुया सब्बसो विसुक्खत्ता. पूतिमूलानीति लोममूलानं परिब्रूहनके मंसे लोहिते च परिक्खीणे तानि सुक्खानि ठानतो भट्ठानि अभावेनेव ‘‘पूतिमूलानी’’ति वुत्तानि. तेनाह ‘‘तस्स पना’’तिआदि.

अधिगताति इदानि अधिगता. यथा एतरहि विपस्सनापञ्ञाय अधिगतत्ताति इमिना किञ्चापि महाबोधिसत्ता परिपाकगतञाणा वसीभूतज्झानाभिञ्ञा विपस्सनाय परिकम्मं करोन्ति, यथा च नेसं चरिमभवे विपस्सनाचारो, न तथा तदाति दस्सेति. एतदेवाति यं येन वुत्तं अत्थजातं, एतदेव एत्थ एतस्मिं पाठपदेसे युत्तं पुब्बेनापरं अविरुज्झनतो. इतरथाति भिक्खूहि वुत्तप्पकारेन अननुरूपो सिया ‘‘इमिस्सा’’ति वुत्ताय अञ्ञत्ते.

आहारसुद्धिवण्णना निट्ठिता.

संसारसुद्धिआदिवण्णना

१६०. संसारेनाति अपरापरं चवनुपपज्जनवसेन भवेसु संसरणेन. यं सन्धाय वुत्तं –

‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;

अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति. (विसुद्धि. २.६१९; दी. नि. अट्ठ. २.९५; सं. नि. अट्ठ. २.२.६०; अ. नि. अट्ठ. २.४.१९९; ध. स. अट्ठ. निदानकथा; विभ. अट्ठ. २२६; सु. नि. अट्ठ. २.५२३; उदा. अट्ठ. ३९; इतिवु. अट्ठ. १४, ५८; थेरगा. अट्ठ. १.६७, ९९; बु. वं. अट्ठ. ५८; चूळनि. अट्ठ. ६; पटि. म. अट्ठ. २.१.११७; विसुद्धि. महाटी. १.१२७; अ. नि. टी. २.४.९; सारत्थ. टी. १.१);

बहुकन्ति बहुकालं बहुक्खत्तुं. उपपज्जित्वाति तत्थ तत्थ भवे निब्बत्तित्वा. आवासेनाति तस्मिं तस्मिं सत्तावासे आवसनेन निब्बत्तित्वा जीवनेन. खन्धायेव वुत्ता तेसंयेव पवत्तिविसेसस्स तेन तेन परियायेन वुत्तत्ता. बहुयागेति अजसूकरगोमाय्वादिके बहुविधे महायञ्ञे. बहुअग्गीति वाचापेय्यादिवसेन अन्तमसो पाकयञ्ञादिवसेन च बहुकेपि अग्गी परिचरणेन.

१६१. बालदारकोपि ‘‘दहरो’’ति वुच्चतीति ततो विसेसनत्थं ‘‘युवा’’ति वुत्तं. अतिक्कन्तपठमवया सत्ता सभावेन पलितसिरा होन्तीति पठमवये ठितभावं दस्सेतुं ‘‘सुसुकाळकेसो’’ति वुत्तं. जराजिण्णोति जराय जिण्णो, न अकालिकेन जराय अभिभूतो. उक्कंसगतबुद्धताय वुद्धो. तेनाह ‘‘वड्ढित्वा ठितअङ्गपच्चङ्गो’’ति, आरोहपरिणाहवसेन वुद्धिरहितोति अत्थो. जातिमहल्लकोति जातिया महल्लको, न भोगपरिवारादीहीति अत्थो. अद्धगतोति एत्थ अद्ध-सद्दो दीघकालवाचीति आह ‘‘बहुअद्धानं गतो’’ति. वयोतिआदिपदलोपेनायं निद्देसोति आह ‘‘पच्छिमवय’’न्ति. पदसतम्पि…पे… समत्थताति पदसतम्पि पदसहस्सम्पि सोतपथमागच्छन्तमेव उग्गहणसमत्थता परिग्गहेतुं समत्थता. अयञ्च गतिया ब्यापारोति सक्का विञ्ञातुं गहणमत्तभावतो. तदेवाति पदसतम्पि पदसहस्सम्पि. आधारणं अपिलापनवसेन हदये धारणं. उपनिबन्धनं यथा न पमुट्ठं होति, तथा उपेच्च अपरापरं निबन्धनं. अयं पन सतिया ब्यापारोति सक्का विञ्ञातुं. पाळियञ्च ‘‘परमाय गतिया च सतिया च धितिया चा’’ति वुत्तं, परतो च ‘‘एवं अधिमत्तगतिमन्तो’’ति वुत्तं. समत्थवीरियं धिति नामाति विसिट्ठविसयं दस्सेन्तो यथावुत्तसतिसमायोगं तस्स दीपेति. तस्साति यथावुत्तगतिसतिधितीहि सुभधातवचीपरिचितस्स परियत्तिधम्मस्स आगमवसेन अत्थदस्सनसमत्थता युत्तिवसेन कारणदस्सनसमत्थता.

दळ्हं (अ. नि. टी. ३.९.३८) थिरं धनु एतस्साति दळ्हधन्वा, सो एव इध ‘‘दळ्हधम्मा’’ति वुत्तो. पटिसत्तुविधमनत्थं धनुं गण्हातीति धनुग्गहो, सो एव उसुं सरं असति खिपतीति इस्सासोति आह ‘‘धनुं गहेत्वा ठितो इस्सासो’’ति. द्विसहस्सपलं लोहादिभारं वहितुं समत्थं द्विसहस्सथामं. तेनाह ‘‘द्विसहस्सथामं नामा’’तिआदि. दण्डेति धनुदण्डे. याव कण्डप्पमाणाति दीघतो यत्तकं कण्डस्स पमाणं, तत्तके धनुदण्डे उक्खित्तमत्ते आरोपितो चेव होति जियादण्डो, सो च भारो पथवितो मुच्चति, एवं इदं ‘‘द्विसहस्सथामं नाम धनूति दट्ठब्बं. उग्गहितसिप्पोति उग्गहितधनुसिप्पो. कतहत्थोति थिरतरं लक्खेसु अविरज्झनसरक्खेपो. ईदिसो पन तत्थ वसीभूतो कतहत्थो नाम होतीति आह ‘‘चिण्णवसीभावो’’ति. कतं राजकुलादीसु उपेच्च असनं एतेन सो कतूपासनोति आह ‘‘राजकुलादीसु दस्सितसिप्पो’’ति. एवं कतन्ति एवं अन्तोसुसिरकरणादिना सल्लहुकं कतं.

ओलोकेतीति उदिक्खति. एवं सन्तेपि तेसं वारो पञ्ञायतीति तेसं भिक्खूनं ‘‘अयं पठमं पुच्छति, अयं दुतिय’’न्तिआदिना पुच्छनवारो तादिसस्स पञ्ञवतो पञ्ञायति सुखुमस्स अन्तरस्स लब्भनतो. बुद्धानं पन वारोति ईदिसे ठाने बुद्धानं देसनावारो अञ्ञेसं नपञ्ञायनतो बुद्धानंयेव पञ्ञायति. इदानि तमेव पञ्ञायनतं युत्तितो दस्सेन्तो ‘‘विदत्थिचतुरङ्गुलछाय’’न्तिआदिमाह. अच्छरासङ्घाटमत्ते खणे अनेक-कोटिसहस्स-चित्तपवत्तिसम्भवतो ‘‘विदत्थिचतुरङ्गुलछायं अतिक्कमनतो पुरेतरंयेव भगवा…पे… कथेती’’ति वत्वा ततो लहुतरापि सत्थु देसनापवत्ति अत्थेवाति दस्सेन्तो ‘‘तिट्ठन्तु वा ताव एते’’तिआदिमाह. इदानि तत्थ कारणं दस्सेतुं ‘‘कस्मा’’तिआदि वुत्तं. सोळस पदानि कथेतीति एतेन लोकियजनस्स एकपदुच्चारणक्खणे भगवा अट्ठवीससतपदानि कथेतीति दस्सेति. इदानि तस्सपि कारणं दस्सेतुं ‘‘कस्मा’’तिआदि वुत्तं.

धम्मोति पाळि. पज्जति अत्थो एतेनाति पदं, तदत्थो. अत्थं ब्यञ्जेतीति ब्यञ्जनं, अक्खरं. तञ्हि पदवाक्यक्खरभावेहि परिच्छिज्जमानं तं तं अत्थं ब्यञ्जेति पकासेति. तेनाह ‘‘धम्मपदब्यञ्जनन्ति पाळिया पदब्यञ्जनं, तस्स तस्स अत्थस्स ब्यञ्जनकं अक्खर’’न्ति. एतेन अपरापरेहि पदब्यञ्जनेहि सुचिरम्पि कालं कथेन्तस्स तथागतस्स न कदाचि तेसं परियादानं अत्थीति दस्सेति. पञ्हं ब्याकरोन्ति एतेनाति पञ्हब्याकरणं, तथापवत्तपटिभानं. अपरिक्खयपटिभाना हि बुद्धा भगवन्तो, यतो वुत्तं ‘‘नत्थि धम्मदेसनाय हानी’’ति (दी. नि. टी. ३.१४१, ३०५; विभ. मूलटी. १.सुत्तन्तभाजनीयवण्णना). तेनाह ‘‘इमिना किं दस्सेती’’तिआदि. तथा आसन्नपरिनिब्बानस्सपि भगवतो देसनाय इतराय च विसेसातावोति पठमबुद्धवचनम्पि मज्झिमबुद्धवचनम्पि पच्छिमबुद्धवचनम्पि सदिसमेव. आसीतिकवस्सतो परं पञ्चमो आयुकोट्ठासो.

१६२. कामञ्चेत्थ भगवता नागसमालत्थेरस्स अच्छरियअब्भुतपवेदनमुखेन अत्तनो लोमानं हट्ठभावस्स पवेदितत्ता ‘‘लोमहंसनपरियायो’’ति नामं गहितं, तथापि सब्बञ्ञुतञ्ञाणादि-अनञ्ञसाधारणञाणानुभाव-विभावनादिवसेन सोळससमूहतो सीहनादस्स नदनेन देसनाय पवत्तितत्ता ‘‘महासीहनादो’’त्वेव सङ्गीतिकारमहाथेरेहि नामं ठपितन्ति दट्ठब्बं.

महासीहनादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

३. महादुक्खक्खन्धसुत्तवण्णना

१६३. ततो परन्ति तिण्णं जनानं उपरि सङ्घो चतुवग्गकरणीयादिकम्मेहि पटिकम्मप्पत्तत्ता. गामं गतोति वुच्चति गामं उद्दिस्स गतत्ता, एवं सावत्थिं पविसितुं विहारतो निक्खन्ता ‘‘पविसिंसू’’ति वुत्ता. परिञ्ञन्ति पहानपरिञ्ञं. सा हि समतिक्कमो, न इतरा. रूपवेदनासुपीति ‘‘रूपानं परिञ्ञं, वेदनानं परिञ्ञ’’न्ति एत्थापि. कामं सब्बेसं तित्थियानं कामादिपरिञ्ञापञ्ञापनहेतुभूतो समयो नत्थि, येसं पन अत्थि, ते उपादाय ‘‘सकसमयं जानन्ता’’ति वुत्तं. ‘‘यतो यतो खो भो अयं भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति, एत्तावता खो भो कामानं परिञ्ञा होती’’ति एवं सरूपतो पठमज्झानं विभावेतुं असक्कोन्तापि केवलं अच्चन्तप्पहानसञ्ञाय कामानं परिञ्ञं पञ्ञपेय्युं पठमज्झानं वदमाना. तं किस्स हेतु? तादिसस्स आगमाधिगमस्साभावतो. रूपवेदनापरिञ्ञासुपि एसेव नयो. वुच्चेथाति वुच्चेय्य. दुतियपदेपीति ‘‘अनुसासनिया वा अनुसासनि’’न्ति एवं वुत्तवाक्येपि. ते किर भिक्खू.

१६५. चेव सम्पायिस्सन्तीति न चेव सम्मदेव पकारेहि गमेस्सन्ति ञापेस्सन्ति. तेनाह ‘‘सम्पादेत्वा कथेतुं न सक्खिस्सन्ती’’ति. यस्मा अविसये पञ्हो पुच्छितो होति, तस्मा आपज्जिस्सन्तीति योजना. सदेवकेति अरूपदेवग्गहणं. ते हि लोकियदेवेहि दीघायुकतादिना उक्कट्ठा. समारकेति कामावचरदेवग्गहणं. सब्रह्मकेति रूपावचरब्रह्मग्गहणं. सस्समणब्राह्मणियाति एत्थ समणग्गहणेन पब्बजिते, ब्राह्मणग्गहणेन जातिब्राह्मणे, पुन देवग्गहणेन सम्मुतिदेवे, मनुस्सग्गहणेन अवसिट्ठमनुस्सकायं परियादियति. लोकपजाग्गहणेन पन पयोजनं अट्ठकथायं दस्सितमेव. अञ्ञथा आराधनं नाम नत्थीति इमिना कामरूपवेदनासु अस्सादादीनं याथावतो अवबोधो एव इतो बाहिरकानं नत्थि, कुतो पवेदनाति दस्सेति.

१६६. चित्ताराधनन्ति याथावपवेदनेन परेसं चित्तस्स परितोसनं. बन्धनट्ठेन गुणाति कामरागसंयोजनस्स पच्चयभावेन वत्थुकामेसुपि बन्धनट्ठो वुत्तो, कोट्ठासट्ठो वा गुणट्ठो दट्ठब्बो. तरयन्तीति तरमाना यन्ति गच्छन्ति. अतीतादिभिन्नपठमादिवया एव चित्तता रासिभावेन वयोगुणाति गहिताति आह ‘‘रासट्ठो गुणट्ठो’’ति. चक्खुविञ्ञेय्याति वा चक्खुविञ्ञाणतंद्वारिकविञ्ञाणेहि विजानितब्बा. सोतविञ्ञेय्यातिआदीसुपि एसेव नयो. इट्ठारम्मणभूताति सभावेनेव इट्ठारम्मणजातिका, इट्ठारम्मणभावं वा पत्ता. कमनीयाति कामेतब्बा. मनवड्ढनकाति मनोहरा. एतेन परिकप्पनतोपि इट्ठभावं गण्हाति. पियजातिकाति पियायितब्बसभावा. कामूपसंहिताति कामरागेन उपेच्च सन्धानिया सम्बद्धा (अ. नि. टी. ३.६.६३) कातब्बाति आह ‘‘आरम्मणं कत्वा’’ति.

१६७. सञ्ञं ठपेत्वाति ‘‘इमस्मिं अङ्गुलिकादिपब्बे गहिते सतं होति, इमस्मिं सहस्स’’न्तिआदिना सञ्ञाणं कत्वा गणना. अच्छिद्दगणनाति ‘‘एकं द्वे’’तिआदिना नवन्तविधिना निरन्तरगणना. पिण्डगणनाति सङ्कलनपटुप्पादनादिना पिण्डित्वा गणना. तेनाह ‘‘खेत्तं ओलोकेत्वा’’तिआदि. कसनं कसीति कसिग्गहणेन सब्बो कसिपटिबद्धो जीविकूपायो गहितोति आह ‘‘कसीति कसिकम्म’’न्ति. जङ्घवणिज्जाति जङ्घसत्थवसेन वणिज्जं आह, थलवणिज्जाति सकटसत्थवसेन. आदि-सद्देन नावापणादिवसेन वोहारं. वणिप्पथोति वणिजमग्गो, दानग्गहणवसेन संवोहारोति अत्थो. उसूनं असनकम्मं इस्सत्तं, धनुसिप्पेन जीविका, इध पन इस्सत्तं वियाति इस्सत्तं, सब्बआवुधजीविकाति आह ‘‘आवुधं गहेत्वा उपट्ठानकम्म’’न्ति. पोरोहिच्चामच्चकम्मादि राजकम्मं. आदि-सद्देन रथसिप्पखत्तविज्जासिप्पादि-वुत्तावसेसं महासिप्पं खुद्दकसिप्पञ्च सङ्गण्हाति. सीतस्स पुरक्खतोति सीतस्स पुरतो कतो. यो हि सीतकाले जीविकाहेतु सीतलपदेसं पक्खन्दति, सो वाळमिगादीहि विय सीतेन परिपातियमानो तेन पुरतो कतो विय होति. तेनाह ‘‘सीतेन बाधियमानो’’ति. उण्हस्स पुरक्खतोति एत्थापि एसेव नयो. सरित्वाति संसप्पित्वा. घट्टियमानोति हिंसियमानो बाधियमानो. आबाधनं आबाधो, पीळाति अत्थो. कामहेतुन्ति वा भावनपुंसकनिद्देसो यथा ‘‘विसमं चन्दिमसूरिया परिवत्तन्ती’’ति (अ. नि. ४.७०). तथा सेसपदद्वयेपि. तेनेवाह ‘‘कामानमेव हेतू’’ति. कामानं हेतूति एत्थ पुरिमपदावधारणमयुत्तं तदञ्ञपच्चयपटिक्खेपापत्तितो, तथा उत्तरपदावधारणं कामानं कदाचि अहेतुभावस्सपि सम्भवतो, तस्मा ‘‘उप्पज्जतियेवा’’ति वुत्तं.

उट्ठहतोति इमिना उट्ठानवीरियं वुत्तन्ति आह ‘‘आजीवसमुट्ठापकवीरियेना’’ति. तं वीरियन्ति आजीविकसमुट्ठापकवीरियं. पुब्बेनापरं घटेन्तस्साति आरम्भतो पट्ठाय निरन्तरं पवत्तेन्तस्स. चित्ते उप्पन्नबलवसोकेन सोचतीति चित्तसन्तापेन अन्तो निज्झायति. काये उप्पन्नदुक्खेनाति तस्सेव सोकस्स वसेन काये उप्पन्नदुक्खेन. सोकुद्देसेन तं तं विप्पलपेन्तो वा परिदेवति. उरं ताळेत्वाति वक्खप्पदेसं पहरित्वा. ‘‘मोघ’’न्तिआदि परिदेवनाकारदस्सनञ्चेव सम्मोहापज्जनाकारदस्सनञ्च. मेति वत्वा पुन नोति पुथुवचनं अत्तनो उभयथापि वोहरितब्बतो, ब्यामूळ्हवचनं वा सोकवसेन.

१६८. इध कामग्गहणेन विसेसतो वत्थुकामा गहिताति कामादिग्गहणं कतं, नानन्तरियताय पन किलेसकामोपि गहितो एव. असिचम्मन्ति एत्थ चम्मग्गहणेन न केवलं चम्ममयस्स, चम्मपरिसिब्बितस्सेव वा गहणं, अथ खो सब्बस्सपि आवुधबाधकस्स गहणन्ति दस्सेन्तो ‘‘खेटकफलकादीनी’’ति आह. आदि-सद्देन सरादिसङ्गहो. धनुकलापं सन्नय्हित्वाति धनुञ्चेव खुरप्पतूणिञ्च सन्नय्हित्वा, धनुदण्डस्स जियाय तथाभावकरणादिपि (अ. नि. टी. ३.५.७६) धनुनो सन्नय्हनन्ति. द्विन्नं सेनानं ब्यूहसंविधानेन वा उभतोब्यूळ्हं. विज्जोतलन्तेसूति निसितपीतफलताय विज्जोतनवसेन परिवत्तमानेसु.

पाकारसमीपातिसङ्खारताय पाकारपादा उपकारियो, या ‘‘उद्दापा’’ति वुच्चन्ति. सतदन्तेनाति अनेकसतदन्तकेन, यस्स तिखिणदन्तानि अनेकसतानि मूलानि होन्ति. अतिभारताय दसवीसमत्तापि जना उक्खिपितुं न सक्कोन्ति, यन्तवसेन पन उक्खिपित्वा बन्धित्वा ठपेन्ति. तेनाह ‘‘अट्ठदन्ताकारेना’’तिआदि. ओमद्दन्तीति ओट्ठपेन्ति.

१६९. सन्धिम्पि छिन्दन्ति चोरिकाय जीवितुकामा. निल्लोपन्ति निस्सेसविलोपं, एकं परित्तं गामं परिवारेत्वा तत्थ किञ्चिपि गय्हूपगं असेसेत्वा करमरग्गहणं. तेनाह ‘‘महाविलोप’’न्ति. पन्थदुहनकम्मं अटविमग्गे ठत्वा अद्धिकानं विलुम्पनं. पहारसाधनत्थं (अ. नि. टी. २.२.१) दण्डप्पहारस्स सुखसिद्धिअत्थं. कञ्जितो निब्बत्तं कञ्जियं, आरनालं. यं ‘‘बिलङ्ग’’न्तिपि वुच्चति, तं यत्थ सिञ्चति, सा कञ्जियउक्खलिका. बिलङ्गथालिकसदिसकरणं बिलङ्गथालियं. सीसकपालं उप्पाटेत्वाति अयोगुळपवेसनप्पमाणं छिद्दं कत्वा. सङ्खमुण्डकम्मकारणन्ति सङ्खं विय मुण्डकम्मकारणं.

राहुमुखकम्मकारणन्ति राहुमुखगत-सूरियसदिस-कम्मकारणं. जोतिमालिकन्ति जोतिमालवन्तं कम्मकारणं. हत्थपज्जोतिकन्ति हत्थपज्जोतनकम्मकारणं. एरकवत्तकम्मकारणन्ति एरकवत्तसदिसे सरीरतो बद्धे उप्पाटनकम्मकारणं. चीरकवासिककम्मकारणन्ति सरीरतो उप्पाटितबद्धचीरकाहि निवासापनकम्मकारणं. तं करोन्ता यथा गीवतो पट्ठाय बद्धे कन्तित्वा कटियमेव ठपेन्ति, एवं गोप्फकतो पट्ठाय कन्तित्वा कटियमेव ठपेन्ति. अट्ठकथायं पन ‘‘कटितो पट्ठाय कन्तित्वा गोप्फकेसु ठपेन्ती’’ति वुत्तं. एणेय्यककम्मकारणन्ति एणीमिगसदिसकम्मकारणं. अयवलयानि दत्वाति अयवलयानि पटिमुञ्चित्वा. अयसूलानि कोट्टेन्तीति कप्परजण्णुककोटीसु अयसूलानि पवेसेन्ति. न्ति तं तथाकतकम्मकारणं सत्तं.

बळिसमंसिकन्ति बळिसेहि मंसुप्पाटनकम्मकारणं. कहापणिकन्ति कहापणमत्तसो छिन्दनकम्मकारणं. कोट्टेन्तीति छिन्दन्ति. खारापतच्छिकन्ति तच्छेत्वा खारावसिञ्चनकम्मकारणं. पलिघपरिवत्तिकन्ति पलिघस्स विय परिवत्तनकम्मकारणं. एकाबद्धं करोन्ति अयसूलस्स कोट्टनेन. पलालपीठकन्ति पलालपीठस्स विय सरीरस्स संवेल्लनकम्मकारणं. कारणिकाति घातनकारका. पलालवट्टिं विय कत्वाति यथा पलालपीठं करोन्ता पलालवट्टिं कत्वा संवेल्लनवसेन नं (अ. नि. टी. २.२.१) वेठेन्ति, एवं करोन्तीति अत्थो. छातकेहीति बुभुक्खितेहि कोलेय्यकसुनखेहि. बलवन्तो हि ते जवयोग्गा सूरा च होन्ति. कम्मवसेन सम्परेति एत्थाति सम्परायो, परलोको. तत्थ भवोति सम्परायिको.

१७०. छन्दरागो विनीयति चेव पहीयति च एत्थाति निब्बानं छन्दरागविनयो छन्दरागप्पहानञ्चाति. तेनाह ‘‘निब्बानञ्ही’’ति. तत्थ आगम्माति इदं यो छन्दरागं विनेति पजहति, तस्स आरम्मणं सन्धाय वुत्तं. तीहि परिञ्ञाहीति इमिना ञाततीरणपरिञ्ञाहि परिजानिस्सन्तीति नेतं ठानं विज्जति. को पन वादो पहानपरिञ्ञायाति दस्सेति? तथभावायाति परिजाननकभावाय.

१७१. अपरित्तेनाति अहीनेन. विपुलेनाति महता. यदि वण्णसम्पत्तिदस्सनत्थं, वण्णदसकं कस्मा न गहितन्ति आह ‘‘मातुगामस्स ही’’तिआदि. भोजनसम्पदादीनं अलाभेपीति दस्सनत्थं ‘‘दुग्गतकुले निब्बत्तस्सपी’’ति वुत्तं. थोकं थोकं वण्णायतनं पसीदति मंसस्स परिब्रूहनतो थनमंसानि वड्ढन्ति जायन्ति. वण्णेति हदयङ्गतभावं पकासेन्तो विय होतीति वण्णो. सो एव सामग्गोपभोगादिना निभातीति निभा. तेनाह ‘‘वण्णनिभाति वण्णोयेवा’’ति.

भोग्गन्ति अतिविय वङ्कताय भोग्गं. तादिसं पन सरीरं भग्गं विय होतीति आह ‘‘भग्ग’’न्ति. तेनाह ‘‘इमिनापिस्स वङ्कभावमेव दीपेती’’ति. दन्तानं छिन्नभिन्नताय एकच्चानं पतनेन च खण्डितदन्तं. केसानं सेतवण्णताय पलितन्ति आह ‘‘पण्डरकेस’’न्ति. केसानं मत्तसो सियने खल्लाटवोहारोति बहुसो सियनं सन्धायाह ‘‘महाखल्लाटसीस’’न्ति. वस्ससतिककाले उप्पज्जनतिलकानि सन्धायाह ‘‘तिलकाहतगत्त’’न्ति. तानि पन कानिचि सेतानि होन्ति कानिचि काळानीति आह ‘‘सेतकाळतिलकेही’’ति. ब्याधिकन्ति सञ्चातब्याधिं. बाळ्हगिलानन्ति मारणन्ति कगेलञ्ञेन गिलानं.

१७३. तस्मिं समयेति तस्मिं झानं उपसम्पज्ज विहरणसमये. न चेतेतीति न अभिसन्दहति. ब्याबाधनट्ठेन ब्याबाधो, ब्याबाधोव ब्याबज्झं, नत्थि एत्थ ब्याबज्झन्ति अब्याबज्झं, दुक्खरहितं. तेनाह ‘‘निद्दुक्खमेवा’’ति.

१७४. अनिच्चादिआकारोति अनिच्चाकारो दुक्खाकारो विपरिणामाकारो चलादिआकारो च.

महादुक्खक्खन्धसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

४. चूळदुक्खक्खन्धसुत्तवण्णना

१७५. सक्केसूति एत्थ यं वत्तब्बं, तं सतिपट्ठानसुत्तवण्णनायं वुत्तनयेनेव वेदितब्बन्ति तं एकदेसेन दस्सेन्तो ‘‘सो ही’’ति आह. तत्थ येन राजकुमारा सक्या नाम जाता, यतो तेसं निवासट्ठानताय जनपदो तथा वुच्चति, तं वत्तब्बन्ति आह ‘‘सक्यानं पन उप्पत्ति अम्बट्ठसुत्ते आगतावा’’ति. कपिलवत्थूति वुत्तं पुरिमसञ्ञावसेन.

नानप्पकारकन्ति ‘‘लोभधम्मा’’ति बहुवचनस्स निमित्तं वदति. लोभो हि तेन तेन अवत्थाविसेसेन पवत्तिआकारभेदेन ‘‘छन्दो रागोतण्हा आसत्ति अपेक्खा’’तिआदिना अनेकप्पभेदो, लुब्भनलक्खणेन पन ‘‘लोभो’’त्वेव वुच्चति. तेनाह ‘‘नानप्पकारकं लोभंयेवा’’ति. तथा ‘‘दोसो पटिघो कोधो उपनाहो विरोधो’’तिआदिना, ‘‘मुय्हनं असमपेक्खनं अपच्चवेक्खणा दुम्मेज्झं बाल्य’’न्तिआदिना (ध. स. ३९०) च दोसमोहानं नानप्पकारतं सन्धायाह ‘‘इतरेसुपि द्वीसु एसेव नयो’’ति. परियादियित्वाति परितो सब्बसो आदाय. गहेत्वाति अयमेत्थ अत्थोति आह ‘‘गहणे आगत’’न्ति. परियादियतीति परिक्खीणोति. दी-सद्दञ्हि सद्दविदू खयत्थं वदन्ति.

एकदाति आमेडितलोपेन निद्देसोति आह ‘‘एकेकस्मिं काले’’ति. लोभदोसमोहाति पठममग्गेन पहीनावसेसा लोभदोसमोहा. निरवसेसा पहीयन्ति, अञ्ञथा दुतियमग्गेन किं कतं सियाति अधिप्पायो. समुदाचारप्पत्तं पन दिस्वा ‘‘अप्पहीनं मे अत्थी’’तिपि जानाति. एवं कथं निरवसेसप्पहानसञ्ञाति आह ‘‘अप्पहीनकं…पे… सञ्ञी होती’’ति. एवं पठममग्गेनेव समुच्छिन्नसंसयस्स ‘‘को सु नाम मे धम्मो अज्झत्तं अप्पहीनोति एवं सन्धेहो कथं उप्पज्जती’’ति वत्वा ‘‘पण्णत्तिया अकोविदत्ता’’ति कारणमाह. विनयकुक्कुच्चं विय हि पण्णत्तियं अकुसलताय अरियानम्पि कत्थचि विमतिमत्तं उप्पज्जति यथा तं सब्बसो अप्पहीनसम्मोहानन्ति. अत्तनो अविसये अनभिजाननं पण्णत्तिकोसल्लेन किमेत्थ पयोजनं, पच्चवेक्खणामत्तेन अयमत्थो सिज्झतीति दस्सेन्तो ‘‘किं तस्स पच्चवेक्खणा नत्थी’’ति आह. इतरो ‘‘नत्थी’’ति न सक्का वत्तुन्ति कत्वा ‘‘अत्थी’’ति वत्वा तत्थ लब्भमानविभागं दस्सेन्तो ‘‘सा पना’’तिआदिमाह. तत्थ साति पच्चवेक्खणा. सब्बेसन्ति सब्बेसं अरियानं. यथा परिपुण्णा न होति, न एवं सब्बसो न होतीति आह ‘‘इमासु पना’’तिआदि.

१७६. अज्झत्तन्ति नियकज्झत्तं अधिप्पेतन्ति आह ‘‘तव सन्ताने’’ति. अप्पहीनोति अनवसेसतो अप्पहीनो. दुविधेति वत्थुकामकिलेसकामे. किलेसकामोपि हि यदग्गेन अस्सादीयति, तदग्गेन परिभुञ्जीयति.

१७७. अस्सादीयतीति अस्सादो, सुखं. अप्पो अप्पमत्तको अस्सादो एतेसूति अप्पस्सादा. तेनाह ‘‘परित्तसुखा’’ति. परियेसनदुक्खादिहेतुकं दिट्ठधम्मिकं तत्थ दुच्चरितचरणेन सम्परायिकञ्च दुक्खमेत्थ कामेसु बहुकन्ति बहुदुक्खा. बहुपायासाति बहुपरिक्किलेसा. ते पन परिक्किलेसा वक्खमाननयेन बहूयेवेत्थ दिट्ठधम्मिकापीति आह ‘‘दिट्ठधम्मिक…पे… बहू’’ति. ते च परिक्किलेसा यस्मा तंसमङ्गिनो हितपटिपत्तिया अन्तरायकरा इध चेव परलोके च आदीनवकारणञ्च पवत्तन्ति, तस्मा वुत्तं ‘‘दिट्ठधम्मिक…पे… बहू’’ति. एवं चेपीति एवं ‘‘अप्पस्सादा कामा’’तिआदिना आकारेन. नयेनाति धम्मेन. कारणेनाति युत्तिया. सुट्ठु दिट्ठं होतीति सम्बन्धो. विपस्सनापञ्ञायाति अरियमग्गपञ्ञाय. सा चत्तारिपि सच्चानि विसेसतो पस्सतीति विपस्सनाति अधिप्पेता. तेनाह ‘‘हेट्ठामग्गद्वयञाणेनाति अत्थो’’ति. पीतिसुखन्ति पीतिसुखवन्तं झानद्वयं. द्वे मग्गेति हेट्ठामग्गे. आवट्टनसीलो आभुजनसीलो न होतीति अनावट्टी नेव होति सब्बसो अप्पहीनकामरागछन्दो. तेनाह ‘‘कस्मा’’तिआदि. ओरोधनाटका पजहनपञ्ञाति आदीनवानुपस्सनाञाणमाह.

१७९. अस्सादोपि कथितो, ‘‘अप्पस्सादा’’ति हि इमिना यावतको कामेसु अस्सादो, तं सब्बं अनवसेसतो परिग्गहेत्वा चस्स परित्तभावो दस्सितोति आदीनवोपि कथितो सङ्खेपेनेव सेसस्सआदीनवस्स दस्सितत्ता. तं कथेतुन्ति तं निस्सरणं ‘‘एकन्तसुखपटिसंवेदी’’ति इमिना कथेतुं. इमेहि अन्तेहीति ‘‘पञ्चिमे, महानाम, कामगुणा’’तिआदिना कामगुणदस्सनमुखेन कामसुखल्लिकानुयोगं ‘‘उब्भट्ठका होन्ति आसनपटिक्खित्ता’’तिआदिना अत्तकिलमथानुयोगञ्च दस्सेत्वा इमेहि द्वीहि अन्तेहि मुत्तं मम सासनन्ति, फलसमापत्तिपरियोसानत्ता सासनसम्पत्तिया ‘‘उपरिफलसमापत्तिसीसेन सकलसासनं दस्सेतु’’न्ति आह. गिज्झसदिसो कूटोति मज्झेपदलोपीसमासो यथा ‘‘साकपत्थिवो’’ति (पाणिनि. २.१.६०). दुतिये पनेत्थ गिज्झवन्तताय गिज्झा कूटे एतस्साति गिज्झकूटो. उद्धंयेव तिट्ठनका निसज्जाय वुट्ठितकालतो पट्ठाय एकट्ठानेनेव तिट्ठनका. तेनाह ‘‘अनिसिन्ना’’ति. निगण्ठस्साति नाटपुत्तस्स. नत्थि एतस्स परिसेसन्ति अपरिसेसं. एवं सङ्खाभवचनमत्तमस्साति आह ‘‘अपरिसेससङ्खात’’न्ति. निच्चट्ठेन सतत-सद्देन अभिण्हप्पवत्ति जोतिता सियाति ‘‘समित’’न्ति वुत्तं. तेन निरन्तरप्पवत्तिं दस्सेतीति एवं वा एत्थ अत्थो दट्ठब्बो.

१८०. यं करोति, तं जानातीति दुक्खस्स निज्जरणखेपनं नाम विञ्ञूनं किच्चं, विञ्ञुना च पुरिसेन कताकतं जानितब्बं, तस्मा तुम्हेहि पुराणानं कम्मानं ब्यन्तिभावं करोन्तेहि पठमं ताव एत्तकानि पुराणानि कम्मानीति जानितब्बानि, ततो ‘‘एत्तकं कालं कतेन तपसा एत्तकानि तानि ब्यन्तिकतानि, इदानि एत्तकानि कातब्बानी’’तिआदिना अयं विधि पुरिसेन विय अत्तना कातब्बकिच्चं परिच्छिन्दितब्बन्ति दस्सेति. तेनाह ‘‘तुम्हेहिपि तथा ञातब्बं सिया’’ति. सुद्धन्तन्ति सुद्धकोट्ठासं, आयतिं अनवस्सवसिद्धं कम्मक्खयं, ततो वा दुक्खक्खयन्ति अत्थो. सुद्धन्तं पत्तो अत्थीति पुच्छतीति इमिना अकुसलानं पहानं, कुसलानं भावना च सब्बेन सब्बं निगण्ठसमये नत्थि सब्बसो विसुद्धिभावनाय अभावतो, तस्मा कुतो दुक्खक्खयस्स सम्भवोति दस्सेति.

एवं अजाननभावे सतीति ‘‘अहुवम्हेव मय’’न्तिआदिना वुत्तप्पकारस्स अजानने सति, तस्मिं तुम्हेहि अञ्ञायमानेति अत्थो. लुद्दाति घोरा. ते पन यस्मा कायवाचाहि निहीनमेव करोन्ति, तस्मा वुत्तं ‘‘लुद्दाचारा’’ति. लोहितपाणित्वेव वुच्चति तज्जाकिरियाचरणतो. मागविककेवट्टचोरघातकादयो मागविकादयो. कक्खळकम्माति फरुसकम्मा. ते निगण्ठेसु पब्बजन्तीति पुब्बे महादुक्खसंवत्तनियकम्मस्स कतत्ता हि तुम्हे एतरहि ईदिसं महादुक्खं पच्चनुभवथाति दस्सेति.

वादेति दिट्ठियं, समयेति अत्थो. सुखेन सुखन्ति एत्थ सुखेनाति पटिपत्तिसुखेन, सुखाय पटिपत्तियाति अत्थो. सुखन्ति विमोक्खसुखं, इध लोके सुखं अधिगच्छन्ता कसिवणिज्जादिदुक्खपटिपत्तियाव अधिगच्छन्ति, एवं मोक्खसुखम्पीति अधिप्पायो. सरीरावयवसम्पत्तियापि बिम्बिनो सारोति बिम्बिसारो. ते निगण्ठा…पे… सन्धाय वदन्ति, न पन भगवतो अच्चन्तसन्तपणीतं निब्बानसुखपटिवेदनं जानन्ति. सहसाति रवा. अप्पटिसङ्खाति न पटिसङ्खाय अविचारेत्वा. तेनाह ‘‘साहसं कत्वा’’तिआदि.

अञ्ञाहि वेदनाहि अवोमिस्सं एकन्तं सुखं एकन्तसुखं, तस्स पटिसंवेदी. तेनाह ‘‘निरन्तरसुखपटिसंवेदी’’ति. कथापतिट्ठापनत्थन्ति ‘‘एकन्तसुखपटिसंवेदी’’ति एवं आरद्धकथाय पतिट्ठापनत्थं. राजवारेति राजानं उद्दिस्स आगतदेसनावारे. सुखं पुच्छितुं होतीति ‘‘यदि सत्त रत्तिन्दिवानि नप्पहोति, किं छ रत्तिन्दिवानि पहोती’’तिआदिना पुच्छनसुखं होति. ‘‘अहं खो’’तिआदिना पवत्तो सुद्धवारो सुद्धनिस्सन्दस्स फलसमापत्तिसुखस्स वसेन आगतत्ता. अनच्छरियं होति, सत्त रत्तिन्दिवानि पहोन्तस्स एकस्मिं रत्तिन्दिवे किं वत्तब्बन्ति. उत्तानत्थमेव वुत्तनयत्ता सुविञ्ञेय्यत्ता.

चूळदुक्खक्खन्धसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

५. अनुमानसुत्तवण्णना

१८१. वुत्तानुसारेनाति ‘‘कुरूसु, सक्केसू’’ति च एत्थ वुत्तनयानुसारेन, ‘‘भग्गा नाम जानपदिनो राजकुमारा’’तिआदिना नयेन वचनत्थो वेदितब्बोति अत्थो. वत्थुपरिग्गहदिवसेति नगरमापनत्थं वत्थुविज्जाचरियेन नगरट्ठानस्स परिग्गण्हनदिवसे. अथाति पच्छा. नगरे निम्मितेति तत्थ अनन्तरायेन नगरे मापिते. तमेव सुसुमारगिरणं सुभनिमित्तं कत्वा ‘‘सुसुमारगिरि’’त्वेवस्स नामं अकंसु. सुसुमारसण्ठानत्ता सुसुमारो नाम एको गिरि, सो तस्स नगरस्स समीपे, तस्मा तं सुसुमारगिरि एतस्स अत्थीति ‘‘सुसुमारगिरी’’ति वुच्चतीति केचि. भेसकळाति वुच्चति घम्मण्डगच्छं, केचि ‘‘सेतरुक्ख’’न्ति वदन्ति, तेसं बहुलताय पन तं वनं भेसकळावनन्तेव पञ्ञायित्थ. भेसो नाम एको यक्खो अयुत्तकारी, तस्स ततो गळितट्ठानताय तं वनं भेसगळावनं नाम जातन्ति केचि. अभयदिन्नट्ठाने जातं विरूळ्हं, संवद्धन्ति अत्थो.

इच्छापेतीति यं किञ्चि अत्तनि गरहितब्बं वत्तुं सब्रह्मचारीनं इच्छं उप्पादेति, तदत्थाय तेसं अत्तानं विस्सज्जेतीति अत्थो. पठमं दिन्नो हितूपदेसो ओवादो, अपरापरं दिन्नो अनुसासनी. पच्चुप्पन्नातीतविसयो वा ओवादो, अनागतविसयो अनुसासनी. ओतिण्णवत्थुको ओवादो, इतरो अनुसासनी. सो चाति एवं पवारेता सो भिक्खु. दुक्खं वचो एतस्मिं विप्पटिकूलग्गाहे विपच्चनीकसाते अनादरे पुग्गलेति दुब्बचो. तेनाह ‘‘दुक्खेन वत्तब्बो’’ति. उपरि आगतेहीति ‘‘पापिच्छो होती’’तिआदिना (म. नि. १.१८१) आगतेहि सोळसहि पापधम्मेहि. पकारेहि आवहं पदक्खिणं, ततो पदक्खिणतो गहणसीलो पदक्खिणग्गाही, न पदक्खिणग्गाही अप्पदक्खिणग्गाही. वामतोति अपसब्यतो, वुत्तविपरियायतोति अधिप्पायो.

असन्तसम्भावनपत्थनानन्ति असन्तेहि अविज्जमानेहि गुणेहि सम्भावनस्स पत्थनाभूतानं. पटि-सद्दो पच्चत्तिकपरियायो, फरणं वायमनं इध तथावट्ठानन्ति आह ‘‘पटिप्फरतीति पटिविरुद्धो पच्चनीको हुत्वा तिट्ठती’’ति. अपसादेतीति खिपेति तज्जेति. तथाभूतो च परं घट्टेन्तो नाम होतीति आह ‘‘घट्टेती’’ति. पटिआरोपेतीति यादिसेन वुत्तो, तस्स पटिभागभूतं दोसं चोदकस्स उपरि आरोपेति.

पटिचरतीति (अ. नि. टी. २.३.६८) पटिच्छादनवसेन चरति पवत्तति, पटिच्छादनत्थो एव वा चरति-सद्दो अनेकत्थत्ता धातूनन्ति आह ‘‘पटिच्छादेती’’ति. अञ्ञेनञ्ञन्ति पटिच्छादनाकारदस्सनन्ति आह ‘‘अञ्ञेन कारणेना’’तिआदि. तत्थ अञ्ञं कारणं वचनं वाति यं चोदकेन चुदितकस्स दोसविभावनं कारणं, वचनं वा वुत्तं, ततो अञ्ञेनेव कारणेन, वचनेन वा पटिच्छादेति. कारणेनाति चोदनाय अमूलिकभावदीपनिया युत्तिया. वचनेनाति तदत्थबोधनेन. को आपन्नोतिआदिना चोदनं अविस्सज्जेत्वा विक्खेपापज्जनं अञ्ञेनञ्ञं पटिचरणन्ति दस्सेति, बहिद्धा कथाअपनामनं विस्सज्जेत्वाति अयमेव तेसं विसेसो. तेनाह ‘‘इत्थन्नाम’’न्तिआदि.

अपदीयन्ति दोसा एतेन रक्खीयन्ति, लूयन्ति, छिज्जन्तीति वा अपदानं, (अ. नि. टी. २.३.२) सत्तानं सम्मा, मिच्छा वा पवत्तपयोगो. तेनाह ‘‘अत्तनो चरियाया’’ति.

१८३. अनुमिनितब्बन्ति अनु अनु मिनितब्बो जानितब्बो. अत्तानं अनुमिनितब्बन्ति च इदं पच्चत्ते उपयोगवचनं. तेनाह ‘‘अनुमिनितब्बो तुलेतब्बो तीरेतब्बो’’ति. अत्तानं अनुमिनितब्बन्ति वा अत्तनि अनुमानञाणं पवत्तेतब्बं. तत्रायं नयो – अप्पियभावावहा मयि पवत्ता पापिच्छता पापिच्छाभावतो परस्मिं पवत्तपापिच्छता विय. एस नयो सेसधम्मेसुपि. अपरो नयो – सब्रह्मचारीनं पियभावं इच्छन्तेन पापिच्छता पहातब्बा सीलविसुद्धिहेतुभावतो अत्तुक्कंसनादिप्पहानं विय. सेसधम्मेसुपि एसेव नयो.

१८४. पच्चवेक्खितब्बोति ‘‘न पापिच्छो भविस्सामि, न पापिकानं इच्छानं वसं गतो’’तिआदिना पति पति दिवसस्स तिक्खत्तुं वा ञाणचक्खुना अवेक्खितब्बं, ञाणं पवत्तेतब्बन्ति अत्थो. पापिच्छतादीनं पहानं पति अवेक्खितब्बं, अयञ्च अत्थो तब्ब-सद्दस्स भावत्थतावसेन वेदितब्बो, कम्मत्थतावसेन पन अट्ठकथायं ‘‘अत्तान’’न्ति पच्चत्ते उपयोगवचनं कत्वा वुत्तं. सिक्खन्तेनाति तिस्सोपि सिक्खा सिक्खन्तेन. तेनाह ‘‘कुसलेसु धम्मेसू’’ति.

तिलकन्ति काळतिलसेततिलादितिलकं. सब्बप्पहानन्ति सब्बप्पकारप्पहानं. फले आगतेति फले उप्पन्ने. निब्बाने आगतेति निब्बानस्स अधिगतत्ता. भिक्खुपातिमोक्खन्ति ‘‘सो समणो, स भिक्खू’’ति एवं वुत्तभिक्खूनं पातिमोक्खं, न उपसम्पन्नानं एव न पब्बजितानं एवाति दट्ठब्बं. यस्मा चिदं भिक्खुपातिमोक्खं, तस्मा वुत्तं ‘‘इदं दिवसस्स तिक्खत्तु’’न्तिआदि. अपच्चवेक्खितुं न वट्टति अत्तविसुद्धिया एकन्तहेतुभावतो.

अनुमानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

६. चेतोखिलसुत्तवण्णना

१८५. चेतो तेहि खिलयति थद्धभावं आपज्जतीति चेतोखिला. तेनाह ‘‘चित्तस्स थद्धभावा’’ति. यस्मा तेहि उप्पन्नेहि चित्तं उक्लापीजातं ठानं विय अमनुञ्ञं खेत्तं विय च खाणुकनिचितं अमहप्फलं होति. तेन वुत्तं ‘‘कचवरभावा खाणुकभावा’’ति. ‘‘चित्तस्सा’’ति आनेत्वा सम्बन्धितब्बं. चित्तं बन्धित्वाति तण्हापवत्तिभावतो कुसलचारस्स अवसरचजनवसेन चित्तं बद्धं विय समोरोधेत्वा. तेनाह ‘‘मुट्ठियं कत्वा विय गण्हन्ती’’ति. सद्दत्थतो पन चेतो विरूपं निबन्धीयति संयमीयति एतेहीति चेतसो विनिबन्धा यस्स चतुब्बिधं सीलं अखण्डादिभावप्पत्तिया सुपरिसुद्धं विसेसभागियत्ता अप्पकसिरेनेव मग्गफलावहं महासङ्घरक्खितत्थेरस्स विय, सो तादिसेन सीलेन इमस्मिं धम्मविनये वुद्धिं आपज्जिस्सतीति आह ‘‘सीलेन वुद्धि’’न्ति. यस्स पन अरियमग्गो उप्पज्जन्तो विरूळ्हमूलो विय पादपो सुप्पतिट्ठितो, सो सासने विरूळ्हिं आपन्नोति आह ‘‘मग्गेन विरूळ्हि’’न्ति. यो सब्बसो किलेसनिब्बानप्पत्तो, सो अरहा सीलादिधम्मक्खन्धपारिपूरिया सतिवेपुल्लप्पत्तो होतीति आह ‘‘निब्बानेन वेपुल्ल’’न्ति. दुतियविकप्पे अत्थो वुत्तनयानुसारेन वेदितब्बो.

बुद्धानं धम्मकायो विय रूपकायोपि अनञ्ञसाधारणताय अनुत्तरगुणाधिट्ठानताय च अपच्चक्खकारीनं संसयवत्थु होतियेवाति ‘‘सरीरे वा गुणे वा कङ्खती’’ति वुत्तं. तत्थ यथा महापुरिसलक्खणेन अनुब्यञ्जनादयो रूपकायगुणा गहिता एव होन्ति अविनाभावतोति ‘‘द्वत्तिंसवरलक्खणप्पटिमण्डित’’मिच्चेव वुत्तं, एवं अनावरणञाणेन सब्बेपि अनन्तापरिमेय्यभेदा धम्मकायगुणा गहिता एव होन्तीति सब्बञ्ञुतञ्ञाणग्गहणमेव कतं नानन्तरियभावतोति दट्ठब्बं. कङ्खहीति ‘‘अहो वत ते गुणा न भवेय्युं, भवेय्युं वा’’ति पत्थनुप्पादनवसेन कङ्खति. पुरिमो हि विपरीतज्झासयो, इतरो यथाभूतञाणज्झासयो. विचिनन्तोति विचयभूताय पञ्ञाय ते विवेचेतुकामो तदभावतो किच्छं दुक्खं आपज्जति, किच्छप्पत्ति च तत्थ निच्छेतुं असमत्थतायेवाति आह ‘‘विनिच्छेतुं न सक्कोती’’ति. विगता चिकिच्छाति विचिकिच्छा. अधिमोक्खं न पटिलभतीति ‘‘एवमेत’’न्ति ओकप्पनवसेन गुणेसु विनिच्छयं नाधिगच्छति. ओतरित्वाति ञाणेन अनुपविसित्वा. पसीदितुन्ति ‘‘पसन्नरूपधम्मकायगुणेहि भगवा’’ति पसीदितुं. अनाविलो अकालुस्सो होतुं न सक्कोति. ‘‘कङ्खती’’ति इमिना दुब्बला विमति वुत्ता, ‘‘विचिकिच्छती’’ति इमिना मज्झिमा, ‘‘नाधिमुच्चती’’ति इमिना बलवती, ‘‘न सम्पसीदती’’ति इमिना तिविधायपि विमतिया वसेन उप्पन्नचित्तकालुस्सियं वुत्तन्ति दट्ठब्बं.

आतप्पायातिआदितो तपति सन्तपति किलेसेति आतप्पं, आरम्भधातु, तदत्थाय. अनुयोगायाति यथा संकिलेसधम्मानं अवसरो न होति, एवं अनु अनु युञ्जनं अनुयोगो, निक्कमधातु, तदत्थाय. तेनाह ‘‘पुनप्पुनं योगाया’’ति. सातच्चायाति यथा उपरूपरि विसेसाधिगमो होति, तथा सततस्स निरन्तरपवत्तस्स अनुयोगस्स भावो सातच्चं, परक्कमधातु, तदत्थाय. पधानायाति सन्तमेवं तिविधधातुसंवड्ढितानुभावं सब्बकिलेसविद्धंसनसमत्थं पधानसङ्खातं वीरियं, तदत्थाय. एत्थ च आतप्पाय चित्तं न नमति यथावुत्तकङ्खावसेन, पगेव अनुयोगादिअत्थन्ति दस्सेतुं चत्तारिपि पदानि गहितानि, अनवसेसविसेसदस्सनत्थं वा. केचि पन ‘‘आतप्पवेवचनानेव अनुयोगादिपदानी’’ति वदन्ति. एत्तावता भगवा सत्थरि कङ्खाय चित्तस्स थद्धकचवरखाणुकभावेन अकुसलभावादिआपादनतो चेतोखिलभावं दस्सेति. सेसेसुपि एसेव नयो.

सिक्खाग्गहणेन पटिपत्तिसद्धम्मस्स गहितत्ता वुत्तं ‘‘परियत्तिधम्मे च पटिवेधधम्मे चा’’ति. परियत्तिधम्मे यत्थ कङ्खाय सम्भवो, तं दस्सेतुं ‘‘चतुरासीति धम्मक्खन्धसहस्सानी’’तिआदि वुत्तं. तयिदं निदस्सनमत्तं दट्ठब्बं परम्पराय पटिवेधावहभावादिवसेनपि एकच्चानं तत्थ संसयुप्पत्तितो. यथा च पटिवेधे कङ्खा वुत्ता, एवं अधिगमधम्मेपि पवत्ततीति वेदितब्बा. तथा हि एकच्चे ‘‘कसिणादिभावनाय झानानि इज्झन्ती’’ति वदन्ति. ‘‘कसिणनिस्सन्दो आरुप्पाति, मेत्तादिनिस्सन्दो चतुत्थब्रह्मविहारो’’ति एवमादिना कङ्खतियेवाति. एत्थ च नवलोकुत्तरेसु पञ्ञत्तियंयेव कङ्खापवत्ति वेदितब्बा असंकिलेसिकत्ता लोकुत्तरधम्मानं.

एवरूपन्ति एदिसं सुप्पटिपत्ति-उजुप्पटिपत्ति-ञायप्पटिपत्ति-सामीचिप्पटिपत्ति-सङ्खातं सम्मापटिपदं. अधिसीलसिक्खादयो लोकुत्तरधम्मस्स अनुधम्मभूता वेदितब्बा. एवञ्हि मग्गफलसिक्खाहि इमासं विसेसो सिद्धो होति. तथा हि वुत्तं ‘‘सिक्खाग्गहणेन पटिपत्तिसद्धम्मस्स गहितत्ता’’ति. एत्थ च यथा विचिकिच्छा वत्थुत्तयस्स सिक्खाय च गुणेसु अनधिमुच्चनअसम्पसीदनवसेन अप्पटिपत्तिभावतो चित्तस्स थद्धभावो आसप्पनपरिसप्पनवसेन पवत्तिया कचवरखाणुकभावो च, एवं सब्रह्मचारीसु आघातचण्डिक्कादिवसेन चित्तस्स थद्धभावो च उपहननविरुज्झनादिवसेन कचवरखाणुकभावो च वेदितब्बो. अरियसङ्घविसया विचिकिच्छा, पुग्गलविसया काचि नत्थीति सङ्घविसयाव गहिता, सासनिकवसेन चायं चेतोखिलदेसनाति सब्रह्मचारीविसयोव कोपो गहितो.

१८६. यथा वत्थुकामो, एवं किलेसकामोपि अस्सादनीयो एवाति ‘‘किलेसकामेपी’’ति वुत्तं. तेनाह भगवा ‘‘रूपतण्हा लोके पियरूपं सातरूपं, एत्थेसा तण्हा उप्पज्जमाना उप्पज्जति, एत्थ निविसमाना निविसती’’तिआदि (दी. नि. २.४००; म. नि. १.१३३; विभ. २०३). कामनिद्देसे (महानि. १) सब्बेपि तेभूमका धम्मा कामनीयट्ठेन ‘‘कामा’’ति वुत्ता, बलवकामरागवत्थुभूतायेवेत्थ कामग्गहणेन गहिताति. विनिबद्धवत्थुभावेन यथा विसुं अत्तनो कायो गहितो, तथा परेसं तथारूपा रूपधम्मा समूहट्ठेनाति आह ‘‘रूपेति बहिद्धारूपे’’ति. यथा हि पञ्चकामगुणिको रागो झानादिविसेसाधिगमस्स विनिबद्धाय संवत्तति, एवं अत्तनो काये अपेक्खा बहिद्धा च सकपरिक्खारञातिमित्तादीसु अपेक्खाति. केचि पनेत्थ ‘‘रूपेति रूपज्झाने’’तिआदिना पपञ्चेन्ति. तदयुत्तं झानाधिगमविनिबद्धानं सीलस्स च संकिलेसभूतानं चेतोविनिबद्धभावेन गहितत्ता.

यावदत्थन्ति याव अत्थेति अभिकङ्खति, ताव. तेनाह ‘‘यत्तकं इच्छति, तत्तक’’न्ति. न्ति यावदत्थं उदरपूरं भुत्तं. अवदेहनतो पूरणतो. सेय्यसुखन्ति सेय्यं पटिच्च उप्पज्जनकसुखं. पस्ससुखन्ति पस्सानं सम्परिवत्तनेन उप्पज्जनकसुखं. निद्दासुखन्ति निद्दायनेन उप्पज्जनकसुखं.

सीलेनातिआदि पत्थनाकारदस्सनं. वतसमादानन्ति धुतङ्गादिवतानुट्ठानं. तपोति वीरियारम्भो. सो हि किलेसानं तपनट्ठेन निग्गण्हनट्ठेन तपचरणन्ति वुत्तं.

१८९. छन्दं निस्सायाति छन्दं धुरं, छन्दं जेट्ठकं, छन्दं पुब्बङ्गमं कत्वा पवत्तिवसेन छन्दं निस्साय. जेट्ठकट्ठेन पधानभूता, पधानभावं वा पत्ताति पधानभूता. तेहि धम्मेहीति छन्दनिस्सयेन पवत्तसमाधिना चेव ‘‘पधानसङ्खारो’’ति वुत्तवीरियेन च. उपेतन्ति सम्पयुत्तं. इज्झनट्ठेन इद्धि, निप्फत्तिअत्थेन पटिलाभट्ठेन चाति अत्थो, तस्सा इद्धिया पादं पादकं पदट्ठानभूतं. अथ वा इज्झन्ति ताय इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि, साव उपरिविसेसानं अधिट्ठानभावतो पादो. तेनाह ‘‘इद्धिभूतं वा पादन्ति इद्धिपाद’’न्ति. सेसेसुपीति वीरियिद्धिपादादीसुपि. अस्साति इद्धिपादस्स. अत्थो दीपितोति दीपनत्थं कतं, तस्मा विसुद्धिमग्गसंवण्णनायं (विसुद्धि. महाटी. २.३६९) तस्स अत्थविचारो गहेतब्बो. इद्धिपादानं समाधिपधानत्ता वुत्तं ‘‘विक्खम्भनप्पहानं कथित’’न्ति. तेसं तेसं कुसलधम्मानं अनुप्पन्नानं उप्पादनकिरियाय उप्पन्नानं परिब्रूहनकिरियाय उस्सहनतो उस्सोळ्ही, थामप्पत्ता परक्कमधातु. सा पन चतुन्नं इद्धिपादानं विसेसपच्चयभूता ते उपादाय ‘‘पञ्चमी’’ति वुत्ता, सा च यस्मा समथविपस्सनाभावनासु तत्थ चआदिमज्झपरियोसानेसु साधेतब्बं वीरियं, तस्मा आह ‘‘उस्सोळ्हीति सब्बत्थ कत्तब्बवीरियं दस्सेती’’ति. पुब्बभागियसमथविपस्सनासाधनं पहातब्बधम्मविभागेन भिन्दित्वा आह ‘‘पञ्च चेतोखिलप्पहानानि पञ्च विनिबन्धप्पहानानी’’ति. भब्बोति युत्तो अरहति निप्फत्तिया. ञाणेनाति मग्गञाणेन. किलेसभेदायाति किलेसानं समुच्छिन्दनाय. खेमस्साति अनुपद्दवस्स.

सम्भावनत्थेति (सारत्थ. टी. १.११; अ. नि. टी. ३.७.७१) ‘‘अपि नामेवं सिया’’ति विकप्पनत्थो सम्भावनत्थो. एवं हीति एवं एकमेव सङ्ख्यं अवत्वा अपराय सङ्ख्याय सद्धिं वचनं लोके सिलिट्ठवचनं होति यथा ‘‘द्वे वा तीणि वा उदकफुसितानी’’ति. सम्मा अधिसयितानीति पादादीहि अत्तना नेसं किञ्चि उपघातं अकरोन्तिया बहिवातादिपरिस्सयपरिहरणत्थं सम्मदेव उपरि सयितानि. उतुं गाहापेन्तियाति तेसं अल्लसिनेहपरियादानत्थं अत्तनो कायुस्मावसेन उतुं गण्हापेन्तिया. तेनाह ‘‘उस्मीकतानी’’ति. सम्मा परिभावितानीति सम्मदेव सब्बसो कुक्कुटवासनाय वासितानि. तेनाह ‘‘कुक्कुटगन्धं गाहापितानी’’ति. अयञ्च कुक्कुटगन्धपरिभावना सम्माअधिसयनसम्मापरिसेदननिप्फत्तिया ‘‘अनुनिप्फादी’’ति (सारत्थ. टी. १.११) दट्ठब्बा. तेहि पन सद्धिंयेव इज्झनतो वुत्तं ‘‘तिविधकिरियाकरणेना’’ति. किञ्चापि न एवं ‘‘अहो वतिमे’’तिआदिना इच्छा उप्पज्जेय्य, कारणस्स पन सम्पादितत्ता अथ खो भब्बाव अभिनिब्भिज्जितुन्ति योजना. कस्मा भब्बाति आह ‘‘ते हि यस्मा ताया’’तिआदि. एत्थ यथा कपालस्स तनुता आलोकस्स अन्तो पञ्ञायमानस्स कारणं, तथा कपालस्स तनुताय नखसिखामुखतुण्डकानं खरताय च अल्लसिनेहस्स परियादानं कारणवचनन्ति दट्ठब्बं, तस्माति आलोकस्स अन्तो पञ्ञायमानतो, सयञ्च परिपाकगतत्ता.

ओपम्मसम्पटिपादनन्ति ओपम्मत्थस्स उपमेय्येन सम्मदेव पटिपादनं. अत्थेनाति उपमेय्यत्थेन. यथा कुक्कुटिया अण्डेसु तिविधकिरियाय करणं कुक्कुटच्छापकानं अण्डकोसतो निक्खमनस्स मूलकारणं, एवं भिक्खुनो उस्सोळ्हीपन्नरसानि अङ्गानि अविज्जण्डकोसतो निक्खमनस्स मूलकारणन्ति आह ‘‘तस्सा कुक्कुटिया…पे… समन्नागतभावो’’ति. पटिच्छादनसामञ्ञेन अविज्जाय अण्डकोससदिसताय बलवविपस्सनावसेन अविज्जण्डकोसस्स तनुभावो, विपस्सनाञाणस्स परिणामकालो वुट्ठानगामिनिभावापत्ति, तदा च सा मग्गञाणगब्भं धारेन्ती विय होतीति आह ‘‘गब्भग्गहणकालो’’ति. अभिञ्ञापक्खेति लोकियाभिञ्ञापक्खे. लोकुत्तराभिञ्ञा हि अविज्जण्डकोसं पदालिकाति. गाथाय अविज्जण्डकोसं पहरतीति देसनाविलासेन विनेय्यसन्तानगतं अविज्जण्डकोसं घट्टेति, यथाठाने ठातुं न देति.

पटिसङ्खानप्पहानन्ति तदङ्गप्पहानपुब्बकं विक्खम्भनप्पहानं. पुब्बभागिया इद्धिपादा पाळियं गहिताति ‘‘इद्धिपादेहि विक्खम्भनप्पहान’’न्ति वुत्तं. ‘‘उस्सोळ्हिपन्नरसङ्गसमन्नागतो भिक्खु भब्बो अभिनिब्बिदाया’’तिआदिवचनतो (म. नि. १.१८९) लोकुत्तरिद्धिपादा पन सम्बोधग्गहणेनेव गहिता. मग्गे आगतेति उस्सोळ्हीपन्नरसङ्गसमन्नागतस्स भिक्खुनो विपस्सनं उस्सुक्कापयतो मग्गे आगते उप्पन्ने, पाळियं वा अभिनिब्भिदासम्बोधग्गहणेहि मग्गे आगते. फले आगतेति एत्थापि वुत्तनयेन अत्थो वेदितब्बो. निब्बानस्स पन पाळियं अनागतत्ता निस्सरणप्पहानं न गहितं. सेसं सुविञ्ञेय्यमेव.

चेतोखिलसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

७. वनपत्थपरियायसुत्तवण्णना

१९०. वनीयति विवेककामेहि भजीयति, वनुते वा ते अत्तसम्पत्तिया वसनत्थाय याचन्तो विय होतीति वनं, पतिट्ठन्ति एत्थ विवेककामा यथाधिप्पेतविसेसाधिगमेनाति पत्थं, वनेसु पत्थं गहनट्ठाने सेनासनं वनपत्थं. परियायति अत्तनो फलं परिग्गहेत्वा वत्ततीति परियायो, कारणन्ति आह ‘‘वनपत्थपरियायन्ति वनपत्थकारण’’न्ति. वनपत्थञ्हि तं उपनिस्साय विहरतो उपनिस्सयकारणं. तेनाह ‘‘वनपत्थं उपनिस्साय विहरती’’ति. परियायति देसेतब्बमत्थं पतिट्ठपेतीति परियायो, देसना. वनपत्थं आरब्भ पवत्ता देसना वनपत्थदेसना, तं, उभयत्थापि वनपत्थग्गहणं लक्खणमत्तं गामादीनम्पेत्थ कारणभावस्स, देसनाय विसयभावस्स च लब्भमानत्ता.

१९१. निस्सायाति अपस्साय, विवेकवासस्स अपस्सयं कत्वाति अत्थो. न उपट्ठातीतिआदीहि तस्मिं वनपत्थे सेनासनसप्पायाभावं, उतुपुग्गलधम्मस्सवनसप्पायाभावम्पि वा दस्सेति. जीवितसम्भाराति (अ. नि. टी. ३.९.६) जीवितप्पवत्तिया सम्भारा पच्चया. समुदानेतब्बाति सम्मा ञायेन अनवज्जउञ्छाचरियादिना उद्धं उद्धं आनेतब्बा पापुणितब्बा. ते पन तथा समुदानिता समाहटा नाम होन्तीति आह ‘‘समाहरितब्बा’’ति. दुक्खेन उप्पज्जन्तीति सुलभुप्पादा न होन्ति. एतेन भोजनसप्पायादिअभावं दस्सेति. रत्तिभागं वा दिवसभागं वाति भुम्मत्थे उपयोगवचनन्ति आह ‘‘रत्तिकोट्ठासे वा दिवसकोट्ठासे वा’’ति. रत्तिंयेव पक्कमितब्बं समणधम्मस्स तत्थ अनिप्फज्जनतो.

१९२-३. सङ्खापीति ‘‘यदत्थमहं पब्बजितो, न मेतं इध निप्फज्जति, चीवरादि पन समुदागच्छति, नाहं तदत्थं पब्बजितो, किं मे इध वासेना’’ति पटिसङ्खायपि. अनन्तरवारे सङ्खापीति ‘‘यदत्थमहं पब्बजितो, तं मे इध निप्फज्जति, चीवरादि पन न समुदागच्छति, नाहं तदत्थं पब्बजितो’’ति पटिसङ्खायपीति अत्थो. तेनाह ‘‘समणधम्मस्स निप्फज्जनभावं जानित्वा’’ति.

१९५-७. सो पुग्गलो अनापुच्छा पक्कमितब्बं, नानुबन्धितब्बोति ‘‘सो पुग्गलो’’ति पदस्स ‘‘नानुबन्धितब्बो’’ति इमिना सम्बन्धो. यस्स येन हि सम्बन्धो, दूरट्ठेनपि सो भवति. तं पुग्गलन्ति ‘‘सो पुग्गलो’’ति पच्चत्तवचनं उपयोगवसेन परिणामेत्वा तं पुग्गलं अनापुच्छा पक्कमितब्बन्ति अत्थो. अत्थवसेन हि विभत्तिविपरिणामोति. तं आपुच्छा पक्कमितब्बन्ति एत्थापि एसेव नयो. आपुच्छा पक्कमितब्बन्ति च कतञ्ञुतकतवेदिताय नियोजनं.

१९८. एवरूपोति यं निस्साय भिक्खुनो गुणेहि वुद्धियेव पाटिकङ्खा, पच्चयेहि च न परिस्समो, एवरूपो दण्डकम्मादीहि निग्गण्हाति चेपि, न परिच्चजितब्बोति दस्सेति ‘‘सचेपी’’तिआदिना.

वनपत्थपरियायसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

८. मधुपिण्डिकसुत्तवण्णना

१९९. जातिवनन्ति सयंजातं वनं. तेनाह ‘‘अरोपिम’’न्ति. पटिसल्लानत्थायाति एकीभावत्थाय, पुथुत्तारम्मणतो वा चित्तं पटिनिवत्तेत्वा अच्चन्तसन्ते निब्बाने फलसमापत्तिवसेन अल्लीयापनत्थं. दण्डो पाणिम्हि अस्साति दण्डपाणि. यथा सो ‘‘दण्डपाणी’’ति वुच्चति, तं दस्सेतुं ‘‘अयञ्ही’’तिआदि वुत्तं. दण्डवित्ततायाति दण्डे सोण्डताय. सो हि दण्डपसुतो दण्डसिप्पे च सुकुसलो तत्थ पाकटो पञ्ञातो, तस्मा दण्डं गहेत्वाव विचरति. जङ्घाकिलमथविनोदनत्थन्ति राजसभाय चिरनिसज्जाय उप्पन्नजङ्घापरिस्समस्स अपनयनत्थं. अधिच्चनिक्खमनोति यादिच्छकनिक्खमनो, न अभिण्हनिक्खमनो. ओलुब्भाति सन्निरुम्भित्वा ठितो. यथा सो ‘‘ओलुब्भा’’ति वुत्तो, तं दस्सेतुं ‘‘गोपालकदारको विया’’तिआदि वुत्तं.

२००. वदन्ति एतेनाति वादो, दिट्ठीति आह ‘‘किं वादीति, किं दिट्ठिको’’ति? किमक्खायीति किमाचिक्खको, कीदिसधम्मकथो? अचित्तीकारेनाति अनादरेन. तथापुच्छने कारणं दस्सेन्तो ‘‘कस्मा’’तिआदिमाह. नस्सतेतन्ति नस्सतु एतं कुलं.

अत्थं न जानातीति अत्थं चे एकदेसेन जानेय्य, तं मिच्छा गहेत्वा पटिप्फरित्वापि तिट्ठेय्य. तस्स दीघरत्तं अहिताय दुक्खायाति तदस्स अत्थाजाननं भगवता इच्छितं. विग्गाहिककथन्ति विग्गहकथं, सारम्भकथन्ति अत्थो. ननु भगवता सद्धिं लोके पुथू समणब्राह्मणा नानावादा सन्तीति चोदनं सन्धायाह ‘‘तथागतो ही’’तिआदि. न विवदति विवादहेतुकानं कामदिट्ठिज्झोसानानं मग्गेनेव समुग्घातितत्ता, तदभावतो पन लोको तथागतेन विवदति. धम्मवादी यथाभूतवादी धम्मवादीहि न विवदति तेसं विवदितुकामताय एव अभावतो, अधम्मवादी पन तिणायपि नमञ्ञमानो तेहि किञ्चि विवदति. तेनाह ‘‘न, भिक्खवे, धम्मवादी केनचि लोकस्मिं विवदती’’ति (सं. नि. ३.९४). अधम्मवादी पन असमुच्छिन्नविवादहेतुकत्ता विवदतेव. तथा चाह ‘‘अधम्मवादीव खो, भिक्खवे, विवदती’’ति.

यथा च पनाति एत्थ यथा-सद्दो ‘‘यथा च अनुप्पन्नस्स कामच्छन्दस्स उप्पादो होति, तञ्च पजानाती’’तिआदीसु (अ. नि. ३.१२२) विय कारणत्थोति आह ‘‘येन कारणेना’’ति. कारणाकारो वा इध यथा-सद्देन वुत्तो, सो पन अत्थतो कारणमेवाति वुत्तं ‘‘येन कारणेना’’ति. ‘‘इदं कथं इदं कथं’’ति पवत्तनतो कथंकथा, विचिकिच्छा. सा यस्स नत्थि, सो अकथंकथी, तं अकथंकथिं. विप्पटिसारकुक्कुच्चं भगवता अनागामिमग्गेनेव छिन्नं, हत्थपादकुक्कुच्चं अग्गमग्गेन आवेणिकधम्माधिगमतो. अपरापरं उप्पज्जनकभवो ‘‘भवाभवो’’ति इधाधिप्पेतोति आह ‘‘पुनप्पुनब्भवे’’ति. संवरासंवरो फलाफलं विय खुद्दकमहन्तो भवो ‘‘भवाभवो’’ति वुत्तोति आह ‘‘हीनपणीते वा भवे’’ति. भवो वुड्ढिप्पत्तो ‘‘अभवो’’ति वुच्चति यथा ‘‘असेक्खा धम्मा’’ति (ध. स. ११.तिकमातिका). किलेससञ्ञाति कामसञ्ञादिके वदति. किलेसा एव वा सञ्ञानामेन वुत्ता ‘‘सञ्ञा पहाय अमतं एव पापुणाती’’तिआदीसु विय. अत्तनो खीणासवभावं दीपेतीति इमिनाव परेसञ्च तथत्ताय धम्मं देसेतीति अयम्पि अत्थो विभावितोति दट्ठब्बं. नीहरित्वा कीळापेत्वाति नीहरित्वा चेव कीळापेत्वा च, नीहरणवसेन वा कीळापेत्वा. तिविसाखन्ति तिभङ्गभाकुटि विय नलाटे जातत्ता नलाटिकं.

२०१. किन्ति नु खोति किं कारणेनाति अत्थो. अनुसन्धिं गहेत्वाति पुच्छानुसन्धिं उट्ठपेत्वा. यतोनिदानन्ति यंनिदानं, यंकारणाति वुत्तं होति. पुरिमपदे हि विभत्ति अलोपं कत्वा निद्देसो, छअज्झत्तिकबाहिरायतनादिनिदानन्ति अयमेव अत्थो. सङ्खायन्ति सङ्खाभावेन ञायन्तीति सङ्खाति आह ‘‘सङ्खाति कोट्ठासा’’ति. कामञ्चेत्थ मानोपि पपञ्चो, अभिनन्दनसभावे एव पन गण्हन्तो ‘‘तण्हामानदिट्ठिपपञ्चसम्पयुत्ता’’ति आह. तथा हि वक्खति ‘‘अभिनन्दितब्ब’’न्तिआदि. समुदाचरन्तीति सब्बसो उद्धं उद्धं परियादाय पवत्तन्ति. मरियादत्थो हि अयमाकारो, तेन च योगेन पुरिसन्ति उपयोगवचनं यथा ‘‘तथागतं, भिक्खवे, अरहन्तं सम्मासम्बुद्धं द्वे वितक्का समुदाचरन्ती’’ति (इतिवु. ३८). तण्हादयो च यथासकं पवत्तिआकारं अविलङ्घन्तियो आसेवनवसेन उपरूपरि पवत्तन्ति. तथा हि ता ‘‘पपञ्चसङ्खा’’ति वुत्ता.

कारणेति पवत्तिपच्चये. एकायतनम्पि …पे… नत्थीति चक्खायतनादि एकम्पि आयतनं अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बञ्च नत्थि चे, ननु नत्थि एव, कस्मा ‘‘नत्थि चे’’ति वुत्तन्ति? सच्चं नत्थि, अप्पहीनाभिनन्दनाभिवदनअज्झोसानानं पन पुथुज्जनानं अभिनन्दितब्बादिप्पकारानि आयतनानि होन्तीति तेसं न सक्का नत्थीति वत्तु, पहीनाभिनन्दनादीनं पन सब्बथा नत्थीति ‘‘नत्थि चे’’ति वुत्तं. अहं ममन्ति अभिनन्दितब्बन्ति दिट्ठाभिनन्दनाय ‘‘अह’’न्ति तण्हाभिनन्दनाय ‘‘मम’’न्ति रोचेतब्बं. अभिवदितब्बन्ति अभिनिविसनसमुट्ठापनवसेन वत्तब्बं. तेनाह ‘‘अहं ममन्ति वत्तब्ब’’न्ति. अज्झोसित्वाति दिट्ठि तण्हा वत्थुं अनुपविसित्वा गाहद्वयं अनञ्ञसाधारणं विय कत्वा. तेनाह ‘‘गिलित्वा परिनिट्ठपेत्वा’’ति. एतेनाति ‘‘एत्थ चे नत्थी’’तिआदिवचनेन. एत्थाति आयतनेसु. तण्हादीनं अवत्थुभावदस्सनमुखेन तण्हादीनंयेव अप्पवत्तिं किलेसपरिनिब्बानं कथितन्ति. तेनाह भगवा ‘‘एसेवन्तो’’तिआदि, अयमेव अभिनन्दनादीनं नत्थिभावकरो मग्गो, तप्पटिप्पस्सद्धिभूतं फलं, तंनिस्सरणं वा निब्बानं रागानुसयादीनं अन्तो अवसानं अप्पवत्तीति अत्थो. तेनाह ‘‘अयं …पे… अन्तो’’ति. सब्बत्थाति ‘‘एसेवन्तो पटिघानुसयानं’’तिआदीसु सब्बपदेसु.

आदियतीति पहारदानादिवसेन गय्हति. मत्थकप्पत्तं कलहन्ति भण्डनादिमत्ते अट्ठत्वा मुखसत्तीहि वितुदनादिवसेन मत्थकप्पत्तं कलहं. याय करोतीति सम्बन्धो. सेसपदेसुपि एसेव नयो. विरुद्धग्गाहवसेन नानागाहमत्तं, तथा विरुद्धवादवसेन नानावादमत्तं. एवं पवत्तन्ति गरुकातब्बेसुपि गारवं अकत्वा ‘‘तुवं तुव’’न्ति एवं पवत्तं सारम्भकथं, याय चेतनाय यं करोति, सा तुवं तुवं. निस्सायाति पटिच्च, निस्सयादिपच्चये कत्वाति अत्थो. किलेसानं उप्पत्तिनिमित्तता ताव आयतनानं होतु तब्भावे भावतो, निरोधनिमित्तता पन कथं. न हेत्थ लोकुत्तरधम्मानं सङ्गहो लोकियानंयेव अधिप्पेतत्ताति चोदनं सन्धायाह ‘‘निरुज्झमानापी’’तिआदि. नाममत्तेन निमित्ततं सन्धाय वुत्तोति दस्सेन्तो ‘‘यत्थुप्पन्ना, तत्थेव निरुद्धा होन्ती’’ति वत्वा तमत्थं सुत्तन्तरेन साधेन्तो ‘‘स्वायमत्थो’’तिआदिमाह.

तत्थ समुदयसच्चपञ्हेनाति महासतिपट्ठाने समुदयसच्चनिद्देसेन. सो हि ‘‘कत्थ उप्पज्जमाना’’तिआदिना पुच्छावसेन पवत्तत्ता पञ्होति वुत्तो. ननु तत्थ तण्हाय उप्पत्तिनिरोधा वुत्ता, न सब्बकिलेसानन्ति ईदिसी चोदना अनवकासाति दस्सेन्तो ‘‘यथेव चा’’तिआदिमाह. लद्धवोहारेति इमिना रागादीनं अप्पवत्तिनिमित्तताय अन्तोति समञ्ञा निब्बानस्साति दस्सेति. एतेनेव अभिनन्दनादीनं अभावोति च इदं संवण्णितन्ति दट्ठब्बं. कथं पन सब्बसङ्खतविनिस्सटे निब्बाने अकुसलधम्मानं निरोधसम्भवोति आह ‘‘यञ्हि यत्थ नत्थि, तं तत्थ निरुद्धं नाम होती’’ति. य्वायं अप्पवत्तियं निरोधवोहारो वुत्तो, स्वायमत्थो निरोधपञ्हेन दीपेतब्बो. न हि तत्थ उप्पज्जित्वा निरुद्धा वितक्कविचारा पटिप्पस्सद्धाति वुत्ता, अथ खो अप्पवत्ता एवाति.

२०३. एवंसम्पदन्ति एवंसम्पज्जनकं एवं पस्सितब्बं इदं मम अज्झेसनं. तेनाह ‘‘ईदिसन्ति अत्थो’’ति. जानं जानातीति (अ. नि. टी. ३.१०.११३-११६) सब्बञ्ञुतञ्ञाणेन जानितब्बं सब्बं जानाति. उक्कट्ठनिद्देसेन हि अविसेसग्गहणेन च ‘‘जान’’न्ति इमिना निरवसेसं ञेय्यजातं परिग्गण्हातीति तब्बिसयाय जाननकिरियाय सब्बञ्ञुतञ्ञाणमेव करणं भवितुं युत्तं. अथ वा पकरणवसेन ‘‘भगवा’’ति सद्दन्तरसन्निधानेन चायमत्थो विभावेतब्बो. पस्सितब्बमेव पस्सतीति दिब्बचक्खु-पञ्ञाचक्खु-धम्मचक्खु-बुद्धचक्खु-समन्तचक्खु-सङ्खातेहि ञाणचक्खूहि पस्सितब्बं पस्सति एव. अथ वा जानं जानातीति यथा अञ्ञे सविपल्लासा कामरूपपरिञ्ञावादिनो जानन्तापि विपल्लासवसेन जानन्ति, न एवं भगवा. भगवा पन पहीनविपल्लासत्ता जानन्तो जानाति एव, दिट्ठिदस्सनस्स च अभावा पस्सन्तो पस्सतियेवाति अत्थो. दस्सनपरिणायकट्ठेनाति यथा चक्खु सत्तानं दस्सनत्थं परिणेति, एवं लोकस्स याथावदस्सनसाधनतो दस्सनकिच्चपरिणायकट्ठेन चक्खुभूतो, पञ्ञाचक्खुमयत्ता वा सयम्भुञाणेन पञ्ञाचक्खुं भूतो पत्तोति वा चक्खुभूतो. ञाणभूतोति एतस्स च एवमेव अत्थो दट्ठब्बो. धम्मा वा बोधिपक्खिया तेहि उप्पन्नत्ता लोकस्स च तदुप्पादनतो, अनञ्ञसाधारणं वा धम्मं पत्तोति धम्मभूतो. ब्रह्मा वुच्चति मग्गो तेन उप्पन्नत्ता लोकस्स च तदुप्पादनत्ता, तञ्च सयम्भुञाणेन पत्तोति ब्रह्मभूतो. चतुसच्चधम्मं वदतीति वत्ता. चिरं सच्चपटिवेधं पवत्तेन्तो वदतीति पवत्ता. अत्थं नीहरित्वाति दुक्खादिअत्थं तत्थापि पीळनादिअत्थं उद्धरित्वा. परमत्थं वा निब्बानं पापयिता, अमतसच्छिकिरियं सत्तेसु उप्पादेन्तो अमतं ददातीति अमतस्स दाता. बोधिपक्खियधम्मानं तदायत्तभावतो धम्मस्सामी.

२०४. सो वा उद्देसो अत्तनोपि होतीति थेरो ‘‘यं खो नो’’ति आह. सब्बलोकसाधारणा हि बुद्धानं देसनाति. इदानि येहि द्वारारम्मणेहि पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति, तानि ताव दस्सेन्तो पपञ्चसञ्ञासङ्खा दस्सेतुं येन सळायतनविभङ्गेन निद्देसो कतो, तस्स अत्थं दस्सेतुं ‘‘चक्खुञ्चा’’तिआदि आरद्धं. तत्थ निस्सयभावेनाति निस्सयपच्चयभावेन. निस्सयपच्चयो च पसादचक्खुयेव होति, न चुद्दससम्भारं, चतुचत्तालीससम्भारं वा ससम्भारचक्खुन्ति आह ‘‘चक्खुपसादञ्च पटिच्चा’’ति. आरम्मणभावेनाति आरम्मणपच्चयभावेन. आरम्मणपच्चयो च चतुसमुट्ठानिकरूपेसु यं किञ्चि होतीति आह ‘‘चतुसमुट्ठानिकरूपे च पटिच्चा’’ति.

एत्थ चक्खु एकम्पि विञ्ञाणस्स पच्चयो होति, रूपायतनं पन अनेकमेव संहतन्ति इमस्स विसेसस्स दस्सनत्थं निस्सयभावेन ‘‘चक्खुपसादञ्च आरम्मणभावेन चतुसमुट्ठानिकरूपे चा’’ति वचनभेदो कतो. किं पन कारणं चक्खु एकम्पि विञ्ञाणस्स पच्चयो होति, रूपं पन अनेकमेवाति? पच्चयभावविसेसतो. चक्खु हि चक्खुविञ्ञाणस्स निस्सयपुरेजातइन्द्रियविप्पयुत्तपच्चयेहि पच्चयो होन्तं अत्थिभावेनेव होति तस्मिं सति तस्स भावतो, असति अभावतो, यतो तं अत्थिअविगतपच्चयेहिस्स पच्चयो होतीति वुच्चति, तन्निस्सितता चस्स न एकदेसेन अल्लीयनवसेन इच्छितब्बा अरूपभावतो. अथ खो गरुराजादीसु सिस्सराजपुरिसादीनं विय तप्पटिबद्धवुत्तिताय, इतरे पन पच्चया तेन तेन विसेसेन वेदितब्बा.

सचायं पच्चयभावो न एकस्मिं न सम्भवतीति एकम्पि चक्खु चक्खुविञ्ञाणस्स पच्चयो होतीति दस्सेतुं पाळियं ‘‘चक्खुञ्चावुसो, पटिच्चा’’ति एकवचनवसेन वुत्तं. रूपं पन यदिपि चक्खु विय पुरेजातअत्थि-अविगतपच्चयेहि पच्चयो होति पुरेतरं उप्पन्नं हुत्वा विज्जमानक्खणे एव उपकारकत्ता तथापि अनेकमेव संहतं हुत्वा पच्चयो होति आरम्मणभावतो. यञ्हि पच्चयधम्मं सभावभूतं, परिकप्पिताकारमत्तं वा विञ्ञाणं विभावेन्तं पवत्तति, तदञ्ञेसञ्च सतिपि पच्चयभावे सो तस्स सारम्मणसभावताय यं किञ्चि अनालम्भित्वा पवत्तितुं असमत्थस्स ओलुब्भपवत्तिकारणभावेन आलम्बनीयतो आरम्मणं नाम, तस्स यस्मा यथा तथा सभावूपलद्धि विञ्ञाणस्स आरम्मणपच्चयलाभो, तस्मा चक्खुविञ्ञाणं रूपं आरब्भ पवत्तमानं तस्स सभावं विभावेन्तमेव पवत्तति. सा चस्स इन्द्रियाधीनवुत्तिकस्स आरम्मणसभावूपलद्धि न एकद्विकलापगतवण्णवसेन होति, नापि कतिपयकलापगतवण्णवसेन, अथ खो आभोगानुरूपं आपाथगतवण्णवसेनाति अनेकमेव रूपं संहच्चकारिताय विञ्ञाणस्स पच्चयो होतीति दस्सेन्तो ‘‘रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति बहुवचनवसेनाह.

यं पन पट्ठाने (पट्ठा. १.१.२ पच्चयनिद्देस) ‘‘रूपायतनं चक्खुविञ्ञाणधातुया तंसम्पयुत्तकानञ्च धम्मानं आरम्मणपच्चयेन पच्चयो’’ति वुत्तं, तं यादिसं रूपायतनं चक्खुविञ्ञाणस्स आरम्मणपच्चयो, तादिसं सन्धाय वुत्तं. कीदिसं पन तन्ति? समुदितन्ति पाकटोयमत्थो. एवञ्च कत्वा यदेके वदन्ति ‘‘आयतनसल्लक्खणवसेन चक्खुविञ्ञाणादयो सल्लक्खणविसया, न द्रब्यसल्लक्खणवसेना’’ति, तम्पि सुवुत्तमेव होति. न चेत्थ समुदायारम्मणता आसङ्कितब्बा समुदायाभोगस्सेव अभावतो, समुदिता पन वण्णधम्मा आरम्मणपच्चया होन्ति. कथं पन पच्चेकं असमत्था समुदिता आरम्मणपच्चया होन्ति. न हि पच्चेकं दट्ठुं असक्कोन्ता अन्धा समुदिता पस्सन्तीति? नयिदमेकन्तिकं विसुं विसुं असमत्थानम्पि सिविकावहनादीसु समत्थताय दस्सनतो. केसादीनञ्च यस्मिं ठाने ठितानं पच्चेकं वण्णं गहेतुं न सक्का, तस्मिंयेव ठाने समुदितानं तं गहेतुं सक्काति भिय्योपि तेसं संहच्चकारिता परिब्यत्ता. एतेन किं चक्खुविञ्ञाणस्स परमाणुरूपं आरम्मणं, उदाहु तंसमुदायोतिआदिका चोदना पटिक्खित्ताति वेदितब्बा. ‘‘सोतञ्च, आवुसो, पटिच्चा’’तिआदीसुपि इमिना नयेन अत्थो वेदितब्बो. चक्खुविञ्ञाणं नामाति चक्खुनिस्सितरूपविजाननलक्खणं चक्खुविञ्ञाणं नाम उप्पज्जति.

तिण्णं सङ्गतियाति चक्खु, रूपं, चक्खुविञ्ञाणन्ति इमेसं तिण्णं सङ्गतिया समोधानेन. फस्सो नामाति अरूपधम्मोपि समानो आरम्मणे फुसनाकारेनेव पवत्तनतो फुसनलक्खणो फस्सो नाम धम्मो उप्पज्जति. सहजातादिवसेनाति चक्खुविञ्ञाणसम्पयुत्ताय सहजातअञ्ञमञ्ञादिवसेन, अनन्तराय अनन्तरादिवसेन, इतराय उपनिस्सयवसेन पच्चयभावतो फस्सपच्चया फस्सकारणा वेदना उप्पज्जति. अनुभवनसमकालमेव आरम्मणस्स सञ्जाननं होतीति ‘‘ताय वेदनाय यं आरम्मणं वेदेति, तदेव सञ्ञा सञ्जानाती’’ति वुत्तं. चक्खुद्वारिका धम्मा इधाधिप्पेताति तदनुसारेन पन अपरापरुप्पन्नानं वेदनादीनं गहणे सति, यन्ति वा कारणवचनं, यस्मा आरम्मणं वेदेति, तस्मा तं सञ्जानातीति अत्थो. न हि असति वेदयिते कदाचि सञ्ञुप्पत्ति अत्थि. सेसपदेसुपि एसेव नयो. सञ्ञाय हि यथासञ्ञातं विज्जमानं, अविज्जमानं वा आरम्मणं वितक्कवसेन परिकप्पेति, यथापरिकप्पितञ्च तं दिट्ठितण्हामानमञ्ञनाहि मञ्ञमानो पपञ्चेतीति वुत्तो. तेनेवाह ‘‘पथविं पथवितो सञ्जाना’’ति, ‘‘पथविं पथवितो सञ्ञत्वा पथविं मञ्ञती’’तिआदि (म. नि. १.२), ‘‘तक्कञ्च दिट्ठीसु पकप्पयित्वा, सच्चं मुसाति द्वयधम्ममाहू’’ति (सु. नि. ८९२; महानि. १२१) च. बलप्पत्तपपञ्चवसेनेवायमत्थवण्णना कता, अट्ठकथायं पन परिदुब्बलवसेन.

चक्खुरूपादीहि कारणेहीति चक्खुविञ्ञाणफस्सवेदनासञ्ञावितक्केहि कारणभूतेहि. अकारणभूतानम्पि तेसं अत्थिताय कारणग्गहणं. परिञ्ञाता हि ते अकारणं. तेनाह ‘‘अपरिञ्ञातकारण’’न्ति. तीहिपि परिञ्ञाहि अपरिञ्ञातवत्थुकं. अभिभवन्तीति अज्झोत्थरन्ति. सहजाता होन्तीति एत्थ ‘‘चक्खुसम्फस्सपच्चया वेदनाक्खन्धो अत्थि कुसलो’तिआदिवचनतो वेदनासञ्ञा असहजातापि गहेतब्बा. यदि एवन्ति ‘‘पपञ्चेती’’ति एत्थ यदि पञ्चद्वारजवनसहजाता पपञ्चसङ्खा अधिप्पेता तासं पच्चुप्पन्नविसयत्ता, कस्मा अतीतानागतग्गहणं कतन्ति चोदेति. इतरो ‘‘तथा उप्पज्जनतो’’तिआदिना परिहरति. तत्थ तथा उप्पज्जनतोति यथा वत्तमानकाले, एवं अतीतकाले अनागतकाले च चक्खुद्वारे पपञ्चसङ्खानं उप्पज्जनतो अतीतानागतग्गहणं कतं, न अतीतेसु, अनागतेसु वा चक्खुरूपेसु चक्खुद्वारिकानं तासं उप्पज्जनतो.

मनञ्जावुसो, पटिच्चाति एत्थ दुविधं मनं केवलं भवङ्गं, सावज्जनं वा. दुविधा हि कथा. उप्पत्तिद्वारकथायं द्विक्खत्तुं चलितं भवङ्गं मनोद्वारं नाम, चक्खादि विय रूपादिना येन तं घट्टितं तत्थ उपरि विञ्ञाणुप्पत्तिया द्वारभावतो. पच्चयकथायं सावज्जनभवङ्गं, ‘‘मनोसम्फस्सपच्चया अत्थि कुसलो’’तिआदीसु हि सावज्जनमनोसम्फस्सो इच्छितो, न भवङ्गमनोसम्फस्सो असम्भवतो. तत्थ पठमनयं सन्धायाह ‘‘मनन्ति भवङ्गचित्त’’न्ति. धम्मेति तेभूमकधम्मारम्मणन्ति इमिना सभावधम्मेसु एव किलेसुप्पत्तीति केचि, तदयुत्तं तदुपादानायपि पञ्ञत्तिया धम्मारम्मणताय वुत्तत्ता. इध पन तेभूमकापि धम्मा लब्भन्तीति दस्सनत्थं ‘‘तेभूमकधम्मारम्मण’’न्ति वुत्तं, न पञ्ञत्तिया अनारम्मणत्ता. एवञ्चेतं सम्पटिच्छितब्बं, अञ्ञथा अकुसलचित्तुप्पादा अनारम्मणा नाम सियुं. उप्पत्तिद्वारकथायं चक्खुविञ्ञाणादि विय आवज्जनम्पि द्वारपक्खिकमेवाति वुत्तं ‘‘मनोविञ्ञाणन्ति आवज्जनं वा’’ति. पच्चयकथायं पन आवज्जनं गहितन्ति ‘‘जवनं वा’’ति वुत्तं. नयद्वये धम्मानं सहजातविभागं दस्सेतुं ‘‘आवज्जने गहिते’’तिआदि वुत्तं. युत्तमेवाति निप्परियायतो युत्तमेव.

सो याव न पच्चयपटिवेधो सम्भवति, ताव पञ्ञत्तिमुखेनेव सभावधम्मा पञ्ञायन्ति पच्चेकं अपञ्ञापनेति आह ‘‘फस्सो नाम एको धम्मो उप्पज्जती’’ति. एवं फस्सपञ्ञत्तिं पञ्ञपेस्सतीति पञ्ञपेत्वा तब्बिसयदस्सनं ञाणं उप्पादेस्सति. इमस्मिं सति इदं होतीति इमस्मिं चक्खुआदिके पच्चये सति इदं फस्सादिकं पच्चयुप्पन्नं होति. द्वादसायतनवसेनाति द्वादसन्नं आयतनानं वसेन आगतेन पटिच्चसमुप्पादनयवसेन. द्वादसायतनपटिक्खेपवसेनाति ‘‘इमस्मिं असति इदं न होती’’ति पच्चयाभावपच्चयुप्पन्नाभावदस्सनक्कमे द्वादसन्नं आयतनानं पटिक्खेपवसेन.

सावकेन पञ्हो कथितोति अयं पञ्हो सावकेन कथितो, इति इमिना कारणेन मा निक्कङ्खा अहुवत्थ. अथ वा संखित्तेन वुत्तमत्थं वित्थारेन विभजन्तेन एतदग्गे ठपितेन महासावकेन पञ्हो कथितोति इमिना कारणेन एतस्मिं पञ्हे मा निक्कङ्खा अहुवत्थ, हेरञ्ञिके सति कहापणं सयं निच्छिनन्ता विय अहुत्वा भगवतो एव सन्तिके निक्कङ्खा होथ.

२०५. आकरोन्ति फलं ताय ताय मरियादाय निब्बत्तेन्तीति आकारा, कारणानि. पाटियेक्ककारणेहीति छन्नं द्वारानं वसेन विसुं विसुं पपञ्चकारणस्स निद्दिट्ठत्ता वुत्तं. अथ वा यदिपि यत्तकेहि धम्मेहि यं फलं निब्बत्तति, तेसं समुदितानंयेव कारणभावो सामग्गियाव फलुप्पत्तितो, तथापि पच्चेकं तस्स कारणमेवाति कत्वा वुत्तं ‘‘पाटियेक्ककारणेही’’ति. पदेहीति नामादिपदेहि चेव तंसमुदायभूतेहि वाक्येहि च. तेनाह ‘‘अक्खरसम्पिण्डनेही’’ति. अक्खरानियेव हि अत्थेसु यथावच्चं पदवाक्यभावेन परिच्छिज्जन्ति. ब्यञ्जनेहीति अत्थस्स अभिब्यञ्जनतो ब्यञ्जनसञ्ञितेहि वण्णेहि. तानि पन यस्मा परियायस्स अक्खरणतो ‘‘अक्खरानी’’ति वुच्चन्ति, तस्मा आह ‘‘अक्खरेही’’ति. एत्थ च इमेहि आकारेहि इमेहि पदब्यञ्जनेहि पपञ्चसमुदाचारस्स वट्टस्स च विवट्टस्स च दस्सनअत्थो विभत्तोति योजना. पण्डिच्चेनाति पञ्ञाय. ‘‘कित्तावता नु खो, भन्ते, पण्डितो होति? यतो खो भिक्खु धातुकुसलो च होती’’ति (म. नि. ३.१२४) आदिसुत्तपदवसेन पण्डितलक्खणं दस्सेन्तो ‘‘चतूहि वा कारणेही’’तिआदिमाह. सच्चपटिवेधवसेन पण्डिच्चं दस्सितन्ति पटिसम्भिदावसेन महापञ्ञतं दस्सेतुं ‘‘महन्ते अत्थे’’तिआदि वुत्तं.

गुळपूवन्ति गुळे मिस्सित्वा कतपूवं. बद्धसत्तुगुळकन्ति मधुसक्खराहि पिण्डीकतं सत्तुपिण्डं. असेचितब्बकं मधुआदिना पगेव तेहि समयोजितब्बत्ता. चिन्तकजातिकोति धम्मचिन्ताय चिन्तकसभावो. सब्बञ्ञुतञ्ञाणेनेवस्साति सब्बञ्ञुतञ्ञाणेनेव अस्स सुत्तस्स गुणं परिच्छिन्दापेत्वा नामं गण्हापेस्सामि.

मधुपिण्डिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

९. द्वेधावितक्कसुत्तवण्णना

२०६. द्वे द्वे भागेति द्वे द्वे कोट्ठासे कत्वा. कामञ्चेत्थ ‘‘इमं एकं भागमकासिं, इमं दुतियभागमकासि’’न्ति वचनतो सब्बेपि वितक्का संकिलेसवोदानविभागेन द्वेव भागा कता, अपरापरुप्पत्तिया पनेतेसं अभिण्हाचारं उपादाय पाळियं ‘‘द्विधा कत्वा’’ति आमेडितवचनन्ति ‘‘द्वे द्वे भागे कत्वा’’ति आमेडितवचनवसेनेव वुत्तो. अथ वा भागद्वयस्स सप्पटिभागताय तत्थ यं यं द्वयम्पि खो उजुविपच्चनीकं, तं तं विसुं विसुं गहेतुकामो भगवा आह ‘‘द्विधा कत्वा वितक्के विहरेय्य’’न्ति. एवं पन चिन्तेत्वा तत्थ मिच्छावितक्कानं सम्मावितक्कानञ्च अनवसेसं असङ्करतो च गहितभावं दस्सेन्तो ‘‘इमं एकं भागमकासिं, इमं दुतियभागमकासि’’न्ति अवोच. कामपटिसंयुत्तोति कामरागसङ्खातेन कामेन सम्पयुत्तो, कामेन पटिबद्धो वा. सेसेसुपि एसेव नयो. अयं पन विसेसो – ब्यापज्जति चित्तं एतेनाति ब्यापादो, दोसो. विहिंसति एताय सत्ते, विहिंसनं वा तेसं एतन्ति विहिंसा, परेसं विहेठनाकारेन पवत्तस्स करुणापटिपक्खस्स पापधम्मस्सेतं अधिवचनं. अज्झत्तन्ति अज्झत्तधम्मारम्मणमाह. बहिद्धाति बाहिरधम्मारम्मणं. ओळारिकोति बहलकामरागादिपटिसंयुत्तो. तब्बिपरियायेन सुखुमो. वितक्को अकुसलपक्खिकोयेवाति इमिना वितक्कभावसामञ्ञेन तत्थापि अकुसलभावसामञ्ञेन एकभागकरणं, न एकचित्तुप्पादपरियापन्नतादिवसेनाति दस्सेति.

नेक्खम्मं वुच्चति लोभातिक्कन्तत्ता पठमज्झानं, सब्बाकुसलेहि निक्खन्तत्ता सब्बं कुसलं. इध पन कामवितक्कपटिपक्खस्स अधिप्पेतत्ता आह ‘‘कामेहि निस्सटो नेक्खम्मपटिसंयुत्तो वितक्को’’ति. सोति नेक्खम्मवितक्को. याव पठमज्झानाति पठमसमन्नाहारतो पट्ठाय याव पठमज्झानं एत्थुप्पन्नो वितक्को नेक्खम्मवितक्कोयेव. पठमज्झानन्ति च इदं ततो परं वितक्काभावतो वुत्तं. न ब्यापज्जति चित्तं एतेन, ब्यापादस्स वा पटिपक्खोति अब्यापादो, मेत्तापुब्बभागो मेत्ताभावनारम्भो. न विहिंसन्ति एताय, विहिंसाय वा पटिपक्खोति अविहिंसा, करुणापुब्बभागो करुणाभावनारम्भो.

महाबोधिसत्तानं महाभिनिक्खमनं निक्खन्तकालतो पट्ठाय लद्धावसरा सम्मासङ्कप्पा उपरूपरि सविसेसं पवत्तन्तीति आह ‘‘छब्बस्सानि…पे… पवत्तिंसू’’ति. ञाणस्स अपरिपक्कत्ता पुब्बवासनावसेन सतिसम्मोसतो कदाचि मिच्छावितक्कलेसोपि होतियेवाति तं दस्सेतुं ‘‘सतिसम्मोसेन…पे… तिट्ठन्ती’’ति आह. यथा निच्चपिहितेपि गेहे कदाचि वातपाने विवटमत्ते लद्धावसरो वातो अन्तो पविसेय्य, एवं गुत्तिन्द्रियेपि बोधिसत्तसन्ताने सतिसम्मोसवसेन लद्धावसरो अकुसलवितक्को उप्पज्जि, उप्पन्नो च कुसलवारं पच्छिन्दित्वा अट्ठासि, अथ महासत्तो तंमुहुत्तुप्पन्नमेव पटिविनोदेत्वा तेसं आयतिं अनुप्पादाय ‘‘इमे मिच्छावितक्का, इमे सम्मावितक्का’’ति याथावतो ते परिच्छिन्दित्वा मिच्छावितक्कानं अवसरं अदेन्तो सम्मावितक्के परिवड्ढेसि. तेन वुत्तं ‘‘मय्हं इमे’’तिआदि.

२०७. पमादो नाम सतिविप्पवासोति आह ‘‘अप्पमत्तस्साति सतिया अविप्पवासे ठितस्सा’’ति. आतापवीरियवन्तस्साति किलेसानं निग्गण्हनवीरियवतो. पेसितचित्तस्साति भवविमोक्खाय विस्सट्ठचित्तस्स काये च जीविते च निरपेक्खस्स. ‘‘एवं पटिपाकतिको जातो’’ति अत्तनो अत्तभावं निस्साय पवत्तं सोमनस्साकारं गेहस्सितसोमनस्सपक्खिकं अकासि, पञ्ञामहन्तताय सुखुमदस्सिता.

अपरिञ्ञायं ठितस्साति न परिञ्ञायं ठितस्स, अपरिग्गहितपरिञ्ञस्साति अत्थो. वितक्को…पे… एतानि तीणि नामानि लभतीति तादिसस्स उप्पन्नो मिच्छावितक्को यथारहं अत्तब्याबाधको उभयब्याबाधको च न होतीति न वत्तब्बो तं सभावानतिवत्तनतोति अधिप्पायो. अनुप्पन्नानुप्पादउप्पन्नपरिहानिनिमित्तताय पञ्ञं निरोधेतीति पञ्ञानिरोधिको. तेनाह ‘‘अनुप्पन्नाया’’तिआदि. नत्थिभावं गच्छतीति पटिसङ्खानबलेन विक्खम्भनप्पहानमाह. निरुज्झतीतिआदीहिपि तदेव वदति. विगतन्तन्तिआदीहि पन समूलं उद्धटं विय तदा अप्पवत्तनकं अकासिन्ति वदति.

२०८. चित्तविपरिणामभावो चित्तस्स अञ्ञथत्तं पकतिचित्तविगमो. अनेकग्गताकारो विक्खेपो. तत्थ वितक्केन चित्तं विहञ्ञमानं विय होतीति आह ‘‘तं गहेत्वा विहिंसावितक्कं अकासी’’ति. कारुञ्ञन्ति परदुक्खनिमित्तं चित्तखेदं वदति. तेनेवाह – ‘‘परदुक्खे सति साधूनं मनं कम्पेतीति करुणा’’ति (म. नि. टी. १.१; सं. नि. टी. १.१.१). न्ति करुणायनवसेन पवत्तचित्तपकम्पनं सन्धाय ‘‘उप्पज्जति विहिंसावितक्को’’ति आह, न सत्तेसु विहिंसा पवत्ततीति अधिप्पायो.

तेन तेन चस्साकारेनाति येन येन आकारेन भिक्खुना अनुवितक्कितं अनुविचारितं, तेन तेन आकारेनस्स चेतसो नति होति. तेनेवाह ‘‘कामवितक्कादीसू’’तिआदि. पहासीति कालविपल्लासेन वुत्तन्ति आह ‘‘पजहती’’ति. पहानं पनस्स सिद्धमेव पटिपक्खस्स सिद्धत्ताति दस्सेतुं ‘‘पहासी’’ति वुत्तं यथा ‘‘असामिभोगे गामिकाआदीयिंसू’’ति. बहुलमकासीति एत्थापि एसेव नयो. एवमेवं नमतीति कामवितक्कसम्पयोगाकारमेव होति, कामवितक्कसम्पयुत्ताकारेन वा परिणमति. कसनं किट्ठं, कसीति अत्थो, तन्निब्बत्तत्ता पन कारणूपचारेन सस्सं ‘‘किट्ठ’’न्ति वुत्तन्ति आह ‘‘सस्ससम्बाधे’’ति. चत्तारि भयानीति वधबन्धजानिगरहानि. उपद्दवन्ति अनत्थुप्पादभावं. लामकन्ति निहीनभावं. धन्धेसूति अत्तनो खन्धेसु. ओतारन्ति अनुप्पवेसं किलेसानं. संकिलेसतो विसुज्झनं विसुद्धि, सा एव वोदानन्ति आह ‘‘वोदानपक्खन्ति इदं तस्सेव वेवचन’’न्ति.

२०९. सब्बकुसलं नेक्खम्मं सब्बाकुसलपटिपक्खताय ततो निस्सटत्ता. निब्बानमेव नेक्खम्मं सब्बकिलेसतो सब्बसङ्खततो च निस्सटत्ता. किट्ठसम्बाधं विय रूपादिआरम्मणं पमादे सति अनत्थुप्पत्तिट्ठानभावतो. कूटगावो विय कूटचित्तं दुद्दमभावतो. पण्डितगोपालको विय बोधिसत्तो उपायकोसल्लयोगतो. चतुब्बिधभयं विय मिच्छावितक्का सप्पटिभयभावतो. पञ्ञाय वुद्धि एतस्स अत्थीति पञ्ञावुद्धिको. विहञ्ञति चित्तं एतेनाति विघातो, चेतोदुक्खं, तप्पक्खिको विघातपक्खिको, न विघातपक्खिकोति अविघातपक्खिको. निब्बानसंवत्तनिको निब्बानवहो. उग्घातीयेय्याति उद्धतं सिया विक्खित्तञ्च भवेय्याति अत्थो. सण्ठपेमीति सम्मदेव पट्ठपेमि. यथा पन ठपितं सण्ठपितं नाम होति, तं दस्सेतुं ‘‘सन्निसीदापेमी’’तिआदि वुत्तं. सन्निसीदापेमीति समाधिपटिपक्खे किलेसे सन्निसीदापेन्तो चित्तं गोचरज्झत्ते सन्निसीदापेमि. अब्यग्गभावापादकेन एकग्गं करोमि, यथा आरम्मणे सुट्ठु अप्पितं होति, एवं सम्मा सम्मदेव आदहामि समाहितं करोमि, यस्मा तथासमाहितं चित्तं सुट्ठु आरम्मणे आरोपितं नाम होति, न ततो परिपतति, तस्मा वुत्तं ‘‘सुट्ठु आरोपेमीति अत्थो’’ति. मा उग्घातीयित्ताति मा हञ्ञित्थ, मा ऊहतं अत्थाति अत्थो.

२१०. सोयेव…पे… वुत्तोति इमिना किञ्चापि एकंयेव कुसलवितक्कं मग्गक्खणे विय तिविधत्तसम्भवतो तिविधनामिकं कत्वा दस्सितं विय होति, न खो पनेतं एवं दट्ठब्बं. पबन्धपवत्तञ्हि उपादाय एकत्तनयेन ‘‘सोयेव ब्यापादपच्चनीकट्ठेना’’तिआदि वुत्तं. एकजातियेसु हि कुसलचित्तेसु उप्पन्नो वितक्को समानाकारताय सो एवाति वत्तब्बतं लभति यथा ‘‘सा एव तित्तिरी, तानि एव ओसधानी’’ति (सं. नि. टी. २.२.१९). न हि तदा महापुरिसस्स असुभमेत्ताकरुणासन्निस्सया ते वितक्का एवं वुत्ताति.

समापत्तिं निस्सायाति समापत्तिं समापज्जित्वा, ततो वुट्ठहित्वाति अत्थो. विपस्सनापि तरुणाति योजना. कायो किलमति समथविपस्सनानं तरुणताय भावनाय पुब्बेनापरं विसेसस्स अलब्भमानत्ता. तेनाह ‘‘चित्तं हञ्ञति विहञ्ञती’’ति. विपस्सनाय बहूपकारा समापत्ति, तथा हि वुत्तं – ‘‘समाधिं, भिक्खवे, भावेथ, समाहितो यथाभूतं जानाति पस्सती’’ति (सं. नि. ३.५; ४.९९; ५.१०७१).

यथा विस्समट्ठानं योधानं परिस्समं विनोदेति, तथा परिस्समविनोदनत्थं फलकेहि कातब्बं विस्समट्ठानं फलककोट्ठको, समापत्तिया पन विपस्सना बहुकारतरा समाधिपरिपन्थकानं, सब्बेसम्पि वा किलेसानं विमथनेन दुब्बलभावापज्जनतो. तेनाह ‘‘विपस्सना थामजाता समापत्तिम्पि रक्खति, थामजातं करोती’’ति. ननु चेवं इतरीतरसन्निस्सयदोसो आपज्जतीति? नयिदमेकन्तिकं, इतरीतरसन्निस्सयापि किच्चसिद्धि लोके लब्भतीति दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं.

गामन्तं आहटेसूति गामसमीपं उपनीतेसु. एतागावोति सति उप्पादनमत्तमेव कातब्बं यथा गावो रक्खितब्बा, तदभावतो. तदाति समथविपस्सनानं थामजातकाले. अनुपस्सनानं लहुं लहुं उप्पत्तिं सन्धाय ‘‘एकप्पहारेनेव आरुळ्होव होती’’ति वुत्तं, कमेनेव पन अनुपस्सनापटिपाटिं आरोहति.

२१५. एवं भगवा अत्तनो अप्पमादपटिपदं, ताय च लद्धं अनञ्ञसाधारणं विसेसं दस्सेन्तो हेतुसम्पत्तिया सद्धिं फलसम्पत्तिं दस्सेत्वा इदानि सत्तूपकारसम्पत्तिं दस्सेतुं ‘‘सेय्यथापी’’तिआदिमाहाति एवं एत्थ अनुसन्धि वेदितब्बा. अरञ्ञलक्खणयोग्गमत्तेन अरञ्ञं. महावनताय पवनं. पवद्धञ्हि वनं पवनं. चतूहि योगेहीति जिघच्छापिपासाभयपटिपत्तिसङ्खातयोगेहि. खेमं अनुपद्दवतं. सुवत्थिं अनुपद्दवं आवहतीति सोवत्थिको. पीतिं कुट्ठिं गमेति उपनेतीति पीतिगमनीयो. पीतं पानतित्थं गच्छतीति पीतगमनीयो. साखादीहीति कण्टकसाखाकण्टकलतावनेहि. अनासयगामिताय उदकसन्निरुद्धोपि अमग्गो वुत्तो, इतरानि अपीतिगमनीयतायपि. आदि-सद्देन गहनं परिग्गण्हाति. ओकेमिगलुद्दकस्स गोचरे चरतीति ओकचरो, दीपकमिगो. अरञ्ञे मिगे दिस्वा तेहि सद्धिं पलायेय्याति दीघरज्जुबन्धनं.

इध वसन्तीति मिगानं आसयं वदति, ततो आसयतो इमिना मग्गेन निक्खमन्ति. एत्थ चरन्तीति एतस्मिं ठाने गोचरं गण्हन्ति. एत्थ पिवन्तीति एतस्मिं निपानतित्थे उदकं पिवन्ति. इमिना मग्गेन पविसन्तीति इमिना मग्गेन निपानतित्थं पविसन्ति. मग्गं पिधायाति पकतिमग्गं पिदहित्वा. न ताव किञ्चि करोति अनवसेसे वनमिगे घातेतुकामो.

अविज्जाय अञ्ञाणा हुत्वाति अविज्जाय निवुतत्ता ञाणरहिता हुत्वा, नन्दीरागेन उपनीता रूपारम्मणादीनि आबन्धित्वा. पलोभनतो ओकचरं नन्दीरागोति. ब्यामोहनतो ओकचारिकं अविज्जाति कत्वा दस्सेति. तेसन्ति ओकचरोकचारिकानं. साखाभङ्गेनाति तादिसेन लूखतरगन्धेन साखाभङ्गेन. मनुस्सगन्धं अपनेत्वा तस्स साखाभङ्गस्स गन्धेन. सम्मत्तोति सम्मज्जितो ब्यामुञ्छो.

बुद्धानं खेममग्गविचरणं कुम्मग्गपिधानञ्च सब्बलोकसाधारणम्पि अत्थतो वेनेय्यपुग्गलापेक्खमेवाति दस्सेन्तो ‘‘अञ्ञातकोण्डञ्ञादीनं भब्बपुग्गलान’’न्ति आह. ऊहतोति समूहतो नीहतोति आह ‘‘द्वेधा छेत्वा पातितो’’ति. नासिताति अदस्सनं गमिताति आह ‘‘सब्बेन सब्बं समुग्घाटिता’’ति. हितूपचारन्ति सत्तानं हितचरियं.

द्वेधावितक्कसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

१०. वितक्कसण्ठानसुत्तवण्णना

२१६. दसकुसलकम्मपथवसेनाति इदं निदस्सनमत्तं दट्ठब्बं वट्टपादकसमापत्तिचित्तस्सपि इध अधिचित्तभावेन अनिच्छितत्ता. तेनाह ‘‘विपस्सनापादकअट्ठसमापत्तिचित्त’’न्ति. अथ वा अनुत्तरिमनुस्सधम्मसङ्गहितमेव केवलं ‘‘पकतिचित्त’’न्ति वत्तब्बन्ति दस्सेन्तो ‘‘दसकुसलकम्मपथवसेन उप्पन्नं चित्तं चित्तमेवा’’ति वत्वा यदेत्थ अधिचित्तन्ति अधिप्पेतं, तं तदेव दस्सेन्तो ‘‘विपस्सनापादकअट्ठसमापत्तिचित्त’’न्ति आह. इतरस्स पनेत्थ विधि न पटिसेधेतीति दट्ठब्बं. विपस्सनाय सम्पयुत्तं अधिचित्तन्ति केचि. अनुयुत्तेनाति अनुप्पन्नस्स उप्पादनवसेन, उप्पन्नस्स परिब्रूहनवसेन अनु अनु युत्तेन. मूलकम्मट्ठानन्ति पारिहारियकम्मट्ठानं. गहेत्वा विहरन्तोति भावनं अनुयुञ्जन्तो. भावनाय अप्पनं अप्पत्तोपि अधिचित्तमनुयुत्तोयेव तदत्थेपि तंसद्दवोहारतो.

येहि फलं नाम यथा उप्पज्जनट्ठाने पकप्पियमानं विय होति, तानि निमित्तानि. तेनाह ‘‘कारणानी’’ति. कालेन कालन्ति एत्थ कालेनाति भुम्मत्थे करणवचनन्ति आह ‘‘समये समये’’ति. ननु च…पे… निरन्तरं मनसि कातब्बन्ति कस्मा वुत्तं, ननु च भावनाय वीथिपटिपन्नत्ता अब्बुदनीहरणविधिं दस्सेन्तेन भगवता ‘‘पञ्च निमित्तानि कालेन कालं मनसि कातब्बानी’’ति अयं देसना आरद्धाति? ‘‘अधिचित्तमनुयुत्तेना’’ति वुत्तत्ता अविच्छेदवसेन भावनाय युत्तप्पयुत्तो अधिचित्तमनुयुत्तो नामाति चोदकस्स अधिप्पायो. इतरो भावनं अनुयुञ्जन्तस्सआदिकम्मिकस्स कदाचि भावनुपक्किलेसा उप्पज्जेय्युं, ततो चित्तस्स विसोधनत्थाय यथाकालं इमानि निमित्तानि मनसि कातब्बानीति ‘‘कालेन काल’’न्ति सत्था अवोचाति दस्सेन्तो ‘‘पाळियञ्ही’’तिआदिमाह. तत्थ इमानीति इमानि पाळियं आगतानि पञ्च निमित्तानि. अब्बुदन्ति उपद्दवं.

छन्दसहगता रागसम्पयुत्ताति तण्हाछन्दसहगता कामरागसम्पयुत्ता. इट्ठानिट्ठअसमपेक्खितेसूति इट्ठेसु पियेसु, अनिट्ठेसु अप्पियेसु, असमं असम्मा पेक्खितेसु. असमपेक्खनन्ति गेहस्सितअञ्ञाणुपेक्खावसेन आरम्मणस्स अयोनिसो गहणं. यं सन्धाय वुत्तं – ‘‘चक्खुना रूपं दिस्वा उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्सा’’तिआदि (म. नि. ३.३०८). ते परिवितक्का. ततो निमित्ततो अञ्ञन्ति ततो छन्दूपसंहितादिअकुसलवितक्कुप्पत्तिकारणतो अञ्ञं नवं निमित्तं. ‘‘मनसिकरोतो’’ति हि वुत्तं, तस्मा आरम्मणं, तादिसो पुरिमुप्पन्नो चित्तप्पवत्तिआकारो वा निमित्तं. कुसलनिस्सितं निमित्तन्ति कुसलचित्तप्पवत्तिकारणं मनसि कातब्बं चित्ते ठपेतब्बं, भावनावसेन चिन्तेतब्बं, चित्तसन्ताने वा सङ्कमितब्बं. असुभञ्हि असुभनिमित्तन्ति. सङ्खारेसु उप्पन्ने छन्दूपसंहिते वितक्केति आनेत्वा सम्बन्धितब्बं. एवं ‘‘दोसूपसञ्हिते’’तिआदीसु यथारहं तं तं पदं आनेत्वा सम्बन्धितब्बं. यत्थ कत्थचीति ‘‘सत्तेसु सङ्खारेसू’’ति यत्थ कत्थचि. पञ्चधम्मूपनिस्सयोति पञ्चविधो धम्मूपसंहितो उपनिस्सयो.

एवं ‘‘छन्दूपसञ्हिते’’तिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘इमस्स हत्था वा सोभना’’तिआदि आरद्धं. तत्थ ‘‘असुभतो उपसंहरितब्ब’’न्ति वत्वा उपसंहरणाकारस्स दस्सनं ‘‘किम्हि सारत्तोसी’’ति. छविरागेनाति छविरागताय काळसामादिवण्णनिभाय. कुफळपूरितोति पक्केहि कुणपफलेहि पुण्णो. ‘‘कलिफलपूरितो’’ति वा पाठो.

अस्सामिकतावकालिकभाववसेनाति इदं पत्तं अनुक्कमेन वण्णविकारञ्चेव जिण्णभावञ्च पत्वा छिद्दावछिद्दं भिन्नं वा हुत्वा कपालनिट्ठं भविस्सति. इदं चीवरं अनुपुब्बेन वण्णविकारं जिण्णतञ्च उपगन्त्वा पादपुञ्छनचोळकं हुत्वा यट्ठिकोटिया छड्डनीयं भविस्सति. सचे पन नेसं सामिको भवेय्य, न नेसं एवं विनस्सितुं ददेय्याति एवं अस्सामिकभाववसेन, ‘‘अनद्धनियं इदं तावकालिक’’न्ति एवं तावकालिकभाववसेन च मनसिकरोतो.

आघातविनय…पे… भावेतब्बाति – ‘‘पञ्चिमे, भिक्खवे, आघातपटिविनया. यत्थ हि भिक्खुनो उप्पन्नो आघातो सब्बसो पटिविनेतब्बो’’तिआदिना नयेन आगतस्स आघातविनयसुत्तस्स (अ. नि. ५.१६१) चेव ककचूपमोवाद(म. नि. १.२२२-२३३) छवालातूपमादीनञ्च (इतिवु. ९१) वसेन आघातं पटिविनोदेत्वा मेत्ता भावेतब्बा.

गरुसंवासोति गरुं उपनिस्साय वासो. उद्देसोति परियत्तिधम्मस्स उद्दिसापनञ्चेव उद्दिसनञ्च. उद्दिट्ठपरिपुच्छनन्ति यथाउग्गहितस्स धम्मस्स अत्थपरिपुच्छा. पञ्च धम्मूपनिस्सायाति गरुसंवासादिके पञ्च धम्मे पटिच्च. मोहधातूति मोहो.

उपनिस्सितब्बाति उपनिस्सयितब्बा, अयमेव वा पाठो. यत्तप्पटियत्तोति यत्तो च गामप्पवेसनापुच्छाकरणेसु उस्सुक्कं आपन्नो सज्जितो च होतीति अत्थो. अथस्स मोहो पहीयतीति अस्स भिक्खुनो एवं तत्थ युत्तप्पयुत्तस्स पच्छा सो मोहो विगच्छति. एवम्पीति एवं उद्देसे अप्पमज्जनेनपि. पुन एवम्पीति अत्थपरिपुच्छाय कङ्खाविनोदनेपि. तेसु तेसु ठानेसु अत्थो पाकटो होतीति सुय्यमानस्स धम्मस्स तेसु तेसु पदेसु ‘‘इध सीलं कथितं, इध समाधि, इध पञ्ञा’’ति सो सो अत्थो विभूतो होति. इदं चक्खुरूपालोकादि इमस्स चक्खुविञ्ञाणस्स कारणं, इदं सालिबीजभूमिसलिलादि इमस्स सालिअङ्कुरस्स कारणं. इदं न कारणन्ति तदेव चक्खुरूपालोकादि सोतविञ्ञाणस्स, तदेव सालिबीजादि कुद्रुसकङ्कुरस्स न कारणन्ति ठानाट्ठानविनिच्छये छेको होति.

आरम्मणेसूति कम्मट्ठानेसु. इमे वितक्काति कामवितक्कादयो. सब्बे कुसला धम्मा सब्बाकुसलपटिपक्खाति कत्वा ‘‘पहीयन्ती’’ति वत्तब्बे न सब्बे सब्बेसं उजुविपच्चनीकभूताति ‘‘पहीयन्ति एवा’’ति सासङ्कं वदति. तेनाह ‘‘इमानी’’तिआदि.

कुसलनिस्सितन्ति कुसलेन निस्सितं निस्सयितब्बं. कुसलस्स पच्चयभूतन्ति तस्सेव वेवचनं, कुसलुप्पत्तिकारणं यथावुत्तअसुभनिमित्तादिमेव वदति. सारफलकेति चन्दनमये सारफलके. विसमाणिन्ति विसमाकारेन तत्थ ठितं आणिं. हनेय्याति पहरेय्य निक्खामेय्य.

२१७. अट्टोति आतुरो, दुग्गन्धबाधताय पीळितो. दुक्खितोति सञ्जातदुक्खो. इमिनापि कारणेनाति अकोसल्लसम्भूतताय कुसलपटिपक्खताय गेहस्सितरोगेन सरोगताय च एते अकुसला विञ्ञुगरहितब्बताय जिगुच्छनीयताय च सावज्जा अनिट्ठफलताय निरस्सादसंवत्तनियताय च दुक्खविपाकाति एवं तेन तेन कारणेन अकुसलादिभावं उपपरिक्खतो.

‘‘आतुरं असुचिं पूतिं, पस्स नन्दे समुस्सयं;

उग्घरन्तं पग्घरन्तं, बालानं अभिनन्दित’’न्ति. (अप. थेरी २.४.१५७) –

एवमादि कायविच्छन्दनीयकथादीहि वा. आदि-सद्देन –

‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति;

कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जय’’न्ति. (थेरगा. ४४२) –

एवमादि पटिघवूपसमनकथादिकापि सङ्गण्हाति.

२१८. न सरणं असति, अननुस्सरणं. अमनसिकरणं अमनसिकारो. कम्मट्ठानं गहेत्वा निसीदितब्बन्ति कम्मट्ठानमनसिकारेनेव निसीदितब्बं. उग्गहितो धम्मकथापबन्धोति कम्मट्ठानस्स उपकारो धम्मकथापबन्धो. मुट्ठिपोत्थकोति मुट्ठिप्पमाणो पारिहारियपोत्थको. समन्नानेन्तेनाति समन्नाहरन्तेन. ओकासो न होति आरद्धस्स परियोसापेतब्बतो. आरद्धस्स अन्तगमनं अनारम्भोवाति थेरवादो. तस्साति उपज्झायस्स. पब्भारसोधनं कायकम्मं, आरभन्तो एव वितक्कनिग्गण्हनत्थं संयुत्तनिकायसज्झायनं वचीकम्मं, दस्सनकिच्चपुब्बकम्मकरणत्थं तेजोकसिणपरिकम्मन्ति तीणि कम्मानि आचिनोति. थेरो तस्स आसयं कसिणञ्च सविसेसं जानित्वा ‘‘इमस्मिं विहारे’’तिआदिमवोच. तेनस्स यथाधिप्पायं सब्बं सम्पादितं. असतिपब्बं नाम असतिया वितक्कनिग्गहणविभावनतो.

२१९. वितक्कमूलभेदं पब्बन्ति वितक्कमूलस्स तम्मूलस्स च भेदविभावनं वितक्कमूलभेदं पब्बं. वितक्कं सङ्खरोतीति वितक्कसङ्खारो, वितक्कपच्चयो सुभनिमित्तादीसुपि सुभादिना अयोनिसोमनसिकारो. सो पन वितक्कसङ्खारो संतिट्ठति एत्थाति वितक्कसङ्खारसण्ठानं, असुभे सुभन्तिआदि सञ्ञाविपल्लासो. तेनाह ‘‘वितक्कानं मूलञ्च मूलमूलञ्च मनसि कातब्ब’’न्ति. वितक्कानं मूलमूलं गच्छन्तस्साति उपपरिक्खनवसेन मिच्छावितक्कानं मूलं उप्पत्तिकारणं ञाणगतिया गच्छन्तस्स. याथावतो जानन्तस्स पुब्बे विय वितक्का अभिण्हं नप्पवत्तन्तीति आह ‘‘वितक्कचारो सिथिलो होती’’ति. तस्मिं सिथिलीभूते मत्थकं गच्छन्तेति वुत्तनयेन वितक्कचारो सिथिलभूतो, तस्मिं वितक्कानं मूलगमने अनुक्कमेन थिरभावप्पत्तिया मत्थकं गच्छन्ते. वितक्का सब्बसो निरुज्झन्तीति मिच्छावितक्का सब्बेपि गच्छन्ति न समुदाचरन्ति, भावनापारिपूरिया वा अनवसेसा पहीयन्ति.

कण्णमूले पतितन्ति ससकस्स कण्णसमीपे कण्णसक्खलिं पहरन्तं विय उपपतितं. तस्स किर ससकस्स हेट्ठा महामूसिकाहि खतमहावाटं उमङ्गसदिसं अहोसि, तेनस्स पातेन महासद्दो अहोसि. पलायिंसु ‘‘पथवी उद्रीयती’’ति. मूलमूलं गन्त्वा अनुविज्जेय्यन्ति ‘‘पथवी भिज्जती’’ति यत्थायं ससो उट्ठितो, तत्थ गन्त्वा तस्स मूलकारणं यंनून वीमंसेय्यं. पथविया भिज्जनट्ठानं गते ‘‘को जानाति, किं भविस्सती’’ति ससो ‘‘न सक्कोमि सामी’’ति आह. आधिपच्चवतो हि याचनं सण्हमुदुकं. दुद्दुभायतीति दुद्दुभाति सद्दं करोति. अनुरवदस्सनञ्हेतं. भद्दन्तेति मिगराजस्स पियसमुदाचारो, मिगराज, भद्दं ते अत्थूति अत्थो. किमेतन्ति किं एतं, किं तस्स मूलकारणं? दुद्दुभन्ति इदम्पि तस्स अनुरवदस्सनमेव. एवन्ति यथा ससकस्स महापथवीभेदनं रवनाय मिच्छागाहसमुट्ठानं अमूलं, एवं वितक्कचारोपि सञ्ञाविपल्लाससमुट्ठानो अमूलो. तेनाह ‘‘वितक्कान’’न्तिआदि.

२२०. अभिदन्तन्ति अभिभवनदन्तं, उपरिदन्तन्ति अत्थो. तेनाह ‘‘उपरिदन्त’’न्ति. सो हि इतरं मुसलं विय उदुक्खलं विसेसतो कस्सचि खादनकाले अभिभुय्य वत्तति. कुसलचित्तेनाति बलवसम्मासङ्कप्पसम्पयुत्तेन. अकुसलचित्तन्ति कामवितक्कादिसहितं अकुसलचित्तं. अभिनिग्गण्हितब्बन्ति यथा तस्स आयतिं समुदाचारो न होति, एवं अभिभवित्वा निग्गहेतब्बं, अनुप्पत्तिधम्मता आपादेतब्बाति अत्थो. के च तुम्हे सतिपि चिरकालभावनाय एवं अदुब्बला को चाहं मम सन्तिके लद्धप्पतिट्ठे विय ठितेपि इदानेव अप्पतिट्ठे करोन्तो इति एवं अभिभवित्वा. तं पन अभिभवनाकारं दस्सेन्तो ‘‘कामं तचो चा’’तिआदिना चतुरङ्गसमन्नागतवीरियपग्गण्हनमाह. अत्थदीपिकन्ति एकन्ततो वितक्कनिग्गण्हनत्थजोतकं. उपमन्ति ‘‘सेय्यथापि, भिक्खवे, बलवा पुरिसो’’तिआदिकं उपमं.

२२१. परियादानभाजनीयन्ति यं तं आदितो ‘‘अधिचित्तमनुयुत्तेन भिक्खुना पञ्च निमित्तानि कालेन कालं मनसि कातब्बानी’’ति निद्दिट्ठं, तत्थ तस्स निमित्तस्स मनसिकरणकालपरियादानस्स वसेन विभजनं. निगमनं वा एतं, यदिदं ‘‘यतो खो, भिक्खवे’’तिआदि. यथावुत्तस्स हि अत्थस्स पुन वचनं निगमनन्ति. तथापटिपन्नस्स वा वसीभावविसुद्धिदस्सनत्थं ‘‘यतो खो, भिक्खवे’’तिआदि वुत्तं. सत्थाचरियोति धनुब्बेदाचरियो. यथा हि ससनतो असत्थम्पि सत्थग्गहणेनेव सङ्गय्हति, एवं धनुसिप्पम्पि धनुब्बेदपरियापन्नमेवाति.

परियायति परिवितक्केतीति परियायो. वारोति आह ‘‘वितक्कवारपथेसू’’ति, वितक्कानं वारेन पवत्तनमग्गेसु. चिण्णवसीति आसेवितवसी. पगुणवसीति सुभावितवसी. सम्मावितक्कंयेव यथिच्छितं तथावितक्कनतो, इतरस्स पनस्स सेतुघातोयेवाति.

वितक्कसण्ठानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

निट्ठिता च सीहनादवग्गवण्णना.

३. ओपम्मवग्गो

१. ककचूपमसुत्तवण्णना

२२२. मोळिन्ति केसरचनं. वेहायसन्ति आकासे. रतनचङ्कोटवरेनाति रतनसिलामयवरचङ्कोटकेन सहस्सनेत्तो सिरसा पटिग्गहि. ‘‘सुवण्णचङ्कोटकवरेना’’तिपि (बु. वं. अट्ठ. २३ दूरेनिदानकथा; जा. अट्ठ. १.२ अविदूरेनिदानकथा) पाठो.

साति मोळि. मोळि एतस्स अत्थीति मोळिको, मोळिको एव मोळियो. फग्गुनोति पन नामं. सङ्खाति समञ्ञा. वेलीयति खणमुहुत्तादिवसेन उपदिसीयतीति वेला, कालोति आह ‘‘तायं वेलायं…पे… अयं कालवेला नामा’’ति. वेलयति परिच्छेदवसेन तिट्ठतीति वेला, सीमा. वेलयति संकिलेसपक्खं चालयतीति वेला, सीलं. अनतिक्कमनट्ठोपि चस्स संकिलेसधम्मनिमित्तं अचलनमेव. विञ्ञुपुरिसाभावे छपञ्चवाचामत्तं ओवादे पमाणं नाम. दवसहगतं कत्वाति कीळासहितं कत्वा.

मिस्सीभूतोति अननुलोमिकसंसग्गवसेन मिस्सीभूतो. ‘‘अवण्णं भासती’’ति सङ्खेपतो वुत्तं विवरितुं ‘‘तापनपचनकोट्टनादीनी’’तिआदि वुत्तं. अधिकरणम्पि करोतीति एत्थ यथा सो अधिकरणाय परिसक्कति, तंदस्सनं ‘‘इमेसं भिक्खून’’न्तिआदि. अधिकरणं आकड्ढतीति अधिकरणं उद्दिस्स ते भिक्खू आकड्ढति, अधिकरणं वा तेसु उप्पादेन्तो आकड्ढति. उद्देसपदं वाति पदसो उद्देसमत्तं वा. नेव पियकम्यतायाति नेव अत्तनि सत्थुनो पियभावकामताय. न भेदाधिप्पायेनाति न सत्थुनो तेन भिक्खुना भेदाधिप्पायेन. अत्थकामतायाति मोळियफग्गुनस्स हितकामताय.

२२४. अवण्णभासनेति भिक्खुनीनं अगुणकथने. छन्दादीनं वत्थुभावतो कामगुणा गेहं विय गेहं, ते च ते सिता निस्सिताति गेहस्सिताति वुत्ता. तण्हाछन्दापि तासं कत्तुकामतापीति उभयेपि तण्हाछन्दा, पटिघछन्दा पन तेसं कत्तुकामता एव. फलिकमणि विय पकतिपभस्सरस्स चित्तसन्तानस्स उपसङ्गो विय विपरिणामकारणं रागादयोति आह ‘‘रत्तम्पि चित्तं विपरिणत’’न्तिआदि. हितानुकम्पीति करुणाय पच्चुपट्ठापनमाह. ‘‘यस्सन्तरतो न सन्ति कोपा’’तिआदीसु (उदा. २०) विय अन्तर-सद्दो चित्तपरियायोति आह ‘‘दोसन्तरोति दोसचित्तो’’ति.

२२५. दुब्बचताय ओवादं असम्पटिच्छन्तो चित्तेनेव पटिविरुद्धो अट्ठासि. गण्हिंसु चित्तं, हदयगाहिनिं पटिपज्जिंसूति अत्थो. पूरयिंसु अज्झासयन्ति अत्थो. एकस्मिं समये पठमबोधियं. एकासनं भोजनस्स एकासनभोजनं, एकवेलायमेव भोजनं. तञ्च खो पुब्बण्हे एवाति आह ‘‘एकं पुरेभत्तभोजन’’न्तिआदि. सत्तक्खत्तुं भुत्तभोजनम्पि इमस्मिं सुत्ते एकासनभोजनन्तेव अधिप्पेतं, न एकासनिकताय एकाय एव निसज्जाय भोजनं. ‘‘अप्पडंस…पे… सम्फस्स’’न्तिआदीसु विय अप्प-सद्दो अभावत्थोति आह ‘‘निराबाधतं, निद्दुक्खत’’न्ति. पधानादिवसेन सल्लहुकं अकिच्छं उट्ठानं सल्लहुकउट्ठानं. न एकप्पहारेनाति न एकवारेन, न एकस्मिंयेव कालेति अधिप्पायो. द्वे भोजनानीति ‘‘अपरण्हे रत्तिय’’न्ति कालवसेन द्वे भोजनानि. पञ्च गुणेति अप्पाबाधादिके पञ्च आनिसंसे. सतुप्पादकरणीयमत्तमेवाति सतुप्पादमत्तकरणीयमेव, निवारेतब्बस्स पुनप्पुनं समादपनञ्च नाहोसि.

मण्डभूमीति ओजवन्तभूमि, यत्थ परिसिञ्चनेन विना सस्सानि किट्ठानि सम्पज्जन्ति. युगे योजेतब्बानि योग्गानि, तेसं आचरियो योग्गाचरियो, तेसं सिक्खापनको. गामणिहत्थिआदयोपि ‘‘योग्गा’’ति वुच्चन्तीति आह पाळियं ‘‘अस्सदम्मसारथी’’ति. चतूसु मग्गेसु येन येन मग्गेन इच्छति. जवसमगादिभेदासु गतीसु यं यं गतिं. तं तं मग्गं आरुळ्हाव ओतिण्णायेव. नेव वारेतब्बा रस्मिविनिग्गण्हनेन. न विज्झितब्बा पतोदलट्ठिया. गमनमेवाति इमे युत्ता मम इच्छानुरूपं मन्दं गच्छन्ति, समं गच्छन्ति, सीघं गच्छन्तीति खुरेसु निमित्तग्गहणं पट्ठपेत्वा सारथिना तेसं गमनमेव पस्सितब्बं होति, न तत्थ नियोजनं. तेहिपि भिक्खूहि. पजहिंसु पजहितब्बं. सालदूसनाति सालरुक्खविसनासका. अञ्ञा च वल्लियो सालरुक्खे विनन्धित्वा ठिता. बहि नीहरणेनाति सालवनतो बहि छड्डनेन. सुसण्ठिताति सण्ठानसम्पन्ना, मरियादं बन्धित्वाति आलवालसम्पादनवसेन मरियादं बन्धित्वा. किपिल्लपुटकं तम्बकिपिल्लकपुटकं. सुक्खदण्डकहरणं आलवालब्भन्तरा.

२२६. विदेहरट्ठे जातसंवड्ढताय वेदेहिका. पण्डा वुच्चति पञ्ञा, ताय इता गता पवत्ताति पण्डिता. गहपतानीति गेहसामिनी. सोरच्चेनाति संयमेन. निवातवुत्तीति पणिपातकारी. निब्बुताति निब्बुतदुच्चरितपरिळाहा. उट्ठाहिकाति उट्ठानवीरियवती. किब्बिसाति कुरूरा.

२२७. एवं अक्खन्तिया दोसं दस्सेत्वाति ‘‘गुणवन्तो’’ति लोके पत्थटकित्तिसद्दानम्पि अक्खन्तिनिमित्तं अयसुप्पत्तिगुणपरिहानिआदिं अक्खमतायआदीनवं पकासेत्वा. वचनपथेति वचनमग्गे युत्तकालादिके. सण्हाभावोपि हि वचनस्स पवत्तिआकारोति कत्वा ‘‘वचनपथो’’ त्वेव वुत्तो. तेसंयेव कालादीनं. मेत्ता एतस्स अत्थीति मेत्तं, उप्पन्नं मेत्तचित्तं एतेसन्ति उप्पन्नमेत्तचित्ता. पुन ‘‘कालेन वा, भिक्खवे’’तिआदि (परि. ३६२, ३६३) पाळि धम्मसभावदस्सनवसेन पवत्ता ‘‘परं चोदनावसेन वदन्ता नाम इमेहि आकारेहि वदन्ती’’ति. अधिमुञ्चित्वाति अभिरतिवसेन तस्मिं पुग्गले भावनाचित्तं मुञ्चित्वा विस्सज्जेत्वा. सो पुग्गलो आरम्मणं एतस्साति तदारम्मणं, मेत्तचित्तं. यदि एवं पदेसविसयं तं कथं निप्पदेसविसयं विय होतीति चोदेन्तो ‘‘कथं तदारम्मणं सब्बावन्तं लोकं करोती’’ति आह, इतरो ‘‘पञ्च वचनपथे’’तिआदिना परिहरति. इध तदारम्मणञ्चाति तस्सेव मेत्तचित्तस्स आरम्मणं कत्वाति पाळियं वचनसेसो दट्ठब्बो. तेनाह ‘‘पुन तस्सेवा’’तिआदि. सब्बा सत्तकायसङ्खाता पजा एतस्स अत्थीति सब्बावन्तोति इममत्थं दस्सेन्तो ‘‘सब्बावन्त’’न्ति आह. विपुलेनाति महाजनारम्मणेन. महन्तपरियायो हि विपुल-सद्दो, महत्तञ्चेत्थ बहुकभावो. तेनाह ‘‘अनेकसत्तारम्मणेना’’ति. तञ्च पुग्गलन्ति पञ्च वचनपथे गहेत्वा आगतपुग्गलं. चित्तस्साति मेत्तासहगतचित्तस्स. एत्थ च मेत्तासहगतेन चेतसा विहरिस्सामाति सम्बन्धो. तत्थ कथन्ति आह ‘‘तञ्च पुग्गलं सब्बञ्च लोकं तस्स चित्तस्स आरम्मणं कत्वा अधिमुच्चित्वा’’ति.

२२८. तदत्थदीपिकन्ति या मेत्तं चेतोविमुत्तिं सम्मदेव भावेत्वा ठितस्स निब्बिकारतो केनचि विकारं न आपादेतब्बता, तदत्थजोतिकं. अपथविन्ति पथवी न होतीति अपथवी. निप्पथविन्ति सब्बेन सब्बं पथवीभावाभावं. तिरियं पन अपरिच्छिन्नाति कस्मा वुत्तं, ननु चक्कवाळपब्बतेहि तं तं चक्कवाळं परिच्छिन्दति? न, तदञ्ञचक्कवाळपथविया एकाबद्धभावतो. तिण्णञ्हि चक्कानं अन्तरसदिसे तिण्णं तिण्णं लोकधातूनं अन्तरेयेव पथवी नत्थि लोकन्तरनिरयभावतो. चक्कवाळपब्बतन्तरेहि सम्बद्धट्ठाने पथवी एकाबद्धाव. विवट्टकाले हि सण्ठहमानापि पथवी यथासण्ठितपथविया एकाबद्धाव सण्ठहति. तेनाह ‘‘तिरियं पन अपरिच्छिन्ना’’ति. इमिनाव गम्भीरभावेन वुत्तपरिमाणतो परं नत्थीति दीपितं होति.

२२९. हलिद्दीति हलिद्दिवण्णं अधिप्पेतन्ति आह ‘‘यं किञ्चि पीतकवण्ण’’न्ति. वण्णसङ्खातं रूपं अस्स अत्थीति रूपी, न रूपीति अरूपीति आह ‘‘अरूपो’’ति. तेनेवाह ‘‘सनिदस्सनभावपटिक्खेपतो’’ति.

२३०. पञ्च योजनसतानीति हिमवन्ततो समुद्दं पविट्ठट्ठानवसेन वुत्तं, न अनोतत्तदहमुखतो. अञ्ञा नदियो उपादाय लब्भमानं गम्भीरतं अप्पमेय्यउदकतञ्च गहेत्वा ‘‘गम्भीरा अप्पमेय्या’’ति वुत्तं. अट्ठकथायं पन तिणुक्काय तापेतब्बत्ताभावदस्सनपरमेतन्ति वुत्तं ‘‘एतेन पयोगेना’’तिआदि.

२३१. तूलिनी विय तूलिनीति आह ‘‘सिम्बलितूललतातूलसमाना’’ति. सस्सरन्ति एवंपवत्तो सद्दो सस्सरसद्दो. अनुरवदस्सनञ्हेतं. तथा भब्भरसद्दो. सब्बमेतं मेत्ताविहारिनो चित्तस्स दूसेतुं असक्कुणेय्यभावदस्सनपरं. अयञ्हेत्थ सङ्खेपत्थो – यथा महापथवी केनचि पुरिसेन अपथविं कातुं न सक्का, यथा आकासे किञ्चि रूपं पट्ठपेतुं न सक्का, यथा गङ्गाय उदकं तिणुक्काय तापेतुं न सक्का, यथा च बिळारभस्तं थद्धं फरुसञ्च सम्फस्सं कातुं न सक्का, एवमेवं मेत्ताय चेतोविमुत्तिया आसेविताय भाविताय बहुलीकताय पञ्च वचनपथे गहेत्वा आगतपुरिसेन केनचि परियायेन चित्तस्स अञ्ञथत्तं कातुं न सक्काति.

२३२. ओचरकाति परूपघातवसेन हीनकम्मकारिनो. तेनाह ‘‘नीचकम्मकारका’’ति. अनधिवासनेनाति अक्खमनेन. मय्हं ओवादकरो न होतीति परम्हि अनत्थकारिम्हि चित्तपदोसनेन आघातुप्पादनेन मम सासने सम्मापटिपज्जमानो नाम न होति.

२३३. अणुन्ति अप्पकं तनु परित्तकं. थूलन्ति महन्तं ओळारिकं. वचनपथस्स पन अधिप्पेतत्ता तं सावज्जविभागेन गहेतब्बन्ति आह ‘‘अप्पसावज्जं वा महासावज्जं वा’’ति. खन्तिया इदं भारियं न होतीति अवोचुं ‘‘अनधि…पे… पस्सामा’’ति. दीघरत्तन्ति चिरकालं, अच्चन्तमेवाति अत्थो. अच्चन्तञ्च हितसुखं नाम अञ्ञाधिगमेनेवाति आह ‘‘अरहत्तेन कूटं गण्हन्तो’’ति.

ककचूपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

२. अलगद्दूपमसुत्तवण्णना

२३४. बाधयिंसूति (सारत्थ. टी. पाचित्तिय ३.४१७) हनिंसु. तंतंसम्पत्तिया विबन्धनवसेन सत्तसन्तानस्स अन्तरे वेमज्झे एति आगच्छतीति अन्तरायो, दिट्ठधम्मिकादिअनत्थो, अनतिक्कमनट्ठेन तस्मिं अन्तराये नियुत्ता, अन्तरायं वा फलं अरहन्ति, अन्तरायस्स वा करणसीलाति अन्तरायिका. तेनाह ‘‘अन्तरायं करोन्तीति अन्तरायिका’’ति. आनन्तरियधम्माति आनन्तरियसभावचेतनाधम्मा. तत्रायं वचनत्थो – चुतिअनन्तरफलं अनन्तरं नाम, तस्मिं अनन्तरे नियुत्ता, तन्निब्बत्तनेन अनन्तरकरणसीला, अनन्तरपयोजनाति वा आनन्तरिका, ते एव आनन्तरियाति वुत्ता. कम्मानि एव अन्तरायिकाति कम्मन्तरायिका. मोक्खस्सेव अन्तरायं करोति, न सग्गस्स मिच्छाचारलक्खणाभावतो. न हि भिक्खुनिया धम्मरक्खितभावो अत्थि. पाकतिकभिक्खुनीवसेन चेतं वुत्तं, अरियाय पन पवत्तं अपायसंवत्तनियमेव. नन्दमाणवको चेत्थ निदस्सनं. उभिन्नं समानच्छन्दतावसेन वा असग्गन्तरायिकता, मोक्खन्तरायिकता पन मोक्खत्थपटिपत्तिया विदूसनतो, अभिभवित्वा पन पवत्तियं सग्गन्तरायिकतापि न सक्का निवारेतुन्ति. अहेतुकदिट्ठिअकिरियदिट्ठिनत्थिकदिट्ठियोव नियतभावं पत्ता नियतमिच्छादिट्ठिधम्मा. पटिसन्धिधम्माति पटिसन्धिचित्तुप्पादमाह. पण्डकादिग्गहणञ्चेत्थ निदस्सनमत्तं सब्बायपि अहेतुकपटिसन्धिया विपाकन्तरायिकभावतो. या हि अरिये उपवदति, सा चेतना अरियूपवादधम्मा. ततो परन्ति खमापनतो उपरि. यं पनेत्थ वत्तब्बं, तं महासीहनादस्स लीनत्थपकासने वुत्तमेव. याव भिक्खुभावं पटिजानाति पाराजिकं आपन्नो. न वुट्ठाति सेसं गरुकापत्तिं. न देसेति लहुकापत्तिं.

अयं भिक्खु अरिट्ठो. रसेन रसं संसन्दित्वाति अनवज्जेन पच्चयपरिभुञ्जनरसेन सावज्जं कामगुणपरिभोगरसं समानेत्वा. उपनेन्तो वियाति बन्धनं उपनेन्तो विय. ‘‘घटेन्तो विया’’तिपि पाठो. उपसंहरन्तो वियाति सदिसतं उपसंहरन्तो विय एकन्तसावज्जे अनवज्जभावपक्खेपेन. पापकन्ति लामकट्ठेन दुग्गतिसम्पापनट्ठेन च पापकं. सेतुकरणवसेन महासमुद्दं बन्धन्तेन विय. सब्बञ्ञुतञ्ञाणेन ‘‘सावज्ज’’न्ति दिट्ठं ‘‘अनवज्ज’’न्ति गहणेन तेन पटिविरुज्झन्तो. एकन्ततो अनन्तरायिकन्ति गहणेन वेसारज्जञाणं पटिबाहन्तो. कामकण्टकेहि अरियमग्गसम्मापटिपत्ति न उपक्किलिस्सतीति वदन्तो ‘‘अरियमग्गे खाणुकण्टकादीनि पक्खिपन्तो’’ति वुत्तो. पठमपाराजिकसिक्खापदसङ्खाते, ‘‘अब्रह्मचरियं पहाया’’ति (दी. नि. १.८, १९४) आदिदेसनासङ्खाते च आणाचक्के.

पुच्छमाना समनुयुञ्जन्ति नाम. पुच्छा हि अनुयोगोति. तेनाधिगताय लद्धिया अनुवज्जनत्थं पच्चनुभासनेन पुन पटिजानापनं पतिट्ठापनं, तं पनस्स आदाय समादापनं विय होतीति आह ‘‘समनुगाहन्ति नामा’’ति. तस्सा पन लद्धिया अनुयुञ्जिताय वुच्चमानम्पि कारणं कारणपतिरूपकमेवाति तस्स पुच्छनं समनुभासनं. अनुदहनट्ठेन अनुपायपटिपत्तिया सम्पति आयतिञ्च अनुदहनट्ठेन. महाभितापनट्ठेन अनवट्ठितसभावताय. इत्तरपच्चुपट्ठानट्ठेन मुहुत्तरमणीयताय. तावकालिकट्ठेन परेहि अभिभवनीयताय. सब्बङ्गपच्चङ्गपलिभञ्जनट्ठेन छेदनभेदनादिअधिकरणभावेन. उग्घाटसदिसताय अधिकुट्टनट्ठेन. अवणे वणं उप्पादेत्वा अन्तो अनुपविसनसभावताय विनिविज्झनट्ठेन. दिट्ठधम्मिकसम्परायिकअनत्थनिमित्तताय सासङ्कसप्पटिभयट्ठेन. दिट्ठिथामेनाति तस्सा दिट्ठिया थामगतभावेन. दिट्ठिपरामासेनाति दिट्ठिसङ्खातपरामसनेन. दिट्ठियेव हि धम्मसभावं अतिक्कमित्वा परतो आमसनेन परामासो. अभिनिविस्साति तण्हाभिनिवेसपुब्बङ्गमेन दिट्ठाभिनिवेसेन ‘‘इदमेवेत्थ तथ’’न्ति अभिनिविसित्वा. यस्मा हि अभिनिवेसनं तत्थ अभिनिविट्ठं नाम होति.तस्मा आह ‘‘अधिट्ठहित्वा’’ति.

२३५. नत्थीति वत्तुकामोपीति अत्तनो लद्धिं निगुहेतुकामताय अवजानितुकामोपि. सम्पटिच्छति पटिजानाति. द्वे कथाति विसंवादनकथं सन्धाय वदति. अभूतकथा हि पुब्बे पवत्ता भूतकथाय वसेन द्वे कथाति वुच्चति.

२३६. कस्स खो नामाति इमिना सत्था ‘‘न मम तुय्हं तादिसस्स अत्थाय धम्मदेसना नाम भूतपुब्बा’’ति दस्सेति. तेनाह ‘‘खत्तियस्स वा’’तिआदि.

ञाणमया उस्मा एतस्स अत्थीति उस्मी, तथारूपेहि पच्चयेहि अनुस्मीकतो तस्मिं अत्तभावे पटिवेधगब्भोअपि उस्मीकतोति विकतभावतो पञ्ञाबीजमस्स इमस्मिं धम्मविनये अपि नु अत्थीति भगवा भिक्खू पुच्छति. ते पटिक्खिपन्ता वदन्ति ठानगतेन दुच्चरितेन ञाणुपहतभावं सम्पस्सन्ता. नित्तेजभूतोति नित्तेजं भूतो तेजोहानिप्पत्तो. ततो एव भिक्खूनम्पि सम्मुखा ओलोकेतुं असमत्थताय पत्तक्खन्धो अधोमुखो. सहधम्मिकं किञ्चि वत्तुं अविसहनतो अप्पटिभानो. सम्पत्तूपगन्ति सम्पत्तिआवहं. पटिप्पस्सम्भेन्तोति पटिसेधेन्तो.

२३७. अन्तरायकरलद्धिया सभावविभावनेन परिसं सोधेति. निस्सारेति नीहरति अविसुद्धदिट्ठिताय. कस्सचि बुद्धानुभावं अजानन्तस्स. तस्स हि एवं भवेय्य ‘‘सहसा कथित’’न्ति. न हि कदाचि बुद्धानं सहसा किरिया नाम अत्थि. अस्साति ‘‘कस्सची’’ति वुत्तभिक्खुस्स. सुत्वापि तुण्हीभावं आपज्जेय्याति अथापि सियाति सम्बन्धो. तं सब्बन्ति ‘‘सचे ही’’तिआदिना वुत्तं सब्बं परिकप्पनं. न करिस्सन्तीति परिसाय लद्धिं सोधेतीति सम्बन्धो. लद्धिं पकासेन्तोति महासावज्जतावसेन पकासेन्तो. सञ्ञावितक्केहीति सुभनिमित्तानुब्यञ्जनग्गाहादिवसेन पवत्तेहि सञ्ञावितक्केहि. तेनाह ‘‘किलेसकामसम्पयुत्तेही’’ति. मेथुनसमाचारन्ति इदं अधिकारवसेन वुत्तं. तदञ्ञम्पि पन – ‘‘अपिच खो मातुगामस्स उच्छादनं परिमद्दनं नहापनं सम्बाहनं सादियती’’तिआदिना (अ. नि. ७.५०) आगतं विसभागवत्थुविसयं आमिसपरिभोगं. ‘‘अञ्ञत्रेव कामेहि अञ्ञत्र कामसञ्ञाहि अञ्ञत्र कामवितक्केहि समाचरिस्सती’’ति नेतं ठानं विज्जति.

२३८. योनिसो पच्चवेक्खणेन नत्थि एत्थ छन्दरागोति निच्छन्दरागो, तं निच्छन्दरागं. कदाचि उपोसथिकभावेन समादिन्नसीलापि होन्ति कदाचि नोति अनिबद्धसीलानं गहट्ठानं. सीलसमादानभावतो अन्तरायकरं. वत्थुकामानं सच्छन्दरागपरिभोगञ्च. अपच्चवेक्खणेन भिक्खूनं आवरणकरं. पच्चयानं सच्छन्दरागपरिभोगञ्च. अयं अरिट्ठो दुग्गहिताय परियत्तिया वसेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्च खनति, बहुञ्च अपुञ्ञं पसवतीति एवं सञ्ञा मा होन्तूति दुग्गहिताय परियत्तिया दोसं दस्सेन्तो आह. उग्गण्हन्तीति सज्झायन्ति चेव वाचुग्गतं करोन्ता धारेन्ति चाति अत्थो.

सुत्तन्तिआदिना नवप्पभेदम्पि परियत्तिधम्मं परियादियति. कथं सुत्तं नवप्पभेदं? सगाथकञ्हि सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणं, तदुभयविनिमुत्तञ्च सुत्तं उदानादिविसेससञ्ञाविरहितं नत्थि, यं सुत्तङ्गं सिया, मङ्गलसुत्तादीनञ्च सुत्तङ्गसङ्गहो न सिया गाथाभावतो धम्मपदादीनं विय, गेय्यङ्गसङ्गहो वा सिया सगाथकत्ता सगाथावग्गस्स विय, तथा उभतोविभङ्गादीसु सगाथकप्पदेसानन्ति? वुच्चते –

सुत्तन्ति सामञ्ञविधि, विसेसविधयो परे;

सनिमित्ता निरूळ्हत्ता, सहताञ्ञेन नञ्ञतो. (दी. नि. टी. १.निदानकथावण्णना; अ. नि. टी. २.४.६; सारत्थ. टी. १.बाहिरनिदानकथा);

सब्बस्सपि हि बुद्धवचनस्स सुत्तन्ति अयं सामञ्ञविधि. तेनेवाह आयस्मा महाकच्चानो नेत्तियं (नेत्ति. १.सङ्गहवार) ‘‘नवविधसुत्तन्तपरियेट्ठी’’ति. ‘‘एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्नं (पाचि. ६५५, १२४२), सकवादे पञ्च सुत्तसतानी’’ति (ध. स. अट्ठ. निदानकथा; कथा. अट्ठ. निदानकथा) एवमादि च एतस्स अत्थस्स साधकं. तदेकदेसेसु पन गेय्यादयो विसेसविधयो तेन तेन निमित्तेन पतिट्ठिता. तथा हि गेय्यस्स सगाथकत्तं तब्भावनिमित्तं. लोकेपि हि ससिलोकं सगाथकं वा चुण्णियगन्थं ‘‘गेय्य’’न्ति वदन्ति. गाथाविरहे पन सति पुच्छं कत्वा विस्सज्जनभावो वेय्याकरणस्स तब्भावनिमित्तं. पुच्छाविस्सज्जनञ्हि ‘‘ब्याकरण’’न्ति वुच्चति, ब्याकरणमेव वेय्याकरणं.

एवं सन्ते सगाथकादीनम्पि पुच्छं कत्वा विस्सज्जनवसेन पवत्तानं वेय्याकरणभावो आपज्जतीति? नापज्जति गेय्यादिसञ्ञानं अनोकासभावतो, ‘‘गाथाविरहे सती’’ति विसेसितत्ता च. तथा हि धम्मपदादीसु केवलं गाथाबन्धेसु, सगाथकत्तेपि सोमनस्सञाणमयिकगाथायुत्तेसु, ‘‘वुत्तञ्हेत’’न्ति (इतिवु. १) आदिवचनसम्बन्धेसु, अब्भुतधम्मपटिसंयुत्तेसु च सुत्तविसेसेसु यथाक्कमं गाथा-उदान-इतिवुत्तक-अब्भुतधम्म-सञ्ञा पतिट्ठिता, तथा सतिपि गाथाबन्धभावे भगवतो अतीतासु जातीसु चरियानुभावप्पकासकेसु जातकसञ्ञा, सतिपि पञ्हविस्सज्जनभावे सगाथकत्ते च केसुचि सुत्तन्तेसु वेदस्स लभापनतो वेदल्लसञ्ञा पतिट्ठिताति एवं तेन तेन सगाथकत्तादिना निमित्तेन तेसु तेसु सुत्तविसेसेसु गेय्यादिसञ्ञा पतिट्ठिताति विसेसविधयो सुत्तङ्गतो परे गेय्यादयो. यं पनेत्थ गेय्यङ्गादिनिमित्तरहितं, तं सुत्तङ्गं विसेससञ्ञापरिहारेन सामञ्ञसञ्ञाय पवत्तनतोति. ननु च सगाथकं सुत्तं गेय्यं, निग्गाथकं सुत्तं वेय्याकरणन्ति सुत्तङ्गं न सम्भवतीति चोदना तदवत्था एवाति? न तदवत्था सोधितत्ता. सोधितञ्हि पुब्बे ‘‘गाथाविरहे सति पुच्छाविस्सज्जनभावो वेय्याकरणस्स तब्भावनिमित्त’’न्ति.

यञ्च वुत्तं ‘‘गाथाभावतो मङ्गलसुत्तादीनं सुत्तङ्गसङ्गहो न सिया’’ति (खु. पा. ५.१; सु. नि. २६१), तं न, निरुळ्हत्ता. निरुळ्हो हि मङ्गलसुत्तादीनं सुत्तभावो. न हि तानि धम्मपदबुद्धवंसादयो विय गाथाभावेन पञ्ञातानि, किन्तु सुत्तभावेनेव. तेनेव हि अट्ठकथायं ‘‘सुत्तनामक’’न्ति नामग्गहणं कतं. यं पन वुत्तं ‘‘सगाथकत्ता गेय्यङ्गसङ्गहो सिया’’ति, तदपि नत्थि, यस्मा सहताञ्ञेन. सह गाथाहीति हि सगाथकं, सहभावो च नाम अत्थतो अञ्ञेन होति, न च मङ्गलसुत्तादीसु गाथाविनिमुत्तो कोचि सुत्तपदेसो अत्थि, यो ‘‘सह गाथाही’’ति वुच्चेय्य, न च समुदायो नाम कोचि अत्थि. यदपि वुत्तं ‘‘उभतोविभङ्गादीसु सगाथकप्पदेसानं गेय्यङ्गसङ्गहो सिया’’ति, तदपि न अञ्ञतो. अञ्ञा एव हि ता गाथा जातकादिपरियापन्नत्ता, अतो न ताहि उभतोविभङ्गादीनं गेय्यङ्गभावोति. एवं सुत्तादीनं अङ्गानं अञ्ञमञ्ञसङ्कराभावो वेदितब्बो.

अत्थत्थन्ति अत्थभूतं यथाभूतं अत्थं. अनत्थम्पि केचि विपल्लासवसेन ‘‘अत्थो’’ति गण्हन्तीति ‘‘अत्थत्थ’’न्ति विसेसेत्वा वुत्तं. कारणत्थन्ति कारणभूतं अत्थं, सीलं समाधिस्स कारणं, समाधि विपस्सनायाति एवं तस्स तस्स कारणभूतं अत्थं. तेनाह ‘‘इमस्मिं ठाने सील’’न्तिआदि. तेनेतं दस्सेति – इमस्मिं ठाने सीलं कथितं, तञ्च यावदेव समाधत्थं, समाधि विपस्सनत्थो, विपस्सना मग्गत्था, मग्गो फलत्थो, वट्टं कथितं यावदेव विवट्टाधिगमत्थन्ति जानितुं न सक्कोन्तीति. एवं पाळियं ‘‘अत्थ’’न्ति इमिना भासितत्थपयोजनत्थानं गहितता वेदितब्बा. न परिग्गण्हन्तीति न विचारेन्ति, निज्झानपञ्ञाक्खमा न होन्ति, निज्झायित्वा पञ्ञाय रोचेत्वा गहेतब्बा न होन्तीति अधिप्पायो. इति एवं एताय परियत्तिया वादप्पमोक्खानिसंसा अत्तनो उपरि परेहि आरोपितवादस्स निग्गहस्स मोक्खपयोजना हुत्वा धम्मं परियापुणन्ति. वादप्पमोक्खो वा निन्दापमोक्खो. यस्स चाति यस्स च सीलादिपूरणेन पत्तब्बस्स, मग्गस्स वा तदधिगमेन पत्तब्बस्स, फलस्स वा तदधिगमेन पत्तब्बस्स, अनुपादाविमोक्खस्स वा अत्थाय. धम्मं परियापुणन्ति, ञायेन परियापुणन्तीति अधिप्पायो. नानुभोन्ति न विन्दन्ति. तेसं ते धम्मा दुग्गहिता उपारम्भमानदप्पमक्खपळासादिहेतुभावेन दीघरत्तं अहिताय दुक्खाय संवत्तन्ति.

२३९. अलं परियत्तो गदो अस्साति अलगद्दो अनुनासिकलोपं द-कारागमञ्च कत्वा. वट्टदुक्खकन्तारतो नित्थरणत्थाय परियत्ति नित्थरणपरियत्ति. भण्डागारे नियुत्तो भण्डागारिको, भण्डागारिको विय भण्डागारिको, धम्मरतनानुपालको. अञ्ञं अत्थं अनपेक्खित्वा भण्डागारिकस्सेव सतो परियत्ति भण्डागारिकपरियत्ति. ‘‘वंसानुरक्खकोवा’’ति अवधारणं सीहावलोकनञायेन तन्तिधारकोव पवेणिपालकोवाति पुरिमपदद्वयेपि योजेतब्बं.

यदि तन्तिधारणादिअत्थं बुद्धवचनस्स परियापुणनं भण्डागारिकपरियत्ति, कस्मा ‘‘खीणासवस्सा’’ति विसेसेत्वा वुत्तं, ननु एकच्चस्स पुथुज्जनस्सपि अयं नयो लब्भतीति अनुयोगं सन्धायाह ‘‘यो पना’’तिआदि. अत्तनो ठानेति नित्थरणट्ठाने. कामं पुथुज्जनो ‘‘पवेणिं पालेस्सामी’’ति अज्झासयेन परियापुणाति. अत्तनो पन भवकन्तारतो अनित्तिण्णत्ता तस्स सा परियत्ति नित्थरणपरियत्ति एव नाम होतीति अधिप्पायो. तेनाह ‘‘पुथुज्जनस्सा’’तिआदि.

निज्झानं खमन्तीति निज्झानपञ्ञं खमन्ति. तत्थ तत्थ आगते सीलादिधम्मे निज्झायित्वा पञ्ञाय रोचेत्वा याथावतो गहेतब्बा होन्ति. तेनाह ‘‘इध सील’’न्तिआदि. न केवलं सुग्गहितं परियत्तिं निस्साय मग्गभावनाफलसच्छिकिरिया, परवादनिग्गहसकवादपतिट्ठापनादीनिपि इज्झन्तीति दस्सेतुं ‘‘परवादे’’तिआदि वुत्तं. तेनाह ‘‘उप्पन्नं परप्पवादं सहधम्मेन सुनिग्गहं निग्गहित्वा’’तिआदि (दी. नि. २.२६८). इच्छितिच्छितट्ठानन्ति दिट्ठिविनिवेठनादिवसेन इच्छितं इच्छितं पाळिपदेसं. मोचेतुन्ति अपनेतुं. अहिताय दुक्खाय असंवत्तनम्पि तदभावे उप्पज्जनकहितसुखस्स कारणमेव तस्मिं सति भावतोति. सुग्गहितअलगद्दस्सपि हिताय सुखाय संवत्तनता दट्ठब्बा.

२४०. उत्तरन्ति एतेनाति उत्तरो, सिनन्ति बन्धन्तीति सेतु, उत्तरो च सो सेतु चाति उत्तरसेतु. कूलं परतीरं वहति पापेतीति कुल्लं. कलापं कत्वा बद्धोति वेळुनळादीहि कलापवसेन बद्धो. अणुन्ति इदं अट्ठसमापत्तिआरम्मणं सञ्ञोजनं सन्धाय वदति. थूलन्ति इतरं. दिट्ठिन्ति यथाभूतदस्सनं, विपस्सनन्ति अत्थो. एवं परिसुद्धं एवं परियोदातन्ति तेभूमकेसु धम्मेसु ञातं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति, एवं तण्हादिट्ठिसंकिलेसाभावेन सब्बसो विसुद्धं, परिसुद्धत्ता एव परियोदातं. न अल्लीयेथाति निकन्तिवसेन न निस्सयेथ. न केलायेथाति न ममायेथ. न धनायेथाति धनं द्रब्यं न कयिराथ. उभयत्थाति समथे विपस्सनाय च.

असद्धम्मेतिआदीसु असतं हीनज्झासयानं धम्मोति असद्धम्मो. गामवासीनं धम्मोति गामधम्मो. किलेसानं वस्सनसभावताय वसलधम्मो. किलेसेहि दूसितत्ता थूलत्ता च दुट्ठुल्लो. उदकसुद्धिपरियोसानताय ओदकन्तिको. ‘‘धम्मापि वो पहातब्बा’’ति इमिनापि ओवादेन भिक्खू उद्दिस्स कथेन्तोपि अरिट्ठंयेव निग्गण्हाति.

२४१. तिविधग्गाहवसेनाति तण्हामानदिट्ठिग्गाहवसेन. यदि एवं ‘‘अहं ममाति गण्हाती’’ति गाहद्वयमेव कस्मा वुत्तन्ति? नयिदमेवं तत्थापि गाहत्तयस्सेव वुत्तत्ता. ‘‘अह’’न्ति हि इमिना मानदिट्ठिग्गाहा वुत्ता ‘‘अहमस्मी’’ति गाहसामञ्ञतो. दिट्ठिपि दिट्ठिट्ठानं पुरिमुप्पन्नाय दिट्ठिया उत्तरदिट्ठिया सक्कायदिट्ठिया सस्सतदिट्ठिया च कारणभावतो. आरम्मणं पञ्च खन्धा, रूपारम्मणादीनि च. दिट्ठिया पच्चयो अविज्जा-फस्स-सञ्ञा-वितक्क-अयोनिसोमनसिकार-पापमित्तपरतोघोसादिको दिट्ठिया उपनिस्सयादिपच्चयो. वुत्तञ्हेतं पटिसम्भिदायं (पटि. म. १.१२४)‘‘कतमानि अट्ठ दिट्ठिट्ठानानि अविज्जापि फस्सोपि सञ्ञापि वितक्कोपि अयोनिसोमनसिकारोपि पापमित्तोपि परतोघोसोपि दिट्ठिट्ठान’’न्तिआदि. रूपारम्मणाति रुप्पनसभावधम्मारम्मणा. रूपं पन अत्ताति न वत्तब्बं इध ‘‘रूपं अत्ततो समनुपस्सती’’ति (सं. नि. ३.८१, ३४५) इमस्स गाहस्स अनधिप्पेतत्ता. सो हि ‘‘यम्पि तं दिट्ठिट्ठान’’न्तिआदिना परतो वुच्चति. इध पन ‘‘रूपवन्तं अत्तानं समनुपस्सति, अत्तनि रूपं, रूपस्मिं अत्तान’’न्ति इमे तयो गाहा अधिप्पेताति केचि, तदयुत्तं. यस्मा रूपं अत्ता न होति, अत्तग्गाहस्स पन आलम्बनं होति, अत्तसभावेयेव वा रूपादिधम्मे आरब्भ अत्तदिट्ठि उप्पज्जति, न अत्तानं तस्स परमत्थतो अनुपलब्भनतो, तस्मा रूपादिआरम्मणाव अत्तदिट्ठीति कत्वा वुत्तं, रूपं पन ‘‘अत्ता’’ति न वत्तब्बन्ति अयमेत्थ अत्थो. ‘‘यम्पि तं दिट्ठिट्ठान’’न्तिआदिना पन विपस्सनापटिविपस्सना विय दिट्ठिअनुपस्सना नाम दस्सिता.

गन्धरसफोट्ठब्बायतनानं सम्पत्तगाहिन्द्रियविसयताय पत्वा गहेतब्बता. तञ्हि तस्स अत्तनो विसयं परिभुत्वा सम्बन्धं हुत्वा गण्हाति. अवसेसानि सत्तायतनानि विञ्ञातं नाम मनसा विञ्ञातब्बतो. अञ्ञथा इतरेसम्पि विञ्ञातता सिया. पत्तन्ति अधिगतं. परियेसितन्ति गवेसितं. अनुविचरितन्ति चिन्तितं. तेनाह ‘‘मनसा’’ति. एत्थ च पत्तपरियेसनानं अपटिक्खेपस्स, विसुं, एकज्झं पटिक्खेपस्स च वसेन चतुक्कोटिकं दस्सेत्वा पत्तपरियेसितेहि अनुविचरितस्स भेदं दस्सेतुं ‘‘लोकस्मिञ्ही’’तिआदि वुत्तं. परियेसित्वा पत्तं पठमं चेतसा पच्छा कायेन पत्तत्ता पत्तं नाम. परियेसित्वा नोपत्तं परियेसितं नाम केवलं परियेसितभावतो. अपरियेसित्वा पत्तञ्च नोपत्तञ्च मनसा अनुविचरितब्बतो मनसानुविचरितं नाम.

अयञ्च विकप्पो आकुलो वियाति ‘‘अथ वा’’तिआदि वुत्तं. पत्तट्ठेनाति पत्तभावेन पत्ततासामञ्ञेन. अपरियेसित्वा नोपत्तं मनसानुविचरितं नाम पत्तिया परियेसनाय च अभावतो. सब्बं वा एतन्ति ‘‘परियेसित्वा पत्तम्पी’’तिआदिना वुत्तं चतुब्बिधम्पि. इमिनाति ‘‘यम्पि तं दिट्ठिट्ठानं’’तिआदिवचनेन. विञ्ञाणारम्मणा तण्हामानदिट्ठियो कथिता पारिसेसञायेन. एवं पारिसेसञायपरिग्गहे किं पयोजनन्ति आह ‘‘देसनाविलासेना’’तिआदि. येसं विनेय्यानं देसेतब्बधम्मस्स सरूपं अनामसित्वा आरम्मणकिच्च-सम्पयुत्तधम्म-फलविसेसादि-पकारन्तरविभावनेन पटिवेधो होति, तेसं तप्पकारभेदेहि धम्मेहि, येसं पन येन एकेनेव पकारेन सरूपेनेव वा विभावने कते पटिवेधो होति, तेसं तं वत्वा धम्मिस्सरत्ता तदञ्ञं निरवसेसाकारविभावनञ्च देसनाविलासो. तेनाह ‘‘दिट्ठादिआरम्मणवसेन विञ्ञाणं दस्सित’’न्ति.

दिट्ठिट्ठानन्ति दिट्ठि एव दिट्ठिट्ठानं, तं हेट्ठा वुत्तनयमेव. यं रूपं एसा दिट्ठि ‘‘लोको च अत्ता चा’’ति गण्हाति. तं रूपं सन्धाय ‘‘सो लोको सो अत्ता’’ति वचनं वुत्तन्ति योजना. सो पेच्च भविस्सामीति उद्धमाघातनिकवादवसेनायं दिट्ठीति आह ‘‘सो अहं परलोकं गन्त्वा निच्चो भविस्सामी’’तिआदि. धुवोति थिरो. सस्सतोति सब्बदाभावी. अविपरिणामधम्मोति जराय मरणेन च अविपरिणामेतब्बसभावो, निब्बिकारोति अत्थो. तम्पि दस्सनन्ति तम्पि तथावुत्तं दिट्ठिदस्सनं अत्तानं विय तण्हादिट्ठिग्गाहविसेसेन गण्हाति. तेनाह ‘‘एतं ममा’’तिआदि. दिट्ठारम्मणाति दिट्ठिविसया. कथं पन दिट्ठि दिट्ठिविसया होतीति आह ‘‘विपस्सनाया’’तिआदि. पटिविपस्सनाकालेति यमकतो सम्मसनादिकालं सन्धायाह. तत्थ अक्खरचिन्तकानं सद्दे विय, वेदज्झायीनं वेदसत्थे विय च दिट्ठियं दिट्ठिगतिकानं दिट्ठिग्गाहप्पवत्ति दट्ठब्बा.

समनुपस्सतीति पदस्स च तस्सो समनुपस्सना अत्थोति योजना. तेन समनुपस्सना नाम चतुब्बिधाति दस्सेति. तत्थ ञाणं ताव समविसमं सम्मा याथावतो अनुपस्सतीति समनुपस्सना. इतरा पन संकिलेसवसेन अनु अनु पस्सन्तीति समनुपस्सना. यदि एवं होतु ताव दिट्ठिसमनुपस्सना मिच्छादस्सनभावतो, कथं तण्हामानाति? तण्हायपि सत्तानं पापकरणे उपायदस्सनवसेन पञ्ञापतिरूपिका पवत्ति लब्भतेव, याय वञ्चननिकतिसाचियोगा सम्भवन्ति. मानोपि सेय्यादिना दस्सनवसेनेव तथा अत्तानं ऊहतीति तण्हामानानं समनुपस्सनापतिरूपिका पवत्ति लब्भतीति दट्ठब्बं. अविज्जमानेति ‘‘एतं ममा’’ति एवं गहेतब्बे तण्हावत्थुस्मिं अज्झत्तखन्धपञ्चके अनुपलब्भमाने विनट्ठे. न परितस्सति भयपरित्तासतण्हापरित्तासानं मग्गेन समुग्घातितत्ता.

२४२. चतूहि कारणेहीति ‘‘असति न परितस्सती’’ति वुत्तम्पि इतरेहि तीहि सह गहेत्वा वुत्तं. चतूहि कारणेहीति चतुक्कोटिकसुञ्ञताकथनस्स कारणेहि. बहिद्धा असतीति बाहिरे वत्थुस्मिं अविज्जमाने. सा पनस्स अविज्जमानता लद्धविनासेन वा अलद्धालाभेन वाति पाळियं – ‘‘अहु वत मे, तं वत मे नत्थि, सिया वत मे, तं वताहं न लभामी’’ति वुत्तन्ति तदुभयं परिक्खारवसेन विभजित्वा तत्थ परितस्सनं दस्सेतुं ‘‘बहिद्धा परिक्खारविनासे’’तिआदि वुत्तं. तत्थ यानं ‘‘रथो वय्ह’’न्ति एवमादि. वाहनं हत्थिअस्सादि.

येहि किलेसेहीति येहि असन्तपत्थनादीहि किलेसेहि. एवं भवेय्याति एवं ‘‘अहु वत मे’’तिआदिना चोदनादि भवेय्य. दिट्ठिट्ठानाधिट्ठानपरियुट्ठानाभिनिवेसानुसयानन्ति एत्थ अपरापरं पवत्तासु दिट्ठीसु या परतो उप्पन्ना दिट्ठियो, तासं पुरिमुप्पन्ना दिट्ठियो कारणट्ठेन दिट्ठिट्ठानानि. अधिकरणट्ठेन दिट्ठाधिट्ठानानि, परियुट्ठानप्पत्तिया सब्बापि दिट्ठिपरियुट्ठानानि. ‘‘इदमेव सच्चं मोघमञ्ञ’’न्ति (म. नि. २.२०२, ४२७; ३.२७-२९; उदा. ५५; महानि. २०; नेत्ति. ५९) पवत्तिया अभिनिवेसा. अप्पहीनभावेन सन्ताने सयन्तीति अनुसयाति एवं दिट्ठिट्ठानादीनं पदानं विभागो वेदितब्बो. तण्हादीहि कम्पनियताय सब्बसङ्खाराव इञ्जितानीति सब्बसङ्खारइञ्जितानि. सेसपदद्वयेपि एसेव नयो. उपधीयति एत्थ दुक्खन्ति उपधि, खन्धाव उपधि खन्धूपधि. एस नयो सेसेसुपि. तदेव च आगम्म तण्हा खीयति विरज्जति निरुज्झतीति योजना. उच्छिज्जिस्सामि नामस्सूतिआदीसु निपातमत्तं, संसये वा. तासोति अत्तनियाभावं पटिच्च तण्हापरित्तासो चेव भयपरित्तासो च. तेनाह ‘‘तासो हेसो’’तिआदि. नो चस्सं, नो च मे सियाति ‘‘अह’’न्ति किर कोचि नो चस्सं, ‘‘मे’’ति च किञ्चि नो सियाति. तासप्पतीकारदस्सनञ्हेतं.

२४३. एत्तावताति ‘‘एवं वुत्ते’’तिआदिना, पुच्छानुसन्धिवसेन पवत्ताय ‘‘छयिमानि, भिक्खवे, दिट्ठिट्ठानानी’’तिआदिना (म. नि. १.२४१) वा. सापि हि अज्झत्तखन्धविनासे परितस्सनकं दस्सेत्वा अपरितस्सनकं दस्सेन्ती पवत्ताति तस्सनकस्स सुञ्ञतादस्सनं अकिच्चसाधकम्पि सुञ्ञतादस्सनमेवाति इमेसं वसेन ‘‘चतुक्कोटिका सुञ्ञता कथिता’’ति वुत्तं. बहिद्धा परिक्खारन्ति बाहिरं सविञ्ञाणकं अविञ्ञाणकञ्च सत्तोपकरणं. तञ्हि जीवितवुत्तिया परिक्खारकट्ठेन ‘‘परिक्खारो’’ति वुत्तं. परिग्गहं नाम कत्वाति ‘‘मम इद’’न्ति परिग्गहेतब्बताय परिग्गहितं नाम कत्वा. सब्बोपि दिट्ठिग्गाहो ‘‘अत्ता निच्चो धुवो सस्सतो, अत्ता उच्छिज्जति विनस्सती’’तिआदिना अत्तदिट्ठिसन्निस्सयोयेवाति वुत्तं ‘‘सक्कायदिट्ठिपमुखा द्वासट्ठिदिट्ठियो’’ति. अयाथावग्गाहिना अभिनिवेसनपञ्ञापनानं उपत्थम्भभावतो दिट्ठि एव निस्सयोति दिट्ठिनिस्सयो. परिग्गण्हेय्याति निच्चादिविसेसयुत्तं कत्वा परिग्गण्हेय्य. किमेवं परिग्गहेतुं सक्कुणेय्य? सब्बत्थाति ‘‘तं, भिक्खवे, अत्तवादुपादानं उपादियेथ, तं, भिक्खवे, दिट्ठिनिस्सयं निस्सयेथा’’ति एतेसुपि.

२४४. अत्तनि वा सतीति यस्स अत्तनो सन्तकभावेन किञ्चि अत्तनियन्ति वुच्चेय्य, तस्मिं अत्तनि सति, सो एव पन अत्ता परमत्थतो नत्थीति अधिप्पायो. सक्का हि वत्तुं बाहिरकपरिकप्पितो अत्ता ‘‘परमत्थो’’ति? सिया खन्धपञ्चकं ञेय्यसभावत्ता यथा तं घटो, यदि पन तदञ्ञं नाम किञ्चि अभविस्स, न तं नियमतो विपरीतं सियाति? न च सो परमत्थतो अत्थि पमाणेहि अनुपलब्भमानत्ता तुरङ्गमविसाणं वियाति. अत्तनिये वा परिक्खारे सतीति ‘‘इदं नाम अत्तनो सन्तक’’न्ति तस्स किञ्चनभावेन निच्छिते किस्मिञ्चि वत्थुस्मिं सति. अत्तनो इदन्ति हि अत्तनियन्ति. अहन्ति सतीति ‘‘अहं नामाय’’न्ति अहंकारवत्थुभूते परमत्थतो निद्धारितसरूपे किस्मिञ्चि सति तस्स सन्तकभावेन ममाति किञ्चि गहेतुं युत्तं भवेय्य. ममाति सति ‘‘अह’’न्ति एत्थापि एसेव नयो. इति परमत्थतो अत्तनो अनुपलब्भमानत्ता अत्तनियं किञ्चि परमत्थतो नत्थेवाति सब्बसङ्खारानं अनत्तताय अनत्तनियतं, अनत्तनियताय च अनत्तकतं दस्सेति. भूततोति भूतत्थतो. तथतोति तथसभावतो. थिरतोति ठितसभावतो निब्बिकारतो.

यस्मा हुत्वा न होतीति यस्मा पुब्बे असन्तं पच्चयसमवायेन हुत्वा उप्पज्जित्वा पुन भङ्गुपगमेन न होति, तस्मा न निच्चन्ति अनिच्चं, अधुवन्ति अत्थो. ततो एव उप्पादवयवत्तितोति उप्पज्जनवसेन निरुज्झनवसेन च पवत्तनतो. सभावविगमो इध विपरिणामो, खणिकता तावकालिकता, निच्चसभावाभावो एव निच्चपटिक्खेपो. अनिच्चधम्मा हि तेनेव अत्तनो अनिच्चभावेन अत्थतो निच्चतं पटिक्खिपन्ति नाम. तथा हि वुत्तं ‘‘न निच्चन्ति अनिच्च’’न्ति. उप्पादजराभङ्गवसेन रूपस्स निरन्तरबाधताति पटिपीळनाकारेनस्स दुक्खता. सन्तापो दुक्खदुक्खतादिवसेन सन्तापनं परिदहनं, ततो एवस्स दुस्सहताय दुक्खमता. तिस्सन्नं दुक्खतानं संसारदुक्खस्स च अधिट्ठानताय दुक्खवत्थुकता. सुखसभावाभावो एव सुखपटिक्खेपो. विपरिणामधम्मन्ति जराय मरणेन च विपरिणमनसभावं. यस्मा इदं रूपं पच्चयसमवायेन उप्पादं, उप्पादानन्तरं जरं पत्वा अवस्समेव भिज्जति, भिन्नञ्च भिन्नमेव, नास्स कस्सचि सङ्कमोति भवन्तरानुपगमनसङ्खातेन सङ्कमाभावेन विपरिणामधम्मतं पाकटं कातुं ‘‘भवसङ्कन्ति उपगमनसभाव’’न्ति वुत्तं. पकतिभावविजहनं सभावविगमो निरुज्झनमेव. न्ति अनिच्चं दुक्खं विपरिणामधम्मं रूपं. इमिनाति ‘‘नो हेतं, भन्ते’’ति रूपस्स तण्हादिग्गाहानं वत्थुभावपटिक्खेपेन. रूपञ्हि उप्पन्नं ठितिं मा पापुणातु, ठितिप्पत्तं मा जीरतु, जरप्पत्तं मा भिज्जतु, उदयब्बयेहि मा किलमियतूति न एत्थ कस्सचि वसीभावो अत्थि, स्वायमस्स अवसवत्तनट्ठो अनत्ततासल्लक्खणस्स कारणं होतीति आह ‘‘अवसवत्तनाकारेन रूपं, भन्ते, अनत्ताति पटिजानन्ती’’ति. निवासिकारकवेदकअधिट्ठायकविरहेन ततो सुञ्ञता सुञ्ञट्ठो, सामिभूतस्स कस्सचि अभावो अस्सामिकट्ठो, यथावुत्तवसवत्तिभावाभावो अनिस्सरट्ठो, परपरिकप्पितअत्तसभावाभावो एव अत्तपटिक्खेपट्ठो.

यस्मा अनिच्चलक्खणेन विय दुक्खलक्खणं, तदुभयेन अनत्तलक्खणं सुविञ्ञापयं, न केवलं, तस्मा तदुभयेनेत्थ अनत्तलक्खणविभावनं कतन्ति दस्सेन्तो ‘‘भगवा ही’’तिआदिमाह. तत्थ अनिच्चवसेनाति अनिच्चतावसेन. दुक्खवसेनाति दुक्खतावसेन. न उपपज्जतीति न युज्जति. तमेव अयुज्जमानतं दस्सेतुं ‘‘चक्खुस्स उप्पादोपी’’तिआदि वुत्तं. यस्मा अत्तवादी अत्तानं निच्चं पञ्ञपेति, चक्खुं पन अनिच्चं, तस्मा चक्खु विय अत्तापि अनिच्चो आपन्नो. तेनाह ‘‘यस्स खो पना’’तिआदि. तत्थ वेतीति विगच्छति निरुज्झति. इति चक्खु अनत्ताति चक्खुस्स उदयब्बयवन्तताय अनिच्चता, अत्तनो च अत्तवादिना अनिच्चताय अनिच्छितत्ता चक्खु अनत्ता.

कामं अनत्तलक्खणसुत्ते (सं. नि. ३.५९; महाव. २०) – ‘‘यस्मा च खो, भिक्खवे, रूपं अनत्ता, तस्मा रूपं आबाधाय संवत्तती’’ति रूपस्स अनत्तताय दुक्खता विभाविता विय दिस्सति, तथापि ‘‘यस्मा रूपं आबाधाय संवत्तति, तस्मा अनत्ता’’ति पाकटताय साबाधताय रूपस्स अत्तसाराभावो विभावितो, ततो एव च ‘‘न लब्भति रूपे एवं मे रूपं होतु, एवं मे रूपं मा अहोसी’’ति रूपे कस्सचि अनिस्सरता, तस्स च अवसवत्तनाकारो दस्सितोति आह ‘‘दुक्खवसेन अनत्ततं दस्सेती’’ति. यदनिच्चं तं दुक्खन्ति यं वत्थु अनिच्चं, तं दुक्खं उदयब्बयपटिपीळितत्ता, यं पन निच्चं तदभावतो, तं सुखं यथा तं निब्बानन्ति अधिप्पायो. यं तन्ति कारणनिद्देसोवायं, यस्मा रूपं अनिच्चं, तं तस्माति अत्थो. यं दुक्खं तदनत्ताति एत्थ वुत्तनयेनेव अत्थो वेदितब्बो. अनिच्चन्ति इमिना घटादि विय पच्चयुप्पन्नत्ता रूपं अनिच्चन्ति इममत्थं दस्सेति. इमिनाव नयेन ‘‘अनत्ता’’ति वत्तुं लब्भमानेपि ‘‘अनत्ता’’ति वत्ता नाम नत्थि. एवं दुक्खन्ति वदन्तीति एत्थापि यथारहं वत्तब्बं ‘‘अक्खिसूलादिविकारप्पत्तकाले विय पच्चयुप्पन्नत्ता दुक्खं रूप’’न्तिआदिना. दुद्दसं दुप्पञ्ञापनं. तथा हि सरभङ्गादयोपि सत्थारो नाद्दसंसु, कुतो पञ्ञापना. तयिदं अनत्तलक्खणं.

तस्मातिहातिआदिना तियद्धगतरूपं लक्खणत्तयं आरोपेत्वा वुत्तन्ति आह ‘‘एतरहि अञ्ञदापी’’ति. तं पन यादिसं तादिसम्पि तथा वुत्तन्ति अज्झत्तादिविसेसोपि वत्तब्बो. पि-सद्देन वा तस्सापि सङ्गहो दट्ठब्बो.

२४५. उक्कण्ठतीति नाभिरमति. अञ्ञत्थ ‘‘निब्बिदा’’ति बलवविपस्सना वुच्चति, सानुलोमा पन सङ्खारुपेक्खा ‘‘वुट्ठानगामिनी’’ति, सा इध कथं निब्बिदा नाम जाताति आह ‘‘वुट्ठानगामिनिविपस्सनाय ही’’तिआदि. इमिना सिखापत्तनिब्बेदताय वुट्ठानगामिनी इध निब्बिदानामेन वुत्ताति दस्सेति.

‘‘सो अनुपुब्बेन सञ्ञग्गं फुसती’’ति (दी. नि. १.४१४, ४१५) वत्वा ‘‘सञ्ञा खो पोट्ठपाद पठमं उप्पज्जति, पच्छा ञाण’’न्ति (दी. नि. १.४१६) वुत्तत्ता सञ्ञग्गन्ति वुत्ता लोकियासु पहानसञ्ञासु सिखापत्तभावतो. धम्मट्ठितिञाणन्ति वुत्ता इदप्पच्चयतादस्सनस्स मत्थकप्पत्तीति कत्वा. ततो परञ्हि असङ्खतारम्मणं ञाणं होति. तेनाह – ‘‘पुब्बे खो सुसिम धम्मट्ठितिञाणं, पच्छा निब्बाने ञाण’’न्ति (सं. नि. २.७०). पारिसुद्धिपधानियङ्गन्ति वुत्ता मग्गाधिगमस्स परिपन्थभूतसब्बसंकिलेसविसुद्धि पधानिकस्स योगिनो, पधानभावनाय वा जातं अङ्गन्ति कत्वा. पटिपदाञाणदस्सनविसुद्धीति वुत्ता परमुक्कंसगतपटिपदाञाणदस्सनविसुद्धिभावतो. अतम्मयतन्ति एत्थ तम्मयता नाम तण्हा, कामतण्हादीसु ताय ताय निब्बत्तत्ता तम्मयं नाम तेभूमिकप्पवत्तं, तस्स भावोति कत्वा. तस्सा तण्हाय परियादानतो वुट्ठानगामिनिविपस्सना अतम्मयताति वुच्चति. निस्सायाति तं अतम्मयतं पच्चयं कत्वा. आगम्माति तस्सेव वेवचनं. नानत्ताति नानासभावा बहू अनेकप्पकारा. नानत्तसिताति नानारम्मणनिस्सिता रूपादिविसया. एकत्ताति एकसभावा. एकत्तसिताति एकंयेव आरम्मणं निस्सिता. तं निस्सायाति तं एकत्तसितं उपेक्खं पच्चयं कत्वा. एतिस्साति एतिस्सा उपेक्खाय. पहानं होतीति अञ्ञाणुपेक्खतो पभुति सब्बं उपेक्खं पजहित्वा ठितस्स ‘‘अतम्मयता’’ति वुत्ताय वुट्ठानगामिनिविपस्सनाय अरूपावचरसमापत्तिउपेक्खाय विपस्सनुपेक्खाय च पहानं होतीति परियादानन्ति वुत्ताति. सब्बसङ्खारगतस्स मुञ्चितुकम्यतापटिसङ्खानस्स सिखापत्तभावतो वुट्ठानगामिनी मुञ्चितुकम्यता पटिसङ्खानन्ति च वुत्ता. मुदुमज्झादिवसेन पवत्तिआकारमत्तं, अत्थतो एकत्था मुञ्चितुकम्यतादयो, ब्यञ्जनमेव नानं. द्वीहि नामेहीति गोत्रभु, वोदानन्ति इमेहि द्वीहि नामेहि.

विरागोति मग्गो, अच्चन्तमेव विरज्जति एतेनाति विरागो, तेन. मग्गेन हेतुभूतेन. विमुच्चतीति पटिप्पस्सद्धिविमुत्तिवसेन विमुच्चति. तेनाह ‘‘फलं कथित’’न्ति.

महाखीणासवोति पसंसावचनं यथा ‘‘महाराजा’’ति. तथा हि तं पसंसन्तो सत्था ‘‘अयं वुच्चति, भिक्खवे, भिक्खु उक्खित्तपलिघो इतिपी’’तिआदिमाहाति. तदत्थं विवरितुं ‘‘इदानि तस्सा’’तिआदि वुत्तं. यथाभूतेहीति याथावतो भूतेहि. दुरुक्खिपनट्ठेनाति पचुरजनेहि उक्खिपितुं असक्कुणेय्यभावेन. निब्बाननगरप्पवेसे विबन्धनेन पलिघो वियाति पलिघोति वुच्चति. मत्थकच्छिन्नो तालो पत्तफलादीनं अनङ्गतो तालावत्थु असिवे ‘‘सिवा’’ति समञ्ञा विय. तेनाह ‘‘सीसच्छिन्नतालो विय कता’’ति. पुनब्भवस्स करणसीलो, पुनब्भवं वा फलं अरहतीति पोनोभविको. एवंभूतो पन पुनब्भवं देति नामाति आह ‘‘पुनब्भवदायको’’ति. पुनब्भवखन्धानं पच्चयोति इमिना जातिसंसारोति फलूपचारेन कारणं वुत्तन्ति दस्सेति. परिक्खाति वुच्चति सन्तानस्स परिक्खिपनतो. संकिण्णत्ताति सब्बसो किण्णत्ता विनासितत्ता. गब्भीरानुगतट्ठेनाति गम्भीरं अनुपविट्ठट्ठेन. लुञ्चित्वाति उद्धरित्वा. एतानीति कामरागसञ्ञोजनादीनि. अग्गळाति वुच्चन्ति अवधारणट्ठेन. अग्गमग्गेन पतितो मानद्धजो एतस्साति पतितमानद्धजो. इतरभारोरोपनस्स पुरिमपदेहि पकासितत्ता ‘‘मानभारस्सेव ओरोपितत्ता पन्नभारोति अधिप्पेतो’’ति वुत्तं. मानसंयोगेनेव विसंयुत्तत्ताति एत्थापि एसेव नयो. पञ्चपि खन्धे अविसेसतो अस्मीति गहेत्वा पवत्तमानो ‘‘अस्मिमानो’’ति अधिप्पेतोति वुत्तं ‘‘रूपे अस्मीति मानो’’तिआदि.

नगरद्वारस्स परिस्सयपटिबाहनत्थञ्चेव सोभनत्थञ्च उभोसु पस्सेसु एसिकत्थम्भे निखणित्वा ठपेन्तीति आह ‘‘नगरद्वारे उस्सापिते एसिकत्थम्भे’’ति. पाकारविद्धंसनेनेव परिक्खाय भूमिसमकरणं होतीति आह ‘‘पाकारं भिन्दन्तो परिक्खं संकिरित्वा’’ति. एवन्तिआदि उपमासंसन्दनं. सन्तो संविज्जमानो कायो धम्मसमूहोति सक्कायो, उपादानक्खन्धपञ्चकं. द्वत्तिंस कम्मकारणा दुक्खक्खन्धे आगता. अक्खिरोगसीसरोगादयो अट्ठनवुति रोगा. राजभयादीनि पञ्चवीसति महाभयानि.

२४६. अनधिगमनीयविञ्ञाणतन्ति ‘‘इदं नाम निस्साय इमिना नाम आकारेन पवत्तती’’ति एवं दुविञ्ञेय्यचित्ततं. अन्वेसन्ति पच्चत्ते एकवचनन्ति आह ‘‘अन्वेसन्तो’’ति. सत्तोपि तथागतोति वुच्चति ‘‘तथागतो परं मरणा’’तिआदीसु (दी. नि. १.६५) विय. सत्तो हि यथेको कम्मकिलेसेहि इत्थत्तं आगतो, तथा अपरोपि आगतोति ‘‘तथागतो’’ति वुच्चति. उत्तमपुग्गलोति भगवन्तं सन्धाय वदति. खीणासवोपीति यो कोचि खीणासवोपि ‘‘तथागतो’’ति अधिप्पेतो. सोपि हि यथेको चतूसु सतिपट्ठानेसु सूपट्ठितचित्तो सत्त बोज्झङ्गे यथाभूतं भावेत्वा अनुत्तरं अरहत्तं आगतो अधिगतो, तथा अपरोपि आगतोति ‘‘तथागतो’’ति वुच्चति. असंविज्जमानोति परमत्थतो अनुपलब्भनीयो. अविन्देय्योति न विन्दितब्बो, दुविञ्ञेय्योति अत्थो.

तथागतो सत्तो पुग्गलोति न पञ्ञपेमि परमत्थतो सत्तस्सेव अभावतोति अधिप्पायो. किं पञ्ञपेस्सामि पञ्ञत्तिउपादानस्सपि धरमानकस्स अभावतो. ‘‘अनुप्पादो खेमं, अनुप्पत्ति खेम’’न्तिआदिना असङ्खताय धातुया पक्खन्धनवसेन पवत्तं अग्गफलसमापत्तिअत्थं विपस्सनाचित्तं वा.

तुच्छाति करणे निस्सक्कवचनन्ति आह ‘‘तुच्छकेना’’ति. विनयतीति विनयो, सो एव वेनयिको. तथा मन्ति तथाभूतं मं. परमत्थतो विज्जमानस्स हि सत्तस्स अभावं वदन्तो सत्तविनासपञ्ञापको च नाम सिया, अहं पन परमत्थतो अविज्जमानं तं ‘‘नत्थी’’ति वदामि. यथा च लोको वोहरति, तथेव तं वोहरामि, तथाभूतं मं ये समणब्राह्मणा ‘‘वेनयिको समणो गोतमो’’ति वदन्ता असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्तीति योजना. अप्पटिसन्धिकस्स खीणासवस्स चरिमचित्तं निरुपादानतो अनुपादानो विय जातवेदो परिनिब्बुतं इदं नाम निस्सितन्ति न पञ्ञायतीति वदन्तो किमेत्तावता उच्छेदवादी भवेय्य, नाहं कदाचिपि अत्थि, नापि कोचि अत्थीति वदामि. एवं सन्ते किं निस्साय ते मोघपुरिसा सतो सत्तस्स नाम उच्छेदं विनासं विभवं पञ्ञपेतीति वदन्ता असता…पे… अब्भाचिक्खन्तीति अयमेत्थ अधिप्पायो.

महाबोधिमण्डम्हीति बोधिमण्डग्गहणेन सत्तसत्ताहमाह. तेन धम्मचक्कपवत्तनतो (सं. नि. ५.१०८१; महाव. १३; पटि. म. २.३०) पुब्बे वुत्तं तन्तिदेसनं वदति. चतुसच्चमेव पञ्ञपेमीति एतेन सच्चविमुत्ता सत्थुदेसना नत्थीति दस्सेति. एत्थ च – ‘‘पुब्बे चेव एतरहि च दुक्खञ्चेव पञ्ञपेमि दुक्खस्स च निरोध’’न्ति वदन्तो भगवा नाहं कदाचिपि ‘‘अत्ता उच्छिज्जति, विनस्सती’’ति वा, ‘‘अत्ता नाम कोचि अत्थी’’ति वा वदामि. एवं सन्ते किं निस्साय ते मोघपुरिसा ‘‘सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेती’’ति असता तुच्छेन अब्भाचिक्खन्तीति दस्सेति. परेति अमामका, मम ओवादस्स अभाजनभूताति अत्थोति आह ‘‘सच्चानि…पे… असमत्थपुग्गला’’ति. अधिप्पायेनाति इमिना तेसं अधिप्पायमत्तं, रोसनविहेसनानि पन तथागतस्स आकासस्स विलिखनं विय न सम्भवन्तियेवाति दस्सेति. आहनति चित्तन्ति आघातो. अप्पतीता होन्ति एतेनाति अप्पच्चयो. चित्तं न अभिराधयतीति अनभिरद्धि. अतुट्ठीति तुट्ठिपटिपक्खो तथापवत्तो चित्तुप्पादो, कोधो एव वा.

परेति अञ्ञे एकच्चे. आनन्दन्ति पमोदन्ति एतेनाति आनन्दो, पीतिया एवेतं अधिवचनं. सोभनमनता सोमनस्सं, चेतसिकसुखस्सेतं अधिवचनं. उप्पिलति पुरिमावत्थाय भिज्जति विसेसं आपज्जतीति उप्पिलं, तदेव उप्पिलावितं, तस्स भावो उप्पिलावितत्तं. याय उप्पन्नाय कायचित्तं वातपूरितभत्ता विय उद्धुमायनाकारप्पत्तं होति, तस्सा गेहस्सिताय ओदग्गियपीतिया एतं अधिवचनं. सच्चानि पटिविज्झितुं असमत्थाति दुक्खमेव उप्पज्जति निरुज्झति च, न अञ्ञो सत्तो नाम अत्थीति एवं जानितुं असमत्था ‘‘अत्ता नाम अत्थी’’ति एवंदिट्ठिनो अप्पहीनविपल्लासा. उत्तमं पसादनीयट्ठानं तथागतम्पि अक्कोसन्ति, किमङ्गं पन भिक्खूति अधिप्पायो.

२४७. अनत्तनियेपि खन्धपञ्चके मिच्छागाहवसेन अत्तनियसञ्ञाय पवत्तस्स छन्दरागस्स पहानं. अम्हाकं नेव अत्ताति यस्मा रूपवेदनादियेव अत्तग्गाहवत्थु तब्बिनिमुत्तस्स लोभनेय्यस्स अभावतो. एतं तिणकट्ठसाखापलासं न अम्हाकं रूपं, न विञ्ञाणं, तस्मा अम्हाकं नेव अत्ताति योजना. अज्झत्तिकस्स वत्थुनो नेव अत्ताति पटिक्खित्तत्ता बाहिरवत्थु अत्तनियभावेन पटिक्खित्तं होतीति आह ‘‘अम्हाकं चीवरादिपरिक्खारोपि न होती’’ति. खन्धपञ्चकंयेवाति बाहिरवत्थुं निदस्सनं कत्वा खन्धपञ्चकंयेव न तुम्हाकन्ति पजहापेति. न उप्पाटेत्वा कन्दं विय. न लुञ्चित्वा वा केसे वियाति. इमिना रूपादीनं नाममुखेन पहानं इच्छन्ति. उल्लिङ्गितमत्थं छन्दरागविनयेन पजहापेतीति सरूपतो दस्सेति.

२४८. ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा’’तिआदि देसना तिपरिवट्टं. याव इमं ठानन्ति ‘‘एवं स्वाक्खातो’’ति यावायं पाळिपदेसो. सुविञ्ञेय्यभावेन अक्खातत्तापि स्वाक्खातोति आह ‘‘सुकथितत्ता एव उत्तानो विवटो पकासितो’’ति. तिरियं विदारणेन छिन्नं, दीघसो फालनेन भिन्नं, ततो एव तत्थ तत्थ सिब्बितगण्ठिकतजिण्णवत्थं पिलोतिका, तदभावतो छिन्नपिलोतिको, पिलोतिकरहितोति अत्थो. इरियापथ-सण्ठपनअविज्जमानझान-विपस्सनानि छिन्नाय अविज्जमानाय पटिपत्तिया सिब्बनगण्ठिकरणसदिसानि, तादिसं इध नत्थीति आह ‘‘न हेत्थ…पे… अत्थी’’ति. पतिट्ठातुं न लभतीति पेसलेहि सद्धिं संवासवसेनपि पतिट्ठातुं न लभति, विसेसाधिगमवसेन पन वत्तब्बमेव नत्थि.

कारण्डवं निद्धमथाति विपन्नसीलताय कचवरभूतं पुग्गलं कचवरमिव निरपेक्खा अपनेथ. कसम्बुञ्चापकस्सथाति कसटभूतञ्च नं खत्तियादीनं मज्झगतं सम्भिन्नं पग्घरितकुट्ठं चण्डालं विय अपकस्सथ निक्कड्ढथ. किं कारणं? सङ्घारामो नाम सीलवन्तानं कतो, न दुस्सीलानं, यतो एतदेव. ततो पलापे वाहेथ, अस्समणे समणमानिनेति यथा पलापा अन्तोसाररहिता अतण्डुला बहि थुसेन वीहि विय दिस्सन्ति, एवं पापभिक्खू अन्तोसीलरहितापि बहि कासावादिपरिक्खारेन भिक्खू विय दिस्सन्ति, तस्मा ‘‘पलापा’’ति वुच्चन्ति, ते पलापे वाहेथ ओधुनाथ विधमथ. परमत्थतो अस्समणे वेसमत्तेन समणमानिने एवं निद्धमित्वान…पे… पतिस्सताति. तत्थ कप्पयव्होति कप्पेथ, करोथाति वुत्तं होति. पतिस्सताति पति पति सता सम्पजानन्ता सुट्ठु पजानन्ता. पतिस्सता वा सप्पतिस्सा अञ्ञमञ्ञं सगारवा. अथेवं सुद्धा सुद्धेहि संवासं कप्पेन्ता दिट्ठिसीलसामञ्ञेन समग्गा. अनुक्कमेन परिपाकगतपञ्ञताय निपका. सब्बस्सेविमस्स दुक्खवट्टस्स अन्तं करिस्सथ, परिनिब्बानं पापुणिस्सथाति अत्थो.

वट्टं तेसं नत्थि पञ्ञापनाय सब्बसो समुच्छिन्नवट्टमूलकत्ता.

धम्मं अनुस्सरन्ति, धम्मस्स वा अनुस्सरणसीलाति धम्मानुसारिनो. एवं सद्धानुसारिनोपि वेदितब्बा. पटिपन्नस्साति पटिपज्जमानस्स, सोतापत्तिमग्गट्ठोपि अधिप्पेतो. अधिमत्तन्ति बलवं. पञ्ञावाहीति पञ्ञं वाहेति, पञ्ञा वा इमं पुग्गलं वहतीति पञ्ञावाहीतिपि वदन्ति. पञ्ञापुब्बङ्गमन्ति पञ्ञं पुरेचारिकं कत्वा. अयं वुच्चतीति अयं एवरूपो पुग्गलो पञ्ञासङ्खातेन धम्मेन सरति अनुस्सरतीति धम्मानुसारी. सद्धावाहीति सद्धं वाहेति, सद्धा वा इमं पुग्गलं वहतीति सद्धावाहीतिपि वदन्ति. सद्धापुब्बङ्गमन्ति सद्धं पुरेचारिकं कत्वा. अयं वुच्चतीति अयं एवरूपो पुग्गलो सद्धाय सरति अनुस्सरतीति सद्धानुसारी. सद्धामत्तन्ति ‘‘इतिपि सो भगवा’’तिआदिना बुद्धसुबुद्धताय सद्दहनमत्तं. मत्त-सद्देन अवेच्चप्पसादं निवत्तेति. पेममत्तन्ति यथावुत्तसद्धानुसारेन उप्पन्नं तुट्ठिमत्तं. सिनेहोति केचि. एवं विपस्सनं पट्ठपेत्वा निसिन्नानन्ति कलापसम्मसनादिवसेन आरद्धविपस्सनानं. एका सद्धाति विपस्सनानुसारेन स्वाक्खातधम्मता सिद्धा, ततो एव एका सेट्ठा उळारा सद्धा उप्पज्जति. एकं पेमन्ति एत्थापि एसेव नयो. सग्गे ठपिता विय होन्तीति तेसं सद्धापेमानं सग्गसंवत्तनियताय अब्यभिचारीभावमाह. चूळसोतापन्नोति वदन्ति एकदेसेन सच्चानुबोधे ठितत्ता. सेसं सुविञ्ञेय्यमेव.

अलगद्दूपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

३. वम्मिकसुत्तवण्णना

२४९. पियवचनन्ति पियसमुदाचारो. विञ्ञुजातिका हि परं पियेन समुदाचरन्ता ‘‘भव’’न्ति वा, ‘‘देवानं पियो’’ति वा, ‘‘आयस्मा’’ति वा समुदाचरन्ति, तस्मा सम्मुखा सम्बोधनवसेन ‘‘आवुसो’’ति, तिरोक्खं ‘‘आयस्मा’’ति अयम्पि समुदाचारो. महाकस्सपउरुवेलकस्सपादयो अञ्ञेपि कस्सपनामका अत्थीति ‘‘कतरस्स कस्सपस्सा’’ति पुच्छन्ति. रञ्ञाति कोसलरञ्ञा. ‘‘सञ्जानिंसू’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘अयं पना’’तिआदि आरद्धं. अस्साति कुमारकस्सपस्स, ‘‘सञ्जानिंसू’’ति वुत्तसञ्जाननस्स वा. पुञ्ञानि करोन्तोति कप्पसतसहस्सं देवेसु च मनुस्सेसु च निब्बत्तित्वा दानादीनि पुञ्ञानि भावेन्तो. ओसक्कन्तेति परिहायमाने. पठमन्ति कुमारिकाकाले. सत्था उपालित्थेरं पटिच्छापेसि तं अधिकरणं विनयकम्मेनेवस्सा भिक्खुनिया पब्बज्जाय अरोगभावं.

पञ्ञत्तिविभावनाति ‘‘अन्धवन’’न्त्वेव पञ्ञायमानस्स विभावना. ओलीयतीति सङ्कुचति सणिकं वत्तति. भाणकोति सरभाणको. यं अत्थि, तं गहेत्वाति इदानि परियेसितब्बट्ठानं नत्थि, यथागतं पन यं अत्थि, तं गहेत्वा. बलवगुणेति अधिमत्तगुणे. कस्सपभगवतो काले निरुळ्हसमञ्ञावसेन वचनसन्ततिया अविच्छेदेन च इमस्मिम्पि बुद्धुप्पादे तं ‘‘अन्धवन’’न्त्वेव पञ्ञायित्थ, उपरूपरिवड्ढमानाय पथविया उपरि रुक्खगच्छादीसु सञ्जायन्तेसुपीति. सेक्खपटिपदन्ति सेक्खभावावहं विसुद्धिपटिपत्तिं.

अञ्ञतर-सद्दो अपाकटे विय पाकटेपि वत्तति एक-सद्देन समानत्थत्ताति दस्सेतुं ‘‘अभिजानाती’’तिआदि वुत्तं. भयभेरवदस्सितम्पि अभिक्कन्त-सद्दस्स अत्थुद्धारं इध दस्सेन्तो एवं हेट्ठा तत्थ तत्थ कता अत्थसंवण्णना परतो तस्मिं तस्मिं सुत्तपदेसे यथारहं वत्तब्बाति नयदस्सनं करोति. कञ्चनसन्निभत्तचता सुवण्णवण्णग्गहणेन गहिताति अधिप्पायेनाह ‘‘छविय’’न्ति. छविगता पन वण्णधातु एव ‘‘सुवण्णवण्णो’’ति एत्थ वण्णग्गहणेन गहिताति अपरे. वण्णीयति कित्तीयति उग्घोसनन्ति वण्णो, थुति. वण्णीयति असङ्करतो ववत्थपीयतीति वण्णो, कुलवग्गो. वण्णीयति फलं एतेन यथासभावतो विभावीयतीति वण्णो, कारणं. वण्णनं दीघरस्सादिवसेन सण्ठहनन्ति वण्णो, सण्ठानं. वण्णीयति अणुमहन्तादिवसेन पमीयतीति वण्णो, पमाणं. वण्णेति विकारमापज्जमानं हदयङ्गतभावं पकासेतीति वण्णो, रूपायतनं. एवं तेन तेन पवत्तिनिमित्तेन वण्ण-सद्दस्स तस्मिं तस्मिं अत्थे पवत्ति वेदितब्बा.

अनवसेसत्तं सकलता केवलता. केवलकप्पाति एत्थ केचि ईसं असमत्ता केवला केवलकप्पाति वदन्ति, एवं सति अनवसेसत्थो एव केवल-सद्दो सिया. अनत्थन्तरेन पन कप्प-सद्देन पदवड्ढनं कत्वा केवला एव केवलकप्पा. तथा वा कप्पनीयत्ता पञ्ञपेतब्बत्ता केवलकप्पा. येभुय्यता बहुलभावो. अब्यामिस्सता विजातियेन असङ्करो सुद्धता. अनतिरेकता तंमत्तता विसेसाभावो. केवलकप्पन्ति केवलं दळ्हं कत्वाति अत्थो. केवलं वुच्चति निब्बानं सब्बसङ्खतविवित्तत्ता. तेनाह ‘‘विसंयोगादिअनेकत्थो’’ति. केवलं एतस्स अधिगतं अत्थीति केवली, सच्छिकतनिरोधो खीणासवो.

कप्प-सद्दो पनायं सउपसग्गो अनुपसग्गो चाति अधिप्पायेन ओकप्पनीयपदे लब्भमानं ओकप्पसद्दमत्तं निदस्सेति, अञ्ञथा कप्प-सद्दस्स अत्थुद्धारे ओकप्पनीयपदं अनिदस्सनमेव सिया. समणकप्पेहीति विनयसिद्धेहि समणवोहारेहि. निच्चकप्पन्ति निच्चकालं. पञ्ञत्तीति नामं. नामञ्हेतं तस्स आयस्मतो, यदिदं कप्पोति. कप्पितकेसमस्सूति कत्तरिकाय छेदितकेसमस्सु. द्वङ्गुलकप्पोति मज्झन्हिकवेलाय वीतिक्कन्ताय द्वङ्गुलताविकप्पो. लेसोति अपदेसो. अनवसेसं फरितुं समत्थस्सपि ओभासस्स केनचि कारणेन एकदेसफरणम्पि सिया, अयं पन सब्बसोव फरीति दस्सेतुं समन्तत्थो कप्प-सद्दो गहितोति आह ‘‘अनवसेसं समन्ततो’’ति.

समणसञ्ञासमुदाचारेनाति ‘‘अहं समणो’’ति एवं उप्पन्नसञ्ञासमुट्ठितेन समुदाचारेन, तन्निमित्तेन वा तब्बोहारेन. पुब्बयोगेति पुब्बयोगकथायं. पपञ्चो एसाति एसो तुम्हेसु आगतेसु यथापवत्तो पटिसन्थारो कथासमुदाचारो च अम्हाकं पपञ्चो. एत्तकम्पि अकत्वा समणधम्ममेव करोमाति अधिप्पायो.

अरियभूमिं पत्तोति अनागामिफलं अधिगतो. पक्कुसातिकुलपुत्तं सन्धाय वदति. विभजित्वाति विभागं कत्वा. तुरितालपनवसेनाति तुरितं आलपनवसेन. तेन दुल्लभो अयं समणो, तस्मा सीघमस्स पञ्हो कथेतब्बो, इमिना च सीघं गन्त्वा सत्था पुच्छितब्बोति तुरितं आलपीति दस्सेति. ‘‘यथा वा’’तिआदिना पन वचनालङ्कारवसेन द्विक्खत्तुं आलपति. एवमाहाति ‘‘भिक्खु भिक्खू’’ति एवं द्विक्खत्तुं अवोच.

वम्मिकपरियायेन करजकायं पच्चक्खं कत्वा दस्सेन्ती देवता ‘‘अयं वम्मिको’’ति आह. ताय पन भावत्थस्स अभासितत्ता सद्दत्थमेव दस्सेन्तो ‘‘पुरतो ठितं…पे… अयन्ति आहा’’ति अवोच. सेसेसुपि एसेव नयो. मण्डूकन्ति थलमण्डूकं. सो हि उद्धुमायिकाति वुच्चति, न उदकमण्डूको. तस्स निवासतो वातो मा खो बाधयित्थाति ‘‘उपरिवाततो अपगम्मा’’ति वुत्तं. कथं पनायं देवता इमिना नीहारेन इमे पञ्हे थेरस्स आचिक्खीति? केचि ताव आहु – यथासुतमत्थं उपमाभावेन गहेत्वा अत्तनो पटिभानेन उपमेय्यत्थं मनसा चिन्तेत्वा तं भगवाव इमस्स आचिक्खिस्सति. सा च देसना अत्थाय हिताय सुखाय होतीति ‘‘अयं वम्मिको’’तिआदिना उपमावसेनेव पन्नरस पञ्हे थेरस्स आचिक्खि. कस्सपसम्मासम्बुद्धकाले किर बाराणसियं एको सेट्ठि अड्ढो महद्धनो महन्तं निधानं निदहित्वा पलिघादिआकारानि कानिचिपि लङ्गानि तत्थ ठपेसि. सो मरणकाले अत्तनो सहायस्स ब्राह्मणस्स आरोचेसि – ‘‘इमस्मिं ठाने मया निधानं निदहितं, तं मम पुत्तस्स विञ्ञुतं पत्तस्स दस्सेती’’ति वत्वा कालमकासि. ब्राह्मणो सहायकपुत्तस्स विञ्ञुतं पत्तकाले तं ठानं दस्सेसि. सो निखनित्वा सब्बपच्छा नागं पस्सि, नागो अत्तनो पुत्तं दिस्वा ‘‘सुखेनेव धनं गण्हतू’’ति अपगच्छि. स्वायमत्थो तदा लोके पाकटो जातो. अयं पन देवता तदा बाराणसियं गहपतिकुले निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते उरं दत्वा सासने पब्बजितो पञ्चहि सहायकभिक्खूहि सद्धिं समणधम्ममकासि. ये सन्धाय वुत्तं ‘‘पञ्च भिक्खू निस्सेणिं बन्धित्वा’’तिआदि. तेन वुत्तं ‘‘यथासुतमत्थं उपमाभावेन गहेत्वा’’तिआदि. अपरे पन ‘‘देवता अत्तनो पटिभानेन इमे पञ्हे एवं अभिसङ्खरित्वा थेरस्स आचिक्खी’’ति वदन्ति. देवपुत्ते निस्सक्कं देवपुत्तपञ्हत्ता तस्स अत्थस्स.

२५१. चतूहि महाभूतेहि निब्बत्तोति चातुमहाभूतिको. तेनाह ‘‘चतुमहाभूतमयस्सा’’ति. वमति उग्गिरन्तो विय होतीति अत्थो. वन्तकोति उच्छड्डको. वन्तुस्सयोति उपचिकाहि वन्तस्स मत्तिकापिण्डस्स उस्सयभूतो. वन्तसिनेहसम्बद्धोति वन्तेन खेळसिनेहेन सम्पिण्डितो. असुचिकलिमलं वमतीति एत्थ मुखादीहि पाणकानं निग्गमनतो पाणके वमतीति अयम्पि अत्थो लब्भतेव. अरियेहि वन्तकोति कायभावसामञ्ञेन वुत्तं. दुक्खसच्चपरिञ्ञाय वा सब्बस्सपि तेभूमकधम्मजातस्स परिञ्ञातत्ता सब्बोपि कायो अरियेहि छन्दरागप्पहानेन वन्तो एव. तं सब्बन्ति येहि तीहि अट्ठिसतेहि उस्सितो, येहि न्हारूहि सम्बद्धो, येहि मंसेहि अवलित्तो, येन अल्लचम्मेन परियोनद्धो, याय छविया रञ्जितो, तं अट्ठिआदिसब्बं अच्चन्तमेव जिगुच्छित्वा विरत्ततायवन्तमेव. ‘‘यथा चा’’तिआदिना वत्तब्बोपमतोपि वम्मिको विय वम्मिकोति इममत्थं दस्सेति.

सम्भवति एतस्माति सम्भवो, मातापेत्तिको सम्भवो एतस्साति मातापेत्तिकसम्भवो. तस्स. उपचियति एतेनाति उपचयो’ ओदनकुम्मासं उपचयो एतस्साति ओदनकुम्मासूपचयो. तस्स. अधुवसभावताय अनिच्चधम्मस्स, सेदगूथ-पित्त-सेम्हादि-धातुक्खोभ-गरुभावदुग्गन्धानं विनोदनाय उच्छादेतब्बधम्मस्स, परितो सम्बाहनेन परिमद्दितब्बधम्मस्स, खणे खणे भिज्जनसभावताय भेदनधम्मस्स, ततो एव विकिरणसभावताय विद्धंसनधम्मस्साति धम्म-सद्दो पच्चेकं योजेतब्बो. तनुविलेपनेनाति कायावलेपनेन उच्छादनविलेपनेन. अङ्गपच्चङ्गाबाधविनोदनत्थायाति तादिससमुट्ठान-सरीरविकारविगमाय. यस्मा सुक्कसोणितं आहारो, उच्छादनं परिमद्दनञ्च यथारहं उप्पादस्स, वुड्ढिया च पच्चयो, तस्मा आह ‘‘मातापेत्तिक…पे… कथितो’’ति. उच्चावचभावोति यथारहं योजेतब्बो – ओदनकुम्मासूपचय-उच्छादनपरिमद्दनग्गहणेहि उच्चभावो, वड्ढी. मातापेत्तिकसम्भवग्गहणेन समुदयो. इतरेहि अवचभावो, परिहानि, अत्थङ्गमो पकासितो. अङ्गपच्चङ्गानं सण्ठपनम्पि हि वट्टपच्चयत्ता वट्टन्ति.

कोधो धूमोति एत्थ धूमपरियायेन कोधस्स वुत्तत्ता धूम-सद्दो कोधे वत्ततीति वुत्तं ‘‘धूमो विय धूमो’’ति. भस्मनीति भस्मं. मोसवज्जन्ति मुसावादो. धूमो एव धूमायितं. इच्छा धूमायितं एतिस्साति इच्छाधूमायिता, पजा. इच्छाधूमायितसद्दस्स तण्हाय वुत्ति वुत्तनयो एव. धूमायन्तोति वितक्कसन्तापेन संतप्पेन्तो, वितक्केन्तोति अत्थो. पलिपोति दुक्करमहाकद्दमं. तिमूलन्ति तीहि मूलेहि पतिट्ठितं विय अचलं पवत्तन्ति वुत्तं. रजो च धूमो च मया पकासिताति रजसभावकरणट्ठेन ‘‘रजो’’ति च धूमसभावकरणट्ठेन ‘‘धूमो’’ति च मया पकासिता. पकतिधूमो विय अग्गिस्स किलेसग्गिजालस्स पञ्ञाणभावतो. धम्मदेसनाधूमो ञाणग्गिसन्धीपनस्स पुब्बङ्गमभावतो. अयं रत्तिं धूमायनाति या दिवा कत्तब्बकम्मन्ते उद्दिस्स रत्तियं अनुवितक्कना, अयं रत्तिं धूमायना.

सत्तन्नं धम्मानन्ति इदं सुत्ते (चूळनि. मेत्तगूमाणवपुच्छानिद्देस २८) आगतनयेन वुत्तं. सुत्तञ्च तथा आराधनवेनेय्यज्झासयवसेन. तदेकट्ठताय वा तदञ्ञकिलेसानं. सुन्दरपञ्ञोति ञाततीरणपहानपरिञ्ञाय पञ्ञाय सुन्दरपञ्ञो.

एतन्ति ‘‘सत्थ’’न्ति एतं अधिवचनं संकिलेसधम्मानं ससनतो समुच्छिन्दनतो. न्ति वीरियं. पञ्ञागतिकमेव पञ्ञाय हितस्सेव अधिप्पेतत्ता. लोकियाय पञ्ञाय आरम्भकाले लोकियवीरियं गहेतब्बं, लोकुत्तराय पञ्ञाय पवत्तिक्खणे लोकुत्तरवीरियं गहेतब्बन्ति योजना. अत्थदीपनाति उपमेय्यत्थदीपनी उपमा.

गामतोति अत्तनो वसनगामतो. मन्तेति आथब्बनमन्ते. ते हि ब्राह्मणा अरञ्ञे एव वाचेन्ति ‘‘मा अञ्ञे अस्सोसु’’न्ति. तथा अकासीति चत्तारो कोट्ठासे अकासि. एवमेत्थ वम्मिकपञ्हस्सेव वसेन उपमा आगता, सेसानं वसेन हेट्ठा वुत्तनयेन वेदितब्बा.

लङ्गनट्ठेन निवारणट्ठेन लङ्गी, पलिघो. ञाणमुखेति विपस्सनाञाणवीथियं. पततीति पवत्तति. कम्मट्ठानउग्गहपरिपुच्छावसेनाति चतुसच्चकम्मट्ठानस्स उग्गण्हनेन तस्स अत्थपरिपुच्छावसेन चेव विपस्सनासङ्खात-अत्थविनिच्छय-परिपुच्छावसेन च. सब्बसो ञातुं इच्छा हि परिपुच्छा. विपस्सना च अनिच्चादितो सब्बतेभूमकधम्मानं ञातुं इच्छति. एवं विपस्सनावसेन अविज्जापहानमाह, उपरिकत्तब्बसब्भावतो न ताव मग्गवसेन.

वल्लिअन्तरे वाति वा-सद्दो पंसुअन्तरे वा मत्तिकन्तरे वाति अवुत्तविकप्पत्थो. चित्ताविलमत्तकोवाति चित्तक्खोभमत्तकोव. अनिग्गहितोति पटिसङ्खानबलेन अनिवारितो. मुखविकुलनं मुखसङ्कोचो. हनुसञ्चोपनं पापेति अन्तोजप्पनावत्थायं. दिसा विलोकनं पापेति यत्थ बाधेतब्बो ठितो, तंदस्सनत्थं निवारकपरिवारणत्थं. दण्डसत्थाभिनिपातन्ति दण्डसत्थानं परस्स उपरि निपातनावत्थं. येन कोधेन अनिग्गहितेन मातादिकं अघातेतब्बं उग्घातेत्वा ‘‘अयुत्तं वत मया कत’’न्ति अत्तानम्पि हनति, तं सन्धायेतं वुत्तं ‘‘परघातनम्पि अत्तघातनम्पि पापेती’’ति. येन वा परस्स हञ्ञमानस्स वसेन घातकोपि घातनं पापुणाति, तादिसस्स वसेनायमत्थो वेदितब्बो. कोधसामञ्ञेन हेतं वुत्तं ‘‘परं घातेत्वा अत्तानं घातेती’’ति. परमुस्सदगतोति परमुक्कंसगतो. दळ्हं परिस्सयमावहताय कोधोव कोधूपायासो. तेनाह ‘‘बलवप्पत्तो’’तिआदि.

द्वेधापथसमा होति अप्पटिपत्तिहेतुभावतो.

कुसलधम्मो न तिट्ठति नीवरणेहि निवारितपरमत्ता. समथपुब्बङ्गमं विपस्सनं भावयतो पठमं समथेन नीवरणविक्खम्भनं होति, विपस्सना पन तदङ्गवसेनेव तानि नीहरतीति वुत्तं ‘‘विक्खम्भनतदङ्गवसेना’’ति.

‘‘कुम्मोव अङ्गानि सके कपाले’’तिआदीसु (सं. नि. १.१७) कुम्मस्स अङ्गभावेन विसेसतो पादसीसानि एव वुच्चन्तीति आह ‘‘पञ्चेव अङ्गानि होन्ती’’ति. विपस्सनाचारस्स वुच्चमानत्ता अधिकारतो सम्मसनीयानमेव धम्मानं इध गहणन्ति ‘‘सब्बेपि सङ्खता धम्मा’’ति विसेसं कत्वाव वुत्तं. तेनाह भगवा ‘‘पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति.

सुनन्ति कोट्टन्ति एत्थाति सूना, अधिकुट्टनन्ति आह ‘‘सूनाय उपरी’’ति. असिनाति मंसकन्तनेन. घातियमानाति हञ्ञमाना विबाधियमाना. वत्थुकामानं उपरि कत्वाति वत्थुकामेसु ठपेत्वा ते अच्चाधानं कत्वा. कन्तिताति छिन्दिता. कोट्टिताति बिलसो विभजिता. छन्दरागप्पहानन्ति छन्दरागस्स विक्खम्भनप्पहानं.

सम्मत्ताति मुच्छिता सम्मूळ्हा. नन्दीरागं उपगम्म वट्टं वड्ढेन्तीति सम्मूळ्हत्ता एवआदीनवं अपस्सन्ता नन्दीरागस्स आरम्मणं उपगन्त्वा तं परिब्रूहेन्ति. नन्दीरागबद्धाति नन्दीरागे लग्गत्ता तेन बद्धा. वट्टे लग्गन्तीति तेभूमके वट्टे सज्जन्ति. तत्थ सज्जत्ता एव दुक्खं पत्वापि न उक्कण्ठन्ति न निब्बिन्दन्ति. इध अनवसेसप्पहानं अधिप्पेतन्ति आह ‘‘चतुत्थमग्गेन नन्दीरागप्पहानं कथित’’न्ति.

अनङ्गणसुत्ते (म. नि. अट्ठ. १.६३) पकासितो एव ‘‘छन्दादीहि न गच्छन्ती’’तिआदिना. ‘‘बुद्धो सो भगवा’’तिआदि ‘‘नमो करोही’’ति (म. नि. १.२४९, २५१) वुत्तनमक्कारस्स करणाकारदस्सनं. बोधायाति चतुसच्चसम्बोधाय. तथा दमथसमथतरणपरिनिब्बानानि अरियमग्गवसेन वेदितब्बानि. समथपरिनिब्बानानि पन अनुपादिसेसवसेनपि योजेतब्बानि. कम्मट्ठानं अहोसीति विपस्सनाकम्मट्ठानं अहोसि. एतस्स पञ्हस्साति एतस्स पन्नरसमस्स पञ्हस्स अत्थो. एवं इतरेसुपि वत्तब्बं विपस्सनाकम्मट्ठानं खीणासवगुणेहि मत्थकं पापेन्तो यथानुसन्धिनाव देसनं निट्ठपेसि, न पुच्छितानुसन्धिनाति अधिप्पायो. ननु च पुच्छावसेनायं देसना आरद्धाति? सच्चं आरद्धा, एवं पन ‘‘पुच्छावसिको निक्खेपो’’ति वत्तब्बं, न ‘‘पुच्छानुसन्धिवसेन निट्ठपिता’’ति. अन्तरपुच्छावसेन देसनाय अपरिवत्तितत्ता आरम्भानुरूपमेव पन देसना निट्ठपिता.

वम्मिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

४. रथविनीतसुत्तवण्णना

२५२. महागोविन्देन परिग्गहितताकित्तनं तदा मगधराजेन परिग्गहितूपलक्खणं. तस्स हि सो पुरोहितो. महागोविन्दोति पुरातनो एको मगधराजाति केचि. गय्हतीति गहो, राजूनं गहो राजगहं. नगर-सद्दापेक्खाय नपुंसकनिद्देसो. अञ्ञेपेत्थ पकारेति राजूहि दिस्वा सम्मा पतिट्ठापितत्ता तेसं गहं गेहभूतन्तिपि राजगहं. आरक्खसम्पत्तिआदिना अनत्थुप्पत्तिहेतुताय उपगतानं पटिराजूनं गहं गहभूतन्तिपि राजगहं, आरामरामणीयकादीहि राजते, निवाससुखतादिना सत्तेहि ममत्तवसेन गय्हति, परिग्गय्हतीति वा राजगहन्ति एवमादिके पकारे. बुद्धकाले च चक्कवत्तिकाले चाति इदं येभुय्यवसेन वुत्तं. वेळूहि परिक्खित्तं अहोसि, न पन केवलं कट्ठकपवनमेव. रञ्ञो उय्यानकाले पतिट्ठापितअट्टालकवसेन अट्टालकयुत्तं.

जननं जाति, जातिया भूमि जातिभूमं, जायि वा महाबोधिसत्तो एत्थाभि जाति, सा एव भूमीति जातिभूमं, सा इमेसं निवासोति जातिभूमकाति आह ‘‘जातिभूमकाति जातिभूमिवासिनो’’ति. कस्स पनायं जातिभूमीति आह ‘‘तं खो पना’’तिआदि. तेन अनञ्ञसाधारणाय जातिया अधिप्पेतत्ता सदेवके लोके सुपाकटभावतो विसेसनेन विनापि विसिट्ठविसयोव इध जाति-सद्दो विञ्ञायतीति दस्सेति. तेनाह ‘‘सब्बञ्ञुबोधिसत्तस्स जातट्ठानसाकियजनपदो’’ति. तत्थपि कपिलवत्थुसन्निस्सयो पदेसोति आह ‘‘कपिलवत्थाहारो’’ति.

गरुधम्मभाववण्णना

साकियमण्डलस्साति साकियराजसमूहस्स. दसन्नं अप्पिच्छकथादीनं वत्थु दसकथावत्थु, अप्पिच्छतादि. तत्थ सुप्पतिट्ठितताय तस्स लाभी दसकथावत्थुलाभी. तत्थाति दसकथावत्थुस्मिं.

गरुकरणीयताय धम्मो गरु एतस्साति धम्मगरु, तस्स भावो धम्मगरुता, ताय. ‘‘अज्झासयेन वेदितब्बो’’ति वत्वा न केवलं अज्झासयेनेव, अथ खो कायवचीपयोगेहिपि वेदितब्बोति दस्सेन्तो ‘‘धम्मगरुतायेव ही’’तिआदिमाह. तियामरत्तिं धम्मकथं कत्वाति एत्थ ‘‘कुम्भकारस्स निवेसने तियामरत्तिं वसन्तो धम्मकथं कत्वा’’ति एवं वचनसेसवसेन अत्थो वेदितब्बो. अञ्ञथा यथालाभवसेन अत्थे गय्हमाने तियामरत्तिं धम्मकथा कताति आपज्जति, न च तं अत्थि. वक्खति हि ‘‘बहुदेव रत्तिन्ति दियड्ढयाममत्त’’न्ति. दसबलादिगुणविसेसा विय धम्मगारवहेतुका परहितपटिपत्तिपि सब्बबुद्धानं मज्झे भिन्नसुवण्णं विय सदिसा एवाति इमस्स भगवतो धम्मगारवकित्तने ‘‘कस्सपोपि भगवा’’तिआदिना कस्सपभगवतो धम्मगारवं दस्सेति.

चारिकं निक्खमीति जनपदचारिकं चरितुं निक्खमि. जनपदचारिकाय अकाले निक्खन्तत्ता कोसलराजादयो वारेतुं आरभिंसु. पवारेत्वा हि चरणं बुद्धाचिण्णं. पुण्णाय सम्मापटिपत्तिं पच्चासीसन्तो भगवा ‘‘किं मे करिस्ससी’’ति आह.

अनहातोवाति धम्मसवनुस्सुक्केन सायन्हे बुद्धाचिण्णं न्हानं अकत्वाव. अत्तहितपरहितपटिपत्तीसु एकिस्सा द्विन्नञ्च अत्थितासिद्धा चतुब्बिधता पटिपत्तिकता एव नाम होतीति वुत्तं ‘‘पटिपन्नको च नाम…पे… चतुब्बिधो होती’’ति. पटिक्खेपपुब्बकोपि हि पटिपन्नो अत्थतो पटिपन्नत्थो एवाति. कामं अत्तहिताय पटिपन्नो ताय सम्मापटिपत्तिया सासनं सोभति, न पन सासनं वड्ढेति अप्पोस्सुक्कभावतो, न च कारुणिकस्स भगवतो सब्बथा मनोरथं पूरेति. तथा हि भगवा पठमबोधियं एकसट्ठिया च अरहन्तेसु जातेसु – ‘‘चरथ, भिक्खवे, बहुजनहिताया’’तिआदिना (दी. नि. २.८६-८८; महाव. ३२) भिक्खू परहितपटिपत्तियं नियोजेसि. तेन वुत्तं ‘‘एवरूपं भिक्खुं भगवा न पुच्छति, कस्मा? न मय्हं सासनस्स वुड्ढिपक्खे ठितो’’ति.

समुदायो अप्पकेन ऊनोपि अनूनो विय होतीति बाकुलत्थेरं चतुत्थरासितो बहि कत्वापि ‘‘असीतिमहाथेरा विया’’ति वुत्तं. असीतिमहाथेरसमञ्ञा वा अवयवेपि अट्ठसमापत्तिसामञ्ञा विय दट्ठब्बा. ईदिसे ठाने बहूनं एकतो कथनं महता कण्ठेन च कथनं सत्थु चित्ताराधनमेवाति तेहि भिक्खूहि तथा पटिपन्नन्ति दस्सेन्तो ‘‘ते भिक्खू मेघसद्दं सुत्वा’’तिआदिमाह. गुणसम्भावनायाति वक्खमानगुणहेतुकाय सम्भावनाय सम्भावितो, न येन केनचि किच्चसमत्थतादिना.

गरुधम्मभाववण्णना निट्ठिता.

अप्पिच्छतादिवण्णना

अप्प-सद्दस्स परित्तपरियायतं मनसि कत्वा आह ‘‘ब्यञ्जनं सावसेसं विया’’ति. तेनाह ‘‘न हि तस्सा’’तिआदि. अप्प-सद्दो पनेत्थ अभावत्थोति सक्का विञ्ञातुं ‘‘अप्पाबाधतञ्च सञ्जानामी’’तिआदीसु (म. नि. १.२२५; २.१३४) विय.

अत्रिच्छता नाम (अ. नि. टी. १.१.६३) अत्र अत्र इच्छाति कत्वा. असन्तगुणसम्भावनताति अत्तनि अविज्जमानं गुणानं विज्जमानानं विय परेसं पकासना. सद्धोति मं जनो जानातूति वत्तपटिपत्तिकारकविसेसलाभीति जानातु ‘‘वत्तपटिपत्तिआपाथकज्झायिता’’ति एवमादिना. सन्तगुणसम्भावनाति इच्छाचारे ठत्वा अत्तनि विज्जमानसीलधुतधम्मादिगुणविभावना. तादिसस्स हि पटिग्गहणे अमत्तञ्ञुतापि होति.

गण्हन्तोयेव उम्मुज्जि अञ्ञेसं अजानन्तानंयेवाति अधिप्पायो.

अप्पिच्छतापधानं पुग्गलाधिट्ठानेन चतुब्बिधं इच्छापभेदं दस्सेत्वा पुनपि पुग्गलाधिट्ठानेन चतुब्बिधं इच्छापभेदं दस्सेन्तो ‘‘अपरोपि चतुब्बिधो अप्पिच्छो’’तिआदिमाह. दायकस्स वसन्ति दायकस्स चित्तवसं. देय्यधम्मस्स वसन्ति देय्यधम्मस्स अप्पबहुभावं. अत्तनो थामन्ति अत्तनो यापनमत्तकथामं.

एकभिक्खुपि न अञ्ञासि सोसानिकवत्ते सम्मदेव वुत्तित्ता. अब्बोकिण्णन्ति अविच्छेदं. दुतियो मं न जानेय्याति दुतियो सहायभूतोपि यथा मं जानितुं न सक्कुणेय्य, तथा सट्ठि वस्सानि निरन्तरं सुसाने वसामि, तस्मा अहं अहो सोसानिकुत्तमो.

धम्मकथाय जनतं खोभेत्वाति लोमहंसनसाधुकारदानचेलुक्खेपादिवसेन सन्निपतितं इतरञ्च ‘‘कथं नु खो अय्यस्स सन्तिकेव धम्मं सोस्सामा’’ति कोलाहलवसेन महाजनं खोभेत्वा. गतोति ‘‘अयं सो, तेन रत्तियं धम्मकथा कता’’ति जाननभयेन परियत्तिअप्पिच्छताय परिवेणं गतो.

तयो कुलपुत्ता वियाति पाचीनवंसदाये समग्गवासं वुत्था तयो कुलपुत्ता विय. पहायाति पुब्बभागे तदङ्गादिवसेन पच्छा अग्गमग्गेनेव पजहित्वा.

अप्पिच्छतादिवण्णना निट्ठिता.

द्वादसविधसन्तोसवण्णना

पकतिदुब्बलादीनं गरुचीवरादीनि नफासुभावावहानि सरीरखेदावहानि च होन्तीति पयोजनवसेन नअत्रिच्छतादिवसेन तानि परिवत्तेत्वा लहुकचीवरपरिभोगो न सन्तोसविरोधीति आह ‘‘लहुकेन यापेन्तोपि सन्तुट्ठोव होती’’ति. महग्घचीवरं, बहूनि वा चीवरानि लभित्वापि तानि विस्सज्जेत्वा तदञ्ञस्स गहणं यथासारुप्पनये ठितत्ता न सन्तोसविरोधीति आह ‘‘तेसं…पे… धारेन्तोपि सन्तुट्ठोव होती’’ति. एवं सेसपच्चयेसुपि यथाबलयथासारुप्पसन्तोसनिद्देसेसु अपिसद्दग्गहणे अधिप्पायो वेदितब्बो. यथासारुप्पसन्तोसोयेव अग्गो अलोभज्झासयस्स उक्कंसनतो.

द्वादसविधसन्तोसवण्णना निट्ठिता.

तिविधपविवेकवण्णना

एकोति एकाकी. गच्छतीति चुण्णिकइरियापथवसेन वुत्तं. चरतीति विहारतो बहि सञ्चारवसेन, विहरतीति दिवाविहारादिवसेन. कायविवेकोति च नेक्खम्माधिमुत्तस्स भावनानुयोगवसेन विवेकट्ठकायता, न झानविवेकमत्तं. तेनाह ‘‘नेक्खम्माभिरतान’’न्ति. परिसुद्धचित्तानन्ति नीवरणादिसंकिलेसतो विसुद्धचित्तानं. परमवोदानप्पत्तानन्ति वितक्कादितंतंझानपटिपक्खविगमेन परमं उत्तमं वोदानं पत्तानं. निरुपधीनन्ति किलेसुपधिआदीनं विगमेन निरुपधीनं.

तिविधपविवेकवण्णना निट्ठिता.

पञ्चविधसंसग्गवण्णना

संसीदति एतेनाति संसग्गो, रागो. सवनहेतुको, सवनवसेन वा पवत्तो संसग्गो सवनसंसग्गो. एस नयो सेसेसुपि. कायसंसग्गो पन कायपरामासो. इत्थी वाति वधू, युवती वा. सन्धानेतुन्ति पुब्बेनापरं घटेतुं. सोतविञ्ञाणवीथिवसेनाति इदं मूलभूतं सवनं सन्धाय वुत्तं, तस्स पिट्ठिवत्तकमनोद्वारिकजवनवीथीसु उप्पन्नोपि रागो सवनसंसग्गोयेव. दस्सनसंसग्गेपि एसेव नयो. अनित्थिगन्धबोधिसत्तो परेहि कथियमानवसेन पवत्तसवनसंसग्गस्स निदस्सनं. तिस्सदहरो अत्तना सुय्यमानवसेन. तत्थ पठमं जातके वेदितब्बन्ति इतरं दस्सेन्तो ‘‘दहरो किरा’’तिआदिमाह. कामरागेन विद्धोति रागसल्लेन हदये अप्पितो अन्तो अनुविद्धो.

सोति दस्सनसंसग्गो. एवं वेदितब्बोति वत्थुवसेन पाकटं करोति. तस्मिं किर गामे येभुय्येन इत्थियो अभिरूपा दस्सनीया पासादिका, तस्मा थेरो ‘‘सचे अन्तोगामे न चरिस्ससी’’ति आह. कालस्सेव पविट्ठत्ता यागुं अदासि, तस्मा यागुमेव गहेत्वा गच्छन्तं ‘‘निवत्तथ, भन्ते, भिक्खं गण्हाही’’ति आहंसु. याचित्वाति ‘‘न मयं, भन्ते, भिक्खं दातुकामा निवत्तेम, अपिच इदं भन्ते कारण’’न्ति याचित्वा.

आदितो लपनं आलापो, वचनपटिवचनवसेन पवत्तो लापो सल्लापो. भिक्खुनियाति इदं निदस्सनमत्तं. याय कायचिपि इत्थिया सन्तकपरिभोगवसेन उप्पन्नरागोपि सम्भोगसंसग्गोव.

पञ्चविधसंसग्गवण्णना निट्ठिता.

गाहगाहकादिवण्णना

भिक्खुनो भिक्खूहि कायपरामासो कायसम्बाहनादिवसेन. कायसंसग्गन्ति कायपरामाससंसग्गं. गाहगाहकोति गण्हनकानं गण्हनकोति अत्थो. गाहमुत्तकोति अयोनिसो आमिसेहि सङ्गण्हनकेहि सयं मुच्चनको. मुत्तगाहकोति यथावुत्तसङ्गहतो मुत्तानं सङ्गण्हनको. मुत्तमुत्तकोति मुच्चनकेहि सयम्पि मुच्चनको. गहणवसेन सङ्गण्हनवसेन. उपसङ्कमन्ति ततो किञ्चि लोकामिसं पच्चासीसन्ता, न दक्खिणेय्यवसेन. भिक्खुपक्खे गहणवसेनाति पच्चयलाभाय सङ्गण्हनवसेनाति योजेतब्बं. वुत्तनयेनाति ‘‘आमिसेना’’तिआदिना वुत्तनयेन.

ठानन्ति अत्तनो ठानावत्थं. पापुणितुं न देति उप्पन्नमेव तं पटिसङ्खानबलेन नीहरन्तो विक्खम्भेति. तेनाह ‘‘मन्तेना’’तिआदि. यथा जीवितुकामो पुरिसो कण्हसप्पेन, अमित्तेन वा सह न संवसति, एवं खणमत्तम्पि किलेसेहि सह न संवसतीति अत्थो.

चतुपारिसुद्धिसीलं लोकियं लोकुत्तरञ्च. तथा समाधिपि. विपस्सनाय पादका विपस्सनापादकाति अट्ठसमापत्तिग्गहणेन यथा लोकियसमाधि गहितो, एवं विपस्सनापादका एतेसन्ति विपस्सनापादकाति अट्ठसमापत्तिग्गहणेनेव लोकुत्तरो समाधि गहितो. यथा हि चत्तारि रूपज्झानानि अधिट्ठानं कत्वा पवत्तो मग्गसमाधि विपस्सनापादको, एवं चत्तारि अरूपज्झानानि अधिट्ठानं कत्वा पवत्तोपि. समापत्तिपरियायो पन पुब्बवोहारेन वेदितब्बो. पटिपक्खसमुच्छेदनेन सम्मा आपज्जनतो वा यथा ‘‘सोतापत्तिमग्गो’’ति. एवमेत्थ सीलसमाधीनम्पि मिस्सकभावो वेदितब्बो, न पञ्ञाय एव. विमुत्तीति अरियफलन्ति वुत्तं ‘‘विमुत्तिसम्पन्नो’’ति वुत्तत्ता. तञ्हि निप्फादनट्ठेन सम्पादेतब्बं, न निब्बानन्ति.

एत्थ च अप्पिच्छताय लद्धपच्चयेन परितुस्सति, सन्तुट्ठताय लद्धा ते अगधितो अमुच्छितोआदीनवदस्सी निस्सरणपञ्ञो परिभुञ्जति, एवंभूतो च कत्थचि अलग्गमानसताय पविवेकं परिब्रूहेन्तो केनचि असंसट्ठो विहरति गहट्ठेन वा पब्बजितेन वा. सो एवं अज्झासयसम्पन्नो वीरियं आरभति अप्पत्तस्स पत्तिया, अनधिगमस्स अधिगमाय. आरभन्तो च यथासमादिन्नं अत्तनो सीलं पच्चवेक्खति, तस्स सीलस्स सुपरिसुद्धतं निस्साय उप्पज्जति अविप्पटिसारो, अयमस्स सीलसम्पदा. तस्स अविप्पटिसारमूलकेहि पामोज्जपीतिपस्सद्धिसुखेहि सम्मा ब्रूहितं चित्तं सम्मदेव समाधियति, अयमस्स समाधिसम्पदा. ततो यथाभूतं जानं पस्सं निब्बिन्दति, निब्बिन्दं विरज्जति, विरागा विमुच्चति, अयमस्स पञ्ञासम्पदा. विमुत्तचित्तता पनस्स विमुत्तिसम्पदा, ततो विमुत्तितो ञाणदस्सनन्ति एतेसं दसन्नं कथावत्थूनं अनुपुब्बी वेदितब्बा. तस्स यो दसहि कथावत्थूहि समन्नागमो, अयं अत्तहिताय पटिपत्ति. या नेसं परेसं संकित्तनं, अयं परहिताय पटिपत्ति. तासु पुरिमा ञाणपुब्बङ्गमा ञाणसम्पयुत्ता च, इतरा करुणापुब्बङ्गमा करुणासम्पयुत्ता चाति सब्बं ञाणकरुणाकण्डं वत्तब्बं.

दसहि कथावत्थूहि करणभूतेहि भिक्खूनं ओवादं देति, ‘‘भिक्खुना नाम अत्रिच्छतादिके दूरतो वज्जेत्वा सम्मदेव अप्पिच्छेन भवितब्ब’’न्तिआदिना तं तं कथावत्थुं भिक्खूनं उपदिसतीति अत्थो. उपदिसन्तो हि तानि ‘‘तेहि भिक्खू ओवदती’’ति वुत्तो. ओवदतियेव सरूपदस्सनमत्तेन. सुखुमं अत्थं परिवत्तेत्वाति एवम्पि अप्पिच्छता होति एवम्पीति अप्पिच्छतादिवसेन अपरापरं अप्पिच्छतावुत्तिं दस्सेत्वा तत्थ सुखुमनिपुणं अप्पिच्छतासङ्खातं अत्थं जानापेतुं न सक्कोति. विञ्ञापेतीति यथावुत्तेहि विसेसेहि विञ्ञापेति. कारणन्ति येन कारणेन अप्पिच्छता इज्झति, तं पन ‘‘महिच्छतादीसु एते दोसा, अप्पिच्छताय अयमानिसंसो’’तिआदीनवानिसंसदस्सनं दट्ठब्बं. सम्मा हेतुना अप्पिच्छतं दस्सेतीति सन्दस्सको. गाहेतुन्ति यथा गण्हति, तथा कातुं, तत्थ पट्ठपेतुन्ति अत्थो. उस्साहजननवसेनाति यथा तं समादानं निच्चलं होति, एवं उस्सोळ्हिया उप्पादनवसेन सम्मदेव उत्तेजेतीति समुत्तेजको. उस्साहजातेति अप्पिच्छताय जातुस्साहे. वण्णं वत्वा तत्थ सम्पत्तिं आयतिञ्च लब्भमानगुणं कित्तेत्वा सम्पहंसेति सम्मदेव पकारेहि तोसेतीति सम्पहंसको. एवं सन्तुट्ठिआदीसु यथारहं योजना कातब्बा.

गाहगाहकादिवण्णना निट्ठिता.

पञ्चलाभवण्णना

२५३. सत्थु सम्मुखा एवं वण्णो अब्भुग्गतोति. इमिना तस्स वण्णस्स यथाभूतगुणसमुट्ठिततं दस्सेति. मन्दमन्दो वियाति अति विय अछेको विय. अबलबलो वियाति अति विय अबलो विय. भाकुटिकभाकुटिको वियाति अति विय दुम्मुखो विय. अनुमस्साति अनुमसित्वा, दस कथावत्थूनि सरूपतो विसेसतो च अनुपरिग्गहेत्वाति अत्थो. परिग्गण्हनं पन नेसं अनुपविसनं विय होतीति वुत्तं ‘‘अनुपविसित्वा’’ति. सब्रह्मचारीहि वण्णभासनं एको लाभोति योजना. एवं सेसेसुपि. पत्थयमानो एवमाह धम्मगरुतायाति अधिप्पायो.

पञ्चलाभवण्णना निट्ठिता.

चारिकादिवण्णना

२५४. अभिरमनं अभिरतं, तदेव अनुनासिकलोपं अकत्वा वुत्तं ‘‘अभिरन्त’’न्ति. भावनपुंसकञ्चेतं. अनभिरति नाम नत्थि, अभिरमित्वा चिरविहारोपि नत्थि सम्मदेव परिञ्ञातवत्थुकत्ता. सब्बसहा हि बुद्धा भगवन्तो असय्हलाभिनो.

पुब्बे धम्मगरुताकित्तनपसङ्गेन गहितं अग्गहितञ्च महाकस्सपपच्चुग्गमनादिं एकदेसेन दस्सेत्वा वनवासितिस्ससामणेरस्स वत्थुं वित्थारेत्वा जनपदचारिकं कथेतुं ‘‘भगवा ही’’तिआदि आरद्धं. आकासगामीहि सद्धिं गन्तुकामो ‘‘छळभिञ्ञानं आरोचेही’’ति आह. सङ्घकम्मेन सिज्झमानापि उपसम्पदा सत्थु आणावसेनेव सिज्झनतो ‘‘बुद्धदायज्जं ते दस्सामी’’ति वुत्तन्ति वदन्ति. अपरे ‘‘अपरिपुण्णवीसतिवस्सस्सेव तस्स उपसम्पदं अनुजानन्तो सत्था ‘बुद्धदायज्जं ते दस्सामी’ति अवोचा’’ति वदन्ति. उपसम्पादेत्वाति धम्मसेनापतिना उपज्झायेन उपसम्पादेत्वा.

नवयोजनसतिकं मज्झिमदेसपरियापन्नमेव, ततो परं नाधिप्पेतं दन्धतावसेन गमनतो. समन्ताति गतगतट्ठानस्स चतूसु पस्सेसु. अञ्ञेनपि कारणेनाति भिक्खूनं समथविपस्सनातरुणभावतो अञ्ञेनपि मज्झिममण्डले वेनेय्यानं ञाणपरिपाकादिकारणेन निक्खमति, अन्तोमण्डलं ओतरति. सत्तहि वातिआदि ‘‘एकं मासं वा’’तिआदिना वुत्तानुक्कमेन योजेतब्बं.

सरीरफासुकत्थायाति एकस्मिंयेव ठाने निबद्धवासेन उस्सन्नधातुकस्स सरीरस्स विरेचनेन फासुभावत्थाय. अट्ठुप्पत्तिकालाभिकङ्खनत्थायाति अग्गिक्खन्धूपमसुत्त (अ. नि. ७.७२) मघदेवजातकादिदेसनानं (जा. १.१.९) विय धम्मदेसनाय अट्ठुप्पत्तिकालस्स आकङ्खनेन. सुरापानसिक्खापदपञ्ञापने (पाचि. ३२६) विय सिक्खापदपञ्ञापनत्थाय. बोधनेय्यसत्ते अङ्गुलिमालादिके बोधनत्थाय. निबद्धवासञ्च पुग्गलं उद्दिस्स चारिका निबद्धचारिका.

२५५. अपरिग्गहभावं कत्थचि अलग्गभावं दस्सेतुं ‘‘यूथं पहाय…पे… मत्तहत्थी विया’’ति वुत्तं. असहायकिच्चोति सहायकिच्चरहितो सीहो विय. तेनस्स एकविहारितं तेजवन्ततञ्च दस्सेति. तदा पन कायविवेको न सक्का लद्धुन्ति इदमेत्थ कारणं दट्ठब्बं. बहूहीतिआदि पन सभावदस्सनवसेन वुत्तं. थेरस्स परिसा सुविनीता चिण्णगरुवासा गरुनो इच्छानुरूपमेव वत्तति.

वुत्तकारणयुत्ते अद्धानगमने चारिकानं वोहारो सासने निरुळ्होति आह ‘‘किञ्चापी’’तिआदि. केनचिदेव निमित्तेन किस्मिञ्चि अत्थे पवत्ताय सञ्ञाय तन्निमित्तरहितेपि अञ्ञस्मिं पवत्ति रुळ्ही नाम. विजितमारत्ता सङ्गामविजयमहायोधो विय. अञ्ञं सेवित्वाति ‘‘मम आगतभावं सत्थु आरोचेही’’ति आरोचनत्थं अञ्ञं भिक्खुं सेवित्वा.

भगवा धम्मं देसेन्तो तंतंपुग्गलज्झासयानुरूपं तदनुच्छविकमेव धम्मिं कथं करोतीति दस्सेन्तो ‘‘चूळगोसिङ्गसुत्ते’’तिआदिमाह. तत्थ सामग्गिरसानिसंसन्ति ‘‘कच्चि पन वो, अनुरुद्धा, समग्गा सम्मोदमाना’’तिआदिना (म. नि. १.३२६) सामग्गिरसानिसंसं कथेसि. आवसथानिसंसन्ति ‘‘सीतं उण्हं पटिहनती’’तिआदिना (चूळव. २९५, ३१५) आवसथपटिसंयुत्तं आनिसंसं. सतिपटिलाभिकन्ति जोतिपालत्थेरे लामकं ठानं ओतिण्णमत्ते महाबोधिपल्लङ्के पन सब्बञ्ञुतं पटिविज्झितुं पत्थनं कत्वा पारमियो पूरेन्तो आगतो. तादिसस्स नाम पमादविहारो न युत्तोति यथा कस्सपो भगवा बोधिसत्तस्स सतिं पटिलभितुं धम्मिं कथं कथेसि, तथा अयं भगवा तमेव पुब्बेनिवासपटिसंयुत्तकथं भिक्खूनं घटिकारसुत्तं (म. नि. २.२८२) कथेसि. चत्तारो धम्मुद्देसेति – ‘‘उपनीयति लोको अद्धुवो, अताणो लोको अनभिस्सरो, अस्सको लोको सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासो चा’’ति (म. नि. २.३०५) इमे चत्तारो धम्मुद्देसे कथेसि. कामञ्चेते धम्मुद्देसा रट्ठपालसुत्ते (म. नि. २.३०४) आयस्मता रट्ठपालत्थेरेन रञ्ञो कोरब्यस्स कथिता, ते पन भगवतो एव आहरित्वा थेरेन तत्थ कथिताति वुत्तं ‘‘रट्ठपालसुत्ते’’तिआदि. तथा हि वुत्तं सुत्ते – ‘‘अत्थि खो, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मुद्देसा उद्दिट्ठा’’तिआदि (म. नि. २.३०५) पानकानिसंसकथन्ति ‘‘अग्गिहुत्तं मुखं यञ्ञा’’तिआदिना (म. नि. २.४००; सु. नि. ५७३) अनुमोदनं वत्वा पुन पकिण्णककथावसेन पानकपटिसंयुत्तं आनिसंसकथं कथेसि. एकीभावे आनिसंसं कथेसि, यं सन्धाय वुत्तं ‘‘अथ खो भगवा आयस्मन्तं भगुं धम्मिया कथाय सन्दस्सेसी’’तिआदि (म. नि. ३.२३८). अनन्तनयन्ति अपरिमाणदेसनानयं अप्पिच्छतादिपटिसंयुत्तं धम्मिं कथं. तेनाह ‘‘पुण्ण, अयम्पि अप्पिच्छकथायेवा’’तिआदि बहूहि परियायेहि नानानयं देसेति. कथं तथा देसितं थेरो अञ्ञासीति आह ‘‘पटिसम्भिदापत्तस्स…पे… अहोसी’’ति.

चारिकादिवण्णना निट्ठिता.

सत्तविसुद्धिपञ्हवण्णना

२५६. ततो पट्ठायाति. यदा जातिभूमका भिक्खू सत्थु सम्मुखा थेरस्स वण्णं भासिंसु, ततो पट्ठाय. सीसानुलोकी हुत्वा पिट्ठितो पिट्ठितो अनुबन्धनं थेरेन समागमे आदरवसेन कतन्ति दट्ठब्बं. तथा हि वुत्तं पाठे ‘‘अप्पेव नामा’’तिआदि, ‘‘तरमानरूपो’’ति च. यं पन वुत्तं अट्ठकथायं ‘‘एकस्मिं ठाने निलीन’’न्तिआदि, तं अकारणं. न हि धम्मसेनापति तस्स थेरस्स निसिन्नट्ठानं अभिञ्ञाञाणेन जानितुं न सक्कोति. ‘‘कच्चि नु खो मं अदिस्वाव गमिस्सती’’ति अयम्पि चिन्ता आदरवसेनेवाति युत्तं. न हि सत्थारं दट्ठुं आगतो सावको अपि आयस्मा अञ्ञातकोण्डञ्ञो सत्थुकप्पं धम्मसेनापतिं तत्थ वसन्तं अदिस्वाव गच्छनको नाम अत्थि. दिवाविहारन्ति सम्पदाने उपयोगवचनन्ति आह ‘‘दिवाविहारत्थाया’’ति.

२५७. पुरिमकथायाति पठमालापे. अप्पतिट्ठितायाति नप्पवत्तिताय. पच्छिमकथा न जायतीति पच्छा वत्तब्बकथाय अवसरो न होति. सत्त विसुद्धियो पुच्छि दिट्ठसंसन्दनवसेन. ञाणदस्सनविसुद्धि नाम अरियमग्गो. यस्मा ततो उत्तरिम्पि पत्तब्बं अत्थेव, तस्मा ‘‘चतुपारिसुद्धिसीलादीसु ठितस्सपि ब्रह्मचरियवासो मत्थकं न पापुणाती’’ति वुत्तं. तस्माति ब्रह्मचरियवासस्स मत्थकं अप्पत्तत्ता. सब्बं पटिक्खिपीति सत्तमम्पि पञ्हं पटिक्खिपि, इतरेसु वत्तब्बमेव नत्थि.

अप्पच्चयपरिनिब्बानन्ति अनुपादिसेसनिब्बानमाह. इदानि पकारन्तरेनपि अनुपादापरिनिब्बानं दस्सेतुं ‘‘द्वेधा’’तिआदि वुत्तं. तत्थ गहणूपादानन्ति दळ्हग्गहणभूतं उपादानं. तेनाह ‘‘कामुपादानादिक’’न्ति. पच्चयूपादानन्ति यं किञ्चि पच्चयमाह. सो हि अत्तनो फलं उपादियति उपादानवसेन गण्हतीति उपादानन्ति वुच्चति. तेनाह ‘‘पच्चयूपादानं नाम…पे… पच्चया’’ति. ‘‘अनुपादाय आसवेहि चित्तं विमुच्चती’’ति वचनतो (महाव. २८, ३०) अरहत्तफलं अनुपादापरिनिब्बानन्ति कथेन्ति. न च उपादानसम्पयुत्तन्ति उपादानेहि एतं न सहितं नापि उपादानेहि सह पवत्ति हुत्वा. न च कञ्चि धम्मं उपादियतीति कस्सचि धम्मस्स आरम्मणकरणवसेन न उपादियति. परिनिब्बुतन्तेति अग्गमग्गेन कातब्बकिलेसपरिनिब्बानपरियोसानन्ते जातत्ता. अमतधातुमेव अनुपादापरिनिब्बानं कथेन्ति, कथेन्तानञ्च यथा तस्स कोचि पच्चयो नाम नत्थि, एवं अधिगतोपि यथा कोचि पच्चयो नाम न होति, तथा परिनिब्बानं अपच्चयपरिनिब्बानन्ति दस्सेन्तो ‘‘अयं अन्तो’’तिआदिमाह. पुन पुच्छं आरभि अनुपादापरिनिब्बानं सरूपतो पतिट्ठापेतुकामो.

२५८. सब्बपरिवत्तेसूति सब्बेसु पञ्हपरिवत्तनेसु, पञ्हवारेसूति अत्थो. सगहणधम्ममेवाति ‘‘एतं ममा’’तिआदिना गण्हतीति गहणं, सह गहणेनाति सगहणं, उपादानियन्ति अत्थो. विवट्टसन्निस्सितस्स अभावतो वट्टमेव अनुगतोति वट्टानुगतो. तेनाह ‘‘चतुपारिसुद्धिसीलमत्तस्सपि अभावतो’’ति. यो पन चतुब्बिधे विवट्टूपनिस्सये सीले ठितो, सोपि ‘‘अञ्ञत्र इमेहि धम्मेही’’ति वत्तब्बतं अरहति.

सत्तविसुद्धिपञ्हवण्णना निट्ठिता.

सत्तरथविनीतवण्णना

२५९. निस्सक्कवचनमेतं ‘‘याव हेट्ठिमसोपानकळेवरा’’तिआदीसु विय. अत्थोति पयोजनं. चित्तविसुद्धि हेत्थ सीलविसुद्धिं पयोजेति तस्स तदत्थत्ता. सीलविसुद्धिकिच्चं कतं नाम होति समाधिसंवत्तनतो. समाधिसंवत्तनिका हि सीलविसुद्धि नाम. सब्बपदेसूति ‘‘चित्तविसुद्धि यावदेव दिट्ठिविसुद्धत्था’’तिआदीसु सब्बपदेसु, दिट्ठिविसुद्धियं ठितस्स चित्तविसुद्धकिच्चं कतं नाम होतीतिआदिना योजेतब्बं.

सावत्थिनगरं विय सक्कायनगरं अतिक्कमितब्बत्ता. साकेतनगरं विय निब्बाननगरं पापुणितब्बत्ता. अच्चायिकस्स किच्चस्स उप्पादकालो विय नवमेनेव खणेन पत्तब्बस्स अभिसमयकिच्चस्स उपादकालो. यथा रञ्ञो सत्तमेन रथविनीतेन साकेते अन्तेपुरद्वारे ओरुळ्हस्स न ताव किच्चं निट्ठितं नाम होति, संविधातब्बसंविधानं ञातिमित्तगणपरिवुतस्स सुरसभोजनपरिभोगे निट्ठितं नाम सिया, एवमेतं ञाणदस्सनविसुद्धिया किलेसे खेपेत्वा तेसंयेव पटिप्पस्सद्धिपहानसाधकअरियफलसमङ्गिकाले अभिसमयकिच्चं निट्ठितं नाम होति. तेनाह ‘‘योगिनो…पे… कालो दट्ठब्बो’’ति. तत्थ परोपण्णास कुसलधम्मा नाम चित्तुप्पादपरियापन्ना फस्सादयो परोपण्णास अनवज्जधम्मा. निरोधसयनेति निब्बानसयने.

‘‘विसुद्धियो’’ति वा ‘‘कथावत्थूनी’’ति वा अत्थतो एकं, ब्यञ्जनमेव नानन्ति तेसं अत्थतो अनञ्ञभावं दस्सेतुं ‘‘इती’’ति आरद्धं. आयस्मा पुण्णो दस कथावत्थूनि विस्सज्जेसीति सत्त विसुद्धियो नाम विस्सज्जन्तोपि दस कथावत्थूनि विस्सज्जेसि तेसं अत्थतो अनञ्ञत्ता. एतेनेव धम्मसेनापति सारिपुत्तत्थेरो सत्त विसुद्धियो पुच्छन्तो दस कथावत्थूनि पुच्छीति अयम्पि अत्थो वुत्तोवाति वेदितब्बो. न्ति पञ्हं. किं जानित्वा पुच्छीति विसुद्धिपरियायेन कथावत्थूनि पुच्छामीति किं जानित्वा पुच्छि. दसकथावत्थुलाभिनं थेरं विसुद्धियो पुच्छन्तो पुच्छितट्ठानेयेव पुच्छनेन किं तित्थकुसलो वा पन हुत्वा विसयस्मिं पुच्छि, उदाहु पानीयत्थिकमतित्थेहि छिन्नतटेहि पातेन्तो विय अतित्थकुसलो हुत्वा अपुच्छितब्बट्ठाने अविसयस्मिं पुच्छीति योजना. इमिना नयेन विस्सज्जनपक्खेपि अत्थयोजना वेदितब्बा. यदत्थमस्स विचारणा आरद्धा, तं दस्सेन्तेन ‘‘तित्थकुसलो हुत्वा’’तिआदिं वत्वा विसुद्धिकथावत्थूनं अत्थतो अनञ्ञत्तेपि अयं विसेसो वेदितब्बोति दस्सेतुं ‘‘यं ही’’तिआदि वुत्तं. तदमिनाति यं ‘‘संखित्तं, वित्थिण्ण’’न्ति च वुत्तं, तं इमिना इदानि वुच्चमानेन नयेन विधिना वेदितब्बं.

एका सीलविसुद्धीति विसुद्धीसु विसुं एका सीलविसुद्धि. दससु कथावत्थूसु चत्तारि कथावत्थूनि हुत्वा आगता अप्पिच्छतादीहि विना सीलविसुद्धिया असम्भवतो. अप्पिच्छकथातिआदीसु कथासीसेन दसकथावत्थु गहितं. कथेतब्बत्ता वा वत्थु कथावत्थूति वुत्तं. एवञ्च उपकारतो, सभावतो वा चतुन्नं कथावत्थूनं सीलविसुद्धिसङ्गहो दट्ठब्बो. तिण्णं कथावत्थूनं चित्तविसुद्धिसङ्गहेपि एसेव नयो. पञ्च विसुद्धियोति नामरूपपरिच्छेदो दिट्ठिविसुद्धि, सप्पच्चयनामरूपदस्सनं कङ्खावितरणविसुद्धि, विपस्सनुपक्किलेसे पहाय उप्पन्नं विपस्सनाञाणं मग्गामग्गञाणदस्सनविसुद्धि, उदयब्बयञाणादि नवविधञाणं पटिपदाञाणदस्सनविसुद्धि, अरियमग्गञाणं ञाणदस्सनविसुद्धीति इमा पञ्च विसुद्धियो.

सत्तरथविनीतवण्णना निट्ठिता.

२६०. सम्मोदितुन्ति अनन्तरं वुच्चमानेन सम्मोदितुं. अट्ठानपरिकप्पेनाति अकारणस्स वत्थुनो परिकप्पनेन तदा असम्भवन्तं अत्थं परिकप्पेत्वा वचनेन. अभिण्हदस्सनस्साति निच्चदस्सनस्स, नियतदस्सनस्साति अत्थो.

उक्खिपीति गुणतो कथितभावेन उक्कंसेति. थेरस्साति आयस्मतो पुण्णत्थेरस्स. इमस्मिं ठाने इमस्मिं कारणे एकपदेनेव सावकविसये अनञ्ञसाधारणगुणाविकरणनिमित्तं. इदानि तमेवत्थं पाकटतरं कातुं ‘‘अमच्चञ्ही’’तिआदि वुत्तं. अपचायमानोति पूजयन्तो.

‘‘अनुमस्स अनुमस्स पुच्छिता’’ति वुत्तत्ता विचारणवसेनाह ‘‘किं पन पञ्हस्स पुच्छनं भारियं उदाहु विस्सज्जन’’न्ति. सहेतुकं कत्वाति युत्तायुत्तं कत्वा. सकारणन्ति तस्सेव वेवचनं. पुच्छनम्पीति एवं सहधम्मेन पुच्छितब्बमत्थं सयं सम्पादेत्वा पुच्छनम्पि भारियं दुक्करं. विस्सज्जनम्पीति सहधम्मेन विस्सज्जनम्पि दुक्करं. एवञ्हि विस्सज्जेन्तो विञ्ञूनं चित्तं आराधेतीति. यथानुसन्धिनाव देसना निट्ठिताआदितो सपरिक्खारं सीलं, मज्झे समाधिं, अन्ते वसीभावप्पत्तं पञ्ञं दस्सेत्वा देसनाय निट्ठापितत्ताति.

रथविनीतसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

५. निवापसुत्तवण्णना

२६१. निवप्पतीति निवापो, निवापं वत्तेति, निवापभोजनं वा एतस्साति नेवापिको, निवापेन मिगे पलोभेत्वा गण्हनकमागविको. तिणबीजानीति निवापतिणबीजानि. वप्पन्ति सस्सं विय वपितब्बट्ठेन वप्पं. ‘‘मयं विय अञ्ञे के ईदिसं लभिस्सन्ती’’ति मानमदं आपज्जिस्सन्ति. विस्सट्ठसतिभावन्ति अनुस्सङ्कितपरिसङ्कितभावं. तिरच्छाना हि विजातियबलवतिरच्छानवसनट्ठानेसु सासङ्का उब्बिग्गहदया अप्पमत्ता होन्ति विसेसतो मागविकादिमनुस्सूपचारे, रसतण्हाय पन बद्धा पमादं आपज्जस्सन्ति. निवपति एत्थाति निवापो, निवापभूमि निवापट्ठानं. तेनाह ‘‘निवापट्ठाने’’ति. ‘‘यथाकामकरणीया’’ति वुत्तमत्थं विवरितुं ‘‘एकं किरा’’तिआदि वुत्तं. तत्थ नीवारवनं वियाति नीवारस्स समूहो विय. नीवारो नाम अरञ्ञे सयंजातवीहिजाति. मेघमाला वियाति मेघघटा विय. एकग्घनन्ति एकज्झं विय अविरट्ठं. पक्कमन्तीति आसङ्कपरिसङ्का हुत्वा पक्कमन्ति. कण्णे चालयमानाति अनासङ्कन्तानं पहट्ठाकारदस्सनं. मण्डलगुम्बन्ति मण्डलकाकारेन ठितं गुम्बं.

२६२. कप्पेत्वाति उपमाभावेन परिकप्पेत्वा. मिगे अत्तनो वसे वत्तापनं वसीभावो. सो एव इज्झनट्ठेन इद्धि, पभावनट्ठेन आनुभावो.

२६३. भयेन भोगतोति भयेन सह सभयं निवापपरिभोगतो. बलवीरियन्ति कायबलञ्च उट्ठानवीरियञ्च. अट्ठकथायं पन बलमेव वीरियं. बलन्ति च सरीरबलं, तञ्च अत्थतो मनसिकारमग्गेहि अपरापरं सञ्चरणकवातोति वुत्तं ‘‘अपरापरं सञ्चरणवायोधातू’’ति.

२६४. सिक्खितकेराटिकाति परिचितसाठेय्या, वञ्चकाति अत्थो. इद्धिमन्तो विय आनुभाववन्तो विय. पचुरजनेहि परभूता जाताति परजना, महाभूता. तेनाह ‘‘यक्खा’’ति. समन्ता सप्पदेसन्ति समन्ततो पदेसवन्तं विपुलोकाससन्निवासट्ठानं. तस्स पन सप्पदेसता महाओकासतायाति वुत्तं ‘‘महन्तं ओकास’’न्ति.

२६५. घट्टेस्सन्तीति ‘‘सभयसमुट्ठान’’न्ति सञ्ञादानवसेन चित्तं चेतेस्सन्ति, तासेस्सन्तीति अत्थो. परिच्चजिस्सन्तीति निब्बिसिस्सन्ति. महल्लकोति जातिया महल्लको जिण्णो. दुब्बलोति ब्याधिवसेन, पकतिया वा बलविरहितो.

२६७. निवापसदिसताय निवापोति वा. लोकपरियापन्नं हुत्वा किलेसेहि आमसितब्बताय लोकामिसानीति वा. वट्टे आमिसभूतत्ता वट्टामिसभूतानं. वसं वत्तेतीति कामगुणेहि कामगुणे गिद्धे सत्ते तस्सेव गेधस्स वसेन अत्तनो वसे वत्तेतीति. तेनाह –

‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो;

तेन तं बाधयिस्सामि, न मे समण मोक्खसी’’ति. (सं. नि. १.१५१; महाव. ३३);

अयन्ति पठममिगजातूपमा. वानपत्थस्स सतोव पपञ्चपरदत्तिकादिसपुत्तदारनिक्खमनं सन्धायाह ‘‘सपुत्तभरियपब्बज्जाया’’ति.

२६८. कामतो चित्तस्स विमुत्ति इध चेतोविमुत्तीति अधिप्पेताति आह ‘‘चेतोविमुत्ति नाम…पे… उप्पन्नअज्झासयो’’ति. कामे विस्सज्जेत्वा पुन तत्थ निमुग्गताय दुतियसमणब्राह्मणा दुतियमिगजातूपमा वुत्ता.

२६९. ततियसमणब्राह्मणा यथापरिच्चत्ते कामे परिच्चजित्वा एवं ठिता, न दुतिया विय तत्थ निमुग्गाति अधिप्पायेन ‘‘किं पन ते अकंसू’’ति पुच्छति. इतरे कामं उजुकं कामगुणेसु न निमुग्गा, परियायेन पन निमुग्गा दिट्ठिजालेन च अज्झोत्थटाति दस्सेन्तो ‘‘गामनिगमजनपदराजधानियो’’तिआदिमाह. दिट्ठिजालम्पि तण्हाजालानुगतमेवाति आह ‘‘मारस्स पापिमतो दिट्ठिजालेन परिक्खिपित्वा’’ति.

२७१. खन्धकिलेसाभिसङ्खारमारा वा इध मारग्गहणेन गहिताति दट्ठब्बं. अक्खीनि भिन्दि दट्ठुं असमत्थभावापादनेन. तेनाह ‘‘विपस्सनापादकज्झान’’न्तिआदि. किञ्चापि मारो यं किञ्चि झानं समापन्नस्सपि भिक्खुनो चित्तं इमं नाम आरम्मणं निस्साय वत्ततीति न जानाति, इधाधिप्पेतस्स पन भिक्खुनो वसेन ‘‘विपस्सनापादकज्झान’’न्ति वुत्तं. तेनेव परियायेनाति ‘‘न मारस्स अक्खीनि भिन्दी’’ति एवमादिना यथावुत्तपरियायेन. अदस्सनं गतोति एत्थापि एसेव नयो. चक्खुस्स पदं पतिट्ठाति च इध आरम्मणं अधिप्पेतं तं परिग्गय्ह पवत्तनतोति आह ‘‘अप्पतिट्ठं निरारम्मण’’न्ति. सोति मारो. दिस्वाति दस्सनहेतु. यस्मा मग्गेन चतुसच्चदस्सनहेतु आसवा न परिक्खीणा. फलक्खणे हि ते खीणाति वुच्चन्तीति.

लोकेति सत्तलोके सङ्खारलोके च. सत्तविसत्तभावेनाति लग्गभावेन चेव सविसेसं आसत्तभावेन च. अथ वातिआदिना निद्देसनयवसेन (महानि. ३, चूळनि. मेत्तगूमाणवपुच्छानिद्देस २२, २३; चूळनि. खग्गविसाणसुत्तनिद्देस १२४) विसत्तिकापदं निद्दिसति. विसताति वित्थटा रूपादीसु तेभूमकधम्मेसु ब्यापनवसेन विसटाति पुरिमवचनमेव तकारस्स टकारं कत्वा वुत्तं. विसालाति विपुला. विसक्कतीति परिसक्कति सहति. रत्तो हि रागवत्थुना पादेन तालियमानोपि सहति. ओसक्कनं, विप्फन्दनं वा विसक्कनन्तिपि वदन्ति. विसंहरतीति यथा तथा कामेसु आनिसंसं दस्सेन्ती विविधेहि आकारेहि नेक्खम्माभिमुखप्पवत्तितो चित्तं संहरति सङ्खिपति, विसं वा दुक्खं, तं हरति उपनेतीति अत्थो. विसंवादिकाति अनिच्चादिं निच्चादितो गण्हापेन्ती विसंवादिका होति. दुक्खनिब्बत्तकस्स कम्मस्स हेतुभावतो विसमूला, विसं वा दुक्खदुक्खादिभूता वेदना मूलं एतिस्साति विसमूला. दुक्खसमुदयत्ता विसं फलं एतिस्साति विसफला. तण्हाय रूपादिकस्स दुक्खस्सेव परिभोगो होति, न अमतस्साति सा ‘‘विसपरिभोगा’’ति वुत्ता. सब्बत्थ निरुत्तिवसेन सद्दसिद्धि वेदितब्बा. यो पनेत्थ पधानो अत्थो, तं दस्सेतुं पुन ‘‘विसाला वा पना’’तिआदि वुत्तं. नित्तिण्णो उत्तिण्णोति उपसग्गवसेन पदं वड्ढितं. निरवसेसतो वा तिण्णो नित्तिण्णो. तेन तेन मग्गेन उद्धमुद्धं तिण्णो उत्तिण्णो. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.

निवापसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

६. पासरासिसुत्तवण्णना

२७२. साधुमयन्ति एत्थ साधु-सद्दो आयाचनत्थो, न ‘‘साधावुसो’’तिआदीसु (सं. नि. १.२४६; सु. नि. १८२) विय अभिनन्दनादिअत्थोति आह ‘‘आयाचन्ता’’ति. तेनाह पाळियं ‘‘लभेय्यामा’’तिआदि वुत्तं. न सक्कोन्ति, कस्मा? बुद्धा हि गरू होन्ति, परमगरू उत्तमं गारवट्ठानं, न यथा तथा उपसङ्कमनीया. तेनाह ‘‘एकचारिको सीहो’’तिआदि.

‘‘पाकटकिरियाया’’ति सङ्खेपेन वुत्तं विवरितुं ‘‘यं ही’’तिआदि वुत्तं. भगवा सब्बकालं किमेवमकासीति? न सब्बकालमेवमकासि. यदा पन अकासि, तं दस्सेतुं ‘‘भगवा पठमबोधिय’’न्तिआदि वुत्तं. मनुस्सत्तभावेति इमिना पुरिसत्तभावं उल्लिङ्गेति. धनपरिच्चागो कतो नाम नत्थि भगवतो धरमानकालेति अधिप्पायो.

मालाकचवरन्ति मिलातमालाकचवरं. रजोजल्लं न उपलिम्पति अच्छतरछविभावतो. वुत्तञ्हेतं ‘‘सुखुमत्ता छविया काये रजोजल्लं न लिम्पती’’ति. यदि एवं कस्मा भगवा नहायतीति आह ‘‘उतुग्गहणत्थ’’न्ति.

विहारोति जेतवनविहारो. वीसतिउसभं गावुतस्स चतुत्थो भागोति वदन्ति. कदाचीति कस्मिञ्चि बुद्धुप्पादे. अचलमेवाति अपरिवत्तमेव अनञ्ञभावतो, मञ्चानं पन अप्पमहन्तताहि पादानं पतिट्ठितट्ठानस्स हानिवड्ढियो होन्तियेव.

यन्तनाळिकाहि परिपुण्णसुवण्णरसधाराहि. न्हानवत्तन्ति ‘‘पब्बजितेन नाम एवं न्हायितब्ब’’न्ति नहानचारित्तं दस्सेत्वा. यस्मा भगवतो सरीरं सुधन्तचामीकरसमानवण्णं सुपरिसोधितपवाळरुचिरकरचरणावरं सुविसुद्धनीलरतनावळिसदिसकेसतनुरुहं, तस्मा तहं तहं विनिस्सतजातिहिङ्गुलकरसूपसोभितं उपरि महग्घरतनावळिसञ्छादितं जङ्गममिव कनकगिरिसिखरं विरोचित्थ. तस्मिञ्च समये दसबलस्स सरीरतो निक्खमित्वा छब्बण्णरस्मियो समन्ततो असीतिहत्थप्पमाणे पदेसे आधावन्ती विधावन्ती रतनावळिरतनदाम-रतनचुण्ण-विप्पकिण्णं विय, पसारितरतनचित्तकञ्चनपट्टमिव, आसिञ्चमानलाखारसधारा-चितमिव, उक्कासतनिपातसमाकुलमिव, निरन्तरं विप्पकिण्ण-कणिकार-किङ्किणिक-पुप्फमिव, वायुवेगसमुद्धत-चिनपिट्ठचुण्ण-रञ्जितमिव, इन्दधनु-विज्जुलता-वितानसन्थतमिव, गगनतलं तं ठानं पवनञ्च सम्मा फरन्ति. तेन वुत्तं ‘‘वण्णभूमि नामेसा’’तिआदि. अत्थन्ति उपमेय्यत्थं. उपमायोति ‘‘ईदिसो च होती’’ति यथारहं तदनुच्छविका उपमा. कारणानीति उपमुपमेय्यसम्बन्धविभावनानि कारणानि. पूरेत्वाति वण्णनं परिपुण्णं कत्वा. थामो वेदितब्बो ‘‘अतित्थे पक्खन्दो’’ति अवत्तब्बत्ता.

२७३. कण्णिकाति सरीरगतबिन्दुकतानि मण्डलानि. परिक्खारभण्डन्ति उत्तरासङ्गं सङ्घाटिञ्च सन्धाय वदति. किं पनायं नयो बुद्धानम्पि सरीरे होतीति? न होति, वत्तदस्सनत्थं पनेतं कतन्ति दस्सेतुं ‘‘बुद्धानं पना’’तिआदि वुत्तं. गमनवसेन कायस्साभिनीहरणं गमनाभिहारो. यथाधिप्पायावत्तनं अधिप्पायकोपनं.

अञ्ञतराय पारमियाति नेक्खम्मपारमिया. वीरियपारमियाति अपरे. महाभिनिक्खमनस्साति महन्तस्स चरिमभवे अभिनिक्खमनस्स. तञ्हि महन्तं भोगक्खन्धं महन्तञ्च ञातिपरिवट्टं महन्तञ्च चक्कवत्तिसिरिं पजहित्वा सदेवकस्स लोकस्स समारकस्स च अचिन्तेय्यापरिमेय्यभेदस्स महतो अत्थाय हिताय सुखाय पवत्तत्ता महनीयताय च महन्तं अभिनिक्खमनन्ति वुच्चति.

पुरिमोति ‘‘कतमाय नु कथाय सन्निसिन्ना भवथा’’ति एवं वुत्तअत्थो. का च पन वोति एत्थ -सद्दो ब्यतिरेके. तेन यथापुच्छिताय कथाय वक्खमानं विप्पकतभावं जोतेति. पन-सद्दो वचनालङ्कारे. याय हि कथाय ते भिक्खू सन्निसिन्ना, सा एव अन्तराकथाभूता विप्पकता विसेसेन पुन पुच्छीयति. अञ्ञाति अन्तरा-सद्दस्स अत्थमाह. अञ्ञत्थो हि अयं अन्तरा-सद्दो ‘‘भूमन्तरं (ध. स. अट्ठ. निदानकथा) समयन्तर’’न्तिआदीसु विय, अन्तराति वा वेमज्झेति अत्थो. दसकथावत्थुनिस्सिताति ‘‘किं सीलं नाम, कथञ्च पूरेतब्बं, कानि चस्स संकिलेसवोदानानी’’तिआदिना अप्पिच्छादिनिस्सिता सीलादिनिस्सिता च कथा. अरियोति निद्दोसो. अथ वा अत्थकामेहि अरणीयोति अरियो, अरियानं अयन्ति वा अरियोति. भावनामनसिकारवसेन तुण्ही भवन्ति, न एकच्चबाहिरकपब्बजिता विय मूगब्बतसमादानेन. दुतियज्झानम्पि अरियो तुण्हीभावो वचीसङ्खारपहानतो. मूलकम्मट्ठानन्ति पारिहारिय कम्मट्ठानम्पि. झानन्ति दुतियज्झानं.

२७४. ‘‘सन्निपतितानं वो, भिक्खवे, द्वय’’न्ति (म. नि. १.२७३; उदा. १२, २८, २९) अट्ठुप्पत्तिवसेन देसना पवत्ताति तस्सा उपरिदेसनाय सम्बन्धं दस्सेतुं ‘‘द्वेमा, भिक्खवे, परियेसनाति को अनुसन्धी’’ति अनुसन्धिं पुच्छति. अयं तुम्हाकं परियेसनाति या महाभिनिक्खमनपटिबद्धा धम्मी कथा, सा तुम्हाकं धम्मपरियेसना धम्मविचारणा अरियपरियेसना नाम. अपायमग्गन्ति अनत्थावहं मग्गं. उद्देसानुक्कमं भिन्दित्वाति उद्देसानुपुब्बिं लङ्घित्वा. धम्म-सद्दो ‘‘अमोसधम्मं निब्बान’’न्तिआदीसु विय पकतिपरियायो. जायनसभावोति जायनपकतिकोति अत्थो. सेसपदेसुपि एसेव नयो.

सब्बत्थाति यथा ‘‘पुत्तभरिय’’न्ति द्वन्दसमासवसेन एकत्तं, एस नयो सब्बत्थ ‘‘दासिदास’’न्तिआदीसु सब्बपदेसु. परतो विकारं अनापज्जित्वा सब्बदा जातरूपमेव होतीति जातरूपं, सुवण्णं. धवलसभावताय रञ्जीयतीति रजतं, रूपियं. इध पन सुवण्णं ठपेत्वा यं किञ्चि उपभोगपरिभोगारहं रजतंतेव गहितं. उपधीयति एत्थ दुक्खन्ति उपधयो. चुतीसङ्खातं मरणन्ति एकभवपरियापन्नं खन्धनिरोधसङ्खातं मरणमाह. खणिकनिरोधो पन खणे खणे. तेनाह ‘‘सत्तानं विया’’ति. संकिलिस्सतीति दूसविसेन विय अत्तानं दूसिस्सति. तेनाह भगवा – ‘‘पञ्चिमे, भिक्खवे, जातरूपस्स उपक्किलेसा अयो लोह’’न्तिआदि (अ. नि. ५.२३). मलं गहेत्वाति येहि सहयोगतो मलिनं होति, तेसं मलिनभावपच्चयानं वसेन मलं गहेत्वा. जीरणतो जराधम्मवारे जातरूपं गहितन्ति योजना. ये पन जातिधम्मवारेपि जातरूपं न पठन्ति, तेसं इतरेसं विय जीरणधम्मवारे सरूपतो अनागतम्पि उपधिग्गहणेन गहितमेवाति दट्ठब्बं. परिग्गहे ठितानं पन वसेन वुच्चमाने अपाकटानम्पि जातिजरामरणानं वसेन योजना लब्भतेव. जातरूपसीसेन चेत्थ सब्बस्सपि अनिन्द्रियबद्धस्स गहणं दट्ठब्बं, पुत्तभरियादिग्गहणेन विय मित्तामच्चादिग्गहणं.

२७५. अरियेहि परियेसना, अरियानं परियेसनाति वा अरियपरियेसनाति समासद्वयं दस्सेति ‘‘अयं, भिक्खवे’’तिआदिना.

२७६. मूलतो पट्ठायाति यं महाभिनिक्खमनस्स मूलभावेसुआदीनवदस्सनं, ततो पट्ठाय. यस्मा ते भिक्खू तत्थ महाभिनिक्खमनकथाय सन्निसिन्ना, सा च नेसं अन्तराकथा विप्पकता, तस्मा भगवा तेसं मूलतो पट्ठाय महाभिनिक्खमनकथं कथेतुं आरभि. अहम्पि पुब्बेति विसेसवचनं अपरिपक्कञाणेन सयं चरिमभवे तीसु पासादेसु तिविधनाटकपरिवारस्स दिब्बसम्पत्तिसदिसाय महासम्पत्तिया अनुभवनं, अभिनिक्खमित्वा पधानपदहनवसेन अत्तकिलमथानुयोगञ्च सन्धायाह. अनरियपरियेसनं परियेसिन्ति एत्थापि एसेव नयो. पञ्चवग्गियापीति यथासकं गिहिभोगं अनुयुत्ता तं पहाय पब्बजित्वा अत्तकिलमथानुयोगे ठिता सत्थु धम्मचक्कपवत्तनदेसनाय (सं. नि. ५.१०८१; महाव. १३; पटि. म. २.३०) तम्पि पहाय अरियपरियेसनं परियेसिंसूति.

२७७. कामं दहर-सद्दो ‘‘दहरं कुमारं मन्दं उत्तानसेय्यक’’न्ति (म. नि. १.४९६) एत्थ बालदारके आगतो, ‘‘भद्रेन योब्बनेन समन्नागतो’’ति पन वक्खमानत्ता युवावत्था इध दहर-सद्देन वुत्ताति आह ‘‘तरुणोव समानो’’ति. पठमवयेन एकूनतिंसवयत्ता. जातिया हि याव तेत्तिंसवया पठमवयो. अनादरत्थे सामिवचनं यथा ‘‘देवदत्तस्स रुदन्तस्स पब्बजी’’ति. कामं अस्सुमुच्चनं रोदनं, तं अस्सुमुखानन्ति इमिना पकासितं, तं पन वत्वा ‘‘रुदन्तान’’न्ति वचनं बलवसोकसमुट्ठानं आरोदनवत्थुं पकासेतीति आह ‘‘कन्दित्वा रोदमानान’’न्ति. किं कुसलन्ति गवेसमानोति किन्ति सब्बसो अवज्जरहितं एकन्त निय्यानिकं परियेसमानो. वरपदन्ति वट्टदुक्खनिस्सरणत्थिकेहि एकन्तेन वरणीयट्ठेन वरं, पज्जितब्बट्ठेन पदं. तुङ्गसरीरताय दीघो, पिङ्गलचक्खुताय पिङ्गलोति दीघपिङ्गलो. धम्मोति विनयो, समयोति अत्थो. सुत्वाव उग्गण्हिन्ति तेन वुच्चमानस्स सवनमत्तेनेव उग्गण्हिं वाचुग्गतं अकासिं.

पटिलपनमत्तकेनाति पुन लपनमत्तकेन. जानातीति ञाणो, ञाणोति वादो ञाणवादो, तं ञाणवादं. ‘‘वदामी’’ति आगतत्ता अट्ठकथायं ‘‘जानामी’’ति उत्तमपुरिसवसेन अत्थो वुत्तो. अञ्ञेपि बहूति अञ्ञेपि बहू मम तथाभावं जानन्ता ‘‘अयं इमं धम्मं जानाती’’ति, ‘‘अकम्पनीयताय थिरो’’ति वा एवं वदन्ति. लाभीति अञ्ञासीति धम्मस्स उद्दिसनेन महापञ्ञताय ‘‘अयं अत्तना गतमग्गं पवेदेति, न अनुस्सुतिको’’ति अञ्ञासि. अस्साति बोधिसत्तस्स. एतदहोसीति एतं ‘‘न खो आळारो कालामो’’तिआदि मनसि अहोसि, चिन्तेसीति अत्थो.

हेट्ठिमसमापत्तीहि विना उपरिमसमापत्तीनं सम्पादनस्स असम्भवतो ‘‘सत्त समापत्तियो मं जानापेसी’’ति आह. पयोगं करेय्यन्ति भावनं अनुयुञ्जेय्यन्ति अत्थो. एवमाहाति एवं ‘‘अहं, आवुसो’’तिआदिमाह, सत्तन्नं समापत्तीनं अधिगमं पच्चञ्ञासीति अत्थो.

अनुसूयकोति अनिस्सुकी. तेन महापुरिसे पसादं पवेदेसि. बोधिसत्तस्स ता समापत्तियो निब्बत्तेत्वा ठितस्स पुरिमजातिपरिचयेन ञाणस्स च महन्तताय तासं गति च अभिसम्परायो च उपट्ठासि. तेन ‘‘वट्टपरियापन्ना एवेता’’ति निच्छयो उदपादि. तेनाह ‘‘नायं धम्मो निब्बिदाया’’तिआदि. एकच्चानं विरागभावनासमतिक्कमावहोपि नेव तेसम्पि अच्चन्ताय समतिक्कमावहो, सयञ्च वट्टपरियापन्नोयेव, तस्मा नेव वट्टे निब्बिन्दनत्थाय, यदग्गेन न निब्बिदाय, तदग्गेन न विरज्जनत्थाय, रागादीनं पापधम्मानं न निरुज्झनत्थाय, न उपसमत्थाय, तस्मा तं अभिञ्ञेय्यधम्मं न अभिजाननत्थाय…पे… संवत्ततीति योजना.

यावदेव आकिञ्चञ्ञायतनुपपत्तियाति सत्तसु समापत्तीसु उक्कट्ठं गहेत्वा वदति. उट्ठाय समुट्ठाय अचुतिधम्मं परियेसितुं युत्तत्ता तञ्च अनतिक्कन्तजातिधम्ममेवाति महासत्तो पजहतीति आह ‘‘यञ्च ठानं पापेती’’तिआदि. ततो पट्ठायाति यदा समापत्तिधम्मस्स गतिञ्च अभिसम्परायञ्च अब्भञ्ञासि, ततो पट्ठाय. मक्खिकावसेनाति भोजनस्स मक्खिकामिस्सतावसेन. मनं न उप्पादेति भुञ्जितुन्ति अधिप्पायो. महन्तेन उस्साहेनाति इदं कतिपाहं तत्थ भावनानुयोगमत्तं सन्धाय वुत्तं, न अञ्ञेसं विय कसिणपरिकम्मादिकरणं. न हि अन्तिमभविकबोधिसत्तानं समापत्तिनिब्बत्तने भारियं नाम. अनलङ्करित्वाति अनु अनु अलंकत्वा पुनप्पुनं ‘‘इमिना न किञ्चि पयोजन’’न्ति कत्वा.

२७८. वाचाय उग्गहितमत्तोवाति एत्थ पुब्बे वुत्तनयानुसारेन अत्थो वेदितब्बो.

२७९. महावेला विय महावेला, विपुलवालिकपुञ्जताय महन्तो वेलातटो वियाति अत्थो. तेनाह ‘‘महावालिकरासीति अत्थो’’ति. उरु मरु सिकता वालुका वण्णु वालिकाति इमे सद्दा समानत्था, ब्यञ्जनमेव नानं.

सेना निगच्छि निविसि एत्थाति सेनानिगमो, सेनाय निविट्ठट्ठानं. सेनानिगामोति पन अयं समञ्ञा अपरकालिका. गोचरगामनिदस्सनञ्चेतं. उपरिसुत्तस्मिन्ति महासच्चकसुत्ते. इध पन बोधिपल्लङ्को अधिप्पेतो अरियपरियेसनाय वुच्चमानत्ता.

२८०. ‘‘ञाणदस्सन’’न्ति च एकज्झं गहितपदद्वयविसयविसेसस्स अनामट्ठत्ता ‘‘मे’’ति च गहितत्ता अनवसेसञेय्यावबोधनसमत्थमेव ञाणविसेसं बोधेति, न ञाणमत्तं, न दस्सनमत्तन्ति आह ‘‘सब्बधम्मदस्सनसमत्थञ्च मे सब्बञ्ञुतञ्ञाणं उदपादी’’ति. अकुप्पतायाति विमोक्खन्तताय सब्बसो पटिपक्खधम्मेहि असङ्खोभनीयताय. तेनाह ‘‘रागादीहि न कुप्पती’’ति. आरम्मणसन्ततायपि तदारम्मणानं अत्थि विसेसो यथा तं ‘‘आनेञ्जविहारे’’ति आह ‘‘अकुप्पारम्मणताय चा’’ति. पच्चवेक्खणञाणम्पीति न केवलं सब्बञ्ञुतञ्ञाणमेव, अथ खो यथाधिगते पटिवेधसद्धम्मे एकूनवीसतिविधपच्चवेक्खणञाणम्पि.

२८१. पटिविद्धोति (दी. नि. टी. २.६४; सं. नि. टी. १.१.१७२; सारत्थ. टी. महावग्ग ३.७) सयम्भुञाणेन ‘‘इदं दुक्ख’’न्तिआदिना पटिमुखं निब्बिज्झनवसेन पत्तो, यथाभूतं अवबुद्धोति अत्थो. गम्भीरोति महासमुद्दो विय मकसतुण्डसूचिया अञ्ञत्र समुपचितपरिपक्कञाणसम्भारेहि अञ्ञेसं ञाणेन अलब्भनेय्यपतिट्ठो. तेनाह ‘‘उत्तानभावपटिक्खेपवचनमेत’’न्ति. यो अलब्भनेय्यपतिट्ठो, सो ओगाहितुमसक्कुणेय्यताय सरूपतो च पस्सितुं न सक्काति आह ‘‘गम्भीरत्ताव दुद्दसो’’ति. दुक्खेन दट्ठब्बोति किच्छेन केनचिदेव दट्ठब्बो. यं पन दट्ठुमेव न सक्का, तस्स ओगाहेत्वा अनु अनु बुज्झने कथा एव नत्थीति आह ‘‘दुद्दसत्ताव दुरनुबोधो’’ति. दुक्खेन अवबुज्झितब्बो अवबोधस्स दुक्करभावतो. इमस्मिं ठाने – ‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो दुक्करतरं वा दुरभिसम्भवतरं वा’’ति सुत्तपदं (सं. नि. ५.१११५) वत्तब्बं. सन्तारम्मणताय वा सन्तो. निब्बुतसब्बपरिळाहताय निब्बुतो. पधानभावं नीतोति वा पणीतो. अतित्तिकरट्ठेन अतप्पको सादुरसभोजनं विय. एत्थ च निरोधसच्चं सन्तं आरम्मणन्ति सन्तारम्मणं, मग्गसच्चं सन्तं सन्तारम्मणञ्चाति सन्तारम्मणं. अनुपसन्तसभावानं किलेसानं सङ्खारानञ्च अभावतो निब्बुतसब्बपरिळाहताय सन्तपणीतभावेनेव च असेचनकताय अतप्पकता दट्ठब्बा. तेनाह ‘‘इदं द्वयं लोकुत्तरमेव सन्धाय वुत्त’’न्ति. उत्तमञाणविसयत्ता न तक्केन अवचरितब्बो, ततो एव निपुणञाणगोचरताय च सण्हो. सुखुमसभावत्ता च निपुणो, बालानं अविसयत्ता पण्डितेहि एव वेदितब्बोति पण्डितवेदनीयो. आलीयन्ति अभिरमितब्बट्ठेन सेवीयन्तीति आलया, पञ्च कामगुणा. आलयन्ति अल्लीयन्ती अभिरमणवसेन सेवन्तीति आलया, तण्हाविचरितानि. रमन्तीति रतिं विन्दन्ति कीळन्ति लळन्ति. आलयरताति आलयनिरता.

ठानं सन्धायाति ठान-सद्दं सन्धाय. अत्थतो पन ठानन्ति च पटिच्चसमुप्पादो एव अधिप्पेतो. तिट्ठति फलं तदायत्तवुत्तितायाति ठानं, सङ्खारादीनं पच्चयभूता अविज्जादयो. इमेसं सङ्खारादीनं पच्चयाति इदप्पच्चया, अविज्जादयोव. इदप्पच्चया एव इदप्पच्चयता यथा ‘‘देवो एव देवता’’ति, इदप्पच्चयानं वा अविज्जादीनं अत्तनो फलं पति पच्चयभावो उप्पादनसमत्थता इदप्पच्चयता. तेन समत्थपच्चयलक्खणो पटिच्चसमुप्पादो दस्सितो होति. पटिच्च समुप्पज्जति फलं एतस्माति पटिच्चसमुप्पादो. पदद्वयेनपि धम्मानं पच्चयट्ठो एव विभावितो. तेनाह ‘‘सङ्खारादिपच्चयानं एतं अधिवचन’’न्ति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गसंवण्णनायं (विसुद्धि. महाटी. २.५७२-५७३) वुत्तनयेन वेदितब्बो.

सब्बसङ्खारसमथोतिआदि सब्बन्ति सब्बसङ्खारसमथादिसद्दाभिधेय्यं सब्बं अत्थतो निब्बानमेव. इदानि तस्स निब्बानभावं दस्सेतुं ‘‘यस्मा ही’’तिआदि वुत्तं. न्ति निब्बानं. आगम्माति पटिच्च अरियमग्गस्स आरम्मणपच्चयभावहेतु. सम्मन्तीति अप्पटिसन्धिकूपसमवसेन सम्मन्ति. तथा सन्ता सविसेसं उपसन्ता नाम होन्तीति आह ‘‘वूपसम्मन्ती’’ति. एतेन ‘‘सब्बे सङ्खारा सम्मन्ति एत्थाति सब्बसङ्खारसमथो, निब्बान’’न्ति दस्सेति. सब्बसङ्खतविसंयुत्ते च निब्बाने सब्बसङ्खारवूपसमपरियायो हेट्ठा वुत्तनयेनेव वेदितब्बो. सेसपदेसुपि एसेव नयो. पटिनिस्सट्ठाति समुच्छेदवसेन परिच्चत्ता होन्ति. सब्बा तण्हाति अट्ठसतप्पभेदा सब्बापि तण्हा. सब्बे किलेसरागाति कामरागरूपरागादिभेदा सब्बेपि किलेसभूता रागा, सब्बेपि वा किलेसा इध ‘‘किलेसरागा’’ति वेदितब्बा, न लोभविसेसा एव चित्तस्स विपरिणतभावापादनतो. यथाह ‘‘रत्तम्पि चित्तं विपरिणतं, दुट्ठम्पि चित्तं विपरिणतं, मूळ्हम्पि चित्तं विपरिणत’’न्ति (पारा. २७१). विरज्जन्तीति पलुज्जन्ति.

चिरनिसज्जाचिरभासनेहि पिट्ठिआगिलायनतालुगलसोसादिवसेन कायकिलमथो चेव कायविहेसा च वेदितब्बा. सा च खो देसनाय अत्थं अजानन्तानं वसेन वुत्ता, जानन्तानं पन देसनाय कायपरिस्समोपि सत्थु अपरिस्समोव. तेनाह भगवा – ‘‘न च मं धम्माधिकरणं विहेसेसी’’ति (उदा. १०). तेनेवाह ‘‘या अजानन्तानं देसना नाम, सो मम किलमथो अस्सा’’ति. उभयन्ति चित्तकिलमथो चेव चित्तविहेसा चाति उभयम्पेतं बुद्धानं नत्थि बोधिमूलेयेव समुच्छिन्नत्ता.

अनुब्रूहनं सम्पिण्डनं. सोति ‘‘अपिस्सू’’ति निपातो. न्ति पटि-सद्दयोगेन सामिअत्थे उपयोगवचनन्ति आह ‘‘ममा’’ति. वुद्धिप्पत्ता वा अच्छरिया अनच्छरिया. वुद्धिअत्थोपि हि अ-कारो होति यथा ‘‘असेक्खा धम्मा’’ति (ध. स. ११.तिकमातिका). कप्पानं सतसहस्सं चत्तारि च असङ्ख्येय्यानि सदेवकस्स लोकस्स धम्मसंविभागकरणत्थमेव पारमियो पूरेत्वा इदानि अधिगतधम्मरज्जस्स तत्थ अप्पोस्सुक्कतापत्तिदीपनता, गाथात्थस्स अच्छरियता, तस्स वुद्धिप्पत्ति चाति वेदितब्बं. अत्थद्वारेन हि गाथानं अनच्छरियता. गोचरा अहेसुन्ति उपट्ठहेसुं. उपट्ठानञ्च वितक्केतब्बताति आह ‘‘परिवितक्कयितब्बतं पापुणिंसू’’ति.

यदि सुखापटिपदाव, कथं किच्छताति आह ‘‘पारमीपूरणकाले पना’’तिआदि. एवमादीनि दुप्परिच्चजानि देन्तस्स. ह-इति वा ‘‘ब्यत्त’’न्ति एतस्मिं अत्थे निपातो. एकंसत्थेति केचि. ह ब्यत्तं, एकंसेन वा अलं निप्पयोजनं एवं किच्छेन अधिगतस्स धम्मस्स देसितन्ति योजना. हलन्ति वा ‘‘अल’’न्ति इमिना समानत्थं पदं ‘‘हलन्ति वदामी’’तिआदीसु (दी. नि. टी. २.६५; सं. नि. टी. १.१.१७२) विय. रागदोसपरिफुट्ठेहीति फुट्ठविसेन विय सप्पेन रागेन दोसेन च सम्फुट्ठेहि अभिभूतेहि. रागदोसानुगतेहीति रागेन च दोसेन च अनुबन्धेहि.

कामरागरत्ता भवरागरत्ता च नीवरणेहि निवुतताय, दिट्ठिरागरत्ता विपरीताभिनिवेसेन. न दक्खन्तीति याथावतो धम्मं न पटिविज्झिस्सन्ति. एवं गाहापेतुन्ति ‘‘अनिच्च’’न्तिआदिना सभावेन याथावतो धम्मं जानापेतुं. रागदोसपरेततापि नेसं सम्मूळ्हभावेनेवाति आह ‘‘तमोखन्धेन आवुटा’’ति.

२८२. धम्मदेसनाय अप्पोस्सुक्कतापत्तिया कारणं विभावेतुं ‘‘कस्मा पना’’तिआदिना सयमेव चोदनं समुट्ठापेति. तत्थ अञ्ञातवेसेनाति इमस्स भगवतो सावकभावूपगमनेन अञ्ञातरूपेन. तापसवेसेनाति केचि. सो पन अरहत्ताधिगमेनेव विगच्छेय्य. तिविधं कारणं अप्पोस्सुक्कतापत्तिया पटिपक्खस्स बलवभावो, धम्मस्स गम्भीरता, तत्थ च सातिसयं गारवन्ति, त दस्सेतुं ‘‘तस्स ही’’तिआदि आरद्धं. (तत्थ पटिपक्खा नाम रागादयो किलेसा सम्मापटिपत्तिया अन्तरायकरत्ता. तेसं बलवभावतो चिरपरिभावनाय सत्तसन्तानतो दुब्बिसोधियताय ते सत्ते मत्तहत्थिनो विय दुब्बलपुरिसं अधिभवित्वा अज्झोत्थरित्वा अनयब्यसनं आपादेन्ता अनेकसतयोजनायामवित्थारं सुनिचितं घनसन्निवेसं कण्टकदुग्गम्पि अधिसेन्ति. दूरप्पभेददुच्छेज्जताहि दुब्बिसोधियतं पन दस्सेतुं ‘‘अथस्सा’’तिआदि वुत्तं. तत्थ च अन्तो अमट्ठताय कञ्जियपुण्णा लाबु. चिरपारिवासिकताय तक्कभरिता चाटि. स्नेहतिन्तदुब्बलभावेन वसापीतपिलोतिका. तेलमिस्सितताय अञ्जनमक्खितहत्थो दुब्बिसोधनीया वुत्ता, हीनूपमा चेता रूपपबन्धभावतो अचिरकालिकत्ता च मलीनताय, किलेससंकिलेसो एव पन दुब्बिसोधनीयतरो अनादिकालिकत्ता अनुसयितत्ता च. तेनाह ‘‘अतिसंकिलिट्ठा’’ति. यथा च दुब्बिसोधनीयतरताय, एवं गम्भीरदुद्दसदुरनुबोधानम्पि वुत्तउपमा हीनूपमाव).

पटिपक्खविगमनेन गम्भीरोपि धम्मो सुपाकटो भवेय्य. पटिपक्खविगमनं पन सम्मापटिपत्तिपटिबद्धं, सा सद्धम्मस्सवनाधीना. तं सत्थरि धम्मे च पसादायत्तं, सो गरुट्ठानियानं अज्झेसनहेतुकोति पनाळिकाय सत्तानं धम्मसम्पटिपत्तिया ब्रह्मयाचनानिमित्तन्ति तं दस्सेन्तो ‘‘अपिचा’’तिआदिमाह.

उपक्किलेसभूतं अप्पं रागादिरजं एतस्साति अप्परजं, अप्परजं अक्खि पञ्ञाचक्खु येसं ते तंसभावाति कत्वा अप्परजक्खजातिकाति अयमत्थो विभावितो ‘‘पञ्ञामये’’तिआदिना. अप्पं रागादिरजं येसं तंसभावा अप्परजक्खजातिकाति एवम्पि सद्दत्थो सम्भवति. दानादिदसपुञ्ञकिरियवत्थूनि सरणगमनपरहितपरिणामनेहि सद्धिं (द्वादस होन्तीति) ‘‘द्वादसपुञ्ञकिरियवसेना’’ति वुत्तं.

रागादिमलेन समलेहि पूरणादीहि छहि सत्थारेहि सत्थुपटिञ्ञेहि कब्बरचनावसेन चिन्ताकविआदिभावे ठत्वा तक्कपरियाहतं वीमंसानुचरितं सयंपटिभानं चिन्तितो. ते किर बुद्धकोलाहलानुस्सवेन सञ्जातकुतूहलं लोकं वञ्चेत्वा कोहञ्ञे ठत्वा सब्बञ्ञुतं पटिजानन्ता यं किञ्चि अधम्मंयेव धम्मोति दीपेसुं. तेनाह ‘‘ते हि पुरेतरं उप्पज्जित्वा’’तिआदि. अपापुरेतन्ति एतं कस्सपस्स भगवतो सासनन्तरधानतो पभुति पिहितं निब्बाननगरस्स महाद्वारं अरियमग्गं सद्धम्मदेसनाहत्थेन अपापुर विवर.

सेलपब्बतो उच्चो होति थिरो च, न पंसुपब्बतो मिस्सकपब्बतो चाति आह ‘‘सेले यथा पब्बतमुद्धनी’’ति. धम्ममयं पासादन्ति लोकुत्तरधम्ममाह. सो हि सब्बसो पसादावहो, सब्बधम्मे अतिक्कम्म अब्भुग्गतट्ठेन पासादसदिसो च. पञ्ञापरियायो वा इध धम्म-सद्दो. सा हि अब्भुग्गतट्ठेन ‘‘पासादो’’ति अभिधम्मे (ध. स. अट्ठ. १६) निद्दिट्ठा. तथा चाह –

‘‘पञ्ञापासादमारुय्ह, असोको सोकिनिं पजं;

पब्बतट्ठोव भूमट्ठे, धीरो बाले अवेक्खती’’ति. (ध. प. २८);

उट्ठेहीति वा धम्मदेसनाय अप्पोस्सुक्कतासङ्खातसङ्कोचापत्तितो किलासुभावतो उट्ठह.

२८३. गरुट्ठानियं पयिरुपासित्वा गरुतरं पयोजनं उद्दिस्स अभिपत्थना अज्झेसना, सापि अत्थतो याचनाव होतीति आह ‘‘अज्झेसनन्ति याचन’’न्ति. पदेसविसयं ञाणदस्सनं अहुत्वा बुद्धानंयेव आवेणिकभावतो इदं ञाणद्वयं ‘‘बुद्धचक्खू’’ति वुच्चतीति आह ‘‘इमेसञ्हि द्विन्नं ञाणानं बुद्धचक्खूति नाम’’न्ति. तिण्णं मग्गञाणानन्ति हेट्ठिमानं तिण्णं मग्गञाणानं ‘‘धम्मचक्खू’’ति नामं चतुसच्चधम्मदस्सनमत्तभावतो. यतो तानि ञाणानि विज्जूपमभावेन वुत्तानि, अग्गमग्गञाणं पन ञाणकिच्चस्स सिखाप्पत्तिया न दस्सनमत्तं होतीति ‘‘धम्मचक्खू’’ति न वुच्चति, ततो तं वजिरूपमभावेन वुत्तं. वुत्तनयेनाति ‘‘अप्परजक्खा’’ति एत्थ वुत्तनयेन. यस्मा मन्दकिलेसा ‘‘अप्परजक्खा’’ति वुत्ता, तस्मा बहलकिलेसा ‘‘महारजक्खा’’ति वेदितब्बा. पटिपक्खविधमनसमत्थताय तिक्खानि सूरानि विसदानि, वुत्तविपरियायेन मुदूनि. सद्धादयो आकाराति सद्दहनादिप्पकारे वदति. सुन्दराति कल्याणा. सम्मोहविनोदनियं (विभ. अट्ठ. ८१४) पन ‘‘येसं आसयादयो कोट्ठासा सुन्दरा, ते स्वाकारा, विपरीता द्वाकारा’’ति वुत्तं, तं इमाय अत्थवण्णनाय अञ्ञदत्थु संसन्दति समेतीति दट्ठब्बं. कारणं नाम पच्चयाकारो, सच्चानि वा.

अयं पनेत्थ पाळीति एत्थ अप्परजक्खादिपदानं अत्थविभावने अयं तस्सत्थस्स विभावनी पाळि. सद्धादीनं विमुत्तिपरिपाचकधम्मानं बलवभावो तप्पटिपक्खानं पापधम्मानं दुब्बलभावेनेव होति, तेसञ्च बलवभावो सद्धादीनं दुब्बलभावेनाति विमुत्तिपरिपाचकधम्मानं अत्थितानत्थितावसेन अप्परजक्खमहारजक्खतादयो पाळियं विभजित्वा दस्सिता. खन्धादयो एव लुज्जनपलुज्जनट्ठेन लोको. सम्पत्तिभवभूतो लोको सम्पत्तिभवलोको, सुगतिसङ्खातो उपपत्तिभवो. सम्पत्ति सम्भवति एतेनाति सम्पत्तिसम्भवलोको. सुगतिसंवत्तनियो कम्मभवो. दुग्गति सङ्खातउपपत्तिभवदुग्गति संवत्तनियकम्मभवा विपत्तिभवलोकविपत्तिसम्भवलोका.

पुन एककदुकादिवसेन लोकं विभजित्वा दस्सेतुं ‘‘एको लोको’’तिआदि वुत्तं. आहारादयो विय हि आहारट्ठितिका सङ्खारा लुज्जनपलुज्जनट्ठेन लोकोति. एत्थ एको लोको सब्बे सत्ता आहारट्ठितिकाति यायं पुग्गलाधिट्ठानाय कथाय सब्बसङ्खारानं पच्चयायत्तवुत्ति, ताय सब्बे सङ्खारा एकोव लोको एकविधो पकारन्तरस्स अभावतो. द्वे लोकातिआदीसुपि इमिना नयेन अत्थो वेदितब्बो. नामग्गहणेन चेत्थ निब्बानस्स अग्गहणं तस्स अलोकसभावत्ता. ननु च आहारट्ठितिकाति एत्थ पच्चयायत्तवुत्तिताय मग्गफलानम्पि लोकता आपज्जतीति? नापज्जति परिञ्ञेय्यानं दुक्खसच्चधम्मानं इध ‘‘लोको’’ति अधिप्पेतत्ता. अथ वा न लुज्जति न पलुज्जतीति यो गहितो तथा न होति, सो लोकोति तं-गहणरहितानं लोकुत्तरानं नत्थि लोकता. उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा. दसायतनानीति दस रूपायतनानि. सेसमेत्थ सुविञ्ञेय्यमेव.

विवट्टज्झासयस्स अधिप्पेतत्ता तस्स च सब्बं तेभूमककम्मं गरहितब्बं वज्जितब्बञ्च हुत्वा उपट्ठातीति वुत्तं ‘‘सब्बे अभिसङ्खारा वज्जं, सब्बे भवगामिकम्मा वज्ज’’न्ति. अप्परजक्खमहारजक्खादीसु पञ्चसु दुकेसु एकेकस्मिं दस दस कत्वा ‘‘पञ्ञासाय आकारेहि इमानि पञ्चिन्द्रियानि जानाती’’ति वुत्तं. अथ वा अन्वयतो ब्यतिरेकतो च सद्धादीनं इन्द्रियानं परोपरियत्तं जानातीति कत्वा तथा वुत्तं. एत्थ च अप्परजक्खादिभब्बादिवसेन आवज्जेन्तस्स भगवतो ते सत्ता पुञ्जपुञ्जाव हुत्वा उपट्ठहन्ति, न एकेका.

उप्पलानि एत्थ सन्तीति उप्पलिनी, गच्छोपि जलासयोपि, इध पन जलासयो अधिप्पेतोति आह ‘‘उप्पलवने’’ति. यानि उदकस्स अन्तो निमुग्गानेव हुत्वा पुसन्ति वड्ढन्ति, तानि अन्तोनिमुग्गपोसीनि. दीपितानीति अट्ठकथायं पकासितानि, इधेव वा ‘‘अञ्ञानिपी’’तिआदिना भासितानि.

उग्घटितञ्ञूति उग्घटितं नाम ञाणुग्घटनं, ञाणे उग्घटितमत्ते एव जानातीति अत्थो. विपञ्चितं वित्थारितमेव अत्थं जानातीति विपञ्चितञ्ञू. उद्देसादीहि नेतब्बोति नेय्यो. सह उदाहटवेलायाति उदाहारे उदाहटमत्तेयेव. धम्माभिसमयोति चतुसच्चधम्मस्स ञाणेन सद्धिं अभिसमयो. अयं वुच्चतीति अयं ‘‘चत्तारो सतिपट्ठाना’’तिआदिना नयेन संखित्तेन मातिकाय ठपियमानाय देसनानुसारेन ञाणं पेसेत्वा अरहत्तं गण्हितुं समत्थो पुग्गलो ‘‘उग्घटितञ्ञू’’ति वुच्चति. अयं वुच्चतीति अयं संखित्तेन मातिकं ठपेत्वा वित्थारेन अत्थे विभजियमाने अरहत्तं पापुणितुं समत्थो पुग्गलो ‘‘विपञ्चितञ्ञू’’ति वुच्चति. उद्देसतोति उद्देसहेतु, उद्दिसन्तस्स, उद्दिसापेन्तस्स वाति अत्थो. परिपुच्छतोति अत्थं परिपुच्छन्तस्स. अनुपुब्बेन धम्माभिसमयो होतीति अनुक्कमेन अरहत्तप्पत्ति होति. न ताय जातिया धम्माभिसमयो होतीति तेन अत्तभावेन मग्गं वा फलं वा अन्तमसो झानं वा विपस्सनं वा निब्बत्तेतुं न सक्कोति. अयं वुच्चति पुग्गलो पदपरमोति अयं पुग्गलो ब्यञ्जनपदमेव परमं अस्साति पदपरमोति वुच्चति.

कम्मावरणेनाति (विभ. अट्ठ. ८२६) पञ्चविधेन आनन्तरियकम्मेन. विपाकावरणेनाति अहेतुकपटिसन्धिया. यस्मा पन दुहेतुकानम्पि अरियमग्गपटिवेधो नत्थि, तस्मा दुहेतुका पटिसन्धिपि ‘‘विपाकावरणमेवा’’ति वेदितब्बा. किलेसावरणेनाति नियतमिच्छादिट्ठिया. अस्सद्धाति बुद्धादीसु सद्धारहिता. अच्छन्दिकाति कत्तुकम्यताकुसलच्छन्दरहिता. उत्तरकुरुका मनुस्सा अच्छन्दिकट्ठानं पविट्ठा. दुप्पञ्ञाति भवङ्गपञ्ञाय परिहीना. भवङ्गपञ्ञाय पन परिपुण्णायपि यस्स भवङ्गं लोकुत्तरस्स पच्चयो न होति, सोपि दुप्पञ्ञो एव नाम. अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु सम्मत्तनियामसङ्खातं मग्गं ओक्कमितुं अधिगन्तुं अभब्बा. न कम्मावरणेनातिआदीनि वुत्तविपरियायेन वेदितब्बानि.

निब्बानस्स द्वारं पविसनमग्गो. विवरित्वा ठपितो महाकरुणूपनिस्सयेन सयम्भुञाणेन अधिगतत्ता. सद्धं पमुञ्चन्तूति अत्तनो सद्धं पवेसेन्तु, सद्दहनाकारं उपट्ठपेन्तूति अत्थो. सुखेन अकिच्छेन पवत्तनीयताय सुप्पवत्तितं. न भासिं न भासिस्सामीति चिन्तेसिं.

२८४. धम्मं देसेस्सामीति एवं पवत्तितधम्मदेसनापटिसंयुत्तस्स वितक्कस्स सत्तमसत्ताहतो परं अट्ठमसत्ताहेयेव उप्पन्नत्ता वुत्तं ‘‘अट्ठमे सत्ताहे’’ति. न इतरसत्ताहानि विय पटिनियतकिच्चलक्खितस्स अट्ठमसत्ताहस्स नाम पवत्तितस्स सब्भावा.

विवटन्ति देवताविग्गहेन विवटअङ्गपच्चङ्गनिद्दाय जनानं पाकटं विप्पकारन्ति अत्थो. ‘‘बुद्धत्तं अनधिगन्त्वा न पच्चागमिस्सामी’’ति उप्पन्नवितक्कातिसयहेतुकेन पथवीपरिवत्तनचेतियं नाम दस्सेत्वा. साकियकोलियमल्लरज्जवसेन तीणि रज्जानि. रुक्खमूलेति निग्रोधमूले. वत्वा पक्कामि, पक्कमन्तिया चस्सा महासत्तो आकारं दस्सेसि सुवण्णथालग्गहणाय, सा ‘‘तुम्हाकं तं परिच्चत्तमेवा’’ति पक्कामि.

दिवाविहारं कत्वाति नानासमापत्तियो समापज्जनेन दिवाविहारं विहरित्वा. ‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतु, उपसुस्सतु सरीरे मंसलोहित’’न्तिआदिना सुत्ते (म. नि. २.१८४; सं. नि. २.२३७; अ. नि. २.५; ८.१३; महानि. १७, १९६) आगतनयेन चतुरङ्गवीरियं अधिट्ठहित्वा.

नवयोजनन्ति उब्बेधतो वुत्तं, पुथुलतो द्वादसयोजना, दीघतो याव चक्कवाळा आयताति वदन्ति. अज्झोत्थरन्तो उपसङ्कमित्वा – ‘‘उट्ठेहि सो, सिद्धत्थ, अहं इमस्स पल्लङ्कस्स अनुच्छविको’’ति वत्वा तत्थ सक्खिं ओतारेन्तो अत्तनो परिसं निद्दिसि. एकप्पहारेनेव – ‘‘अयमेव अनुच्छविको, अयमेव अनुच्छविको’’ति कोलाहलमकासि, तं सुत्वा महासत्तो…पे… हत्थं पसारेति. यं सन्धाय वुत्तं –

‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;

सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति. (चरिया. १.१२४);

पुब्बेनिवासञाणं विसोधेत्वाति आनेत्वा सम्बन्धो सीहावलोकनञायेन. वट्टविवट्टं सम्मसित्वाति चतुसच्चमनसिकारं सन्धायाह. इमस्स पल्लङ्कस्स अत्थायाति पल्लङ्कसीसेन अधिगतविसेसं दस्सेति. तत्थ हि सिखाप्पत्तविमुत्तिसुखं अविजहन्तो अन्तरन्तरा च पटिच्चसमुप्पादङ्गं मनसिकरोन्तो एकपल्लङ्केन निसीदि. एकच्चानन्ति या अधिगतमग्गा सच्छिकतनिरोधा एकदेसेन च बुद्धगुणे जानन्ति, ता ठपेत्वा तदञ्ञेसं देवतानं. अञ्ञेपि बुद्धत्तकराति विसाखापुण्णमतो पट्ठाय रत्तिन्दिवं एवं निच्चसमाहितभावहेतुकानं बुद्धगुणानं उपरि अञ्ञेपि बुद्धत्तसाधका, ‘‘अयं बुद्धो’’ति बुद्धभावस्स परेसं विभावना धम्मा किं नु खो अत्थीति योजना.

अनिमिसेहीति धम्मपीतिविप्फारवसेन पसादविकसितनिच्चलताय निमेसरहितेहि. रतनचङ्कमेति देवताहि मापिते रतनमयचङ्कमे. रतनभूतानं सत्तन्नं पकरणानं तत्थ च अनन्तनयस्स धम्मरतनस्स सम्मसनेन तं ठानं रतनघरचेतियं नाम जातन्तिपि वदन्ति. एवन्ति वक्खमानाकारेन. छब्बण्णानं रस्मीनं दन्तेहि निक्खमनतो छद्दन्तनागकुलं वियाति निदस्सनं वुत्तं.

हेट्ठा लोहपासादप्पमाणोति नवभूमकस्स सब्बपठमस्स लोहपासादस्स हेट्ठा लोहपासादप्पमाणो. खन्धकट्ठकथायं (महाव. अट्ठ. ५) पन तत्थ ‘‘भण्डागारगब्भप्पमाण’’न्ति वुत्तं.

पच्चग्घेति अभिनवे. पच्चेकं महग्घताय पच्चग्घेति केचि, तं न सुन्दरं. न हि बुद्धा भगवन्तो महग्घं पटिग्गण्हन्ति परिभुञ्जन्ति वा. पिण्डपातन्ति एत्थ मन्थञ्च मधुपिण्डिकञ्च सन्धाय वदति. अयं वितक्कोति – ‘‘कस्स नु खो अहं पठमं धम्मं देसेय्य’’न्ति अयं परिवितक्को.

पण्डिच्चेनाति समापत्तिपटिलाभसंसिद्धेन अधिगमबाहुसच्चसङ्खातेन पण्डितभावेन. वेय्यत्तियेनाति समापत्तिपटिलाभपच्चयेन पारिहारियपञ्ञासङ्खातेन ब्यत्तभावेन. मेधावीति तिहेतुकपटिसन्धिपञ्ञासङ्खाताय तंतंइतिकत्तब्बतापञ्ञासङ्खाताय च मेधाय समन्नागतोति एवम्पेत्थ अत्थो दट्ठब्बो. महाजानियोति महापरिहानिको. आगमनपादापि नत्थीति इदं पठमं वत्तब्बं, अथाहं तत्थ गच्छेय्यं, गन्त्वा देसियमानं धम्मम्पिस्स सोतुं सोतपसादोपि नत्थीति योजना. किं पन भगवता अत्तनो बुद्धानुभावेन ते धम्मं ञापेतुं न सक्काति? आम, न सक्का. न हि परतो घोसं अन्तरेन सावकानं धम्माभिसमयो सम्भवति, अञ्ञथा इतरपच्चयरहितस्सपि धम्माभिसमयेन भवितब्बं, न च तं अत्थि. वुत्तञ्हेतं – ‘‘द्वेमे, भिक्खवे, पच्चया सम्मादिट्ठिया उप्पादाय परतो च घोसो अज्झत्तञ्च योनिसोमनसिकारो’’ति (अ. नि. २.१२७). पाळियं रामस्सेव समापत्तिलाभिता आगता, न उदकस्स, तं तस्स बोधिसत्तेन समागतकालवसेन वुत्तं. सो हि पुब्बेपि तत्थ युत्तप्पयुत्तो विहरन्तो महापुरिसेन खिप्पञ्ञेव समापत्तीनं निब्बत्तितभावं सुत्वा संवेगजातो महासत्ते ततो निब्बिज्ज पक्कन्ते घटेन्तो वायमन्तो नचिरस्सेव अट्ठ समापत्तियो निब्बत्तेसि. तेन वुत्तं ‘‘नेवसञ्ञानासञ्ञायतने निब्बत्तोति अद्दसा’’ति. एते अट्ठ ब्राह्मणाति सम्बन्धो. छळङ्गवाति छळङ्गविदुनो. मन्तन्ति मन्तपदं. ‘‘निज्झायित्वा’’ति वचनसेसो, मन्तेत्वाति अत्थो. वियाकरिंसूति कथेसुं.

यथामन्तपदन्ति लक्खणमन्तसङ्खातवेदवचनानुरूपं. गताति पटिपन्ना. ‘‘द्वेव गतियो भवन्ति अनञ्ञा’’ति (दी. नि. २.३३; ३.१९९-२००; म. नि. २.३८४, ३९८) वुत्तनियामेन निच्छिनितुं असक्कोन्ता ब्राह्मणा वुत्तमेव पटिपज्जिंसु, न महापुरिसस्स बुद्धभावप्पत्तिं पच्चासीसिंसु. इमे पन कोण्डञ्ञादयो पञ्च ‘‘एकंसतो बुद्धो भविस्सती’’ति जातनिच्छयत्ता मन्तपदं अतिक्कन्ता. पुण्णपत्तन्ति तुट्ठिदानं. निब्बितक्काति निब्बिकप्पा, न द्वेधा तक्का.

वप्पकालेति वपनकाले. वपनत्थं बीजानि नीहरणन्तेन तत्थ अग्गं गहेत्वा दानं बीजग्गदानं नाम. लायनग्गादीसुपि एसेव नयो. धञ्ञफलस्स नातिपरिणतकाले पुथुककाले. लायनेति सस्सलायने. यथा लूनं हत्थकं कत्वा वेणिवसेन बन्धनं वेणिकरणं. वेणियो पन पुरिसभारवसेन बन्धनं कलापो. खले कलापानं ठपनदिवसे अग्गं गहेत्वा दानं खलग्गं. मद्दित्वा वीहीनं रासिकरणदिवसे अग्गं गहेत्वा दानं भण्डग्गं. कोट्ठागारे धञ्ञस्स पक्खिपनदिवसे दानं कोट्ठग्गं. उद्धरित्वाति खलतो धञ्ञस्स उद्धरित्वा. नवन्नं अग्गदानानं दिन्नत्ताति इदं तस्स रत्तञ्ञूनं अग्गभावत्थाय कताभिनीहारानुरूपं पवत्तितसावकपारमिया चिण्णन्ते पवत्तितत्ता वुत्तं. तिण्णम्पि हि बोधिसत्तानं तंतंपारमिया सिखाप्पत्तकाले पवत्तितं पुञ्ञं अपुञ्ञं वा गरुतरविपाकमेव होति, धम्मस्स च सब्बपठमं सच्छिकिरियाय विना कथं रत्तञ्ञूनं अग्गभावसिद्धीति. बहुकारा खो इमे पञ्चवग्गियाति इदं पन उपकारानुस्सरणमत्तकमेव परिचयवसेन आळारुदकानुस्सरणं विय.

२८५. विवरेति मज्झे. तेनाह ‘‘तिगावुतन्तरे ठाने’’ति. अयोजियमाने उपयोगवचनं न पापुणाति सामिवचनस्स पसङ्गे अन्तरा-सद्दयोगेन उपयोगवचनस्स इच्छितत्ता. तेनाह ‘‘अन्तरासद्देन पन युत्तत्ता उपयोगवचनं कत’’न्ति.

सब्बं तेभूमकधम्मं अभिभवित्वा परिञ्ञाभिसमयवसेन अतिक्कमित्वा. चतुभूमकधम्मं अनवसेसं ञेय्यं सब्बसो ञेय्यावरणस्स पहीनत्ता सब्बञ्ञुतञ्ञाणेन अवेदिं. रज्जनदुस्सनमुय्हनादिना किलेसेन. अप्पहातब्बम्पि कुसलाब्याकतं तप्पटिबद्धकिलेसमथनेन पहीनत्ता न होतीति आह ‘‘सब्बं तेभूमकधम्मं जहित्वा ठितो’’ति. आरम्मणतोति आरम्मणकरणवसेन.

किञ्चापि लोकियधम्मानम्पि यादिसो लोकनाथस्स अधिगमो, न तादिसो अधिगमो परूपदेसो अत्थि, लोकुत्तरधम्मे पनस्स लेसोपि नत्थीति आह ‘‘लोकुत्तरधम्मे मय्हं आचरियो नाम नत्थी’’ति. पटिभागपुग्गलोति सीलादीहि गुणेहि पटिनिधिभूतो पुग्गलो. सहेतुनाति सहधम्मेन सपाटिहीरकताय. नयेनाति अभिजाननतादिविधिना. चत्तारि सच्चानीति इदं तब्बिनिमुत्तस्स ञेय्यस्स अभावतो वुत्तं. सयं बुद्धोति सयमेव सयम्भुञाणेन बुद्धो. विगतपरिळाहताय सीतिभूतो. ततो एव निब्बुतो. आहञ्छन्ति आहनिस्सामि. वेनेय्यानं अमताधिगमाय उग्घोसनादिं कत्वा सत्थु धम्मदेसना अमतदुन्दुभीति वुत्ता.

अनन्तञाणो जितकिलेसोति अनन्तजिनो. एवम्पि नाम भवेय्याति एवंविधे नाम रूपरतने ईदिसेन ञाणेन भवितब्बन्ति अधिप्पायो. अयं हिस्स पब्बज्जाय पच्चयो जातो, कताधिकारो चेस. तथा हि भगवा तेन समागमत्थं पदसाव तं मग्गं पटिपज्जि.

कोट्ठाससम्पन्नाति अङ्गपच्चङ्गसङ्खातअवयवसम्पन्ना. अट्टीयतीति अट्टो होति, दोमनस्सं आपज्जतीति अत्थो.

अविहं उपपन्नासेति अविहेसु निब्बत्ता. विमुत्ताति अग्गफलविमुत्तिया विमुत्ता. ते हित्वा मानुसं देहं, दिब्बयोगं उपज्झगुन्ति ते उपका दयो मानुसं अत्तभावं जहित्वा ओरम्भागियसंयोजनप्पहानेन अविहेसु निब्बत्तमत्ताव अग्गमग्गाधिगमेन दिब्बयोगं उद्धम्भागियसंयोजनं समतिक्कमिंसु.

२८६. सण्ठपेसुन्ति ‘‘नेव अभिवादेतब्बो’’तिआदिना (महाव. १२) सण्ठं किरियाकारं अकंसु. तेनाह ‘‘कतिकं अकंसू’’ति. पधानतोति पुब्बे अनुट्ठितदुक्करचरणतो. पभावितन्ति वाचासमुट्ठानं, वचीनिच्छारणन्ति अत्थो. ‘‘अयं न किञ्चि विसेसं अधिगमिस्सती’’ति अनुक्कण्ठनत्थं. ‘‘मयं यत्थ कत्थचि गमिस्सामा’’ति मा वितक्कयित्थ. ओभासोति विपस्सनोभासो. निमित्तन्ति कम्मट्ठाननिमित्तं. एकपदेनेवाति एकवचनेनेव. ‘‘अनेन पुब्बेपि न किञ्चि मिच्छा वुत्तपुब्ब’’न्ति सतिं लभित्वा. यथाभूतवादीति उप्पन्नगारवा.

अन्तोविहारेयेव अहोसि दहरकुमारो विय तेहि भिक्खूहि परिहरितो. मलेति संकिलेसे. गामतो भिक्खूहि नीहटं उपनीतं भत्तं एतस्साति नीहटभत्तो, तेन नीहटभत्तेन भगवता. एत्तकं कथामग्गन्ति – ‘‘द्वेमा, भिक्खवे, परियेसना’’ति आरभित्वा याव – ‘‘नत्थि दानि पुनब्भवो’’ति पदं, एत्तकं देसनामग्गं. कामञ्चेत्थ – ‘‘तुम्हेपि ममञ्चेव पञ्चवग्गियानञ्च मग्गं आरूळ्हा, अरियपरियेसना तुम्हाकं परियेसना’’ति अट्ठकथावचनं. तेन पन – ‘‘सो खो अहं, भिक्खवे, अत्तना जातिधम्मो समानो…पे… असंकिलिट्ठं अनुत्तरं योगक्खेमं निब्बानं अज्झगमन्ति, अथ खो, भिक्खवे, पञ्चवग्गिया भिक्खू मया एवं ओवदियमाना…पे… अनुत्तरं योगक्खेमं निब्बानं अज्झगमंसु…पे… नत्थि दानि पुनब्भवो’’ति इमस्सेव सुत्तपदस्स अत्थो विभावितोति कत्वा वुत्तं ‘‘भगवा यं पुब्बे अवच तुम्हेपि ममञ्चेव पञ्चवग्गियानञ्च मग्गं आरुळ्हा, अरियपरियेसना तुम्हाकं परियेसनाति. इमं एकमेव अनुसन्धिं दस्सेन्तो आहरी’’ति.

२८७. अनगारियानम्पीति पब्बजितानम्पि. पञ्चकामगुणवसेन अनरियपरियेसना होति गधितादिभावेन परिभुञ्जनतो. मिच्छाजीववसेनपि अनरियपरियेसना होतीति ततो विसेसनत्थं ‘‘पञ्चकामगुणवसेना’’ति वुत्तं सच्छन्दरागपरिभोगस्स अधिप्पेतत्ता. इदानि चतूसु पच्चयेसु कामगुणे निद्धारेतुं ‘‘तत्था’’तिआदि वुत्तं. परिभोगरसोति परिभोगपच्चयपीतिसोमनस्सं. अयं पन रससमानतावसेन गहणं उपादाय ‘‘रसो’’ति वुत्तो, न सभावतो. सभावेन गहणं उपादाय पीतिसोमनस्सं धम्मारम्मणं सिया, न रसारम्मणं. अप्पच्चवेक्खणपरिभोगोति पच्चवेक्खणरहितो परिभोगो, इदमत्थितं अनिस्साय गधितादिभावेन परिभोगोति अत्थो. गधिताति तण्हाय बद्धा. मुच्छिताति मुच्छं मोहं पमादं आपन्ना. अज्झोगाळ्हाति अधिओगाळ्हा, तं तं आरम्मणं अनुपविसित्वा ठिता. आदीनवं अपस्सन्ताति सच्छन्दरागपरिभोगे दोसं अजानन्ता. अपच्चवेक्खितपरिभोगहेतुआदीनवं निस्सरति अतिक्कमति एतेनाति निस्सरणं, पच्चवेक्खणञाणं.

पासरासिन्ति पाससमुदायं. लुद्दको हि पासं ओड्डेन्तो न एकंयेव, न च एकस्मिंयेव ठाने ओड्डेति, अथ खो तंतंमिगानं आगमनमग्गं सल्लक्खेत्वा तत्थ तत्थ ओड्डेन्तो बहूयेव ओड्डेति, तस्मा ते चित्तेन एकतो गहेत्वा ‘‘पासरासी’’ति वुत्तं. वागुरस्स वा पासपदेसानं बहुभावतो ‘‘पासरासी’’ति वुत्तं.

पासरासिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

७. चूळहत्थिपदोपमसुत्तवण्णना

२८८. सेतपरिवारोति सेतपटिच्छदो, सेतवण्णालङ्कारोति अत्थो. पुब्बे पन ‘‘सेतालङ्कारा’’ति अस्सालङ्कारो गहितो, इध चक्कपञ्जरकुब्बरादिरथावयवेसु कातब्बालङ्कारो. एवं वुत्तेनाति एवं ‘‘सेताय सुद’’न्तिआदिना पकारेन संयुत्तमहावग्गे (सं. नि. ५.४) वुत्तेन. नातिमहा युद्धमण्डले सञ्चारसुखत्थं. योधो सारथीति द्विन्नं, पहरणदायकेन सद्धिं तिण्णं वा.

नगरं पदक्खिणं करोति नगरसोभनत्थं. इदं किर तस्स ब्राह्मणस्स जाणुस्सोणिट्ठानन्तरं जातिसिद्धं परम्परागतं चारित्तं. तेनाह ‘‘इतो एत्तकेहि दिवसेही’’तिआदि. चारित्तवसेन नगरवासिनोपि तथा तथा पटिपज्जन्ति. पुञ्ञवादिमङ्गलकथने नियुत्ता माङ्गलिका. सुवत्थिपत्तनाय सोवत्थिका. आदि-सद्देन वन्दीआदीनं सङ्गहो. यससिरिसम्पत्तियाति यससम्पत्तिया सिरिसम्पत्तिया च, परिवारसम्पत्तिया चेव विभवसोभासम्पत्तिया चाति अत्थो.

नगराभिमुखो पायासि अत्तनो भिक्खाचारवेलाय. पण्डितो मञ्ञेति एत्थ मञ्ञेति इदं ‘‘मञ्ञती’’ति इमिना समानत्थं निपातपदं. तस्स इति-सद्दं आनेत्वा अत्थं दस्सेन्तो ‘‘पण्डितोति मञ्ञती’’ति आह. अनुमतिपुच्छावसेन चेतं वुत्तं. तेनेवाह ‘‘उदाहु नो’’ति. ‘‘तं किं मञ्ञति भवं वच्छायनो समणस्स गोतमस्स पञ्ञावेय्यत्तिय’’न्ति हि वुत्तमेवत्थं पुन गण्हन्तो ‘‘पण्डितो मञ्ञे’’ति आह. तस्मा वुत्तं ‘‘भवं वच्छायनो, समणं गोतमं पण्डितोति मञ्ञति, उदाहु नो’’ति, यथा ते खमेय्य, तथा नं कथेहीति अधिप्पायो.

अहं को नाम, मम अविसयो एसोति दस्सेति. को चाति हेतुनिस्सक्के पच्चत्तवचनन्ति आह ‘‘कुतो चा’’ति. तथा चाह ‘‘केन कारणेन जानिस्सामी’’ति, येन कारणेन समणस्स गोतमस्स पञ्ञावेय्यत्तियं जानेय्यं, तं कारणं मयि नत्थीति अधिप्पायो. बुद्धोयेव भवेय्य, अबुद्धस्स सब्बथा बुद्धञाणानुभावं जानितुं न सक्काति. वुत्तञ्हेतं – ‘‘अप्पमत्तकं खो पनेतं, भिक्खवे, ओरमत्तकं सीलमत्तकं, येन पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य (दी. नि. १.७), अत्थि, भिक्खवे, अञ्ञेव धम्मा गम्भीरा दुद्दसा दुरनुबोधा …पे… येहि तथागतस्स यथाभुच्चं वण्णं सम्मा वदमानो वदेय्या’’ति (दी. नि. १.२८) च. एत्थाति ‘‘सोपि नूनस्स तादिसोवा’’ति एतस्मिं पदे. पसत्थ पसत्थोति पसत्थेहि अत्तनो गुणेहेव सो पसत्थो, न तस्स कित्तिना, पसंसासभावेनेव पासंसोति अत्थो. तेनाह ‘‘सब्बगुणान’’न्तिआदि. मणिरतनन्ति चक्कवत्तिनो मणिरतनं. सदेवके लोके पासंसानम्पि पासंसोति दस्सेतुं ‘‘पसत्थेहि वा’’ति दुतियविकप्पो गहितो.

अरणीयतो अत्थो, सो एव वसतीति वसोति अत्थवसो, तस्स तस्स पयोगस्स आनिसंसभूतं फलन्ति आह ‘‘अत्थवसन्ति अत्थानिसंस’’न्ति. अत्थो वा वुत्तलक्खणो वसो एतस्साति अत्थवसो, कारणं. नागवनवासिकोति हत्थिनागानं विचरणवने तेसं गहणत्थं वसनको. अनुग्गहितसिप्पोति असिक्खितहत्थिसिप्पो आयतवित्थतस्स पदमत्तस्स दस्सनेन ‘‘महा वत, भो नागो’’ति निट्ठागमनतो. परतो पन भगवता वुत्तट्ठाने. उग्गहितसिप्पो पुरिसो नागवनिकोति आगतो आयतवित्थतस्स पदस्स उच्चस्स च निसेवितस्स ब्यभिचारभावं ञत्वा तत्तकेन निट्ठं अगन्त्वा महाहत्थिं दिस्वाव निट्ठागमनतो. ञाणं पज्जति एत्थाति ञाणपदानि, खत्तियपण्डितादीनं धम्मविनये विनीतत्ता विनयेहि अधिगतज्झानादीनि. तानि हि तथागतगन्धहत्थिनो देसनाञाणेन अक्कन्तट्ठानानि. चत्तारीति पन विनेय्यानं इध खत्तियपण्डितादिवसेन चतुब्बिधानंयेव गहितत्ता.

२८९. पुग्गलेसु पञ्ञाय च निपुणता पण्डितसमञ्ञा निपुणत्थस्स दस्सनसमत्थतावसेनेवाति आह ‘‘सुखुमअत्थन्तरपटिविज्झनसमत्थे’’ति. कत-सद्दो इध निप्फन्नपरियायो. परे पवदन्ति एत्थ, एतेनाति परप्पवादो, परसमयो. परेहि पवदनं परप्पवादो, विग्गाहिककथाय परवादमद्दनं. तदुभयम्पि एकतो कत्वा पाळियं वुत्तन्ति आह ‘‘विञ्ञातपरप्पवादे चेव परेहि सद्धिं कतवादपरिचये चा’’ति, परसमयेसु परवादमद्दनेसु च निप्फन्नेति अत्थो. वालवेधिरूपेति वालवेधिपतिरूपे. तेनाह ‘‘वालवेधिधनुग्गहसदिसे’’ति. वालन्ति अनेकधा भिन्नस्स वालस्स अंसुसङ्खातं वालं. भिन्दन्ता वियाति घटादिं सविग्गहं मुग्गरादिना भिन्दन्ता विय, दिट्ठिगतानि एकंसतो भिन्दन्ताति अधिप्पायो. ‘‘अत्थं गुय्हं पटिच्छन्नं कत्वा पुच्छिस्सामा’’ति सङ्खतं पदपञ्हं पुच्छन्तीति दस्सेतुं ‘‘दुपदम्पी’’तिआदि वुत्तं. वदन्ति एतेनाति वादो, दोसो. पुच्छीयतीति पञ्हो, अत्थो. पुच्छति एतेनाति पञ्हो, सद्दो. तदुभयं एकतो गहेत्वा आह ‘‘एवरूपे पञ्हे’’तिआदि. ‘‘एवं पुच्छेय्य, एवं विस्सज्जेय्या’’ति च पुच्छाविस्सज्जनानं सिखावगमनं दस्सेति. सेय्योति उत्तमो, परमो लाभोति अधिप्पायो.

एवं अत्तनो वादविधमनभयेनपि परे भगवन्तं पञ्हं पुच्छितुं न विसहन्तीति वत्वा इदानि वादविधमनेन विनापि न विसहन्ति एवाति दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं. चित्तं पसीदति परे अत्तनो अत्तभावम्पि विस्सत्थं निय्यादेतुकामा होन्ति ओधिसकमेत्ताफरणसदिसत्ता तस्स मेत्तायनस्स. दस्सनसम्पन्नाति दट्ठब्बताय सम्पन्ना दस्सनानुत्तरियभावतो, अतिविय दस्सनीयाति अत्थो.

सरणगमनवसेन सावकाति लोकियसरणगमनेन सावका, लोकुत्तरसरणगमनेन पन सावकत्तं परतो आगमिस्सति, तञ्च पब्बजितवसेन वुच्चति, इध गहट्ठवसेन, उभयत्थापि सरणगमनेन सावकत्तं वेदितब्बं. ते हि परलोकवज्जभयदस्साविनो कुलपुत्ता, आचारकुलपुत्तापि तादिसा भवन्ति. थोकेनाति इमिना ‘‘मनं अनस्सामा’’ति पदस्सत्थं वदति.

२९०. उदाहरीयति उब्बेगपीतिवसेनाति, तथा वा उदाहरणं उदानं. तेनाह ‘‘उदाहारं उदाहरी’’ति. अस्स धम्मस्साति अस्स पटिपत्तिसद्धम्मपुब्बकस्स पटिवेधसद्धम्मस्स. सोति हत्थिपदोपमो हत्थिपदोपमभावेन वुच्चमानो धम्मो. एत्तावताति एत्तकेन परिब्बाजकेन वुत्तकथामग्गमत्तेन. कामं तेन वुत्तकथामग्गेनपि हत्थिपदोपमभावेन वुच्चमानो धम्मो परिपुण्णोव अरहत्तं पापेत्वा पवेदितत्ता, सो च खो सङ्खेपतो, न वित्थारतोति आह ‘‘न एत्तावता वित्थारेन परिपूरो होती’’ति. यदि यथा वित्थारेन हत्थिपदोपमो परिपूरो होति, तथा देसना आरद्धा, अथ कस्मा कुसलोति न वुत्तोति चोदना.

२९१. आयामतोपीति पि-सद्देन उब्बेधेनपि रस्साति दस्सेति. नीचकाया हि ता होन्ति. उच्चाति उच्चका. निसेवनं, निसेवति एत्थाति वा निसेवितं. निसेवनञ्चेत्थ कण्डुयितविनोदनत्थं घंसनं. तेनाह ‘‘खन्धप्पदेसे घंसितट्ठान’’न्ति. उच्चाति अनीचा, उब्बेधवन्तियोति अत्थो. काळारिकाति विरळदन्ता, विसङ्गतदन्ताति अत्थो. तेनाह ‘‘दन्तान’’न्तिआदि. कळारतायाति विरळताय. आरञ्जितानीति रञ्जितानि, विलिखितानीति अत्थो. कणेरुतायाति कुटुमलसण्ठानताय. अयं वाति एत्थ वा-सद्दो संसयितनिच्छयत्थो यथा अञ्ञत्थापि ‘‘अयं वा इमेसं समणब्राह्मणानं सब्बबालो सब्बमूळ्हो’’तिआदीसु (दी. नि. १.१८१).

नागवनं वियाति महाहत्थिनो वामनिकादीनञ्च पददस्सनट्ठानभूतं नागवनं विय. आदितो पट्ठाय याव नीवरणप्पहाना धम्मदेसना तथागतस्स बाहिरपरिब्बाजकादीनञ्च पददस्सनभावतो. आदितो पट्ठायाति च ‘‘तं सुणाही’’ति पदतो पट्ठाय. कुसलो नागवनिको विय योगावचरो परियेसनवसेन पमाणग्गहणतो. मत्थके ठत्वाति इमस्स सुत्तस्स परियोसाने ठत्वा. इमस्मिम्पि ठानेति ‘‘एवमेव खो ब्राह्मणा’’तिआदिना उपमेय्यस्स अत्थस्स उपञ्ञासनट्ठानेपि.

स्वायन्ति (दी. नि. टी. १.१९०) इध-सद्दमत्तं गण्हाति, न यथाविसेसितब्बं इध-सद्दं. तथा हि वक्खति ‘‘कत्थचि पदपूरणमत्तमेवा’’ति. लोकं उपादाय वुच्चति लोक-सद्देन समानाधिकरणभावेन वुत्तत्ता. सेसपदद्वये पन सद्दन्तरसन्निधानमत्तेन तं तं उपादाय वुत्तता दट्ठब्बा. ओकासन्ति कञ्चि पदेसं इन्दसालगुहाय अधिप्पेतत्ता. पदपूरणमत्तमेव ओकासापदिसनस्सपि असम्भवतो.

तथागत-सद्दादीनं अत्थविसेसो मूलपरियायट्ठकथा(म. नि. अट्ठ. १.१२) विसुद्धिमग्गसंवण्णनासु वुत्तो एव. तथागतस्स सत्तनिकायन्तोगधताय ‘‘इध पन सत्तलोको अधिप्पेतो’’ति वत्वा तत्थायं यस्मिं सत्तनिकाये, यस्मिञ्च ओकासे उप्पज्जति, तं दस्सेतुं ‘‘सत्तलोके उप्पज्जमानोपि चा’’तिआदि वुत्तं. तत्थ इमस्मिंयेव चक्कवाळेति इमिस्सा एव लोकधातुया. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धो अपुब्बं अचरिमं उप्पज्जेय्यु’’न्ति (दी. नि. ३.१६१; म. नि. ३.१२९; अ. नि. १.२७८; नेत्ति. ५७; मि. प. ५.१.१) एत्थ जातिखेत्तभूता दससहस्सिलोकधातु ‘‘एकिस्सा लोकधातुया’’ति वुत्ता. इध पन इमंयेव लोकधातुं सन्धाय ‘‘इमस्मिंयेव चक्कवाळे’’ति वुत्तं. तिस्सो हि सङ्गीतियो आरुळ्हे तेपिटके बुद्धवचने विसयखेत्तं आणाखेत्तं जातिखेत्तन्ति तिविधे खेत्ते ठपेत्वा इमं चक्कवाळं अञ्ञस्मिं चक्कवाळे बुद्धा उप्पज्जन्तीति सुत्तं नत्थि, न उप्पज्जन्तीति पन अत्थि. कथं? ‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति (म. नि. १.२८५; २.३४१; महाव. ११; कथा. ४०५; मि. प. ४.५.११), एकोम्हि सम्मासम्बुद्धो’’ति (म. नि. १.२८५; २.३४१; कथा. ४०५; महाव. ११) एवमादीनि इमिस्सा लोकधातुया ठत्वा वदन्तेन भगवता – ‘‘किं पनावुसो, सारिपुत्त, अत्थेतरहि अञ्ञो समणो वा ब्राह्मणो वा भगवता समसमो सम्बोधियन्ति एवं पुट्ठाहं, भन्ते, नोति वदेय्य’’न्ति वत्वा तस्स कारणं दस्सेतुं – ‘‘अट्ठानमेतं अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा’’ति इमं सुत्तं दस्सेन्तेन धम्मसेनापतिना च बुद्धानं उप्पत्तिट्ठानभूतं इमं लोकधातुं ठपेत्वा अञ्ञत्थ अनुप्पत्ति वुत्ता होतीति.

सुजातायातिआदिना वुत्तेसु चतूसु विकप्पेसु पठमो विकप्पो बुद्धभावाय आसन्नतरपटिपत्तिदस्सनवसेन वुत्तो. आसन्नतराय हि पटिपत्तियं ठितो ‘‘उप्पज्जती’’ति वुच्चति उप्पादस्स एकन्तिकत्ता, पगेव पटिपत्तिया मत्थके ठितो. दुतियो बुद्धभावावहपब्बज्जतो पट्ठाय आसन्नपटिपत्तिदस्सनवसेन, ततियो बुद्धकरधम्मपारिपूरितो पट्ठाय बुद्धभावाय पटिपत्तिदस्सनवसेन. न हि महासत्तानं तुसितभवूपपत्तितो पट्ठाय बोधिसम्भारसम्भरणं नाम अत्थि. चतुत्थो बुद्धकरधम्मसमारम्भतो पट्ठाय. बोधिया नियतभावापत्तितो पभुति हि विञ्ञूहि ‘‘बुद्धो उप्पज्जती’’ति वत्तुं सक्का उप्पादस्स एकन्तिकत्ता, यथा पन ‘‘तिट्ठन्ति पब्बता, सन्दन्ति नदियो’’ति तिट्ठनसन्दनकिरियानं अविच्छेदमुपादाय वत्तमानपयोगो, एवं उप्पादत्थाय पटिपज्जनकिरियाय अविच्छेदमुपादाय चतूसु विकप्पेसु ‘‘उप्पज्जति नामा’’ति वुत्तं. सब्बपठमं उप्पन्नभावन्ति सब्बेहि उपरि वुच्चमानेहि विसेसेहि पठमं तथागतस्स उप्पन्नतासङ्खातं अत्थिताविसेसं.

सो भगवाति (अ. नि. टी. २.३.६४) यो ‘‘तथागतो अरह’’न्तिआदिना कित्तितगुणो, सो भगवा. इमं लोकन्ति नयिदं महाजनस्स सम्मुखामत्तं लोकं सन्धाय वुत्तं, अथ खो अनवसेसं परियादायाति दस्सेतुं ‘‘सदेवक’’न्तिआदि वुत्तं. तेनाह ‘‘इदानि वत्तब्बं निदस्सेती’’ति. पजातत्ताति यथासकं कम्मकिलेसेहि निब्बत्तत्ता. पञ्चकामावचरदेवग्गहणं पारिसेसञायेन इतरेसं पदन्तरेहि सङ्गहितत्ता. सदेवकन्ति च अवयवेन विग्गहो समुदायो समासत्थो. छट्ठकामावचरदेवग्गहणं पच्चासत्तिञायेन. तत्थ हि सो जातो तन्निवासी च. ब्रह्मकायिकादिब्रह्मग्गहणन्ति एत्थापि एसेव नयो. पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणन्ति निदस्सनमत्तमेतं अपच्चत्थिकानं असमिताबाहितपापानञ्च समणब्राह्मणानं सस्समणब्राह्मणिवचनेन गहितत्ता. कामं ‘‘सदेवक’’न्तिआदिविसेसनानं वसेन सत्तविसयो लोक-सद्दोति विञ्ञायति तुल्ययोगविसयत्ता तेसं, ‘‘सलोमको सपक्खको’’तिआदीसु पन अतुल्ययोगेपि अयं समासो लब्भतीति ब्यभिचारदस्सनतो पजागहणन्ति आह ‘‘पजावचनेन सत्तलोकग्गहण’’न्ति.

अरूपिनो सत्ता अत्तनो आनेञ्जविहारेन विहरन्ता ‘‘दिब्बन्तीति देवा’’ति इमं निब्बचनं लभन्तीति आह ‘‘सदेवकग्गहणेन अरूपावचरदेवलोको गहितो’’ति. तेनेवाह ‘‘आकासानञ्चायतनूपगानं देवानं सहब्यत’’न्ति (अ. नि. ३.११७). समारकग्गहणेन छकामावचरदेवलोको गहितो तस्स सविसेसं मारस्स वसे वत्तनतो. रूपी ब्रह्मलोको गहितो अरूपीब्रह्मलोकस्स विसुं गहितत्ता. चतुपरिसवसेनाति खत्तियादिचतुपरिसवसेन. इतरा पन चतस्सो परिसा समारकादिग्गहणेन गहिता एवाति. अवसेससब्बसत्तलोको नागगरुळादिभेदो.

एत्तावता भागसो लोकं गहेत्वा योजनं दस्सेत्वा इदानि तेन तेन विसेसेन अभागसोव लोकं गहेत्वा योजनं दस्सेतुं ‘‘अपिचेत्था’’तिआदि वुत्तं. तत्थ उक्कट्ठपरिच्छेदतोति उक्कंसगभिविजाननेन. पञ्चसु हि गतीसु देवलोकोव सेट्ठो. तत्थापि अरूपिनो ‘‘दूरसमुस्सारितकिलेसदुक्खताय, सन्तपणीतआनेञ्जविहारसमङ्गिताय, अतिविय दीघायुकताया’’ति एवमादीहि विसेसेहि अतिविय इतरेहि उक्कट्ठा. ब्रह्मा महानुभावोतिआदिं दससहस्सियं महाब्रह्मुनो वसेन वदति. ‘‘उक्कट्ठपरिच्छेदतो’’ति हि वुत्तं. अनुत्तरन्ति सेट्ठं नवलोकुत्तरं. भावानुक्कमो भाववसेन परेसं अज्झासयवसेन ‘‘सदेवक’’न्तिआदीनं पदानं अनुक्कमो. तीहाकारेहीति देवमारब्रह्मसहिततासङ्खातेहि तीहि पकारेहि. तीसु पदेसूति ‘‘सदेवक’’न्तिआदीसु तीसु पदेसु. तेन तेनाकारेनाति सदेवकत्तादिना तेन तेन पकारेन. तेधातुकमेव परियादिन्नन्ति पोराणा पनाहूति योजना.

अभिञ्ञाति य-कारलोपेनायं निद्देसो, अभिजानित्वाति अयमेत्थ अत्थोति आह ‘‘अभिञ्ञाय, अधिकेन ञाणेन ञत्वा’’ति. अनुमानादिपटिक्खेपोति अनुमानउपमानअत्थापत्तिआदिपटिक्खेपो एकप्पमाणत्ता. सब्बत्थ अप्पटिहतञाणाचारताय हि सब्बपच्चक्खा बुद्धा भगवन्तो. अनुत्तरं विवेकसुखन्ति फलसमापत्तिसुखं. तेन वीतिमिस्सापि कदाचि भगवतो धम्मदेसना होतीति आह ‘‘हित्वापी’’ति. भगवा हि धम्मं देसेन्तो यस्मिं खणे परिसा साधुकारं वा देति, यथासुतं वा धम्मं पच्चवेक्खति, तं खणं पुब्बभागेन परिच्छिन्दित्वा फलसमापत्तिं समापज्जति, यथापरिच्छेदञ्च समापत्तितो वुट्ठाय ठितट्ठानतो पट्ठाय धम्मं देसेति.

देसकायत्तेन आणादिविधिना अतिसज्जनं पबोधनं देसनाति सा परियत्तिधम्मवसेन वेदितब्बाति आह ‘‘देसनाय ताव चतुप्पदिकायपि गाथाया’’तिआदि. सासितब्बपुग्गलगतेन यथापराधादिसासितब्बभावेन अनुसासनं तदङ्गविनयादिवसेन विनयनं सासनन्ति तं पटिपत्तिधम्मवसेन वेदितब्बन्ति आह ‘‘सीलसमाधिविपस्सना’’तिआदि. कुसलानन्ति मग्गकुसलानं, कुसलानन्ति वा अनवज्जानं. तेन फलधम्मानम्पि सङ्गहो सिद्धो होति. आदिभावो सीलदिट्ठीनं तम्मूलकत्ता उत्तरिमनुस्सधम्मानं. तस्मिं तस्मिं अत्थे कथावधिसद्दप्पबन्धो गाथावसेन सुत्तवसेन च ववत्थितो परियत्तिधम्मो, यो इधेव ‘‘देसना’’ति वुत्तो. तस्स पन अत्थो विसेसेन सीलादि एवाति आह ‘‘भगवा हि धम्मं देसेन्तो…पे… निब्बानं दस्सेती’’ति. तत्थ सीलं दस्सेत्वाति सीलग्गहणेन ससम्भारं सीलं गहितं. तथा मग्गग्गहणेन ससम्भारो मग्गोति तदुभयेन अनवसेसतो परियत्तिअत्थं परियादियति. तेनाति सीलादिदस्सनेन. अत्थवसेन हि इध देसनाय आदिकल्याणादिभावो अधिप्पेतो. कथिकसण्ठितीति कथिकस्स सण्ठानं कथनवसेन समवट्ठानं.

न सो सात्थं देसेति निय्यानत्थविरहतो तस्सा देसनाय. एकब्यञ्जनादियुत्ता वाति सिथिलादिभेदेसु ब्यञ्जनेसु एकप्पकारेनेव, द्विप्पकारेनेव वा ब्यञ्जनेन युत्ता वा दमिळभासा विय. सब्बत्थ निरोट्ठं कत्वा वत्तब्बताय सब्बनिरोट्ठब्यञ्जना वा किरातभासा विय. सब्बत्थेव विस्सज्जनीययुत्तताय सब्बविस्सट्ठब्यञ्जना वा यवनभासा विय. सब्बत्थेव सानुसारताय सब्बनिग्गहितब्यञ्जना वा पारसिकादिमिलक्खभासा विय. सब्बापेसा एकदेसब्यञ्जनवसेनेव पवत्तिया अपरिपुण्णब्यञ्जनाति कत्वा ‘‘अब्यञ्जना’’ति वुत्ता. अमक्खेत्वाति अपलिच्छेत्वा अविनासेत्वा, अहापेत्वाति वा अत्थो.

भगवा यमत्थं ञापेतुं एकगाथम्पि एकवाक्यम्पि देसेति, तमत्थं ताय देसनाय सब्बसो परिपुण्णमेव कत्वा देसेति, एवं सब्बत्थाति आह ‘‘एकदेसनापि अपरिपुण्णा नत्थी’’ति. उल्लुम्पनसभावसण्ठितेनाति संकिलेसपक्खतो वट्टदुक्खतो च उद्धरणसभावावट्ठितेन चित्तेन. तस्माति यस्मा सिक्खात्तयसङ्गहं सकलं सासनं इध ‘‘ब्रह्मचरिय’’न्ति अधिप्पेतं, तस्मा. ब्रह्मचरियन्ति इमिना समानाधिकरणानि सब्बपदानि योजेत्वा अत्थं दस्सेन्तो ‘‘सो धम्मं देसेति…पे… पकासेतीति एवमेत्थ अत्थो दट्ठब्बो’’ति आह.

दूरसमुस्सारितमानस्सेव सासने सम्मापटिपत्ति सम्भवति, न मान जातिकस्साति आह ‘‘निहतमानत्ता’’ति. उस्सन्नत्ताति बहुलभावतो. भोगारोग्यादिवत्थुका मदा सुप्पहेय्या होन्ति निमित्तस्स अनवट्ठानतो’ न तथा कुलविज्जामदाति खत्तियब्राह्मणकुलीनानं पब्बजितानम्पि जातिविज्जा निस्साय मानजप्पनं दुप्पजहन्ति आह ‘‘येभुय्येन हि…पे… मानं करोन्ती’’ति. विजातितायाति निहीनजातिताय. पतिट्ठातुं न सक्कोन्तीति सुविसुद्धिं कत्वा सीलं रक्खितुं न सक्कोन्ति. सीलवसेन हि सासने पतिट्ठाति. पतिट्ठातुन्ति वा सच्चपटिवेधेन लोकुत्तराय पतिट्ठाय पतिट्ठातुं. येभुय्येन हि उपनिस्सयसम्पन्ना सुजाता एव होन्ति, न दुज्जाता.

परिसुद्धन्ति रागादीनं अच्चन्तमेव पहानदीपनतो निरुपक्किलेसताय सब्बसो विसुद्धं. सद्धं पटिलभतीति पोथुज्जनिकसद्धावसेन सद्दहति. विञ्ञुजातिकानञ्हि धम्मसम्पत्तिगहणपुब्बिका सद्धासिद्धि धम्मपमाणधम्मप्पसन्नभावतो. जायम्पतिका वसन्तीति कामं ‘‘जायम्पतिका’’ति वुत्ते घरसामिकघरसामिनिवसेन द्विन्नंयेव गहणं विञ्ञायति. यस्स पन पुरिसस्स अनेका पजापतियो होन्ति, तत्थ किं वत्तब्बं? एकायपि ताय वासो सम्बाधोति दस्सनत्थं ‘‘द्वे’’ति वुत्तं. रागादिना सकिञ्चनट्ठेन, खेत्तवत्थुआदिना सपलिबोधट्ठेन. रागरजादीनं आगमनपथतापि उप्पज्जनट्ठानता एवाति द्वेपि वण्णना एकत्था, ब्यञ्जनमेव नानं. अलग्गनट्ठेनाति असज्जनट्ठेन अप्पटिबद्धभावेन. एवं अकुसलकुसलप्पवत्तीनं ठानभावेन घरावासपब्बज्जानं सम्बाधब्भोकासतं दस्सेत्वा इदानि कुसलप्पवत्तिया एव अट्ठानठानभावेन तेसं तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं.

सङ्खेपकथाति विसुं विसुं पदुद्धारं अकत्वा सङ्खेपतो अत्थवण्णना. एकम्पि दिवसन्ति एकदिवसमत्तम्पि. अखण्डं कत्वाति दुक्कटमत्तस्सपि अनापज्जनेन अखण्डितं कत्वा. किलेसमलेन अमलीनन्ति तण्हासंकिलेसादिवसेन असंकिलिट्ठं कत्वा. परिदहित्वाति निवासेत्वा चेव पारुपित्वा च. अगारवासो अगारं उत्तरपदलोपेन, तस्स वड्ढिआवहं अगारस्स हितं. भोगक्खन्धोति भोगरासि भोगसमुदायो. आबन्धनट्ठेनाति ‘‘पुत्तो नत्ता’’तिआदिना पेमवसेन सपरिच्छेदं सम्बन्धनट्ठेन. ‘‘अम्हाकमेते’’ति ञायन्तीति ञाती. पितामहपितुपुत्तादिवसेन परिवत्तनट्ठेन परिवट्टो.

२९२. सामञ्ञवाचीपि सिक्खा-सद्दो साजीव-सद्दसन्निधानतो उपरि वुच्चमानविसेसापेक्खाय च विसेसनिविट्ठोव होतीति वुत्तं ‘‘या भिक्खूनं अधिसीलसङ्खाता सिक्खा’’ति. सिक्खितब्बट्ठेन सिक्खा. सह आजीवन्ति एत्थाति साजीवो. सिक्खनभावेनाति सिक्खाय साजीवे च सिक्खनभावेन. सिक्खं परिपूरेन्तोति सीलसंवरं परिपूरेन्तो. साजीवञ्च अवीतिक्कमन्तोति – ‘‘नामकायो पदकायो निरुत्तिकायो ब्यञ्जनकायो’’ति (पारा. अट्ठ. ३९) वुत्तसिक्खापदं भगवतो वचनं अवीतिक्कमन्तो हुत्वाति अत्थो. इदमेव च द्वयं ‘‘सिक्खन’’न्ति वुत्तं. तत्थ साजीवानतिक्कमो सिक्खापारिपूरिया पच्चयो. ततो हि याव मग्गा सिक्खापारिपूरी होतीति.

पजहित्वाति समादानवसेन परिच्चजित्वा. पहीनकालतो पट्ठाय…पे… विरतोवाति एतेन पहानस्स विरतिया च समानकालतं दस्सेति. यदि एवं ‘‘पहाया’’ति कथं पुरिमकालनिद्देसोति? तथा गहेतब्बतं उपादाय. धम्मानञ्हि पच्चयपच्चयुप्पन्नभावे अपेक्खिते सहजातानम्पि पच्चयपच्चयुप्पन्नभावेन गहणं पुरिमपच्छिमभावेनेव होतीति गहणपवत्तिआकारवसेन पच्चयभूतेसु हिरोत्तप्पञाणादीसु पहानकिरियाय पुरिमकालवोहारो, पच्चयुप्पन्नासु च विरतीसु विरमणकिरियाय अपरकालवोहारो च होतीति ‘‘पहाय पटिविरतो होती’’ति वुत्तं. पहायाति वा समादानकालवसेन वुत्तं, पच्छा वीतिक्कमितब्बवत्थुसमायोगवसेन पटिविरतोति. पहायाति वा –

‘‘निहन्त्वान तमोखन्धं, उदितोयं दिवाकरो;

वण्णपभाय भासेति, ओभासेत्वा समुग्गतो’’ति च. (विसुद्धि. महाटी. २.५७८) –

एवमादीसु विय समानकालवसेन वेदितब्बो. अथ वा पाणो अतिपातीयति एतेनाति पाणातिपातो, पाणघातहेतुभूतो अहिरिकानोत्तप्पदोसमोहविहिं सादिको चेतनापधानो संकिलेसधम्मो, तं समादानवसेन पहाय. ततो…पे… विरतोव होतीति अवधारणेन तस्सा विरतिया कालादिवसेन अपरियन्ततं दस्सेति. यथा हि अञ्ञे समादिन्नविरतिकापि अनवट्ठितचित्तताय लाभजीविकादिहेतु समादानं भिन्दन्तेव, न एवमयं. अयं पन पहीनकालतो पट्ठाय ओरतो विरतोति. अदिन्नादानं पहायातिआदीसुपि इमिना नयेन अत्थो वेदितब्बो.

दण्डनं दण्डनिपातनं दण्डो. मुग्गरादिपहरणविसेसोपि इध पहरणविसेसोति अधिप्पेतो. तेनाह ‘‘ठपेत्वा दण्डं सब्बम्पि अवसेसं उपकरण’’न्ति. दण्डनसङ्खातस्स परविहेठनस्स परिवज्जितभावदीपनत्थं दण्डसत्थानं निक्खेपवचनन्ति आह ‘‘परूपघातत्थाया’’तिआदि. विहिंसनभावतोति विबाधनभावतो. लज्जीति एत्थ वुत्तलज्जाय ओत्तप्पम्पि वुत्तन्ति दट्ठब्बं. न हि पापजिगुच्छनपापुत्तासरहितं, पापभयं वा अलज्जनं अत्थि. यस्स वा धम्मगरुताय धम्मस्स च अत्ताधीनत्ता अत्ताधिपतिभूता लज्जाकिच्चकारी, तस्स लोकाधिपतिभूतं ओत्तप्पं किच्चकरन्ति वत्तब्बमेव नत्थीति ‘‘लज्जी’’इच्चेव वुत्तं. दयं मेत्तचित्ततं आपन्नोति कस्मा वुत्तं, ननु दया-सद्दो ‘‘अदयापन्नो’’तिआदीसु करुणाय वत्ततीति? सच्चमेतं, अयं पन दया-सद्दो अनुरक्खणत्थं अन्तोनीतं कत्वा पवत्तमानो मेत्ताय च करुणाय च पवत्ततीति इध मेत्ताय पवत्तमानो वुत्तो. मिज्जति सिनिय्हतीति मेत्ता, सा एतस्स अत्थीति मेत्तं, मेत्तं चित्तं एतस्स अत्थीति मेत्तचित्तो, तस्स भावो मेत्तचित्तता, मेत्ताइच्चेव अत्थो.

सब्बपाणभूतहितानुकम्पीति एतेन तस्सा विरतिया सत्तवसेन अपरियन्ततं दस्सेति. पाणभूतेति पाणजाते. अनुकम्पकोति करुणायनको. यस्मा पन मेत्ता करुणाय विसेसपच्चयो होति, तस्मा वुत्तं ‘‘ताय एव दयापन्नताया’’ति. एवं येहि धम्मेहि पाणातिपाता विरति सम्पज्जति, तेहि लज्जामेत्ताकरुणाधम्मेहि समङ्गिभावो दस्सितो, सद्धिं पिट्ठिवट्टकधम्मेहीति दट्ठब्बं. एत्थाह – कस्मा ‘‘पाणातिपातं पहाया’’ति एकवचननिद्देसो कतो, ननु निरवसेसानं पाणानं अतिपाततो विरति इधाधिप्पेता? तथा हि वुत्तं ‘‘सब्बपाणभूतहितानुकम्पी विहरती’’ति. तेनेव हि अट्ठकथायं ‘‘सब्बे पाणभूते हितेन अनुकम्पको’’ति पुथुवचननिद्देसोति? सच्चमेतं, पाणभावसामञ्ञवसेन पनेत्थ पाळियं आदितो एकवचननिद्देसो कतो, सब्बसद्दसन्निधानेन पुथुत्तं विञ्ञायमानमेवाति सामञ्ञनिद्देसं अकत्वा भेदवचनिच्छावसेन दस्सेतुं अट्ठकथायं बहुवचनवसेन अत्थो वुत्तो. किञ्च भिय्यो – सामञ्ञतो संवरसमादानं, तब्बिसेसतो संवरभेदोति इमस्स विसेसस्स दस्सनत्थं अयं वचनभेदो कतोति वेदितब्बं. विहरतीति वुत्तप्पकारो हुत्वा एकस्मिं इरियापथे उप्पन्नं दुक्खं अञ्ञेन इरियापथेन विच्छिन्दित्वा अत्तभावं हरति पवत्तेतीति अत्थो. तेनाह ‘‘इरियति पालेती’’ति.

न केवलं कायवचीपयोगवसेन आदानमेव, अथ खो आकङ्खपिस्स परिच्चत्तवत्थुविसयावाति दस्सेतुं ‘‘चित्तेनपी’’तिआदि वुत्तं. थेनेति थेय्यं करोतीति थेनो, चोरो. सुचिभूतेनाति एत्थ सुचिभावो अधिकारतो सद्दन्तरसन्निधानतो च थेय्यसंकिलेसविरमणन्ति आह ‘‘अथेनत्तायेव सुचिभूतेना’’ति. कामञ्चेत्थ ‘‘लज्जी दयापन्नो’’तिआदि न वुत्तं, अधिकारवसेन पन अत्थतो वा वुत्तमेवाति वेदितब्बं. यथा हि लज्जादयो पाणातिपातपहानस्स विसेसपच्चयो, एवं अदिन्नादानपहानस्सपीति, तस्मा सापि पाळि आनेत्वा वत्तब्बा. एस नयो इतो परेसुपि. अथ वा सुचिभूतेनाति एतेन हिरोत्तप्पादीहि समन्नागमो, अहिरिकादीनञ्च पहानं वुत्तमेवाति ‘‘लज्जी’’तिआदि न वुत्तन्ति दट्ठब्बं.

असेट्ठचरियन्ति असेट्ठानं चरियं, असेट्ठं वा चरियं. मिथुनानं वुत्ताकारेन सदिसभूतानं अयन्ति मिथुनो, यथावुत्तो दुराचारो. आराचारी मेथुनाति एतेन – ‘‘इध ब्राह्मण, एकच्चो…पे… न हेव खो मातुगामेन सद्धिं द्वयंद्वयसमापत्तिं समापज्जति, अपिच खो मातुगामस्स उच्छादनपरिमद्दनन्हापनसम्बाहनं सादियति, सो तदस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जती’’तिआदिना (अ. नि. ७.५०) वुत्ता सत्तविधमेथुनसंयोगापि पटिविरति दस्सिताति दट्ठब्बं.

सच्चेन सच्चन्ति पुरिमेन वचीसच्चेन पच्छिमं वचीसच्चं सन्दहति असच्चेन अनन्तरिकत्ता. तेनाह ‘‘यो ही’’तिआदि. हलिद्दिरागो विय न थिरकतो होतीति एत्थ कथाय अनवट्ठितभावेन हलिद्दिरागसदिसता वेदितब्बा, न पुग्गलस्स. पासाणलेखा वियाति एत्थापि एसेव नयो. सद्धा अयति पवत्तति एत्थाति सद्धायो, सद्धायो एव सद्धायिको यथा ‘‘वेनयिको’’ति (म. नि. १.२४६; अ. नि. ८.११; पारा. ८), सद्धाय वा अयितब्बो सद्धायिको, सद्धेय्योति अत्थो. वत्तब्बतं आपज्जतिविसंवादनतोति अधिप्पायो.

अनुप्पदाताति (दी. नि. टी. १.९; अ. नि. टी. २.४.१९८) अनुबलप्पदाता, अनुवत्तनवसेन वा पदाता. कस्स पन अनुवत्तनं पदानञ्चाति? ‘‘सहितान’’न्ति वुत्तत्ता सन्धानस्साति विञ्ञायति. तेनाह ‘‘सन्धानानुप्पदाता’’ति. यस्मा पन अनुवत्तनवसेन सन्धानस्स पदानं आधानं, रक्खणं वा दळ्हीकरणं होति. तेन वुत्तं ‘‘द्वे जने समग्गे दिस्वा’’तिआदि. आरमन्ति एत्थाति आरामो, रमितब्बट्ठानं. यस्मा पन आ-कारेन विनापि अयमत्थो लब्भति, तस्मा वुत्तं ‘‘समग्गरामोतिपि पाळि, अयमेवेत्थ अत्थो’’ति.

एत्थाति

‘‘नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो;

अनीघं पस्स आयन्तं, छिन्नसोतं अबन्धन’’न्ति. (सं. नि. ४.३४७; उदा. ६५; पेटको. २५;दी. नि. टी. १.९) –

इमिस्सा गाथाय. सीलञ्हेत्थ ‘‘नेलङ्ग’’न्ति वुत्तं. तेनेवाह – चित्तो गहपति, ‘‘नेलङ्गन्ति खो, भन्ते, सीलानमेतं अधिवचन’’न्ति (सं. नि. ४.३४७; दी. नि. टी. १.९). सुकुमाराति अफरुसताय मुदुका. पुरस्स एसाति एत्थ पुर-सद्दो तन्निवासीवाचको दट्ठब्बो ‘‘गामो आगतो’’तिआदीसु (दी. नि. टी. १.९) विय. तेनेवाह ‘‘नगरवासीन’’न्ति. मनं अप्पायति वड्ढेतीति मनापा. तेन वुत्तं ‘‘चित्तवुद्धिकरा’’ति.

कालवादीतिआदि सम्फप्पलापापटिविरतस्स पटिपत्तिदस्सनं. अत्थसंहितापि हि वाचा अयुत्तकालपयोगेन अत्थावहा न सियाति अनत्थविञ्ञापनवाचं अनुलोमेति, तस्मा सम्फप्पलापं पजहन्तेन अकालवादिता परिहरितब्बाति वुत्तं ‘‘कालवादी’’ति. काले वदन्तेनपि उभयानत्थसाधनतो अभूतं परिवज्जेतब्बन्ति आह ‘‘भूतवादी’’ति. भूतञ्च वदन्तेन यं इधलोक-परलोक-हितसम्पादकं, तदेव वत्तब्बन्ति दस्सेतुं ‘‘अत्थवादी’’ति वुत्तं. अत्थं वदन्तेनपि लोकियधम्मसन्निस्सितमेव अवत्वा लोकुत्तरधम्मसन्निस्सितं कत्वा वत्तब्बन्ति दस्सनत्थं ‘‘धम्मवादी’’ति वुत्तं. यथा च अत्थो लोकुत्तरधम्मसन्निस्सितो होति, तंदस्सनत्थं ‘‘विनयवादी’’ति वुत्तं. पञ्चन्नञ्हि संवरविनयानं, पञ्चन्नञ्च पहानविनयानं वसेन वुच्चमानो अत्थो निब्बानाधिगमहेतुभावतो लोकुत्तरधम्मसन्निस्सितो होतीति. एवं गुणविसेसयुत्तोव अत्थो वुच्चमानो देसनाकोसल्ले सति सोभति, किच्चकरो च होति, न अञ्ञथाति दस्सेतुं ‘‘निधानवतिं वाचं भासिता’’ति वुत्तं. इदानि तं देसनाकोसल्लं विभावेतुं ‘‘कालेना’’तिआदिमाह. पुच्छादिवसेन हि ओतिण्णवाचावत्थुस्मिं एकंसादिब्याकरणविभागं सल्लक्खेत्वा ठपनाहेतुउदाहरणं संसन्दनादिं तंतंकालानुरूपं विभावेन्तिया परिमितपरिच्छिन्नरूपाय विपुलतर-गम्भीरोदार-परमत्थ-वित्थारसङ्गाहिकाय कथाय ञाणबलानुरूपं परे याथावतो धम्मे पतिट्ठापेन्तो ‘‘देसनाकुसलो’’ति वुच्चतीति एवमेत्थ अत्थयोजना वेदितब्बा.

२९३. एवं पटिपाटिया सत्त मूलसिक्खापदानि विभावेत्वा सतिपि अभिज्झादिपहानइन्द्रियसंवरसतिसम्पजञ्ञजागरियानुयोगादिके उत्तरदेसनायं विभावेतुं तं परिहरित्वा आचारसीलस्सेव विभजनवसेन पाळि पवत्ताति तदत्थं विवरितुं ‘‘बीजगामभूतगामसमारम्भा’’तिआदि वुत्तं. तत्थ बीजानं गामो समूहो बीजगामो. भूतानं जातानं निब्बत्तानं रुक्खगच्छलतादीनं समूहो भूतगामो. ननु च रुक्खादयो चित्तरहितताय न जीवा, चित्तरहितता च परिप्फन्दाभावतो छिन्ने विरुहनतो विसदिसजातिकभावतो चतुयोनिअपरियापन्नतो च वेदितब्बा, वुड्ढि पन पवाळसिलालवणानम्पि विज्जतीति न तेसं जीवभावे कारणं, विसयग्गहणञ्च नेसं परिकप्पनामत्तं सुपनं विय चिञ्चादेनं, तथा दोहळादयो, तत्थ कस्मा बीजगामभूतगामसमारम्भा पटिविरति इच्छिताति? समणसारुप्पतो तन्निवासिसत्तानुरक्खणतो च. तेनेवाह – ‘‘जीवसञ्ञिनो हि मोघपुरिस मनुस्सा रुक्खस्मि’’न्तिआदि (पाचि. ८९).

मूलमेव बीजं मूलबीजं, मूलबीजं एतस्सातिपि मूलबीजं. सेसेसुपि एसेव नयो. फळुबीजन्ति पब्बबीजं. पच्चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरुहणसमत्थे सारफले निरुळ्हो बीजसद्दो तदत्थसंसिद्धिया मूलादीसुपि केसुचि पवत्ततीति मूलादितो निवत्तनत्थं एकेन बीज-सद्देन विसेसेत्वा वुत्तं ‘‘बीजबीज’’न्ति ‘‘रूपरूपं (विसुद्धि. २.४४९), दुक्खदुक्ख’’न्ति (सं. नि. ४.३२७; ५.१६५; नेत्ति. ११) च यथा. कस्मा पनेत्थ बीजगामभूतगामं उद्धरित्वा बीजगामो एव निद्दिट्ठोति? न खो पनेतं एवं दट्ठब्बं, ननु अवोचुम्ह – ‘‘मूलमेव बीजं मूलबीजं, मूलबीजं एतस्सातिपि मूलबीज’’न्ति. तत्थ पुरिमेन बीजगामो निद्दिट्ठो, दुतियेन भूतगामो, दुविधोपेस मूलबीजञ्च मूलबीजञ्च मूलबीजन्ति सामञ्ञनिद्देसेन, एकसेसनयेन वा उद्दिट्ठोति वेदितब्बो. तेनेवाह ‘‘पञ्चविधस्सा’’तिआदि. नीलतिणरुक्खादिकस्साति अल्लतिणस्स चेव अल्लरुक्खादिकस्स च. आदि-सद्देन ओसधिगच्छलतादीनं सङ्गहो.

एकं भत्तं एकभत्तं, तं अस्स अत्थीति एकभत्तिको. सो पन रत्तिभोजनेनपि सियाति तन्निवत्तनत्थं आह ‘‘रत्तूपरतो’’ति. एवम्पि अपरण्हभोजीपि सिया एकभत्तिकोति तन्निवत्तनत्थं ‘‘विरतो विकालभोजना’’ति वुत्तं. अरुणुग्गमनकालतो पट्ठाय याव मज्झन्हिका अयं बुद्धादीनं अरियानं आचिण्णसमाचिण्णो भोजनस्स कालो नाम, तदञ्ञो विकालो. अट्ठकथायं पन दुतियपदेन रत्तिभोजनस्स पटिक्खित्तत्ता ‘‘अतिक्कन्ते मज्झन्हिके याव सूरियत्थङ्गमना भोजनं विकालभोजनं नामा’’ति वुत्तं.

‘‘सब्बपापस्स अकरण’’न्तिआदिनयप्पवत्तं (दी. नि. २.९०; ध. प. १८३; नेत्ति. ३०, ५०, ११६, १२४) भगवतो सासनं अच्चन्तरागुप्पत्तिया नच्चादिदस्सनं न अनुलोमेतीति आह ‘‘सासनस्स अननुलोमत्ता’’ति. अत्तना पयोजियमानं, परेहि पयोजापियमानञ्च नच्चं नच्चभावसामञ्ञेन पाळियं एकेनेव नच्च-सद्देन गहितं, तथा गीतवादित-सद्देन चाति आह ‘‘नच्चननच्चापनादिवसेना’’ति. आदि-सद्देन गायनगायापनवादनवादापनानि सङ्गय्हन्ति. दस्सनेन चेत्थ सवनम्पि सङ्गहितं विरूपेकसेसनयेन. यथासकं विसयस्स आलोचनसभावताय वा पञ्चन्नं विञ्ञाणानं सवनकिरियायपि दस्सनसङ्खेपसब्भावतो ‘‘दस्सना’’इच्चेव वुत्तं. तेनाह ‘‘पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाति अञ्ञत्र अभिनिपातमत्ता’’ति. अविसूकभूतस्स गीतस्स सवनं कदाचि वट्टतीति आह ‘‘विसूकभूता दस्सना’’ति. तथा हि वुत्तं परमत्थजोतिकायं खुद्दकट्ठकथायं (खु. पा. अट्ठ. २.पच्छिमपञ्चसिक्खापदवण्णना) ‘‘धम्मूपसंहितं गीतं वट्टति, गीतूपसंहितो धम्मो न वट्टती’’ति. यं किञ्चीति गन्थितं वा अगन्थितं वा यं किञ्चि पुप्फं. गन्धजातन्ति गन्धजातिकं. तस्सपि ‘‘यं किञ्ची’’ति वचनतो पिसितस्स अपिसितस्सपि यस्स कस्सचि विलेपनादि न वट्टतीति दस्सेति.

उच्चाति उच्च-सद्देन समानत्थं एकं सद्दन्तरं. सेति एत्थाति सयनं. उच्चासयनं महासयनञ्च समणसारुप्परहितं अधिप्पेतन्ति आह ‘‘पमाणातिक्कन्तं अकप्पियत्थरण’’न्ति. आसनञ्चेत्थ सयनेनेव सङ्गहितन्ति दट्ठब्बं. यस्मा पन आधारे पटिक्खित्ते तदाधारा किरिया पटिक्खित्ताव होति, तस्मा ‘‘उच्चासयनमहासयना’’इच्चेव वुत्तं, अत्थतो पन तदुपभोगभूतनिसज्जानिपज्जनेहि विरति दस्सिताति दट्ठब्बं. अथ वा उच्चासयनमहासयनञ्च उच्चासयनमहासयनञ्च उच्चासयनमहासयनन्ति एतस्मिं अत्थे एकसेसेन अयं निद्देसो कतो यथा ‘‘नामरूपपच्चया सळायतन’’न्ति (म. नि. ३.१२६; सं. नि. २.१; उदा. १), आसनकिरियापुब्बकत्ता वा सयनकिरियाय सयनग्गहणेन आसनम्पि गहितन्ति वेदितब्बं.

दारुमासकोति ये वोहारं गच्छन्तीति इति-सद्देन एवंपकारे दस्सेति. अञ्ञेहि गाहापने उपनिक्खित्तसादियने च पटिग्गहणत्थो लब्भतीति आह ‘‘नेव नं उग्गण्हाति, न उग्गण्हापेति, न उपनिक्खित्तं सादियती’’ति. अथ वा तिविधं पटिग्गहणं कायेन वाचाय मनसाति. तत्थ कायेन पटिग्गहणं उग्गण्हनं, वाचाय पटिग्गहणं उग्गहापनं, मनसा पटिग्गहणं सादियनन्ति तिविधम्पि पटिग्गहणं एकज्झं गहेत्वा ‘‘पटिग्गहणा’’ति वुत्तन्ति आह ‘‘नेव नं उग्गण्हाती’’तिआदि. एस नयो आमकधञ्ञपटिग्गहणातिआदीसुपि. नीवारादिउपधञ्ञस्स सालिआदिमूलधञ्ञन्तोगधत्ता वुत्तं ‘‘सत्तविधस्सा’’ति. ‘‘अनुजानामि, भिक्खवे, पञ्च वसानि भेसज्जानि अच्छवसं मच्छवसं सुसुकावसं सुकरवसं गद्रभवस’’न्ति (महाव. २६२) वुत्तत्ता इदं ओदिस्स अनुञ्ञातं नाम, तस्स पन ‘‘काले पटिग्गहित’’न्ति (महाव. २६२) वुत्तत्ता पटिग्गहणं वट्टति. सति पच्चयेति आह ‘‘अञ्ञत्र ओदिस्स अनुञ्ञाता’’ति.

सरूपेन वञ्चनं रूपकूटं, पतिरूपेन वञ्चनाति अत्थो. अङ्गेन अत्तनो सरीरावयवेन वञ्चनं अङ्गकूटं. गहणवसेन वञ्चनं गहणकूटं. पटिच्छन्नं कत्वा वञ्चनं पटिच्छन्नकूटं. अक्कमतीति निप्पीळेति, पुब्बभागे अक्कमतीति सम्बन्धो.

हदयन्ति नाळिआदीनं मानभाजनानं अब्भन्तरं. तिलादीनं नाळिआदीहि मिननकाले उस्सापितसिखायेव सिखा. सिखाभेदो तस्साहापनं.

केचीति सारसमासाचरिया, उत्तरविहारवासिनो च. वधोति मुट्ठिपहारकसाताळनादीहि विहेसनं, विबाधनन्ति अत्थो. विहेठनत्थोपि हि वध-सद्दो दिस्सति ‘‘अत्तानंवधित्वा वधित्वा रोदती’’तिआदीसु (पाचि. ८७९, ८८१). यथा हि अपरिग्गहभावसामञ्ञे सतिपि पब्बजितेहि अप्पटिग्गहितब्बवत्थुविभागसन्दस्सनत्थं इत्थिकुमारिदासिदासादयो विभागेन वुत्ता. एवं परस्स हरणभावतो अदिन्नादानभावसामञ्ञे सतिपि तुलाकूटादयो अदिन्नादानविसेसभावदस्सनत्थं विभागेन वुत्ता, न एवं पाणातिपातपरियायस्स वधस्स पुन गहणे पयोजनं अत्थि, तत्थ सयंकारो, इध परंकारोति च न सक्का वत्तुं ‘‘कायवचीपयोगसमुट्ठापिका चेतना छप्पयोगा’’ति वचनतो. तस्मा यथावुत्तो एवेत्थ अत्थो युत्तो. अट्ठकथायं पन ‘‘वधोति मारण’’न्ति वुत्तं, तम्पि पोथनमेव सन्धायाति च सक्का विञ्ञातुं मारण-सद्दस्सपि विहिंसने दिस्सनतो.

२९४. चीवरपिण्डपातानं यथाक्कमं कायकुच्छिपरिहरणमत्तजोतनायं अविसेसतो अट्ठन्नं परिक्खारानं अन्तरे तप्पयोजनता सम्भवतीति दस्सेन्तो ‘‘ते सब्बेपी’’तिआदिमाह. एतेपीति नवपरिक्खारिकादयोपि अप्पिच्छाव सन्तुट्ठाव. न हि तत्थकेन महिच्छता, असन्तुट्ठिता वा होतीति.

चतूसु दिसासु सुखं विहरति, ततो एव सुखविहारट्ठानभूता चतस्सो दिसा अस्स सन्तीति वा चातुद्दिसो. तत्थ चायं सत्ते वा सङ्खारे वा भयेन न पटिहञ्ञतीति अप्पटिघो. द्वादसविधस्स सन्तोसस्स वसेन सन्तुस्सनको सन्तुस्समानो. इतरीतरेनाति उच्चावचेन. परिस्सयानं बाहिरानं सीहब्यग्घादीनं, अब्भन्तरानञ्च कामच्छन्दादीनं कायचित्तुपद्दवानं अभिभवनतो परिस्सयानं सहिता. थद्धभावकरभयाभावेन अच्छम्भी. एको असहायो. ततो एव खग्गमिगसिङ्गसदिसताय खग्गविसाणकप्पो चरेय्याति अत्थो.

छिन्नपक्खो, असञ्जातपक्खो वा सकुणो गन्तुं न सक्कोतीति ‘‘पक्खी सकुणो’’ति पक्खि-सद्देन विसेसेत्वा सकुणो पाळियं वुत्तोति आह ‘‘पक्खयुत्तो सकुणो’’ति. यस्स सन्निधिकारपरिभोगो किञ्चि ठपेतब्बं सापेक्खाय ठपनञ्च नत्थि, तादिसो अयं भिक्खूति दस्सेन्तो ‘‘अयं पनेत्थ सङ्खेपत्थो’’तिआदिमाह. अरियन्ति अपेन्ति ततो दोसा, तेहि वा आरकाति अरियोति आह ‘‘अरियेनाति निद्दोसेना’’ति. अज्झत्तन्ति अत्तनि. निद्दोससुखन्ति निरामिससुखं किलेसवज्जरहितत्ता.

२९५. यथावुत्ते सीलसंवरे पतिट्ठितस्सेव इन्द्रियसंवरो इच्छितब्बो तदधिट्ठानतो, तस्स च परिपालकभावतोति वुत्तं ‘‘सो इमिना अरियेन सीलक्खन्धेन समन्नागतो भिक्खू’’ति. सेसपदेसूति ‘‘न निमित्तग्गाही होती’’तिआदीसु पदेसु. यस्मा विसुद्धिमग्गे (विसुद्धि. १.१५) वुत्तं, तस्मा तस्स लीनत्थप्पकासिनियं संवण्णनायं (विसुद्धि. महाटी. १.१५) वुत्तनयेनेव वेदितब्बं. रूपादीसु निमित्तादिग्गाहपरिवज्जनलक्खणत्ता इन्द्रियसंवरस्स किलेसेहि अनवसित्तसुखता अविकिण्णसुखता चस्स वुत्ता.

२९६. पच्चयसम्पत्तिन्ति पच्चयपारिपूरिं. इमे चत्तारोति सीलसंवरो सन्तोसो इन्द्रियसंवरो सतिसम्पजञ्ञन्ति इमे चत्तारो अरञ्ञवासस्स सम्भारा. तिरच्छानगतेहि वत्तब्बतं आपज्जति इसिसिङ्गस्स पितुआदयो विय. वनचरकेहीति वनचरकमातुगामेहि. भेरवसद्दं सावेन्ति, तावता अपलायन्तानं हत्थेहि सीसं…पे… करोन्ति. पण्णत्तिवीतिक्कमसङ्खातं काळकं वा. मिच्छावितक्कसङ्खातं तिलकं वा. तन्ति पीतिं विभूतभावेन उपट्ठानतो खयतो सम्मसन्तो.

विवित्तन्ति जनविवित्तं. तेनाह ‘‘सुञ्ञ’’न्ति. सा च विवित्तता निस्सद्दभावेन लक्खितब्बाति आह ‘‘अप्पसद्दं अप्पनिग्घोस’’न्ति. आवसथभूतं सेनासनं विहरितब्बट्ठेन विहारसेनासनं. मसारकादि मञ्चपीठं तत्थ अत्थरितब्बं भिसिउपधानञ्च मञ्चपीठसम्बन्धितो मञ्चपीठसेनासनं. चिमिलिकादि भूमियं सन्थरितब्बताय सन्थतसेनासनं. रुक्खमूलादि पटिक्कमितब्बट्ठानं चङ्कमनादीनं ओकासभावतो ओकाससेनासनं.

‘‘अनुच्छविकं दस्सेन्तो’’ति वत्वा तमेव अनुच्छविकभावं विभावेतुं ‘‘तत्थ ही’’तिआदि वुत्तं. अच्छन्नन्ति इट्ठकछदनादिना अन्तमसो रुक्खसाखाहिपि न छन्नं.

भत्तस्स पच्छतोति भत्तभुञ्जनस्स पच्छतो. ऊरुबद्धासनन्ति ऊरूनं अधोबन्धनवसेन निसज्जं. हेट्ठिमकायस्स अनुजुकट्ठपनं निसज्जावचनेनेव बोधितन्ति. उजुं कायन्ति एत्थ काय-सद्दो उपरिमकायविसयोति आह ‘‘उपरिमं सरीरं उजुकं ठपेत्वा’’ति. तं पन उजुकट्ठपनं सरूपतो पयोजनतो च दस्सेतुं ‘‘अट्ठारसा’’तिआदि वुत्तं. न पणमन्तीति न ओणमन्ति. न परिपततीति न विगच्छति, वीथिं न विलङ्घेति. ततो एव पुब्बेनापरं विसेसप्पत्तिया कम्मट्ठानं वुद्धिं फातिं उपगच्छति. मुखसमीपेति मुखस्स समीपे नासिकग्गे वा उत्तरोट्ठे वा. इध परि-सद्दो अभि-सद्देन समानत्थोति आह ‘‘कम्मट्ठानाभिमुख’’न्ति, बहिद्धा पुथुत्तारम्मणतो निवारेत्वा कम्मट्ठानंयेव पुरक्खत्वाति अत्थो. परीति परिग्गहट्ठो ‘‘परिणायिका’’तिआदीसु (ध. स. १६) विय. निय्यानट्ठो पटिपक्खतो निग्गमनट्ठो, तस्मा परिग्गहितनिय्यानसतिन्ति सब्बथा गहितासम्मोसं परिच्चत्तसम्मोसं सतिं कत्वा, परमं सतिनेपक्कं उपट्ठपेत्वाति अत्थो.

विक्खम्भनवसेनाति एत्थ विक्खम्भनं अनुप्पादनं अप्पवत्तनं न पटिपक्खेन सुप्पहीनता. पहीनत्ताति च पहीनसदिसतं सन्धाय वुत्तं झानस्स अनधिगतता. तथापि नयिदं चक्खुविञ्ञाणं विय सभावतो विगताभिज्झं, अथ खो भावनावसेन. तेनाह ‘‘न चक्खुविञ्ञाणसदिसेना’’ति. एसेव नयोति यथा चक्खुविञ्ञाणं सभावेन विगताभिज्झं अब्यापन्नञ्च, न भावनाय विक्खम्भितत्ता, न एवमिदं. इदं पन चित्तं भावनाय परिसोधितत्ता अब्यापन्नं विगतथिनमिद्धं अनुद्धतं निब्बिचिकिच्छञ्चाति अत्थो. इदं उभयन्ति सतिसम्पजञ्ञमाह.

२९७. उच्छिन्दित्वा पातेन्तीति एत्थ उच्छिन्दनं पातनञ्च तासं पञ्ञानं अनुप्पन्नानं उप्पज्जितुं अप्पदानमेव. इति महग्गतानुत्तरपञ्ञानं एकच्चाय च परित्तपञ्ञाय अनुप्पत्तिहेतुभूता नीवरणा धम्मा इतराय च समत्थतं विहनन्तियेवाति पञ्ञाय दुब्बलीकरणा वुत्ता. इदम्पि पठमज्झानं वेनेय्यसन्ताने पतिट्ठापियमानं ञाणं पज्जति एत्थाति ञाणपदं. ञाणं वळञ्जेति एत्थाति ञाणवळञ्जं.

२९९. ताव निट्ठं गतो बाहिरकानं ञाणेन अक्कन्तट्ठानानिपि सियुन्ति. यदि एवं अनञ्ञसाधारणे मग्गञाणपदे कथं न निट्ठङ्गतोति आह ‘‘मग्गक्खणेपी’’तिआदि. तीसु रतनेसु निट्ठं गतो होतीति बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपत्तितञ्च आरब्भ ञाणेन निट्ठं निच्छयं उपगतो होति. कामञ्चेत्थ पठममग्गेनेव सब्बसो विचिकिच्छाय पहीनत्ता सब्बस्सपि अरियसावकस्स कङ्खा वा विमति वा नत्थि, तत्थ पन यथा पञ्ञावेपुल्लप्पत्तस्स अरहतो सविसये ञाणं सविसेसं ओगाहति, न तथा अनागामिआदीनन्ति रतनत्तये सातिसयं ञाणनिच्छयगमनं सन्धाय ‘‘अग्गमग्गवसेन तत्थनिट्ठागमनं वुत्त’’न्ति वुत्तं. यं पनेत्थ अविभत्तं, तं सुविञ्ञेय्यमेवाति.

चूळहत्थिपदोपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

८. महाहत्थिपदोपमसुत्तवण्णना

३००. जङ्गलानन्ति एत्थ यो निपिच्छलेन अमुदुको निरुदकताय थद्धलूखभूमिप्पदेसो, सो ‘‘जङ्गलो’’ति वुच्चति. तब्बहुलताय पन इध सब्बो भूमिप्पदेसो जङ्गलो, तस्मिं जङ्गले जाता, भवाति वा जङ्गला, तेसं जङ्गलानं. एवञ्हि नदीचरानम्पि हत्थीनं सङ्गहो कतो होति. समोधातब्बानं विय हि समोधायकानम्पि जङ्गलग्गहणेन गहेतब्बतो. पथवीतलचारीनन्ति इमिना जलचारिनो न निवत्तेति अदिस्समानपादत्ता. पाणानन्ति साधारणवचनम्पि ‘‘पदजातानी’’ति सद्दन्तरसन्निधानेन विसेसनिविट्ठमेव होतीति आह ‘‘सपादकपाणान’’न्ति. ‘‘मुत्तगत’’न्तिआदीसु (म. नि. २.११९; अ. नि. ९.११) गत-सद्दो अनत्थन्तरो विय, जात-सद्दो अनत्थन्तरोति आह ‘‘पदजातानीति पदानी’’ति. समोधानन्ति समवरोधं, अन्तोगमं वा. महन्तत्तेनाति विपुलभावेन.

कुसला धम्माति अनवज्जसुखविपाका धम्मा, न अनवज्जमत्तधम्मा. कुसलत्तिके आगतनयेन हि इध कुसला धम्मा गहेतब्बा, न बाहितिकसुत्ते आगतनयेन. चतुब्बिधो सङ्गहोति कस्मा वुत्तं, ननु एकविधोवेत्थ सङ्गहो अधिप्पेतोति? न, अत्थं अग्गहेत्वा अनिद्धारितत्थस्स सद्दस्सेव गहितत्ता. सङ्गह-सद्दो ताव अत्तनो अत्थवसेन चतुब्बिधोति अयञ्हेत्थ अत्थो. अत्थोपि वा अनिद्धारितविसेसो सामञ्ञेन गहेतब्बतं पत्तो ‘‘सङ्गहं गच्छती’’ति एत्थ सङ्गह-सद्देन वचनीयतं गतोति न कोचि दोसो, निद्धारिते विसेसे तस्स एकविधता सिया, न ततो पुब्बेति. सजातिसङ्गहोति समानजातिया, समानजातिकानं वा सङ्गहो. धातुकथावण्णनायं पन ‘‘जातिसङ्गहो’’इच्चेव वुत्तं, तं जाति-सद्दस्स सापेक्खसद्दत्ता जातिया सङ्गहोति वुत्ते अत्तनो जातियाति विञ्ञायति सम्बन्धारहस्स अञ्ञस्स अवुत्तत्ताति कत्वा वुत्तं. इध पन रूपकण्डवण्णनायं (ध. स. अट्ठ. ५९४) विय पाकटं कत्वा दस्सेतुं ‘‘सजातिसङ्गहो’’इच्चेव वुत्तं. सञ्जायन्ति एत्थाति सञ्जाति, सञ्जातिया सङ्गहो सञ्जातिसङ्गहो, सञ्जातिदेसवसेन सङ्गहोति अत्थो. ‘‘सब्बे रथिका’’ति वुत्ते सब्बे रथयोधा रथेन युज्झनकिरियाय एकसङ्गहोति. ‘‘सब्बे धनुग्गहा’’ति वुत्ते सब्बे इस्सासा धनुना विज्झनकिरियाय एकसङ्गहोति आह ‘‘एवं किरियवसेन सङ्गहो’’ति. रूपक्खन्धेन सङ्गहितन्ति रूपक्खन्धेन एकसङ्गहं रूपक्खन्धोतेव गणितं, गहणं गतन्ति अत्थो.

दियड्ढमेव सच्चं भजति मग्गसच्चदुक्खसच्चेकदेसभावतो. सच्चेकदेसन्तोगधम्पि सच्चन्तोगधमेव होतीति आह ‘‘सच्चानं अन्तोगधत्ता’’ति. इदानि तमत्थं सासनतो च लोकतो च उपमं आह रित्वा दीपेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ साधिकमिदं, भिक्खवे, दियड्ढसिक्खापदसतन्ति इदं यस्मिं काले तं सुत्तं देसितं, तदा पञ्ञत्तसिक्खापदवसेन वुत्तं, ततो परं पन साधिकानि द्वेसतानि सिक्खापदानीति. सिक्खानं अन्तोगधत्ता अधिसीलसिक्खाय. एत्थ च ‘‘सीलं सिक्खन्तोपि तिस्सो सिक्खा सिक्खती’’ति विसमोयं उपञ्ञासो. तत्थ हि यो पहातब्बं पजहति, संवरितब्बतो संवरं आपज्जति, अयमस्स अधिसीलसिक्खा. यो तत्थ चेतसो अविक्खेपो, अयमस्स अधिचित्तसिक्खा. या तत्थ वीमंसा, अयमस्स अधिपञ्ञासिक्खा. इति सो कुलपुत्तो सरूपतो लब्भमाना एव तिस्सो सिक्खा सिक्खतीति दीपितो, न सिक्खानं अन्तोगधतामत्तेन. तेनाह अट्ठकथायं ‘‘यो तथाभूतस्स संवरो, अयमेत्थ अधिसीलसिक्खा, यो तथाभूतस्स समाधि, अयमेत्थ अधिचित्तसिक्खा, या तथाभूतस्स पञ्ञा, अयं अधिपञ्ञासिक्खा. इमा तिस्सो सिक्खा तस्मिं आरम्मणे ताय सतिया तेन मनसिकारेन सिक्खति आसेवति भावेति बहुलीकरोती’’ति. इध पन सच्चानं अन्तोगधत्ता सच्च-सद्दाभिधेय्यतामत्तेन चतूसु सच्चेसु गणनन्तोगधा होन्तीति? न, तत्थापि हि निप्परियायतो अधिसीलसिक्खाव लब्भति, इतरा परियायतोति कत्वा ‘‘सिक्खानं अन्तोगधत्ता’’ति वुत्तं.

चतूसु अरियसच्चेसु सङ्गहं गच्छन्तीति च ततो अमुच्चित्वा तस्सेव अन्तोगधतं सन्धाय वुत्तं. एवञ्च कत्वा ‘‘यथा च एकस्स हत्थिपदस्सा’’तिआदिना दस्सिता हत्थिपदोपमा समत्थिता दट्ठब्बा. एकस्मिम्पि द्वीसुपि तीसुपि सच्चेसु गणनं गता धम्माति इदं न कुसलत्तिकवसेनेव वेदितब्बं, अथ खो तिकदुकेसु यथारहं लब्भमानपदवसेन वेदितब्बं. तत्थ एकस्मिं सच्चे गणनं गतो धम्मो असङ्खतधम्मो दट्ठब्बो, द्वीसु सच्चेसु गणनं गता कुसला धम्मा, तथा अकुसला धम्मा, अब्याकता च धम्मा, तीसु सच्चेसु गणनं गता सङ्खता धम्मा, एवं अञ्ञेसम्पि तिकदुकपदानं वसेन अयमत्थो यथारहं विभजित्वा वत्तब्बो. तेनाह ‘‘एकस्मिम्पि…पे… गताव होन्ती’’ति. एकदेसो हि समुदायन्तोगधत्ता विसेसो विय सामञ्ञेन समूहेन सङ्गहं लभति. तेनाह ‘‘सच्चानं अन्तोगधत्ता’’ति. देसनानुक्कमोति अरियसच्चानि उद्दिसित्वा दुक्खसच्चनिद्देसवसेन पञ्चन्नं उपादानक्खन्धानं विभजनं. तत्थ च रूपक्खन्धनिद्देसवसेनआदितो अज्झत्तिकाय पथवीधातुया विभजनन्ति. अयं इमिस्सा देसनाय अनुक्कमो.

३०१. तं पनेतं उपमाहि विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ सुजातन्ति सुन्दरं, सुसण्ठितं सुपरिणतञ्चाति अधिप्पायो. पेसियोति विलीवे. मुदुभावतो कुच्छिभागं आदाय. इतरे च चत्तारो कोट्ठासेति पञ्चधा भिन्नकोट्ठासेसु इतरे च चत्तारो कोट्ठासे. इतरे च तयो कोट्ठासेतिआदितो चतुधा भिन्नकोट्ठासेसु इतरे च तयो कोट्ठासे.

राजपुत्तूपमायाति रञ्ञो जेट्ठपुत्तउपमाय. न्ति पिळन्धनं. उरे वायामजनितअरियजातिया ओरसो. मुखतो जातोति मुखतो निग्गतधम्मदेसनाय जातो, बुद्धानं वा धम्मकायस्स मुखभूतअरियधम्मतो जातो. ततो एव धम्मजो धम्मनिम्मितो. सत्थु धम्मदायादस्सेव गहितत्ता धम्मदायादो. तेनाह ‘‘नो आमिसदायादो’’ति. न्ति ‘‘भगवतो पुत्तो’’तिआदिवचनं. महापञ्ञतादिगुणेहि सातिसयं अनुपुब्बभावे ठितत्ता सम्मा यथाभूतं वदमानो वत्तुं सक्कोन्तो वदेय्य.

अकुतोभयं निब्बानं निब्बानगामिनिञ्च. रागरजादीनं विगमेन विगतरजं धम्मं देसेन्तं सुगतं सम्मासम्बुद्धं भिक्खूनं परोसहस्सं पयिरुपासतीति योजना.

‘‘सेवेथ भजथा’’ति वत्वा तत्थ कारणमाह ‘‘पण्डिता भिक्खू अनुग्गाहका’’ति. पण्डितापि समाना न अप्पस्सुता, अथ खो ओवादानुसासनीहि अनुग्गाहकाति पुरिमा उपमा थेरस्सेव वसेन उदाहटा, दुतिया पन भगवतो भिक्खुसङ्घस्सपि वसेन उदाहटा.

३०२. अज्झत्तिकाति सत्तसन्तानपरियापन्ना. अज्झत्तं पच्चत्तन्ति पदद्वयेनपि तंतंपाटिपुग्गलिकधम्मा वुच्चन्तीति आह ‘‘उभयम्पेतं नियकाधिवचनमेवा’’ति. ससन्ततिपरियापन्नताय पन अत्ताति गहेतब्बभावूपगमनवसेन अत्तानं अधिकिच्च उद्दिस्स पवत्तं अज्झत्तं, तंतंसत्तसन्तानपरियापन्नताय पच्चत्तं. तेनाह अट्ठकथायं (विसुद्धि. १.३०७) ‘‘अत्तनि पवत्तत्ता अज्झत्तं, अत्तानं पटिच्च पटिच्च पवत्तत्ता पच्चत्त’’न्ति. कक्खळन्ति कथिनं. यस्मा तं थद्धभावेन सहजातानं पतिट्ठा होति, तस्मा ‘‘थद्ध’’न्ति वुत्तं. खरिगतन्ति खरसभावेसु गतं तप्परियापन्नं, खरसभावमेवाति अत्थो. यस्मा पन खरसभावं फरुसाकारेन उपट्ठानतो फरुसाकारं होति, तस्मा वुत्तं ‘‘फरुस’’न्ति. उपादिन्नं नाम सरीरट्ठकं. तत्थ यं कम्मसमुट्ठानं, तं निप्परियायतो ‘‘उपादिन्न’’न्ति वुच्चति, इतरं अनुपादिन्नं. तदुभयम्पि इध तण्हादीहि आदिन्नगहितपरामट्ठवसेन उपादिन्नमेवाति दस्सेतुं ‘‘सरीरट्ठकञ्ही’’तिआदि वुत्तं. तत्थ आदिन्नन्ति अभिनिविट्ठं. ममन्ति गहितं. अहन्ति परामट्ठं. धातुकम्मट्ठानिकस्साति चतुधातुववत्थानवसेन धातुकम्मट्ठानं परिहरन्तस्स. एत्थाति एतस्मिं धातुकम्मट्ठाने. तीसु कोट्ठासेसूति तिप्पकारेसु कोट्ठासेसु. न हि ते तयो चत्तारो कोट्ठासा.

वुत्तप्पकाराति ‘‘केसा लोमा’’तिआदिना वुत्तप्पकारा. नानासभावतोति सतिपि कक्खळभावसामञ्ञे ससम्भारविभत्तितो पन केसादिसङ्घातगतनानासभावतो. आलयोति अपेक्खा. निकन्तीति निकामना. पत्थनाति तण्हापत्थना. परियुट्ठानन्ति तण्हापरियुट्ठानं. गहणन्ति कामुपादानं. परामासोति परतो आमसना मिच्छाभिनिवेसो. न बलवा आलयादि. यदि एवं कस्मा विभङ्गे बाहिरापि पथवीधातु वित्थारेनेव विभत्ताति? यथाधम्मदेसनत्ता तत्थ वित्थारेनेव देसना पवत्ता, यथानुलोमदेसनत्ता पनेत्थ वुत्तनयेन देसना संखित्ता.

योजेत्वा दस्सेतीति एकज्झं कत्वा दस्सेति. साति अज्झत्तिका पथवीधातु. सुखपरिग्गहो होति ‘‘न मे सो अत्ता’’ति. सिद्धे हि अनत्तलक्खणे दुक्खलक्खणं अनिच्चलक्खणञ्च सिद्धमेव होति सङ्खतधम्मेसु तदविनाभावतोति. विसूकायतीति विसूकं विरूपकिरियं पवत्तेति. सा पन अत्थतो विप्फन्दनमेवाति आह ‘‘विप्फन्दती’’ति. अस्साति अज्झत्तिकाय पथवीधातुया. अचेतनाभावो पाकटो होति धातुमत्तताय दस्सनतो. तं उभयम्पीति तं पथवीधातुद्वयम्पि.

ततो विसेसतरेनाति ततो बाहिरमहापथवितो विसेसवन्ततरेन, लहुतरेनाति अत्थो. कुप्पतीति लुप्पति. विलीयमानाति पकतिउदके लोणं विय विलयं गच्छन्ती. उदकानुगताति उदकं अनुगता उदकगतिका. तेनाह ‘‘उदकमेव होती’’ति. अभावो एव अभावता, न भवतीति वा अभावो, तथासभावो धम्मो. तस्स भावो अभावता. वयो विनासो धम्मो सभावो एतस्साति वयधम्मो, तस्स भावो वयधम्मता, अत्थतो खयो एव. सेसपदेसुपि एसेव नयो. तेनाह ‘‘सब्बेहिपि इमेहि पदेहि अनिच्चलक्खणमेव वुत्त’’न्ति. विद्धंसनभावस्स पन पवेदितब्बत्ता कामं अनिच्चलक्खणमेव वुत्तं सरूपतो, इतरानिपि अत्थतो वुत्तानेवाति दस्सेन्तो आह ‘‘यं पना’’तिआदि.

मत्तं खणमत्तं तिट्ठतीति मत्तट्ठो, अप्पमत्तट्ठो मत्तट्ठको, अतिइत्तरखणिकोति अत्थो. तेनाह ‘‘परित्तट्ठितिकस्सा’’ति. ठितिपरित्ततायाति एकचित्तपवत्तिमत्तताठानलक्खणस्स इतरभावेन. एकस्स चित्तस्स पवत्तिक्खणमत्तेनेव हि सत्तानं परमत्थतो जीवनक्खणो परिच्छिन्नो. तेनाह ‘‘अयं ही’’तिआदि.

जीवितन्ति जीवितिन्द्रियं. सुखदुक्खाति सुखदुक्खा वेदना. उपेक्खापि हि सुखदुक्खास्वेव अन्तोगधा इट्ठानिट्ठभावतो. अत्तभावोति जीवितवेदनाविञ्ञाणानि ठपेत्वा अवसिट्ठधम्मा वुत्ता. केवलाति अत्तनिच्चभावेन अवोमिस्सा. एकचित्तसमायुत्ताति एकेन चित्तेन सहिता एकचित्तक्खणिका. लहुसो वत्तते खणोति ताय एव एकक्खणिकताय लहुको अतिइत्तरो जीवितादीनं खणो वत्तति वीतिवत्ततीति अत्थो. इदन्ति गाथावचनं.

यस्मा सत्तानं जीवितं अस्सासपस्सासानं अपरापरसञ्चरणं लभमानमेव पवत्तति, न अलभमानं, तस्मा अस्सासपस्सासूपनिबद्धं. तथा महाभूतानं समवुत्तितं लभमानमेव पवत्तति. पथवीधातुया हि आपोधातुआदीनं वा अञ्ञतरपकोपेन बलसम्पन्नोपि पुरिसो पत्थद्धकायो वा, अतिसारादिवसेन किलिन्नपूतिकायो वा, महाडाहपरेतो वा, सञ्छिज्जमानसन्धिबन्धनो वा हुत्वा जीवितक्खयं पापुणाति. कबळीकाराहारानं युत्तकाले लभन्तस्सेव जीवितं पवत्तति, अलभन्तस्स परिक्खयं गच्छति, विञ्ञाणे पवत्तमानेयेव च जीवितं पवत्तति, न तस्मिं अप्पवत्तमाने. जीवितन्ति एत्थ इति-सद्देन इरियापथूपनिबद्धतासीतुण्हूपनिबद्धतादीनं सङ्गहो. चतुन्नञ्हि इरियापथानं समवुत्तितं लभमानमेव जीवितं पवत्तति, अञ्ञतरस्स पन अधिमत्तताय आयुसङ्खारा उपच्छिज्जन्ति, सीतुण्हानम्पि समवुत्तितं लभमानमेव पवत्तति, अतिसीतेन पन अतिउण्हेन वा अभिभूतस्स विपज्जतीति.

तण्हुपादिन्नस्साति इमिना हि पच्चयुप्पन्नताकित्तनेन सरसपभङ्गुतंयेव विभावेति. दुक्खानुपस्सनाय तण्हाग्गाहस्स अनिच्चानुपस्सनाय मानग्गाहस्स अनत्तानुपस्सनाय दिट्ठिग्गाहस्स उजुविपच्चनीकभावतो एकंसेनेव तीहि अनुपस्सनाहि गाहापि विगच्छन्तीति आह ‘‘नोतेव होती’’ति. एकंयेव आगतं बाहिराय पथवीधातुया अन्तरधानदस्सनपवत्तजोतनाय.

परिग्गहन्ति धातुपरिग्गहणं. पट्ठपेन्तोति आरभन्तो देसेन्तो. सोतद्वारे बलं दस्सेतीति योजना. कम्मट्ठानिकस्स बलदस्सनापदेसेन कम्मट्ठानस्स आनुभावं दस्सेति. वाचाय घट्टनमेव वुत्तं सोतद्वारे बलदस्सनभावतो. बलन्ति च बाहिराय विय अज्झत्तिकायपि पथवीधातुया अचेतनाभावदस्सनेन रुक्खस्स विय अक्कोसन्तेपि पहरन्तेपि निब्बिकारता. सम्पतिवत्तमानुप्पन्नभावेनाति तदा पच्चुप्पन्नभावेन. समुदाचारुप्पन्नभावेनाति आपाथगते तस्मिं अनिट्ठे सद्दारम्मणे आरम्मणकरणसङ्खातउप्पत्तिवसेन सोतद्वारे जवनवेदना दुक्खाति वचनतो. तथा हि ‘‘उपनिस्सयवसेना’’ति वुत्तं. वेदनादयोपीति ‘‘वेदना अनिच्चा’’ति एत्थ वुत्तवेदना चेव सञ्ञादयो च. ते हि फस्सेन समानभूमिका न पुब्बे वुत्तवेदना. धातुसङ्खातमेव आरम्मणन्ति यथापरिग्गहितं पथवीधातुसङ्खातमेव विसयं. पक्खन्दतीति विपस्सनाचित्तं अनिच्चन्तिपि दुक्खन्तिपि अनत्तातिपि सम्मसनवसेन अनुपविसति. एतेन बहिद्धाविक्खेपाभावमाह, पसीदतीति पन इमिना कम्मट्ठानस्स वीथिपटिपन्नतं. सन्तिट्ठतीति इमिना उपरूपरि विसेसावहभावेन अवत्थानं पटिपक्खाभिभवेन निच्चलभावतो. विमुच्चतीति इमिना तण्हामानदिट्ठिग्गाहतो विसेसेन मुच्चनं. अट्ठकथायं पन समुट्ठानवसेन अत्थो वुत्तो ‘‘अधिमोक्खं लभती’’ति. सोतद्वारम्हि आरम्मणे आपाथगतेति इदं मूलपरिञ्ञाय मूलदस्सनं. सोतद्वारेहि आवज्जनवोट्ठब्बनानं अयोनिसो आवज्जयतो वोट्ठब्बनवसेन इट्ठे आरम्मणे लोभो, अनिट्ठे च पटिघो उप्पज्जति, मनोद्वारे पन ‘‘इत्थी, पुरिसो’’ति रज्जनादि होति, तस्स पञ्चद्वारजवनं मूलं, सब्बं वा भवङ्गादि. एवं मनोद्वारजवनस्स मूलवसेन परिञ्ञा. आगन्तुकतावकालिकपरिञ्ञा पन पञ्चद्वारजवनस्सेव अपुब्बभाववसेन इतरभाववसेन च वेदितब्बा. अयमेत्थ सङ्खेपो, वित्थारो पन सतिपट्ठानसंवण्णनायं वुत्तो एव.

याथावतो धातूनं परिग्गण्हनवसेन कतपरिग्गहस्सपि अनादिकालभावनावसेन अयोनिसो आवज्जनं सचेपि उप्पज्जति. वोट्ठब्बनं पत्वाति वोट्ठब्बनकिच्चतं पत्वा. एकं द्वे वारे आसेवनं लभित्वा, न आसेवनपच्चयं. न हि उपेक्खासहगताहेतुकचित्तं आसेवनपच्चयभूतं अत्थि. यदि सिया, पट्ठाने कुसलत्तिके पटिच्चवारादीसु ‘‘न मग्गपच्चया आसेवने द्वे, आसेवनपच्चया न मग्गे द्वे’’ति च वत्तब्बं सिया, ‘‘न मग्गपच्चया आसेवने एकं (पट्ठा. १.१.२२१), आसेवनपच्चया न मग्गे एक’’न्ति (पट्ठा. १.१.१५२) च पन वुत्तं. एकं द्वे वारेति एत्थ च एकग्गहणं वचनसिलिट्ठताय वसेन वुत्तं. न हि दुतिये मोघवारे एकवारमेव वोट्ठब्बनं पवत्तति. द्विक्खत्तुं वा तस्स पवत्तिं सन्धाय एकवारग्गहणं, तिक्खत्तुं पवत्तिं सन्धाय द्वेवारग्गहणं. तत्थ दुतियं ततियञ्च पवत्तमानं लद्धासेवनं विय होति. यस्मा पन ‘‘वोट्ठब्बनं पत्वा एकं द्वे वारेआसेवनं लभित्वा चित्तं भवङ्गमेव ओतरती’’ति इदं दुतियमोघवारवसेन वुत्तं भवेय्य. सो च आरम्मणदुब्बलताय एव होतीति अभिधम्मट्ठकथायं नियमितो. इध पन तिक्खानुपस्सनानुभावेन अकुसलुप्पत्तिया असम्भववसेन अयोनिसोव आवज्जतो अयोनिसो ववत्थानं सिया, न योनिसो, तस्मिञ्च पवत्ते महति अतिमहति वा आरम्मणे जवनं न उप्पज्जेय्याति अयमत्थो विचारेत्वा गहेतब्बो.

एतस्सेव वा सतिपि दुविधतापरिकप्पने सो च यदि अनुलोमे वेदनात्तिके पटिच्चवारादीसु ‘‘आसेवनपच्चया न मग्गे द्वे, न मग्गपच्चया आसेवने द्वे’’ति च वुत्तं सिया, (लब्भेय्य), न च वुत्तं. यदि पन वोट्ठब्बनम्पि आसेवनपच्चयो सिया, कुसलाकुसलानम्पि सिया. न हि आसेवनपच्चयं लद्धुं युत्तस्स आसेवनपच्चयतापि धम्मो आसेवनपच्चयो होतीति अवुत्तो अत्थि, वोट्ठब्बनस्स पन कुसलाकुसलानं आसेवनपच्चयभावो अवुत्तो – ‘‘कुसलं धम्मं पटिच्च कुसलो धम्मो उप्पज्जति नासेवनपच्चया. अकुसलं…पे… नासेवनपच्चया’’ति (पट्ठा. १.१.९३-९४) वचनतो पटिक्खित्तो च. अथापि सिया असमानवेदनानं वसेनेव वुत्तन्ति च, एवमपि यथा – ‘‘आवज्जना कुसलानं खन्धानं अकुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति (पट्ठा. १.१.४१७) वुत्तं, एवं ‘‘आसेवनपच्चयेन पच्चयो’’तिपि वत्तब्बं सिया. तं जातिभेदा न वुत्तन्ति चे? भूमिभिन्नस्स कामावचरस्स रूपावचरादीनं आसेवनपच्चयभावो विय जातिभिन्नस्सपि भवेय्याति वत्तब्बो एव सिया, अभिन्नजातिकस्स च वसेन यथा – ‘‘आवज्जना सहेतुकानं खन्धानं अनन्तरपच्चयेन पच्चयो’’ति वुत्तं, एवं ‘‘आसेवनपच्चयेन पच्चयो’’तिपि वत्तब्बं सिया, न च वुत्तं. तस्मा वेदनात्तिकेपि ‘‘आसेवनपच्चया न मग्गे एकं, न मग्गपच्चया आसेवने एक’’न्ति एवं गणनाय निद्धारियमानाय वोट्ठब्बनस्स आसेवनपच्चयत्तस्स अभावा अयं मोघवारो उपपरिक्खित्वा गहेतब्बो.

वोट्ठब्बनं पन वीथिविपाकसन्ततिया आवट्टनतो आवज्जना, ततो विसदिसस्स जवनस्स करणतो मनसिकारोति च वत्तब्बतं लभेय्य, एवञ्च कत्वा पट्ठाने ‘‘वोट्ठब्बनं कुसलानं खन्धानं अनन्तरपच्चयेन पच्चयो’’तिआदि न वुत्तं, ‘‘आवज्जना’’इच्चेव (पट्ठा. १.१.४१७) वुत्तं, तम्पि वोट्ठब्बनतो परं चतुन्नं पञ्चन्नं वा जवनानं आरम्मणपुरेजातं भवितुं असक्कोन्तं रूपादिं आरब्भ पवत्तमानं वोट्ठब्बनं जवनट्ठाने ठत्वा भवङ्गं ओतरति. जवनट्ठाने ठत्वाति च जवनस्स उप्पज्जनट्ठाने द्विक्खत्तुं पवत्तित्वाति अत्थो, न जवनभावेनाति. आसेवनं लभित्वाति चेत्थ आसेवनं विय आसेवनन्ति वुत्तोवायमत्थो. विप्फारिकत्ता चस्स द्विक्खत्तुं वा तिक्खत्तुं वा पवत्तियेव चेत्थ आसेवनसदिसता. विप्फारिकताय हि विञ्ञत्तिसमुट्ठापकता चस्स वुच्चति. विप्फारिकम्पि जवनं विय अनेकक्खत्तुं अप्पवत्तिया असुप्पतिट्ठितताय च न निप्परियायतो आसेवनभावेन वत्ततीति न इमस्स आसेवनत्थं वुत्तं. अट्ठकथायं पन फलचित्तेसु मग्गपरियायो विय परियायवसेन वुत्तं.

अयन्ति ‘‘सचेपी’’तिआदिना वुत्तो एकवारम्पि रागादीनं अनुप्पादनवसेन विपस्सनाय कम्मं करोन्तो योगावचरो. कोटिप्पत्तोति मत्थकं पत्तो. पटिपक्खेहि अनभिभूतत्ता विसदविपस्सनाञाणताय तिक्खविपस्सको. आरम्मणं परिग्गहितमेव होति ‘‘एवं मे जवनं जवित’’न्ति सारम्मणस्स जवनस्स हुत्वा अभावववत्थापनस्स कम्मट्ठानभावतो, तथा आवज्जनवसेन वा तं आरम्मणं विस्सज्जेत्वा तावदेव मूलकम्मट्ठानभूतं आरम्मणं परिग्गहितमेव होति. दुतियस्स पन वसेनाति ‘‘अपरस्स रागादिवसेन एकवारं जवनं जवती’’तिआदिना वुत्तस्स नातितिक्खविपस्सकस्स वसेन ‘‘तस्स धातारम्मणमेव चित्तं पक्खन्दती’’तिआदिना इमस्मिं सुत्ते आगतत्ता. ‘‘तमेनं उपधिपहानाय पटिपन्नं उपधिपटिनिस्सग्गाय कदाचि करहचि सतिसम्मोसा उपधिपटिसंयुत्ता सरसङ्कप्पा समुदाचरन्ति. दन्धो उदायि सतुप्पादो, अथ खो नं खिप्पमेव पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेती’’ति लटुकिकोपमे. तस्स हि अट्ठकथायं ‘‘सोतापन्नादयो ताव पजहन्तु, पुथुज्जनो कथं पजहती’’ति चोदनं पट्ठपेत्वा ‘‘आरद्धविपस्सको हि सतिसम्मोसेन सहसा किलेसे उप्पन्ने ‘मादिसस्स नाम भिक्खुनो किलेसो उप्पन्नो’ति संवेगं कत्वा वीरियं पग्गय्ह विपस्सनं वड्ढेत्वा मग्गेन किलेसे समुग्घातेति, इति सो पजहति नामा’’ति अत्थो वुत्तो. तेन वुत्तं – ‘‘तस्स धातारम्मणमेव चित्तं पक्खन्दतीतिआदिना इमस्मिं सुत्ते आगतत्ता’’तिआदि. इन्द्रियभावने च मज्झिमस्स वसेन अयमत्थो वेदितब्बो.

परिग्गहवसेनाति धातुपरिग्गहवसेन. मम्मच्छेदनादिवसेन पवत्तअक्कोसनादिं अनिट्ठं आरम्मणं पत्वा सोतद्वारे किलमति पुग्गलो, तथा पोथनपहरणादिकं अनिट्ठं आरम्मणं पत्वा कायद्वारे किलमति.

समुदाचरन्तीति सब्बसो उद्धं आचरन्ति. तयिदं अमनापेहि समुदाचरणं नाम पोथनपहरणादिवसेन उपक्कमनमेवाति आह ‘‘उपक्कमन्ती’’ति, बाधन्तीति अत्थो. तथासभावोति यथा पाणिप्पहारादीहि घट्टितमत्तो विकारं आपज्जति, तथासभावो. ‘‘उभतोदण्डकेन चेपि, भिक्खवे, ककचेना’’तिआदिना (म. नि. १.२३२) ओवाददानं नाम अनञ्ञसाधारणं बुद्धानंयेव आवेणिकन्ति आह ‘‘वुत्तं खो पनेतं भगवताति अनुस्सरन्तोपि…पे… ककचूपमोवादं अनुस्सरन्तोपी’’ति वुत्तं. तस्सपि परियत्तिधम्मभावतोति केचि. यं पन ककचोकन्तकेसुपि मनुस्सेसु अप्पदुस्सनं निब्बिकारं, तं सत्थुसासनं अनुस्सरन्तोपि सम्मापटिपत्तिलक्खणं धम्मं अनुस्सरतियेवाति एवं वा एत्थ अत्थो वेदितब्बो. भिक्खुनो गुणन्ति अरियधम्माधिगमनसिद्धं गुणमाह. सो च सब्बेसम्पि अरियानं गुणोति तं अनुस्सरन्तोपि सङ्घं अनुस्सरति एवाति वुत्तं.

विपस्सनुपेक्खा अधिप्पेता, तस्मा उपेक्खा कुसलनिस्सिता न सण्ठातीति विपस्सनावसेन सब्बस्मिम्पि सङ्खारगते अज्झुपेक्खनं न लभतीति अत्थो. छळङ्गुपेक्खाति छळङ्गुपेक्खा विय छळङ्गुपेक्खा इट्ठानिट्ठेसु निब्बिकारतासामञ्ञेन. तेनाह ‘‘सा पनेसा’’तिआदि. छळङ्गुपेक्खाठाने ठपेति ‘‘लाभा वत मे, सुलद्धं वत मे’’तिआदिना अत्तमनतं आपज्जन्तो.

३०३. आपोगतन्ति आबन्धनवसेन आपो, तदेव आपोसभावं गतत्ता आपोगतं, सभावेनेव आपोभावं वा पत्तन्ति अत्थो. यस्मा पन सो आपोभावसङ्खातो अल्लयूसभावो ससम्भारपथवीससम्भारउदकादिगते सब्बस्मिम्पि आपस्मिं विज्जति, तस्मा वुत्तं ‘‘सब्बआपेसु गतं अल्लयूसभावलक्खण’’न्ति, द्रवभावलक्खणन्ति अत्थो. ‘‘पकुप्पती’’ति पाकतिकपकोपं सन्धायाह ‘‘ओघवसेन वड्ढती’’ति. तेनाह ‘‘अयमस्स पाकतिको पकोपो’’ति. इतरं पन दस्सेतुं ‘‘आपोसंवट्टकाले पना’’तिआदि वुत्तं. ओगच्छन्तीति एत्थ ओगमनन्ति परियादानं अधिप्पेतं, न अधोगमनमत्तन्ति आह ‘‘उद्धने…पे… पापुणन्ती’’ति.

३०४. सब्बतेजेसु गतन्ति इन्धनादिवसेन अनेकभेदेसु सब्बेसु तेजोकोट्ठासेसु गतं पवत्तं. यथा पीति एव पीतिगतं, एवं तेजो एव तेजोगतं, तेजनवसेन पवत्तिमत्तन्ति अत्थो. एवं आपोगतं, वायोगतञ्च वेदितब्बन्ति आह ‘‘पुरिमे’’तिआदि. एकाहिकजरादिभावेनाति एकाहिकादिजराभेदेन. उसुमजातोति उस्माभिभूतो. जीरतीति जिण्णो होति. तेजोधातुवसेन लब्भमाना इमस्मिं काये जरापवत्ति पाकटजरावसेन वेदितब्बाति दस्सेतुं ‘‘इन्द्रियवेकल्लत्त’’न्तिआदि वुत्तं. वलिपलितादिभावन्ति वलितपलितभावं, अङ्गपच्चङ्गानं सिथिलभावञ्च. कुप्पितेनाति खुभितेन. सतक्खत्तुं तापेत्वा तापेत्वा सीतूदके पक्खिपित्वा उद्धटसप्पि सतधोतसप्पीति वदन्ति. सरीरे पकतिउसुमं अतिक्कमित्वा उण्हभावो सन्तापो, सरीरस्स दहनवसेन पवत्तो महादाहो परिदाहोति अयमेव तेसं विसेसो. असितन्ति सुत्तं. खायितन्ति खादितं. सायितन्ति अस्सादितं. सम्मा परिपाकं गच्छतीति समवेपाकिनिया गहणिया वसेन वुत्तं. असम्मापरिपाकोपि विसमपाकिनिया गहणिया वसेन वेदितब्बो. रसादिभावेनाति रसरुधिरमंसमेदन्हारुअट्ठिअट्ठिमिञ्जसुक्कभावेन. विवेकन्ति पुथुभावं अञ्ञमञ्ञं विसदिसभावं. असितादिभेदस्स आहारस्स परिणामे रसो होति, तं पटिच्च रसधातु उप्पज्जतीति अत्थो. एवं रसस्स परिणामे ‘‘रुधिर’’न्तिआदिना सब्बं नेतब्बं.

हरितन्तन्ति हरितमेव, अन्त-सद्देन पदवड्ढनं कतं यथा ‘‘वनन्तं सुत्तन्त’’न्ति. चम्मनिल्लेखनं चम्मं लिखित्वा छड्डितकसटं.

३०५. उग्गारहिक्कारादीति एत्थ आदि-सद्देन उद्देकखीपनादिपवत्तकवातानं सङ्गहो दट्ठब्बो. उच्चारपस्सावादीति आदि-सद्देन पित्तसेम्हलसिकादिनीहरणवातस्स चेव उसुमवातस्स च सङ्गहो वेदितब्बो. यदिपि कुच्छि-सद्दो उदरपरियायो, कोट्ठ-सद्देन पन अब्भन्तरस्स वुच्चमानत्ता तदवसिट्ठो उदरपदेसो इध कुच्छि-सद्देन वुच्चतीति आह ‘‘कुच्छिसया वाताति अन्तानं बहिवाता’’ति. समिञ्जनपसारणादीनीति आदि-सद्देन आलोकनविलोकनउद्धरणादिका सब्बा कायिककिरिया सङ्गहिता. अवसवति उदकं एतस्माति ओस्सवनं, छदनन्तो. इधाति इमस्मिं ठाने.

३०६. निस्सत्तभावन्ति अनत्तकतं. यथादस्सिता हि चतस्सो धातुयो अनत्तनियं केवलं धातुमत्ता निस्सत्तनिज्जीवाति इममत्थं दस्सेति. परिवारितोति परिवारितभावेन ठितो परिवुतो. तेनाह ‘‘एतानी’’तिआदि, कट्ठादीनि सन्निवेसविसेसवसेन ठपितानीति अधिप्पायो. अञ्ञथा अगारसमञ्ञाय भावतो. तेनाह ‘‘कट्ठादीसु पना’’तिआदि. यदत्थं पाळियं ‘‘सेय्यथापि, आवुसो’’तिआदि आरद्धं, तमत्थं पाकटं कत्वा दस्सेतुं ‘‘यथा कट्ठादीनी’’तिआदि वुत्तं.

कामं हेट्ठा ‘‘मत्तट्ठकस्स कायस्सा’’तिआदिना (म. नि. १.३०२) अविभागेन एकदेसेन च उपादारूपम्पि कथितं, तथा वेदनादयो खन्धभावेन परिग्गहेत्वा न कथिता, तथा तण्हापि समुदयसच्चभावेन. इतरानि पन सच्चानि सब्बेन सब्बं न कथितानि. तेनेवाह ‘‘हेट्ठा…पे… न कथितानी’’ति. चक्खुपसादे निरुद्धेति चक्खुपसादे विनट्ठे. उपहतेति पुब्बकिमिआदीहि उपद्दुते. पलिबुद्धेति पुब्बादिउप्पत्तिया विना पटिच्छादिते. तज्जोति तस्सानुरूपो, चक्खुविञ्ञाणुप्पत्तिया अनुरूपोति अत्थो. चक्खुस्स रूपारम्मणे आपाथगते उप्पज्जनमनसिकारो हदयसन्निस्सयोपि चक्खुम्हि सति होति, असति न होतीति कत्वा ‘‘चक्खुं पटिच्च उप्पज्जनमनसिकारो’’ति वुत्तो. भवङ्गावट्टनं तस्स यथा आरम्मणपच्चये, एवं पसादपच्चयेपि होतीति वुत्तं ‘‘चक्खुञ्च रूपे च पटिच्चा’’ति. न्ति चक्खुद्वारे किरियमनोधातुचित्तं. अञ्ञविहितस्साति अञ्ञारम्मणपसुतस्स. तदनुरूपस्साति तेसं चक्खुरूपतदाभोगानं अनुरूपस्स.

चत्तारि सच्चानि दस्सेति सरूपतो अत्थापत्तितो चाति अधिप्पायो. तप्पकारो भूतो, तप्पकारं वा पत्तो तथाभूतो, तस्स, यथा चक्खुविञ्ञाणं उप्पज्जति, तादिसस्स पच्चयाकारसमवेतस्साति अत्थो. तिसमुट्ठानरूपन्ति उतुकम्माहारसमुट्ठानरूपं. इदञ्च सतिपि तदा भवङ्गावट्टनचित्तसमुट्ठानरूपे केवलं चक्खुविञ्ञाणसमुट्ठितरूपस्स अभावमत्तं गहेत्वा वुत्तं. सङ्गहं गच्छतीति नगरं विय रज्जे रूपक्खन्धे सङ्गहेतब्बतं गहेतब्बतं गच्छति. ‘‘तथाभूतस्सा’’ति वुत्तत्ता वेदनादयो चक्खुविञ्ञाणसम्पयुत्ताव, विञ्ञाणम्पि चक्खुविञ्ञाणमेव. सङ्खाराति चेतनाव वुत्ता चेतनापधानत्ता सङ्खारक्खन्धस्साति अधिप्पायो. तत्थ पन फस्सजीवितिन्द्रियमनसिकारचित्तट्ठितियोपि सङ्खारक्खन्धधम्माव. एकतो सङ्गहो ‘‘पञ्चक्खन्धा’’ति एकतो गणना. समागमोति यथासकं पच्चयवसेन समोधानं. समवायोति अञ्ञमञ्ञस्स पच्चयभावेन समवेतताय समुदितभावो.

पच्चयुप्पन्नधम्मो पटिच्च समुप्पज्जति एतस्माति पटिच्चसमुप्पादो, पच्चयाकारो. पच्चयधम्मे पस्सन्तोपि पच्चयुप्पन्नधम्मे पस्सति, ते पस्सन्तोपि पच्चयधम्मे पस्सतीति वुत्तं ‘‘यो पटिच्चसमुप्पाद’’न्तिआदि. छन्दकरणवसेनाति तण्हायनवसेन. आलयकरणवसेनाति अपेक्खाकरणवसेन. अनुनयकरणवसेनाति अनुरज्जनवसेन. अज्झोगाहित्वाति आरम्मणं अनुपविसित्वा विय गिलित्वा विय निट्ठपेत्वा विय दळ्हग्गहणवसेन. छन्दरागो विनयति पहीयति एत्थाति छन्दरागविनयो छन्दरागपहानञ्चाति वुच्चति निब्बानं. आहरित्वाति पाळियं सरूपतो अनागतम्पि अत्थतो आनेत्वा सङ्गण्हनवसेन गहेतब्बं. आहरणविधिं पन दस्सेन्तो ‘‘या इमेसू’’तिआदिमाह. इमेसु तीसु ठानेसूति यथावुत्तेसु सुखदुक्खादीसु तीसु अभिसमयट्ठानेसु. दिट्ठीति परिञ्ञाभिसमयादिवसेन पवत्ता सम्मादिट्ठि याथावदस्सनं. एवं सङ्कप्पादयोपि यथारहं वेदितब्बा. भावनापटिवेधोति भावनावसेन पटिवेधो, न आरम्मणकरणमत्तेन. अयं मग्गोति अयं चतुन्नं अरियसच्चानं पटिविज्झनवसेन पवत्तो अट्ठङ्गिको मग्गो. एत्तावतापीति एवं एकस्मिं चक्खुद्वारे वत्थु परिग्गहमुखेनपि चतुसच्चकम्मट्ठानस्स मत्थकं पापनेन बहुं विपुलं परिपुण्णमेव भगवतो सासनं कतं अनुट्ठितं होति.

उप्पज्जित्वा निरुद्धमेव भवङ्गचित्तं आवज्जनचित्तस्स पच्चयो भवतीति वुत्तं ‘‘तं निरुद्धम्पी’’ति. मन्दथामगतमेवाति महतिया निद्दाय अभिभूतस्स वसेन वुत्तं, कपिमिद्धपरेतस्स पन भवङ्गचित्तं कदाचि आवज्जनस्स पच्चयो भवेय्याति. भवङ्गसमयेनेवाति भवङ्गस्सेव पवत्तनसमयेन पगुणज्झानपगुणकम्मट्ठानपगुणगन्थेसु तेसं पगुणभावेनेव आभोगेन विनापि मनसिकारो पवत्तति. तथा हि पगुणं गन्थं पगुणभावेनेव निरन्तरं विय अज्झयमाने अञ्ञविहितताय ‘‘एत्तको गन्थो गतो, एत्तको अवसिट्ठो’’ति सल्लक्खणा न होति. चतुसमुट्ठानम्पीति सब्बं चतुसमुट्ठानरूपं, न पुब्बे विय तिसमुट्ठानमेवाति अधिप्पायो. पुब्बङ्गमत्ता ओळारिकत्ता च फस्सचेतनाव सङ्खारक्खन्धोति गहिता, न अञ्ञेसं अभावा. एकदेसमेव सम्मसन्तोति यथाउद्दिट्ठं अत्थं हेट्ठा अनवसेसतो अनिद्दिसित्वा एकदेसमेव निद्दिसनवसेन देसनाय आमसन्तो. इमस्मिं ठानेति यथाउद्दिट्ठस्स अत्थस्स ‘‘अज्झत्तिकञ्चेव, आवुसो, चक्खु’’न्तिआदिना (म. नि. १.३०६) छद्वारवसेन निद्दिसनट्ठाने. हेट्ठा परिहीनदेसनन्ति – ‘‘यं उपादारूपं चत्तारो अरूपिनो खन्धा उपरि तीणि अरियसच्चानी’’ति निद्देसवसेन परिहीनं अत्थजातं सब्बं. तंतंद्वारवसेनाति चक्खुद्वारादिकं तंतंद्वारवसेन. चतुसच्चवसेन आरद्धा देसना चतुसच्चेनेव परियोसापिताति आह ‘‘यथानुसन्धिनाव सुत्तन्तं निट्ठपेसी’’ति.

महाहत्थिपदोपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

९. महासारोपमसुत्तवण्णना

३०७. नचिरपक्कन्तेति न चिरं पक्कन्ते, पक्कन्तस्स सतो न चिरस्सेव. सलिङ्गेनेवाति मुण्डियकासायग्गहणादिना अत्तनो पुरिमलिङ्गेनेव. पाटियेक्के जातेति विपन्नाचारदिट्ठिताय पकासनीयकम्मकरणतो परं अञ्ञतित्थियसदिसे विसुं भूते. कुलपुत्तोति जातिमत्तेन कुलपुत्तो. असम्भिन्नायाति सम्भेदरहिताय, जातिसङ्करविरहितायाति अत्तो. जातिसीसेन इध जातिवत्थुकं दुक्खं वुत्तन्ति आह ‘‘ओतिण्णोति यस्स जाति अन्तो अनुपविट्ठा’’ति. जातो हि सत्तो जातकालतो पट्ठाय जातिनिमित्तेन दुक्खेन अन्तो अनुपविट्ठो विय विबाधीयति. जरायातिआदीसुपि एसेव नयो. चत्तारो पच्चया लब्भन्तीति लाभा, चतुन्नं पच्चयानं लब्भमानानं सुकतभावो सुट्ठु अभिसङ्खतभावो. वण्णभणनन्ति गुणकित्तनं. अपञ्ञाताति सम्भावनावसेन न पञ्ञाता. लाभादिनिब्बत्तियाभावदस्सनञ्हेतं. तेनाह ‘‘घासच्छादनमत्तम्पि न लभन्ती’’ति. अप्पेसक्खाति अप्पानुभावा. सा पन अप्पेसक्खता अधिपतेय्यसम्पत्तिया च परिवारसम्पत्तिया च अभावेन पाकटा होति. तत्थ परिवारसम्पत्तिया अभावं दस्सेन्तो ‘‘अप्पपरिवारा’’ति आह.

सारेनपि केचि अजाननेन अञ्ञालाभेन वा असारभूतम्पि कत्तब्बं करोन्तीति ततो विसेसनत्थं ‘‘सारेन सारकरणीय’’न्ति वुत्तन्ति तं दस्सेन्तो ‘‘अक्खचक्कयुगनङ्गलादिक’’न्ति आह. ब्रह्मचरियस्साति सिक्खात्तयसङ्गहस्स सासनब्रह्मचरियस्स. महारुक्खस्स मग्गफलसारस्स ञाणदस्सनफेग्गुकस्स समाधितचस्स सीलपपटिकस्स चञ्चलसभावा संसप्पचारीति च चत्तारो पच्चया साखापलासं नाम. तेनेवाति लाभसक्कारसिलोकनिब्बत्तनेनेव. सारो मे पत्तोति इमस्मिं सासने अधिगन्तब्बसारो नाम इमिना लाभादिनिब्बत्तनेन अनुप्पत्तोति वोसानं निट्ठितकिच्चं आपन्नो.

३१०. ञाणदस्सनन्ति ञाणभूतं दस्सनं विसयस्स सच्छिकरणवसेन पवत्तं अभिञ्ञाञाणं. सुखुमं रूपन्ति देवादीनं, अञ्ञम्पि वा सुखुमसभावं रूपं. तेनाह ‘‘अन्तमसो…पे… विहरन्ती’’ति, दिब्बचक्खु हि इध उक्कट्ठनिद्देसेन ‘‘ञाणदस्सन’’न्ति गहितं.

३११. असमयविमोक्खं आराधेतीति एत्थ अधिप्पेतं असमयविमोक्खं पाळिया एव दस्सेतुं ‘‘कतमो असमयविमोक्खो’’तिआदि वुत्तं. अट्ठन्नञ्हि समापज्जनसमयोपि अत्थि असमयोपि, मग्गविमोक्खेन पन विमुच्चनस्स समयो वा असमयो वा नत्थि. यस्स सद्धा बलवती, विपस्सना च आरद्धा, तस्स गच्छन्तस्स तिट्ठन्तस्स निसीदन्तस्स भुञ्जन्तस्स च मग्गफलपटिवेधो नाम न होतीति न वत्तब्बं, इति मग्गविमोक्खेन विमुच्चन्तस्स समयो वा असमयो वा नत्थीति सो असमयविमोक्खो. तेनाह ‘‘लोकियसमापत्तियो ही’’तिआदि.

न कुप्पति, न नस्सतीति अकुप्पा, कदाचिपि अपरिहानसभावा. सब्बसंकिलेसेहि पटिप्पस्सद्धिवसेन चेतसो विमुत्तीति चेतोविमुत्ति. तेनाह ‘‘अरहत्तफलविमुत्ती’’ति. अयमत्थो पयोजनं एतस्साति एतदत्थं, सासनब्रह्मचरियं, तस्स एसा परमकोटि. यथारद्धस्स सारोपमेन फलेन देसना निट्ठापिताति आह ‘‘यथानुसन्धिनाव देसनं निट्ठपेसी’’ति. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.

महासारोपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

१०. चूळसारोपमसुत्तवण्णना

३१२. पिङ्गलधातुकोति पिङ्गलसभावो पिङ्गलच्छविको, पिङ्गलक्खोति वा अत्थो. पब्बजितसमूहसङ्खातो सङ्घो, न सीलादिगुणेहि सङ्गहितब्बभावेन. सङ्घो एतेसं अत्थि परिवारभूतोति सङ्घिनो. स्वेवाति सो एव पब्बजितसमूहसङ्खातो. आचारसिक्खापनवसेनाति अत्तना परिकप्पितअचेलवतादिआचारसिक्खापनवसेन. पञ्ञाताति यथासकं समादिन्नवतवसेन चेव विञ्ञातलद्धिवसेन च पञ्ञाता. लद्धिकराति तस्सा मिच्छादिट्ठिया उप्पादका. बहुजनस्साति पुथुजनस्स. तस्स पन आगमसम्पदापि नाम नत्थि, कुतो अधिगमोति एकंसतो अन्धपुथुज्जनो एवाति आह ‘‘अस्सुतवतो अन्धबालपुथुज्जनस्सा’’ति. न हि विञ्ञू अप्पसादनीये पसीदन्ति. मङ्गलेसु कातब्बदासकिच्चकरो दासो मङ्गलदासो.

तन्तावुतानन्ति तन्ते पसारेत्वा वीतानं. गण्ठनकिलेसोति संसारे बन्धनकिलेसो. एवं वादितायाति एवं पटिञ्ञताय, एवं दिट्ठिताय वा. निय्यानिकाति निय्यानगतिसप्पाटिहीरका अनुपारम्भभूतत्ताति अधिप्पायो. नो चे निय्यानिकाति आनेत्वा योजना. तेसं सब्बञ्ञुपटिञ्ञाय अभूतत्ता तस्सा अभूतभावकथनेन तस्स ब्राह्मणस्स न काचि अत्थसिद्धीति आह ‘‘नेसं अनिय्यानिकभावकथनेन अत्थाभावतो’’ति.

३१८. निहीनलोकामिसे लीनो अज्झासयो एतस्स, न पन निब्बानेति. लीनज्झासयो. सासनं सिथिलं कत्वा गण्हाति सिक्खाय न तिब्बगारवत्ता.

३२३. हेट्ठाति अनन्तरातीतसुत्ते महासारोपमे. पठमज्झानादिधम्मा विपस्सनापादकाति विपस्सनाय पदट्ठानभूता. इधाति इमस्मिं चूळसारोपमे आगता. निरोधपादकाति अनागामिनो, अरहन्तो वा निरोधसमापत्तिं समापज्जितुं समत्था. तस्माति निरोधपादकत्ता. पठमज्झानादिधम्मा ञाणदस्सनतो उत्तरितराति वेदितब्बा.

चूळसारोपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

निट्ठिता च ओपम्मवग्गवण्णना.

४. महायमकवग्गो

१. चूळगोसिङ्गसुत्तवण्णना

३२५. ञातीनं (अ. नि. टी. ३.६.१९) निवासट्ठानभूतो गामो ञातिको, सो एव नातिको. सो किर गामो येसं सन्तको, तेसं पुब्बपुरिसेन अत्तनो ञातीनं साधारणभावेन निवेसितो, तेन ‘‘नातिको’’ति पञ्ञायित्थ. अथ पच्छा तत्थ द्वीहि दायादेहि द्विधा विभजित्वा परिभुत्तो. तेनाह ‘‘द्विन्नं चूळपितिमहापितिपुत्तानं द्वे गामा’’ति. गिञ्जका वुच्चन्ति इट्ठका, गिञ्जकाहियेव कतो आवसथो गिञ्जकावसथो. तस्मिं किर पदेसे मत्तिका सक्खरमरुम्बवालिकादीहि असम्मिस्सा अकठिना सण्हा सुखुमा, ताय कतानि कुलालभाजनानिपि सिलामयानि विय दळ्हानि, तस्मा ते उपासका ताय मत्तिकाय दीघपुथुलइट्ठका कारेत्वा ताहि ठपेत्वा द्वारबाहवातपानकवाटतुलायो सेसं सब्बं दब्बसम्भारेन विना इट्ठकाहि एव पासादं कारेसुं. तेनाह ‘‘इट्ठकाहेवा’’तिआदि.

गोसिङ्गसालवनदायन्ति गोसिङ्गसालवनन्ति लद्धनामं रक्खितं अरञ्ञं. जेट्ठकरुक्खस्साति वनप्पतिभूतस्स सालरुक्खस्स. सामग्गिरसन्ति समग्गभावादिगुणं विवेकसुखं. उपरिपण्णासके उपक्किलेससुत्ते (म. नि. ३.२३७-२३८) पुथुज्जनकालो कथितो, इध चूळगोसिङ्गसुत्ते खीणासवकालो कथितो. कतकिच्चापि हि ते महाथेरा अत्तनो दिट्ठधम्मसुखविहारं परेसं दिट्ठानुगतिं आपज्जनञ्च सम्पस्सन्ता परमञ्च विवेकं अनुब्रूहन्ता सामग्गिरसं अनुभवमाना तत्थ विहरन्ति. तदाति तस्मिं उपक्किलेससुत्तदेसनाकाले. तेति अनुरुद्धप्पमुखा कुलपुत्ता. लद्धस्सादाति विपस्सनाय वीथिपटिपत्तिया अधिगतस्सादा. विपस्सना हि पुब्बेनापरं विसेसं आवहन्ती पवत्तमाना सातिसयं पीतिसोमनस्सं आवहति. तेनाह भगवा –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभति पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४);

लद्धपतिट्ठा मग्गफलाधिगमनेन. सति हि मग्गफलाधिगमे सासने पतिट्ठा लद्धा नाम होति, नो अञ्ञथा.

कामं सारिपुत्तमोग्गल्लानापि महासावकपरियापन्नाव, अग्गसावकभावेन पन नेसं विसेसदस्सनत्थं ‘‘धम्मसेनापतिमहामोग्गल्लानत्थेरेसु वा’’ति विसुं गहणं. सतिपि हि सामञ्ञयोगे विसेसवन्तो विसुं गय्हन्ति यथा ‘‘ब्राह्मणा आगता, वासिट्ठोपि आगतो’’ति. तेसु पन विसुं गहितेसुपि ‘‘असीतिमहासावकेसू’’ति असीतिग्गहणं अप्पकं ऊनमधिकं वा गणनुपगं न होतीति. अन्तमसोति इदं धम्मभण्डागारिकस्स उपट्ठाकभावेन आसन्नचारिताय वुत्तं. अनीकाति हत्थानीका, हत्थानीकतो हत्थिसमूहतोति अत्थो. काळसीहो येभुय्येन यूथचरोति कत्वा वुत्तं ‘‘यूथा निस्सटो काळसीहो विया’’ति. केसरी पन एकचरोव. वातच्छिन्नो वलाहको वियाति वातच्छिन्नो पब्बतकूटप्पमाणो वलाहकच्छेदो विय. तेसं पग्गण्हनतोति यथा नाम जिघच्छितस्स भोजने, पिपासितस्स पानीये, सीतेन फुट्ठस्स उण्हे, उण्हेन फुट्ठस्स सीते, दुक्खितस्स सुखे अभिरुचि उप्पज्जति, एवमेवं भगवतो कोसम्बके भिक्खू अञ्ञमञ्ञं विवादापन्ने दिस्वा अपरे समग्गावासं वसन्ते आवज्जितस्स इमे तयो कुलपुत्ता आपाथं आगमिंसु, अथ ने पग्गण्हितुकामो उपसङ्कमि, एवायं पटिपत्तिअनुक्कमेन कोसम्बकानं भिक्खूनं विनयनुपायो होतीति. तेनाह ‘‘तेसं पग्गण्हनतो’’ति. एतेनेव पच्छिमजनतं अनुकम्पनतोति इदम्पि कारणं एकदेसेन संवण्णितन्ति दट्ठब्बं. उक्कंसित्वाति यथाभूतेहि गुणेहि सम्पहंसनेन विसेसेत्वा विसिट्ठे कत्वा पसंसावसेन चेतं आमेडितवचनं.

तं अरञ्ञं रक्खति वनसामिना आणत्तो. रक्खितगोपितं वनसण्डं, न महावनादि विय अपरिग्गहितं. सीलादिप्पभेदाय अत्तत्थाय पटिपन्ना अत्तकामा, न अपरिच्चत्तसिनेहाति आह ‘‘अत्तनो हितं कामयमाना’’ति. तेनाह ‘‘यो ही’’तिआदि. भिन्देय्याति विनासेय्य.

दुब्बलमनुस्साति पञ्ञाय दुब्बला अविद्दसुनो मनुस्सा. तानीति अभिजातिआदीसु उप्पन्नपाटिहारियानि. चीवरगब्भेन पटिच्छादेत्वाति चीवरसङ्खाते ओवरके निगूहित्वा विय. न हि चीवरपारुपनमत्तेन बुद्धानुभावो पटिच्छन्नो होति. ‘‘मा सुध कोचिमं बुद्धानुभावं अञ्ञासी’’ति पन तथारूपेन इद्धाभिसङ्खारेन तं छादेत्वा गतो भगवा तथा वुत्तो. तेनाह ‘‘अञ्ञातकवेसेन अगमासी’’ति.

अभिक्कमथाति पदं अभिमुखभावेन विधिमुखेन वदतीति आह ‘‘इतो आगच्छथा’’ति. बुद्धानं कायो नाम सुविसुद्धजातिमणि विय सोभनो, किञ्चि मलं अपनेतब्बं नत्थि, किमत्थं भगवा पादे पक्खालेसीति आह ‘‘बुद्धान’’न्तिआदि.

३२६. अनुरुद्धाति वा एकसेसनयेन वुत्तं विरूपेकसेसस्सपि इच्छितब्बत्ता, एवञ्च कत्वा बहुवचननिद्देसोपि समत्थितो होति. इरियापथो खमतीति सरीरस्स लहुट्ठानताय चतुब्बिधोपि इरियापथो सुखप्पवत्तिको. जीवितं यापेतीति यापनालक्खणं जीवितं इमं सरीरयन्तं यापेति सुखेन पवत्तेति. उळुङ्कयागुं वा कटच्छुभिक्खं वाति इदं मकरवुत्तिया मिस्सकभत्तेन यापनं वत्तन्ति कत्वा वुत्तं. तेनाह ‘‘भिक्खाचारवत्तं पुच्छती’’ति.

अञ्ञमञ्ञं संसन्दतीति सतिपि उभयेसं कलापानं परमत्थतो भेदे पचुरजनेहि दुविञ्ञेय्यनानत्तं खीरोदकसम्मोदितं अच्चन्तमेव संसट्ठं विय हुत्वा तिट्ठति. तेनाह ‘‘विसुं न होति, एकत्तं विय उपेती’’ति. पियभावदीपनानि चक्खूनि पियचक्खूनि. पियायति, पियायितब्बोति वा पियोति. समग्गवासस्स यं एकन्तकारणं, तं पुच्छन्तो भगवा ‘‘यथा कथं पना’’तिआदिमाहाति ‘‘कथन्ति कारणपुच्छा’’ति वुत्तं. यो नेसं मेत्तासहितानंयेव कम्मादीनं अञ्ञमञ्ञस्मिं पच्चुपट्ठानाकारो, तं सन्धाय ‘‘कथ’’न्ति पुच्छा. तथा हि परतो ‘‘एवं खो मयं, भन्ते’’तिआदिना थेरेहि विस्सज्जनं कथितं.

मित्तं एतस्स अत्थीति मेत्तं, कायकम्मं. आवीति पकासं. रहोति अप्पकासं. यञ्हि उद्दिस्स मेत्तं कायकम्मं पच्चुपट्ठपेति, तं तस्स सम्मुखा चे, पकासं होति, परम्मुखा चे, अप्पकासं. तेनाह ‘‘आवि चेव रहो चाति सम्मुखा चेव परम्मुखा चा’’ति. इतरानीति परम्मुखा कायवचीकम्मानि. ‘‘तत्था’’तिआदिना सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘यं ही’’तिआदि वुत्तं. सम्मज्जनादिवसेन पटिजग्गितब्बयुत्तं ठानं वा. तथेवाति यथा सम्मुखा कते मेत्ताकायकम्मे वुत्तं, तथेव. ‘‘कच्चि खमनीय’’न्ति एवमादिका कथा सम्मोदनीयकथा. यथा परेहि सद्धिं अत्तनो छिद्दं न होति, तथा पटिसन्थारवसेन पवत्ता कथा पटिसन्थारकथा. ‘‘अहो तदा थेरेन मय्हं दिन्नो ओवादो, दिन्ना अनुसासनी’’ति एवं कालन्तरे सरितब्बयुत्ता, छसारणीयपटिसंयुत्ता वा कथा सारणीयकथा. सुत्तपदं निक्खिपित्वा तस्स अत्थनिद्देसवसेन सीलादिधम्मपटिसंयुत्ता कथा धम्मीकथा. सरेन सुत्तस्स उच्चारणं सरभञ्ञं. पञ्हस्स ञातुं इच्छितस्स अत्थस्स पुच्छनं पञ्हपुच्छनं. तस्स यथापुच्छितस्सआदिसनं पञ्हविस्सज्जनं. एवं समन्नाहरतोति एवं मनसिकरोतो, एवं मेत्तं उपसंहरतोति अत्थो.

एकतो कातुं न सक्का, तस्मा नाना. हितट्ठेनाति अत्तनो विय अञ्ञमञ्ञस्स हितभावेन. निरन्तरट्ठेनाति अन्तराभावेन भेदाभावेन. अविग्गहट्ठेनाति अविरोधभावेन. समग्गट्ठेनाति सहितभावेन. परिभण्डं कत्वाति बहलतनुमत्तिकालेपेहि लिम्पेत्वा. चीवरं वा धोवन्तीति अत्तनो चीवरं वा धोवन्ति. परिभण्डं वाति अत्तनो पण्णसालाय परिभण्डं वा करोन्ति.

३२७. पटिविरुद्धा एवाति एत्थापि ‘‘येभुय्येना’’ति पदं आनेत्वा सम्बन्धितब्बं. तेसं अप्पमादलक्खणन्ति तेसं अप्पमज्जनसभावं. कच्चि पन वो अनुरुद्धा समग्गाति एत्थापि वोति निपातमत्तं, पच्चत्तवचनं वा, कच्चि तुम्हेति एवमत्थो वेदितब्बो. समुग्गपातिन्ति समुग्गपुटसदिसं पातिं.

पण्णसालायं अन्तो बहि च सम्मज्जनेन सोधितङ्गणता वत्तपटिपत्ति. पटिविसमत्तमेवाति अत्तनो यापनपटिविसमत्तमेव. ओसापेत्वाति पक्खिपित्वा. पमाणमेवाति अत्तनो यापनपमाणमेव. वुत्तनयेन जहित्वाति पाळियं वुत्तनयेन जहित्वा.

हत्थेन हत्थं संसिब्बन्ताति अत्तनो हत्थेन इतरस्स हत्थं दळ्हग्गहणवसेन बन्धन्ता. विलङ्घेति देसन्तरं पापेति एतेनाति विलङ्घको, हत्थो. हत्थो एव विलङ्घको हत्थविलङ्घको, तेन हत्थविलङ्घकेन.

तं अखण्डं कत्वाति तं तीसुपि दिवसेसु धम्मस्सवनं पवत्तनवसेन अखण्डिकं कत्वा. एतन्ति ‘‘पञ्चाहिकं खो पना’’तिआदिवचनं. पञ्चमे पञ्चमे अहनि भवतीति पञ्चाहिकं. भगवता पुच्छितेन अनुरुद्धत्थेरेन. पमादट्ठानेसुयेवाति अञ्ञेसं पमादट्ठानेसुयेव. ‘‘पमादट्ठानेसुयेवा’’ति वुत्तमेवत्थं पाकटतरं कातुं ‘‘अञ्ञेसञ्ही’’तिआदि वुत्तं. पपञ्चकरणट्ठानानीति कथापपञ्चस्स करणट्ठानानि विस्सट्ठकथापवत्तनेन कम्मट्ठाने पमज्जनट्ठानानि. तत्थापि ‘‘मयं, भन्ते, कम्मट्ठानविरुद्धं न पटिपज्जामा’’ति सिखाप्पत्तं अत्तनो अप्पमादलक्खणं थेरो दस्सेति. एत्तकं ठानं मुञ्चित्वाति पन इदं तदा विहारसमापत्तीनं वळञ्जाभावेन वुत्तं.

३२८. झानस्स अधिप्पेतत्ता ‘‘अलमरियञाणदस्सनविसेसो’’इच्चेव वुत्तं. अत्तनो सम्मापटिपन्नताय सत्थु चित्ताराधनत्थं तस्स च विसेसाधिगमस्स सत्थु पच्चक्खभावतो थेरो ‘‘किञ्हि नो सिया, भन्ते’’ति आह. यावदेवाति यत्तकं कालं एकं दिवसभागं वा सकलरत्तिं वा याव सत्त वा दिवसे.

३२९. समतिक्कमायाति सम्मदेव अतिक्कमनाय. सति हि उपरि विसेसाधिगमे हेट्ठिमज्झानं समतिक्कन्तं नाम होति पटिप्पस्सद्धि च. तेनाह ‘‘पटिप्पस्सद्धिया’’ति. ञाणदस्सनविसेसोति कारणूपचारेन वुत्तोति वेदितब्बो. वेदयितसुखतोति वेदनासहितज्झानसुखतो वा फलसुखतो वा. अवेदयितसुखन्ति निब्बानसुखं विय वेदनारहितं सुखं. अवेदयितसुखन्ति च निदस्सनमत्तमेतं, तं पन अफस्सं असञ्ञं अचेतनन्ति सब्बचित्तचेतसिकरहितमेव. ततो च सतिपि रूपधम्मप्पवत्तियं तस्स अचेतनत्ता सब्बसो सङ्खारदुक्खविरहितताय सन्ततरा पणीततरा च निरोधसमापत्तीति वुच्चते. तेनाह ‘‘अवेदयितसुखं सन्ततरं पणीततरं होती’’ति. तेन वुत्तं ‘‘इमम्हा चा’’तिआदि.

३३०. सामग्गिरसानिसंसमेव नेसं भगवा कथेसि अज्झासयानुकूलत्ता तस्स. अनुसावेत्वाति अनुपगमनवसेन सम्मदेव आरोचेत्वा. ‘‘अनुसंसावेत्वा’’ति वा पाठो, सो एवत्थो. ततो पटिनिवत्तित्वाति एतरहि भगवतो एकविहारे अज्झासयोति सत्थु मनं गण्हन्ता ‘‘इधेव तिट्ठथा’’ति विस्सज्जितट्ठानतो निवत्तित्वा. पब्बज्जादीनीति आदि-सद्देन उपसम्पदा-विसुद्धि-धुतकम्मट्ठानानुयोग-झानविमोक्ख-समापत्ति-ञाणदस्सन-मग्गभावना-फलसच्छिकिरियादिके सङ्गण्हाति. अधिगन्त्वापीति पि-सद्देन यथाधिगतानम्पि. अत्तनो गुणकथाय अट्टियमानाति भगवन्तं निस्साय अधिगन्त्वापि धम्माधिकरणं सत्थुविहेसाभावदीपने भगवतो पाकटगुणानं कथाय अट्टियमानापीति योजना. देवताति तंतंसमापत्तिलाभिनियो देवता. मुखं मे सज्जन्ति मुखं मे कथने समत्थं, कथने योग्यन्ति अत्थो.

३३१. एवं आगतोति एवं आटानाटियसुत्ते आगतो. पलिवेठेन्तेति चोदेन्ते. मच्छरायन्तीति अत्तनो गुणानं भगवतोपि आरोचनं असहमाना मच्छरायन्तीति सो चिन्तेतीति कत्वा वुत्तं.

०१ तेसं लाभाति तेसं वज्जिराजूनं वज्जिरट्ठवासीनञ्च मनुस्सत्तं, पतिरूपदेसवासादिको, भगवतो तिण्णञ्च कुलपुत्तानं दस्सनवन्दनदानधम्मस्सवनादयो लाभा. सुलद्धा लाभाति योजना. पसन्नचित्तं अनुस्सरेय्याति तं कुलञ्हेतं सीलादिगुणे चित्तं पसादेत्वा अनुस्सरेय्य. वुत्तं तेसं ‘‘अनुस्सरणम्पाहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामी’’ति (इतिवु. १०४; सं. नि. ५.१८४).

चूळगोसिङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

२. महागोसिङ्गसुत्तवण्णना

३३२. कोचिदेवाति गोसिङ्गसालवनसामन्ततो निविट्ठेसु यो कोचि गामो गोचरगामो भविस्सति, तस्मा अनिबद्धभावतो गोचरगामो न गहितो, वसनट्ठानमेव परिदीपितं, ततो एव अरञ्ञनिदानकं नामेतं. सब्बत्थाति देवलोके मनुस्सलोके च. थिरकारकेहीति सासने थिरभावकारकेहि. सवनन्ते जातत्ताति चतुसच्चगब्भस्स धम्मस्सवनस्स परियोसाने अरियाय जातिया जातत्ता. यथा पटिवेधबाहुसच्चं इज्झति, तथा धम्मस्स सवनतो सावका. सूरियो विय भासुरगुणरंसिताय मोहन्धकारविधमनतो. चन्दो विय रमणीयमनोहरसीतलगुणताय किलेसपरिळाहवूपसमतो. सागरो विय गम्भीरथिरविपुलानेकगुणताय ठितधम्मसभावतो. गुणमहन्तताय थेरस्स अभिञ्ञातता, गुणमहन्तता च सुत्तेसु आगतनयेनेव ञातब्बाति तं वित्थारतो दस्सेतुं ‘‘न केवल’’न्तिआदि वुत्तं. सीहनादसुत्तन्ति मज्झिमनिकाये आगतं महासीहनादसुत्तं (म. नि. १.१४६). थेरपञ्हसुत्तन्ति सुत्तनिपाते अट्ठकवग्गे आगतं सारिपुत्तसुत्तं (सु. नि. ९६१-९८१). थेरसीहनादसुत्तन्ति इमस्स च थेरस्स जनपदचारिकाय सत्थु सम्मुखा सीहनादसुत्तं. अभिनिक्खमनन्ति थेरस्सेव महता ञातिपरिवट्टेन महता च भोगपरिवट्टेन सह घरावासपरिच्चागो अभिनिक्खमनं. एस नयो इतो परेसुपि. यदिदन्ति निपातो, यो अयन्ति अत्थो.

महापञ्ञे भिक्खू गहेत्वाति आयस्मतो किर सारिपुत्तत्थेरस्स परिवारभिक्खूपि महापञ्ञा एव अहेसुं. धातुसो हि सत्ता संसन्दन्ति. सयं इद्धिमातिआदीसुपि एसेव नयो. अयं पनत्थो धातुसंयुत्तेन (सं. नि. २.९९) दीपेतब्बो – गिज्झकूटपब्बते गिलानसेय्याय निसिन्नो भगवा आरक्खत्थाय परिवारेत्वा वसन्तेसु सारिपुत्तमोग्गल्लानादीसु एकमेकं अत्तनो परिसाय सद्धिं चङ्कमन्तं वोलोकेत्वा भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, सारिपुत्तं सम्बहुलेहि भिक्खूहि सद्धिं चङ्कमन्तन्ति. एवं, भन्ते. सब्बे खो एते, भिक्खवे, भिक्खू महापञ्ञा’’ति सब्बं वित्थारेतब्बं.

वनन्तेति उपवनन्ते. मेघवण्णायाति नीलाभाय. समुद्दकुच्छितो उग्गच्छन्तस्स विय उपट्ठानं सन्धाय वुत्तं. चक्कवाळपब्बतमत्थकसमीपे आभाफरणवसेन पवत्तिया ‘‘पाचीनचक्कवाळपब्बतमत्थके’’ति वुत्तं, न चक्कवाळपब्बतमत्थके चन्दमण्डलस्स विचरणतो. तथा सति लोकन्तरिकनिरयेसुपि चन्दिमसूरियानं आभा फरेय्य. उब्बेधवसेन हि चक्कवाळपब्बतस्स वेमज्झतो चन्दिमसूरिया विचरन्ति. सालकुसुमपभानं अतिरत्तताय वुत्तं ‘‘लाखारसेन सिञ्चमानं विया’’ति. उपगायमाना वियाति पयिरुपासनवसेन उपेच्च गायमाना विय. काय नु खो अज्ज रतियाति अज्ज झानसमापत्तिरतिया एव नु खो, उदाहु धम्मसाकच्छारतिया धम्मदेसनारतियाति चिन्तेसि.

द्वे चन्दमण्डलानि विय परमसोभग्गप्पत्ताय कन्तिया. द्वे सूरियमण्डलानि विय अतिविय सुविसुद्धसमुज्जलाय गुणविभूतिया. द्वे छद्दन्तनागराजानो विय महानुभावताय. द्वे सीहा विय तेजुस्सदताय. द्वे ब्यग्घा विय अनोलीनवुत्तिताय. सब्बपालिफुल्लमेवाति सब्बमेव समन्ततो विकसितं.

३३३. कथा उपचरति पवत्तति एत्थाति कथाउपचारो, सवनूपचारो पदेसो, तं कथाउपचारं. रमणीयमेव रामणेय्यकं. उज्जङ्गलेति लूखपदेसे कठिनपदेसे. दोसेहि इता अपगताति दोसिना त-कारस्स न-कारं कत्वा. दिब्बा मञ्ञे गन्धाति देवलोके गन्धा विय. दिवि भवाति दिब्बा. द्वे थेराति सारिपुत्तत्थेरआनन्दत्थेरा. आनन्दत्थेरो ताव ममायतु अखीणासवभावतो, सारिपुत्तत्थेरो कथन्ति? न इदं ममायनं गेहस्सितपेमवसेन, अथ खो गुणभत्तिवसेनाति नायं दोसो.

अनुमतिया पुच्छा अनुमतिपुच्छा, अनुमतिग्गहणत्थं पुच्छनं. तत्थ यस्मा अधम्मिकम्पि वुद्धस्स अनुमतिं इतरो पटिक्खिपितुं न लभति, तेन सा अनुजानितब्बाव होति, तस्मा सङ्घखुद्दकतो पट्ठाय अनुमति पुच्छितब्बा. तेनाह ‘‘अनुमतिपुच्छा नामेसा’’तिआदि. खुद्दकतो पट्ठायाति कणिट्ठतो पट्ठाय. पटिभाति उपट्ठातीति पटिभानं, यथाधिप्पेतो अत्थो, तं पटिभानं. सिखाप्पत्ता वेपुल्लप्पत्ता न भविस्सति पदेसञाणे ठितेहि भासितत्ता. सिखाप्पत्ता वेपुल्लप्पत्ता भविस्सति सब्बञ्ञुतञ्ञाणेन संसन्दितत्ता. वुत्तमेवत्थं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ पच्चत्थिका अट्टियन्ति दुक्खायन्ति एतेनाति अट्टो, विनिच्छितब्बवोहारो. गामभोजकन्ति यस्मिं गामे सो उप्पन्नो, तं गामभोजकं. जनपदभोजकन्ति यस्मिं जनपदे सो उप्पन्नो, तं जनपदभोजकं. महाविनिच्छयअमच्चन्ति यस्मिं रज्जे सो जनपदो, तस्स राजधानियं महाविनिच्छयअमच्चं. सेनापतिन्ति यस्स रञ्ञो सो अमच्चो, तस्स सेनापतिं. तथा उपराजन्ति. इदं पनेत्थ पकतिचारित्तवसेन वुत्तं उपमेय्यत्थानुरूपतोति दट्ठब्बं. अपरापरं न सञ्चरति विनिच्छयनारहेन विनिच्छितभावतो.

पकट्ठानं (अ. नि. टी. २.४.२२) उक्कट्ठानं सीलादिअत्थानं बोधनतो, सभावनिरुत्तिवसेन बुद्धादीहि भासितत्ता च पकट्ठानं वचनप्पबन्धानं आळीति पाळि, परियत्तिधम्मो. पुरिमस्स अत्थस्स पच्छिमेन अत्थेन अनुसन्धानं अनुसन्धि. अत्थमुखेन पन पाळिपदेसानम्पि अनुसन्धि होतियेव, सो च पुब्बापरानुसन्धि-पुच्छानुसन्धि-अज्झासयानुसन्धि-यथानुसन्धिवसेन चतुब्बिधो. तंतंदेसनानं पन पुब्बापरसंसन्दनं पुब्बापरं. पाळिवसेन अनुसन्धिवसेन पुब्बापरवसेनाति पच्चेकं योजेतब्बं. उग्गहितन्ति ब्यञ्जनसो अत्थसो च उद्धं उद्धं गहितं, परियापुणनवसेन चेव परिपुच्छावसेन च हदयेन गहितन्ति अत्थो. वट्टदुक्खनिस्सरणत्थिकेहि सोतब्बतो सुतं, परियत्तिधम्मो, तं धारेतीति सुतधरो. यो हि सुतधरो, सुतं तस्मिं पतिट्ठितं होति सुप्पतिट्ठितं, तस्मा वुत्तं ‘‘सुतस्स आधारभूतो’’ति. तेनाह ‘‘यस्स ही’’तिआदि. एकपदं एकक्खरम्पि अविनट्ठं हुत्वा सन्निचीयतीति सन्निचयो, सुतं सन्निचयो एतस्मिन्ति सुतसन्निचयो. अज्झोसायाति अनुपविसित्वा. तिट्ठतीति न मुस्सति.

ठिता पगुणाति पगुणा वाचुग्गता. निच्चलितन्ति अपरिवत्तितं. संसन्दित्वाति अञ्ञेहि संसन्दित्वा. समनुग्गाहित्वाति परिपुच्छावसेन अत्थं ओगाहेत्वा. पबन्धस्स विबन्धाभावतो गङ्गासोतसदिसं, ‘‘भवङ्गसोतसदिस’’न्ति वा पाठो, अकित्तिमं सुखप्पवत्तीति अत्थो. सुत्तेकदेसस्स सुत्तस्स च वचसा परिचयो इध नाधिप्पेतो, वग्गादिवसेन पन अधिप्पेतोति आह ‘‘सुत्तदसक…पे… सज्झायिता’’ति, ‘‘दस सुत्तानि गतानि, दस वग्गागता’’तिआदिना सल्लक्खेत्वा वाचाय सज्झायिताति अत्थो. मनसा अनु अनु पेक्खिता भागसो निज्झायिता चिन्तिता मनसानुपेक्खिता. रूपगतं विय पञ्ञायतीति रूपगतं विय चक्खुस्स विभूतं हुत्वा पञ्ञायति. सुप्पटिविद्धाति निज्जटं निग्गुम्बं कत्वा सुट्ठु याथावतो पटिविद्धा.

पज्जति अत्थो ञायति एतेनाति पदं, तदेव अत्थं ब्यञ्जेतीति ब्यञ्जनन्ति आह ‘‘पदमेव अत्थस्स ब्यञ्जनतो पदब्यञ्जन’’न्ति. अक्खरपारिपूरिया पदब्यञ्जनस्स परिमण्डलता, सा पन पारिपूरी एवं वेदितब्बाति आह ‘‘दसविधब्यञ्जनबुद्धियो अपरिहापेत्वा’’ति. अञ्ञं उपारम्भकरन्ति यथानिक्खित्तसुत्ततो अञ्ञं तस्स अननुलोमकं सुत्तं आहरति. तदत्थं ओतारेतीति तस्स आहटसुत्तस्सेव अत्थं विचारेति. तस्स कथा अपरिमण्डला नाम होति अत्थस्स अपरिपुण्णभावतो. यथानिक्खित्तस्स सुत्तस्स अत्थसंवण्णनावसेनेव सुत्तन्तरम्पि आनेन्तो बहि एकपदम्पि न गच्छति नाम. अमक्खेन्तोति अविनासेन्तो. तं तं अत्थं सुट्ठु ववत्थितं कत्वा दस्सेन्तो तुलिकाय परिच्छिन्दन्तो विय. गम्भीरतरमत्थं गमेन्तो गम्भीरमातिकाय उदकं पेसेन्तो विय. उत्तानमातिकाय हि मरियादं ओत्थरित्वा उदकं अञ्ञथा गच्छेय्य. एकंयेव पदं अनेकेहि परियायेहि पुनप्पुनं संवण्णेन्तो पदं कोट्टेन्तो सिन्धवाजानीयो विय. सो हि वग्गिताय गतिया पदे पदं कोट्टेन्तो गच्छति. कथामग्गेन तस्स कथा परिमण्डला नाम होति धम्मतो अत्थतो अनुसन्धितो पुब्बापरतो आचरियुग्गहतोति सब्बसो परिपुण्णभावतो.

अनुप्पबन्धेहीति विस्सट्ठेहि आसज्जमानेहि. नातिसीघं नातिसणिकं निरन्तरं एकरसञ्च कत्वा परिसाय अज्झासयानुरूपं धम्मं कथेन्तो विस्सट्ठाय कथाय कथेति नाम, न अञ्ञथाति दस्सेन्तो ‘‘यो भिक्खू’’तिआदिमाह. अरणिं मन्थेन्तो विय, उण्हखादनीयं खादन्तो वियाति सीघं सीघं कथनस्स उदाहरणं, गहितं गहितमेवातिआदि लङ्घेत्वा कथनस्स. पुराणपण्णन्तरेसु हि परिपातियमानगोधा कदाचि दिस्सति, एवमेकच्चस्स अत्थवण्णना कत्थचि न दिस्सति. ओहायाति ठपेत्वा. योपीतिआदिना एकरूपेन कथाय अकथनं दस्सेति. पेतग्गि निज्झामतण्हिकपेतस्स मुखतो निच्छरणकअग्गि. वित्थायतीति अप्पटितानतमापज्जति. केनचि रोगेन दुक्खं पत्तो विय नित्थुनन्तो. कन्दन्तो वियाति उक्कुट्ठिं करोन्तो विय. अप्पबन्धा नाम होति सुखेन अप्पवत्तभावतो. आचरियेहि दिन्ननये ठितोति आचरियुग्गहं अमुञ्चन्तो, यथा च आचरिया तं तं सुत्तं संवण्णेसुं, तेनेव नयेन संवण्णेन्तोति अत्थो. अच्छिन्नधारं कत्वाति ‘‘नातिसीघं नातिसणिक’’न्तिआदिना हेट्ठा वुत्तनयेन अविच्छिन्नं कथापबन्धं कत्वा. अनुसयसमुग्घातायाति इमिना तस्सा कथाय अरहत्तपरियोसानतं दस्सेति. एवरूपेनाति नयिदं एकवचनं तत्तकवसेन गहेतब्बं, अथ खो लक्खणे पवत्तन्ति दस्सेन्तो ‘‘तथारूपेनेव भिक्खुसतेन भिक्खुसहस्सेन वा’’ति वुत्तं. पल्लङ्केनाति पल्लङ्कपदेसेन, पल्लङ्कासनन्तेनाति अत्थो. इमिना नयेनाति वारन्तरसाधारणं अत्थं अतिदिसति, असाधारणं पन वक्खतेवाति.

३३४. आरमति एतेनाति आरामो.

३३५. धुवसेवनन्ति नियतसेवितं. पासादपरिवेणेति पासादङ्गणे. नाभिया पतिट्ठितानन्ति नाभिया भूमियं पतिट्ठितानं. अरन्तरानीति अरविवरानि तंतंअरानं वेमज्झट्ठानानि.

३३६. समादिन्नअरञ्ञधुतङ्गो आरञ्ञिको, न अरञ्ञवासमत्तेन.

३३७. ओसादेन्तीति न अवसादेन्ति, न अवसादनापेक्खा अञ्ञमञ्ञं पञ्हं पुच्छन्तीति अत्थो. पवत्तिनीति पगुणा.

३३८. लोकुत्तरा विहारसमापत्ति नाम थेरस्स अरहत्तफलसमापत्तियो, परियायतो पन निरोधसमापत्तिपि वेदितब्बा.

३३९. साधुकारो आनन्दत्थेरस्स दिन्नो. तेनाह भगवा ‘‘यथा तं आनन्दोव सम्मा ब्याकरमानो ब्याकरेय्या’’तिआदि. सम्माति सुट्ठु, यथाअज्झासयन्ति अधिप्पायो. येन हि यं यथाचित्तं कथितं, तं सम्मा कथितं नाम होति. सम्पत्तवसेन हि यथाकारी तथावादी सोभति. तेनाह ‘‘अत्तनो अनुच्छविकमेवा’’तिआदि. बहुस्सुतो भिक्खु तत्थ तत्थ सुत्ते सीलादीनं आगतट्ठाने तेसं सुविदितत्ता यथानुसिट्ठं पटिपज्जमानो तानि परिपूरेतीति आह ‘‘सीलस्स आगतट्ठाने’’तिआदि. मग्गादिपसवनाय विपस्सनागब्भं गण्हापेत्वा परिपाकं गमेत्वाति अत्थो.

३४०. ‘‘एसेव नयो’’ति अतिदेसवसेन सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘आयस्मा हि रेवतो’’तिआदिमाह.

३४२. अपरेपि नानप्पकारे किलेसेति अपरेपि नानप्पकारे दोसमोहादिकिलेसे. धुनित्वाति विधमेत्वा.

३४३. आयस्मा महामोग्गल्लानो एवं ब्याकासीति सम्बन्धो. सकलम्पि चक्खुविञ्ञाणवीथिगतं चित्तं चक्खुविञ्ञाणन्ति अग्गहेत्वा चक्खुसन्निस्सितमेव पन विञ्ञाणं चक्खुविञ्ञाणं, तदनन्तरं सम्पटिच्छनं, तदनन्तरं सन्तीरणन्तिआदिना सण्हं सुखुमं अतिइत्तरखणवन्तं चित्तन्तरं चित्तनानत्तं. खन्धादीनञ्च नानत्तसङ्खातं खन्धन्तरादि. पथवीकसिणे पठमज्झानं समापज्जित्वा तथेव ततियं झानन्तिआदिना आरम्मणं अनुक्कमित्वा झानस्सेव एकन्तरिकभावेन उक्कमनं झानोक्कन्तिकं नाम. पथवीकसिणे पठमं झानं समापज्जित्वा पुन तदेव तेजोकसिणेतिआदिना झानं अनुक्कमित्वा आरम्मणस्सेव एकन्तरिकभावेन उक्कमनं आरम्मणोक्कन्तिकं नाम. ‘‘पठमज्झानं पञ्चङ्गिक’’न्तिआदिना याव नेवसञ्ञानासञ्ञायतनं दुवङ्गिकन्ति झानङ्गमत्तस्सेव ववत्थापनं अङ्गववत्थानं. ‘‘इदं पथवीकसिणं…पे… इदं ओदातकसिण’’न्ति आरम्मणमत्तस्सेव ववत्थापनं आरम्मणववत्थानं. पथवीकसिणे पठमं झानं समापज्जित्वा तत्थेव इतरेसम्पि समापज्जनं अङ्गसङ्कन्ति. पथवीकसिणे पठमं झानं समापज्जित्वा तदेव आपोकसिणेति एवं सब्बकसिणेसु एकस्सेव झानस्स समापज्जनं आरम्मणसङ्कन्ति. एकतोवड्ढनं उभतोवड्ढनन्ति इदं खन्धादिदेसनायं लब्भति. अभिधम्मभाजनीये हि वेदनाक्खन्धं भाजेन्तो भगवा तिके गहेत्वा दुकेसु पक्खिपि, दुके गहेत्वा तिकेसु पक्खिपि, इदं एकतोवड्ढनं. तिके च दुके च उभतोवड्ढननीहारेन कथेसि, इदं उभतोवड्ढनं. एवं सेसखन्धेसु धातायतनादीसु च यथारहं विभङ्गप्पकरणे (विभ. ३२-३३; १५५-१५६, १८३-१८४) अभिधम्मभाजनीये आगतनयेन वेदितब्बं. तेनाह ‘‘आभिधम्मिकधम्मकथिकस्सेव पाकट’’न्ति. खन्धादीसु सभावधम्मेसु तीसु लक्खणेसु पञ्ञत्तियं समयन्तरेसु च कोसल्लाभावतो अयं सकवादो अयं परवादोति न जानाति. ततो एव सकवादं…पे… धम्मन्तरं विसंवादेति. खन्धादीसु पन कुसलताय आभिधम्मिको सकवादं…पे… न विसंवादेति.

३४४. चित्तं अत्तनो वसे वत्तेतुं सक्कोति पटिसङ्खानभावनाबलेहि परिग्गण्हनसमत्थत्ता. इदानि तमत्थं ब्यतिरेकतो अन्वयतो च विभावेतुं ‘‘दुप्पञ्ञो ही’’तिआदिमाह. तत्थ सब्बानस्साति सब्बानि अस्स. विसेवितविप्फन्दितानीति किलेसविसूकायिकानि चेव दुच्चरितविप्फन्दितानि च. भञ्जित्वाति मद्दित्वा. बहीति कम्मट्ठानतो बहि पुथुत्तारम्मणे.

३४५. परियायेनाति एत्थ परियाय-सद्दो ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो’’तिआदीसु (अ. नि. ८.११; पारा. ३-९) विय कारणत्थोति आह ‘‘सोभनकारणं अत्थी’’ति. यदि भगवा – ‘‘इध, सारिपुत्त, भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो’’तिआदिना अत्तनो महाबोधिपल्लङ्कं सन्धायाह, एवं सन्ते सम्मासम्बुद्धेहेव सङ्घारामो सोभेतब्बो, न अञ्ञेहीति आपन्नन्ति आह ‘‘अपिच पच्छिमं जनत’’न्तिआदि. निब्बानत्थाय पटिपत्तिसारं एतस्साति पटिपत्तिसारो, तं पटिपत्तिसारं. निप्परियायेनेवाति केनचि परियायेन लेसेन विना मुख्येन नयेनेव. यो ‘‘अरहत्तं अप्पत्वा न वुट्ठहिस्सामी’’ति दळ्हसमादानं कत्वा निसिन्नो तं अधिगन्त्वाव उट्ठहति. एवरूपेन इदं गोसिङ्गसालवनं सोभति, सासने सब्बारम्भानं तदत्थत्ताति अत्थो. आसवक्खयावहं पटिपत्तिं आरभित्वा आसवक्खयेनेव देसनाय परियोसापितत्ता यथानुसन्धिनाव देसनं निट्ठपेसीति.

महागोसिङ्गसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

३. महागोपालकसुत्तवण्णना

३४६. तत्थाति गोपालकसुत्ते. तिस्सो कथाति (अ. नि. टी. ३.११.१७) तिस्सो अट्ठकथा, तिविधा सुत्तस्स अत्थवण्णनाति अत्थो. एकेकं पदं नाळं मूलं एतिस्साति एवंसञ्ञिता एकनाळिका, एकेकं वा पदं नाळं अत्थनिग्गमनमग्गो एतिस्साति एकनाळिका. तेनाह ‘‘एकेकपदस्स अत्थकथन’’न्ति. चत्तारो अंसा भागा अत्थसल्लक्खणूपाया एतिस्साति चतुरस्सा. तेनाह ‘‘चतुक्कं बन्धित्वा कथन’’न्ति. नियमतो निसिन्नस्स आरद्धस्स वत्तो संवत्तो एतिस्सा अत्थीति निसिन्नवत्तिका, यथारद्धस्स अत्थस्स विसुं विसुं परियोसापिकाति अत्थो. तेनाह ‘‘पण्डितं गोपालकं दस्सेत्वा’’तिआदि. एकेकपदस्साति पिण्डत्थदस्सनवसेन बहुन्नं पदानं एकज्झं अत्थं अकथेत्वा एकमेकस्स पदस्स अत्थवण्णना. अयं सब्बत्थेव लब्भति. चतुक्कं बन्धित्वाति कण्हपक्खे उपमूपमेय्यद्वयं, तथा सुक्कपक्खेति इदं चतुक्कं योजेत्वा. अयं ईदिसेसु एव सुत्तेसु लब्भति. परियोसानगमनन्ति केचि ताव आहु – ‘‘कण्हपक्खे उपमं दस्सेत्वा उपमा च नाम यावदेव उपमेय्यसम्पटिदानत्थाति उपमेय्यत्थं आहरित्वा संकिलेसपक्खनिद्देसो च वोदानपक्खविभावनत्थायाति सुक्कपक्खम्पि उपमूपमेय्यविभागेन आहरित्वा सुत्तत्थस्स परियोसापन’’न्ति. कण्हपक्खे उपमेय्यं दस्सेत्वा परियोसानगमनादीसुपि एसेव नयो. अपरे पन ‘‘कण्हपक्खे सुक्कपक्खे च तंतंउपमूपमेय्यत्थानं विसुं विसुं परियोसापेत्वाव कथनं परियोसानगमन’’न्ति वदन्ति. अयन्ति निसिन्नवत्तिका. इधाति इमस्मिं गोपालकसुत्ते. सब्बाचरियानं आचिण्णाति सब्बेहिपि पुब्बाचरियेहि आचरिता संवण्णिता, तथा चेव पाळि पवत्ताति.

अङ्गीयन्ति अवयवभावेन ञायन्तीति अङ्गानि, भागा. तानि पनेत्थ यस्मा सावज्जसभावानि, तस्मा आह ‘‘अङ्गेहीति अगुणकोट्ठासेही’’ति. गोमण्डलन्ति गोसमूहं. परिहरितुन्ति रक्खितुं. तं पन परिहरणं परिग्गहेत्वा विचरणन्ति आह ‘‘परिग्गहेत्वा विचरितु’’न्ति. वड्ढिन्ति गुन्नं बहुभावं बहुगोरसतासङ्खातं परिवुद्धिं. ‘‘एत्तकमिद’’न्ति रूपीयतीति रूपं, परिमानपरिच्छेदोपि सरीररूपम्पीति आह ‘‘गणनतो वा वण्णतो वा’’ति. न परियेसति विनट्ठभावस्सेव अजाननतो. नीलाति एत्थ इति-सद्दो आदिअत्थो. तेन सेतसबलादिवण्णं सङ्गण्हाति.

धनुसत्तिसूलादीति एत्थ इस्सासाचरियानं गावीसु कतं धनुलक्खणं. कुमारभत्तिगणानं गावीसु कतं सत्तिलक्खणं. इस्सरभत्तिगणानं गावीसु कतं सूललक्खणन्ति योजना. आदि-सद्देन रामवासुदेवगणादीनं गावीसु कतं फरसुचक्कादिलक्खणं सङ्गण्हाति.

नीलमक्खिकाति पिङ्गलमक्खिका, खुद्दमक्खिका एव वा. सटति रुजति एतायाति साटिका, संवद्धा साटिकाति आसाटिका. तेनाह ‘‘वड्ढन्ती’’तिआदि.

वाकेनाति वाकपत्तेन. चीरकेनाति पिलोतिकेन. अन्तोवस्सेति वस्सकालस्स अब्भन्तरे. निग्गाहन्ति सुसुमारादिग्गाहरहितं. पीतन्ति पानीयस्स पीतभावं. सीहब्यग्घादिपरिस्सयेन सासङ्को सप्पटिभयो.

पञ्च अहानि भूतानि एतस्साति पञ्चाहितो, सो एव वारोति पञ्चाहिकवारो. एवं सत्ताहिकवारोति वेदितब्बो. चिण्णट्ठानन्ति चरितट्ठानं गोचरग्गहितट्ठानं.

पितुट्ठानन्ति पितरा कातब्बट्ठानं, पितरा कातब्बकरणन्ति अत्थो. यथारुचिं गहेत्वा गच्छन्तीति गुन्नं रुचिअनुरूपं गोचरभूमियं वा नदिपारं वा गहेत्वा गच्छन्ति. गोभत्तन्ति कप्पासट्ठिकादिमिस्सं गोभुञ्जितब्बं भत्तं, भत्तग्गहणेनेव यागुपि गहिता.

३४७. ‘‘द्वीहाकारेही’’ति वुत्तं आकारद्वयं दस्सेतुं ‘‘गणनतो वा समुट्ठानतो वा’’ति वुत्तं. एवं पाळियं आगताति ‘‘उपचयो सन्तती’’ति जातिं द्विधा भिन्दित्वा हदयवत्थुं अग्गहेत्वा ‘‘दस आयतनानि पञ्चदस सुखुमरूपानी’’ति एवं रूपकण्डपाळियं (ध. स. ६५१-६५५) आगता. पञ्चवीसति रूपकोट्ठासाति सलक्खणतो अञ्ञमञ्ञसङ्कराभावतो रूपभागा. रूपकोट्ठासाति वा विसुं विसुं अप्पवत्तित्वा कलापभावेनेव पवत्तनतो रूपकलापा. कोट्ठासाति च अंसा, अवयवाति अत्थो. कोट्ठन्ति वा सरीरं, तस्स अंसा केसादयो कोट्ठासाति अञ्ञेपि अवयवा कोट्ठासा विय कोट्ठासा. सेय्यथापीति उपमासंसन्दनं. तत्थ रूपं परिग्गहेत्वाति यथावुत्तं रूपं सलक्खणतो ञाणेन परिग्गण्हित्वा. अरूपं ववत्थपेत्वाति तं रूपं निस्साय आरम्मणञ्च कत्वा पवत्तमाने वेदनादिके चत्तारो खन्धे ‘‘अरूप’’न्ति ववत्थपेत्वा. रूपारूपं परिग्गहेत्वाति पुन तत्थ यं रुप्पनलक्खणं, तं रूपं, तदञ्ञं अरूपं, उभयविनिमुत्तं किञ्चि नत्थि अत्ता वा अत्तनियं वाति एवं रूपारूपं परिग्गहेत्वा. तदुभयञ्च अविज्जादिना पच्चयेन सप्पच्चयन्ति पच्चयं सल्लक्खेत्वा अनिच्चादिलक्खणं आरोपेत्वा यो कलापसम्मसनादिक्कमेन कम्मट्ठानं मत्थकं पापेतुं न सक्कोति, सो न वड्ढतीति योजना.

एत्तकं रूपं एकसमुट्ठानन्ति चक्खायतनं, सोतघानजिव्हाकायायतनं इत्थिन्द्रियं पुरिसिन्द्रियं जीवितिन्द्रियन्ति अट्ठविधं कम्मवसेन, कायविञ्ञत्ति वचीविञ्ञत्तीति इदं द्वयं चित्तवसेनाति एत्तकं रूपं एकसमुट्ठानं. सद्दायतनमेकं उतुचित्तवसेन द्विसमुट्ठानं. रूपस्स लहुता मुदुता कम्मञ्ञताति एत्तकं रूपं उतुचित्ताहारवसेन तिसमुट्ठानं. रूपगन्धरसफोट्ठब्बायतनं आकासधातु आपोधातु कबळीकारो आहारोति एत्तकं रूपं उतुचित्ताहारकम्मवसेन चतुसमुट्ठानं. उपचयो सन्तति जरता रूपस्स अनिच्चताति एत्तकं रूपं न कुतोचि समुट्ठातीति न जानाति. समुट्ठानतो रूपं अजानन्तोतिआदीसु वत्तब्बं ‘‘गणनतो रूपं अजानन्तो’’तिआदेसु वुत्तनयेनेव वेदितब्बं.

कम्मलक्खणोति अत्तना कतं दुच्चरितकम्मं लक्खणं एतस्साति कम्मलक्खणो, बालो. वुत्तञ्हेतं – ‘‘तीणिमानि, भिक्खवे, बालस्स बाललक्खणानि. कतमानि तीणि? दुच्चिन्तितचिन्ती होति, दुब्भासितभासी, दुक्कटकम्मकारी. इमानि खो…पे… लक्खणानी’’ति (अ. नि. ३.२; नेत्ति. ११६). अत्तना कतं सुचरितकम्मं लक्खणं एतस्साति कम्मलक्खणो, पण्डितो. वुत्तम्पि चेतं – ‘‘तीणिमानि, भिक्खवे, पण्डितस्स पण्डितलक्खणानि. कतमानि तीणि? सुचिन्तितचिन्ती होति, सुभासितभासी, सुकतकम्मकारी. इमानि खो…पे… पण्डितलक्खणानी’’ति (म. नि. ३.२५३; अ. नि. ३.३; नेत्ति. ११६). तेनाह ‘‘कुसलाकुसलं कम्मं पण्डितमाललक्खण’’न्ति. बाले वज्जेत्वा पण्डिते न सेवतीति यं बालपुग्गले वज्जेत्वा पण्डितसेवनं अत्थकामेन कातब्बं, तं न करोति. तथाभूतस्स अयमादीनवोति दस्सेतुं पुन ‘‘बाले वज्जेत्वा’’तिआदि वुत्तं. तत्थ यं भगवता ‘‘इदं वो कप्पती’’ति अनुञ्ञातं, तदनुलोमञ्चे, तं कप्पियं. यं ‘‘इदं वो न कप्पती’’ति पटिक्खित्तं, तदनुलोमञ्चे, तं अकप्पियं. यं कोसल्लसम्भूतं, तं कुसलं, तप्पटिपक्खं अकुसलं. तदेव सावज्जं, कुसलं अनवज्जं. आपत्तितो आदितो द्वे आपत्तिक्खन्धा गरुकं, तदञ्ञं लहुकं. धम्मतो महासावज्जं गरुकं, अप्पसावज्जं लहुकं. सप्पटिकारं सतेकिच्चं, अप्पटिकारं अतेकिच्छं. धम्मतानुगतं कारणं, इतरं अकारणं. तं अजानन्तोति कप्पियाकप्पियं गरुकलहुकं सतेकिच्छातेकिच्छं अजानन्तो सुविसुद्धं कत्वा सीलं रक्खितुं न सक्कोति, कुसलाकुसलं सावज्जानवज्जं कारणाकारणं अजानन्तो खन्धादीसु अकुसलताय रूपारूपपरिग्गहम्पि कातुं न सक्कोति, कुतो तस्स कम्मट्ठानं गहेत्वा वड्ढना. तेनाह ‘‘कम्मट्ठानं गहेत्वा वड्ढेतुं न सक्कोती’’ति.

गोवणसदिसे अत्तभावे उप्पज्जित्वा तत्थ दुक्खुप्पत्तिहेतुतो मिच्छावितक्का आसाटिका वियाति आसाटिकाति आह ‘‘अकुसलवितक्कं आसाटिकं अहारेत्वा’’ति.

‘‘गण्डोति खो, भिक्खवे, पञ्चन्नेतं उपादानक्खन्धानं अधिवचन’’न्ति वचनतो (अ. नि. ८.५६) छहि वणमुखेहि विस्सन्दमानयूसो गण्डो विय पिलोतिकखण्डेन छहि द्वारेहि विस्सन्दमानकिलेसासुचि अत्तभाववणो सतिसंवरेन पिदहितब्बो, अयं पन एवं न करोतीति आह ‘‘यथा सो गोपालको वणं न पटिच्छादेति, एवं संवरं न सम्पादेती’’ति.

यथा धूमो इन्धनं निस्साय उप्पज्जमानो सण्हो सुखुमो तं तं विवरं अनुपविस्स ब्यापेन्तो सत्तानं डंसमकसादिपरिस्सयं विनोदेति, अग्गिजालसमुट्ठानस्स पुब्बङ्गमो होति, एवं धम्मदेसनाञाणस्स इन्धनभूतं रूपारूपधम्मजातं निस्साय उप्पज्जमाना सण्हा सुखुमा तं तं खन्धन्तरं आयतनन्तरञ्च अनुपविस्स ब्यापेति, सत्तानं मिच्छावितक्कादिपरिस्सयं विनोदेति, ञाणग्गिजालसमुट्ठानस्स पुब्बङ्गमोति धूमो वियाति धूमोति आह ‘‘गोपालको धूमं विय धम्मदेसनाधूमं न करोती’’ति. अत्तनो सन्तिकं उपगन्त्वा निसिन्नस्स कातब्बा तदनुच्छविका धम्मकथा उपनिसिन्नकथा. कतस्स दानादिपुञ्ञस्स अनुमोदनकथा अनुमोदना. ततोति धम्मकथादीनं अकरणतो. ‘‘बहुस्सुतो गुणवा’’ति न जानन्तीति कस्मा वुत्तं, ननु अत्तनो जानापनत्थं धम्मकथादि न कातब्बमेवाति? सच्चं, न कातब्बमेव, सुद्धासयेन पन धम्मे कथिते तस्स गुणजाननतं सन्धायेतं वुत्तं. तेनाह भगवा –

‘‘नाभासमानं जानन्ति, मिस्सं बालेहि पण्डितं;

भासये जोतये धम्मं, पग्गण्हे इसिनं धज’’न्ति. (सं. नि. २.२४१);

तरन्ति एत्थाति तित्थं, नदीतळाकादीनं नहानादिअत्थं ओतरणट्ठानं. यथा पन तं उदकेन ओतिण्णसत्तानं सरीरमलं पवाहेति, परिस्समं विनोदेति, विसुद्धिं उप्पादेति, एवं बहुस्सुता अत्तनो समीपं ओतिण्णसत्तानं धम्मूदकेन चित्तमलं पवाहेन्ति, परिस्समं विनोदेन्ति, विसुद्धिं उप्पादेन्ति, तस्मा ते तित्थं वियाति तित्थं. तेनाह ‘‘तित्थभूते बहुस्सुतभिक्खू’’ति. ब्यञ्जनं कथं रोपेतब्बन्ति, भन्ते, इदं ब्यञ्जनं अयं सद्दो कथं इमस्मिं अत्थे रोपेतब्बो, केन पकारेन इमस्स अत्थस्स वाचको जातो. ‘‘निरूपेतब्ब’’न्ति वा पाठो, निरूपेतब्बं अयं सभावनिरुत्ति कथमेत्थ निरुळ्हाति अधिप्पायो. इमस्स भासितस्स को अत्थोति सद्दत्थं पुच्छति. इमस्मिं ठानेति इमस्मिं पाळिपदेसे. पाळि किं वदेतीति भावत्थं पुच्छति. अत्थो किं दीपेतीति भावत्थं वा सङ्केतत्थं वा. न परिपुच्छतीति विमतिच्छेदनपुच्छावसेन सब्बसो पुच्छं न करोति. न परिपञ्हतीति परि परि अत्तनो ञातुं इच्छं न आचिक्खति न विभावेति. तेनाह ‘‘न जानापेती’’ति. तेति बहुस्सुतभिक्खू. विवरणं नाम अत्थस्स विभजित्वा कथनन्ति आह ‘‘भाजेत्वा न दस्सेन्ती’’ति. अनुत्तानीकतन्ति ञाणेन अपाकटीकतं गुय्हं पटिच्छन्नं. न उत्तानीकरोन्तीति सिनेरुमूलकं वालिकं उद्धरन्तो विय पथवीसन्धारोदकं विवरित्वा दस्सेन्तो विय च उत्तानं न करोन्ति. एवं यस्स धम्मस्स वसेन बहुस्सुता ‘‘तित्थ’’न्ति वुत्ता परियायतो, इदानि तमेव धम्मं निप्परियायतो तित्थन्ति दस्सेतुं ‘‘यथा चा’’तिआदि वुत्तं. धम्मो हि तरन्ति एतेन निब्बानं नाम तळाकन्ति ‘‘तित्थ’’न्ति वुच्चति. तेनाह भगवा सुमेधभूतो –

‘‘एवं किलेसमलधोवं, विज्जन्ते अमतन्तळे;

न गवेसति तं तळाकं, न दोसो अमतन्तळे’’ति. (बु. वं. २.१४);

धम्मस्सेव निब्बानस्सोतरणतित्थभूतस्स ओतरणपकारं अजानन्तो ‘‘धम्मतित्थं न जानाती’’ति वुत्तो.

पीतापीतन्ति गोगणे पीतं अपीतञ्च गोरूपं न जानाति न विन्दति. अविन्दन्तो हि न लभतीति वुत्तो. ‘‘आनिसंसं न विन्दती’’ति वत्वा तस्स अविन्दनाकारं दस्सेन्तो ‘‘धम्मस्सवनग्गं गन्त्वा’’तिआदिमाह.

अयं लोकुत्तरोति पदं सन्धायाह ‘‘अरिय’’न्ति. पच्चासत्तिञायेन अनन्तरविधिप्पटिसेधो वा, अरिय-सद्दो वा निद्दोसपरियायो दट्ठब्बो. अट्ठङ्गिकन्ति च विसुं एकज्झञ्च अट्ठङ्गिकं उपादाय गहेतब्बं, अट्ठङ्गता बाहुल्लतो च. एवञ्च कत्वा सत्तङ्गस्सपि अरियमग्गस्स सङ्गहो सिद्धो होति.

चत्तारो सतिपट्ठानेतिआदीसु अविसेसेन सतिपट्ठाना वुत्ता. तत्थ कायवेदनाचित्तधम्मारम्मणा सतिपट्ठाना लोकिया, तत्थ सम्मोहविद्धंसनवसेन पवत्ता निब्बानारम्मणा लोकुत्तराति एवं इमे लोकिया, इमे लोकुत्तराति यथाभूतं न पजानाति.

अनवसेसं दुहतीति पटिग्गहणे मत्तं अजानन्तो किस्मिञ्चि दायके सद्धाहानिया किस्मिञ्चि पच्चयहानिया अनवसेसं दुहति. वाचाय अभिहारो वाचाभिहारो. पच्चयानं अभिहारो पच्चयाभिहारो.

इमे अम्हेसु गरुचित्तीकारं न करोन्तीति इमिना नवकानं भिक्खूनं धम्मसम्पटिपत्तिया अभावं दस्सेति आचरियुपज्झायेसु पितुपेमस्स अनुपट्ठापनतो. तेन च सिक्खागारवताभावदीपनेन सङ्गहस्स अभाजनभावं, तेन थेरानं तेसु अनुग्गहाभावं. न हि सीलादिगुणेहि सासने थिरभावप्पत्ता अननुग्गहेतब्बे सब्रह्मचारी अनुग्गण्हन्ति, निरत्थकं वा अनुग्गहं करोन्ति. तेनाह ‘‘नवके भिक्खू’’ति. धम्मकथाबन्धन्ति पवेणिआगतं पकिण्णकधम्मकथामग्गं. सच्चसत्तपटिसन्धिपच्चयाकारपटिसंयुत्तं सुञ्ञतादीपनं गुय्हगन्थं. वुत्तविपल्लासवसेनाति ‘‘न रूपञ्ञू’’तिआदीसु वुत्तस्स पटिसेधस्स पटिक्खेपवसेन अग्गहणवसेन. योजेत्वाति ‘‘रूपञ्ञू होतीति गणनातो वा वण्णतो वा रूपं जानाती’’तिआदिना, ‘‘तस्स गोगणोपि न परिहायति, पञ्चगोरसपरिभोगतोपि न परिबाहिरो होती’’तिआदिना च अत्थं योजेत्वा. वेदितब्बोति तस्मिं तस्मिं पदेसे यथारहं अत्थो वेदितब्बो.

महागोपालकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

४. चूळगोपालकसुत्तवण्णना

३५०. चेलुक्काहीति चेलमयाहि उक्काहि. उक्कभूतानि चेलानि एत्थाति उक्कचेला, नगरं. सब्बा गङ्गा पाकटा हुत्वा पञ्ञायतीति पकतिचक्खुस्स पाकटा हुत्वा उपट्ठाति, दिब्बचक्खुस्स पन समन्तचक्खुस्स वा यत्थ कत्थचि निसिन्नस्सपि भगवतो पाकटा हुत्वा पञ्ञायतेव. सोत्थीति अनुपद्दवो. वड्ढीति अपरिहानि. आरोग्यन्ति अरोगता आबाधाभावो.

मगधो जनपदो निवासो एतस्साति मागधो, मागधोव मागधिको. पञ्ञाय नाम दुट्ठुभावो नत्थि एकन्तानवज्जताय, तस्मा दु-सद्दो अभाववाची ‘‘दुस्सीलो’’तिआदीसु विय, जाति-सद्दो च सभावत्थोति आह ‘‘निप्पञ्ञसभावो’’ति. -सद्दो आरम्भत्थोति आह ‘‘पतारेसीति तारेतुं आरभी’’ति परतीरं गावीनं अप्पत्तत्ता. सुविदेहानन्ति सुन्दरविदेहानं. विदेहरट्ठं किर भूमिभागदस्सनसम्पत्तिया च वनरामणेय्यकादिना च सुन्दरं. आमण्डलिकं करित्वाति आवत्ते पतिता तेमण्डलाकारेन परिब्भमित्वा. कतिपयापि गावियो असेसेत्वा नदीसोतेन वूळ्हत्ता वुत्तं ‘‘अवड्ढिं विनासं पापुणिंसू’’ति. कतिपयासुपि हि अवसिट्ठासु गावीसु अनुक्कमेनपि सिया गोगणस्स वड्ढीति. विस्समट्ठानन्ति परिस्समविनोदनट्ठानं. तित्था भट्ठाति गहेतुं असमत्थताय तित्थं अप्पत्ता. अरोगो नाम नाहोसीति लोममत्तम्पि असेसेत्वा सब्बा गावियो नदीसोते विनट्ठाति अत्थो.

येसु खन्धायतनधातूसु इध लोकसमञ्ञा, ते अजानन्ता ‘‘अकुसला इमस्स लोकस्सा’’ति वुत्ताति आह ‘‘इधलोके खन्धधातायतनेसु अकुसला अछेका’’ति. अयमेव नयो ‘‘अकुसला परस्स लोकस्सा’’ति एत्थापीति आह ‘‘परलोकेपि एसेव नयो’’ति. मारो एत्थ धीयतीति मारधेय्यं. मारोति चेत्थ किलेसमारो वेदितब्बो. खन्धाभिसङ्खारा हि तस्स पवत्तनभावेन गहिता, मच्चुमारो विसुं गहितो एव, किलेसमारवसेनेव च देवपुत्तमारस्स कामभवे आधिपच्चन्ति. तेसन्ति ये इधलोकादीसु अछेका, तेसं. ते पन उक्कट्ठनिद्देसेन दस्सेन्तो आह ‘‘इमिना छ सत्थारो दस्सिता’’ति.

३५१. बलवगावोति बलवन्ते गोरूपे. ते पन दम्मतं उपगतगोणा चेव धेनुयो चाति आह ‘‘दन्तगोणे चेव धेनुयो चा’’ति. अविजातगावोति न विजातगावियो. वच्छकेति खुद्दकवच्छे. अप्पत्थो हि अयं क-सद्दो. तेनाह ‘‘तरुणवच्छके’’ति. किसाबलकेति दुब्बले.

३५२. मारस्स तण्हासोतं छेत्वाति खन्धमारसम्बन्धीतण्हासङ्खातं सोतं समुच्छिन्दित्वा. तयो कोट्ठासे खेपेत्वा ठिताति अनागामिनो सन्धायाह. सब्बवारेसूति सकदागामिसोतापन्नअट्ठमकवारेसु. तत्थ पन यथाक्कमं चतुमग्गवज्झानं किलेसानं द्वे कोट्ठासे खेपेत्वा ठिता, एककोट्ठासं खेपेत्वा ठिता, पठमं कोट्ठासं खेपेन्तोति वत्तब्बं. धम्मं अनुस्सरन्ति, धम्मस्स वा अनुस्सरणसीलाति धम्मानुसारिनो. धम्मोति चेत्थ पञ्ञा अधिप्पेता. सद्धं अनुस्सरन्ति, सद्धाय वा अनुस्सरणसीलाति सद्धानुसारिनो.

जानताति एत्थ जाननकिरियाविसयस्स अविसेसितत्ता अधिकारवसेन अनवसेसञेय्यविसेसा अधिप्पेताति आह ‘‘सब्बधम्मे जानन्तेना’’ति. अन्तोसारविरहतो अब्भुग्गतट्ठेन च नळो वियाति नळो, मानोति आह ‘‘विगतमाननळं कत’’न्ति. खेमं पत्थेथाति एत्थ चतूहि योगेहि अनुपद्दवत्ता ‘‘खेम’’न्ति अरहत्तं अधिप्पेतं. पत्थना च छन्दपत्थना, न तण्हापत्थनाति आह ‘‘कत्तुकम्यताछन्देन अरहत्तं पत्थेथा’’ति. पत्तायेव नाम तस्स पत्तिया न कोचि अन्तरायो. सोत्थिना पारगमनं उद्दिस्स देसनं आरभित्वा खेमप्पत्तिया देसनाय परियोसापितत्ता यथानुसन्धिनाव देसनं निट्ठापेसीति.

चूळगोपालकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

५. चूळसच्चकसुत्तवण्णना

३५३. हंसवट्टकच्छन्नेनाति हंसवट्टकपटिच्छन्नेन, हंसमण्डलाकारेनाति अत्थो.

वदन्ति एतेनाति वादो, मग्गो. किं वदन्ति? उत्तरं. वादानं सतानि वादसतानि. ‘‘निगण्ठो पञ्चवादसतानि, निगण्ठी पञ्चवादसतानी’’ति एवं निगण्ठो च निगण्ठी च पञ्च पञ्च वादसतानि उग्गहेत्वा विचरन्ता. किरियतो ते पुच्छिंसु, लिङ्गतो पन निगण्ठभावो ञातो. तेनाह ‘‘अहं वादं आरोपेस्सामी’’ति.

जग्गन्तो सम्मज्जनादिवसेन. दिवातरन्ति अतिदिवं. ‘‘कस्स पुच्छा, कस्स विस्सज्जनं होतू’’ति परिब्बाजिकाहि वुत्ते थेरो आह ‘‘पुच्छा नाम अम्हाकं पत्ता’’ति. पुच्छा वादानं पुब्बपक्खो, यस्मा तुम्हे वादपसुता वादाभिरता धजं पग्गय्ह विचरथ, तस्मा वादानं पुब्बपक्खो अम्हाकं पत्तो, एवं सन्तेपि तुम्हाकं मातुगामभावतो पुब्बपक्खं देमाति आह ‘‘तुम्हे पन मातुगामा नाम पठमं पुच्छथा’’ति. ता परिब्बाजिका एकेका अड्ढतेय्यसतवादमग्गं पुच्छन्तियो वादसहस्सं पुच्छिंसु. यथा निसितस्स खग्गस्स कुमुदनाळच्छेदने किमत्थि भारियं, एवं पटिसम्भिदाप्पत्तस्स सावकेसु पञ्ञवन्तानं अग्गभावे ठितस्स धम्मसेनापतिनो पुथुज्जनपरिकप्पितपञ्हविस्सज्जने किमत्थि भारियं. तेनाह ‘‘थेरो खग्गेना’’तिआदि. तत्थ निज्जटं निग्गण्ठिं कत्वाति यथा ता पुन तत्थ जटं गण्ठिं कातुं न विसहन्ति, तथा विजटेत्वा कथेसि. अयं थेरो चतुरङ्गसमन्नागते अन्धकारे सहस्सवट्टिकं दीपेन्तो विय अञ्ञेसं अविसये अन्धकारभूते पञ्हे पुच्छितमत्तेयेव विस्सज्जेसीति थेरस्स पञ्ञावेय्यत्तियं दिस्वा सयञ्च अन्तिमभविकताय कोहञ्ञे ठातुं असक्कोन्तियो ‘‘एत्तकमेव, भन्ते, मयं जानामा’’ति आहंसु. थेरस्स विसयन्ति थेरस्स पञ्ञाविसयं.

नेव अन्तं न कोटिं अद्दसंसूति एकन्ति वत्तब्बस्स बहुभावतो तस्सा पुच्छाय अत्थो एवमन्तो एवमवसानकोटीति न पस्सिंसु न जानिंसु. थेरो तासं अज्झासयं ओलोकेन्तो पब्बज्जारुचिं दिस्वा आह ‘‘इदानि किं करिस्सथा’’ति? उत्तरितरपञ्ञोति वादमग्गपरिचयेन मेधाविताय च यादिसा तासं पञ्ञा, ततो उत्तरितरपञ्ञो.

कथामग्गोति वादमग्गो. तस्मा तेहि तेहि परप्पवादादीहि भस्सं वादमग्गं पकारेहि वदेतीति भस्सप्पवादको. पण्डितवादोति अहं पण्डितो निपुणो बहुस्सुतोति एवंवादी. यं यं नक्खत्ताचारेन आदिसतीति नक्खत्तगतिया कालञाणेन ‘‘असुकदिवसे चन्दग्गाहो भविस्सति, सूरियग्गाहो भविस्सती’’तिआदिना यं यं आदेसं भणति. साधुलद्धिको ञाणसम्पत्तिया सुन्दरो. आरोपितोति पटिञ्ञाहेतुनिदस्सनादिदोसं उपरि आरोपितो वादो स्वारोपितो. दोसपदं आरोपेन्तेन वादिना परवादिम्हि अभिभुय्य तस्स धातुक्खोभोपि सिया, चित्तविक्खेपेन येन दोसो तेन सङ्कप्पितो सम्पवेधितोति. थूणन्ति सरीरं खोभितन्ति कत्वा. थूणन्ति हि लोहितपित्तसेम्हानं अधिवचनं सब्बङ्गसरीरधारणतो. अपिच थूणपदो नाम अत्थि कथामग्गो वादमग्गं गण्हन्तानं. सच्चको पन कोहञ्ञे ठत्वा अत्तनो वादप्पभेदवसेन परे विम्हापेन्तो ‘‘थूणं चेपाह’’न्तिआदिमाह. सावकानं विनयं नाम सिक्खापदं, तञ्च धम्मदेसना होतीति एसा एव चस्स अनुसासनीति विनयनादिमुखेन सम्मासम्बुद्धस्स मतं सासनं पुच्छन्तो सच्चको ‘‘कथं पन, भो, अस्सजी’’तिआदिमाह. अथस्स थेरो ‘‘लक्खणत्तयकथा नाम अनञ्ञसाधारणा बुद्धावेणिका धम्मदेसना, तत्र च मया अनिच्चकथाय समुट्ठापिताय तं असहन्तो सच्चको तुच्छमानेन पटपटायन्तो कुरुमानो लिच्छवी गहेत्वा भगवतो सन्तिकं आगमिस्सति, अथस्स भगवा वादं मद्दित्वा अनिच्चन्ति पतिट्ठपेन्तो धम्मं कथेस्सति, तदा भविस्सति विजहितवादो सम्मापटिपत्तिया पतिट्ठितो’’ति चिन्तेत्वा अनिच्चानत्तलक्खणपटिसंयुत्तं भगवतो अनुसासनं दस्सेन्तो ‘‘एवं, भो, अग्गिवेस्सना’’तिआदिमाह.

कस्मा पनेत्थ दुक्खलक्खणं अग्गहितन्ति आह ‘‘थेरो पना’’तिआदि. ‘‘उपारम्भस्स ओकासो होती’’ति सङ्खेपतो वुत्तं विवरितुं ‘‘मग्गफलानी’’तिआदि वुत्तं. तत्थ परियायेनाति सङ्खारदुक्खतापरियायेन. अयन्ति सच्चको. नयिदं तुम्हाकं सासनं नामाति यत्थ तुम्हे अवट्ठिता, इदं तुम्हाकं सब्बञ्ञुसासनं नाम न होति दुक्खतो अनिस्सरणत्ता, अथ खो महाआघातनं नामेतं, महादुक्खनिद्दिट्ठत्ता पन निरयुस्सदो नाम उस्सदनिरयो नाम, तस्मा नत्ति नाम तुम्हाकं सुखासा. उट्ठायुट्ठायाति उस्सुक्कं कत्वा, दुक्खमेव जीरापेन्ता सब्बसो दुक्खमेव अनुभवन्ता, आहिण्डथ विचरथाति. सब्बमिदं तस्स मिच्छापरिकप्पितमेव. कस्मा? दुक्खसच्चूपसञ्हितायेव हेत्थ निप्परियायकथा नाम. तस्स हि परिञ्ञत्थं भगवति ब्रह्मचरियं वुस्सति. मग्गफलानि सङ्खारभावेन ‘‘यदनिच्चं, तं दुक्ख’’न्ति परियायतो दुक्खं, न निप्परियायतो. तेनाह ‘‘तस्मा’’तिआदि. सोतुं अयुत्तं मिच्छावादत्ताति अधिप्पायो.

३५४. सह अत्थानुसासनं अगारन्ति सन्धागारं, राजकुलानं सन्थापनअगारन्तिपि सन्धागारं, तस्मिं सन्थागारेति अत्थो. एकस्मिं काले तादिसे काले राजकिच्चानं सन्थानमेत्थ विचारेन्तीति सन्धागारं, तस्मिं सन्थागारेतिपि अत्थो. पतिट्ठितन्ति ‘‘अनिच्चं अनत्ता’’ति च पटिञ्ञातं. इदानेव पिट्ठिं परिवत्तेन्तोति भगवतो नलाटं अनोलोकेत्वा विमुखभावं आपज्जन्तो. सुराघरेति सुरासम्पादकगेहे. पिट्ठकिलञ्जन्ति पिट्ठठपनकिळञ्जं. वालन्ति चङ्गवारं. साणसाटककरणत्थन्ति साणसाटकं करोन्ति एतेनाति साणसाटककरणं, सुत्तं, तदत्थं. साणवाका एतेसु सन्तीति साणवाका, साणदण्डा. ते गहेत्वा साणानं धोवनसदिसं कीळितजातं यथा ‘‘उद्दालपुप्फभञ्जिका, साणभञ्जिका’’ति च. किं सो भवमानोति कीदिसो हुत्वा सो भवमानो, किं होन्तो लोके अग्गपुग्गलस्स सम्मासम्बुद्धस्स वादारोपनं नाम ततो उत्तरितरसूरगुणो एव यक्खादिभावेन सो भवमानो अभिसम्भुणेय्य. अयं पन अप्पानुभावताय पिसाचरूपो किं एत्तकं कालं निद्दायन्तो अज्ज पबुज्झित्वा एवं वदतीति अधिप्पायो. तेनाह ‘‘किं यक्खो’’तिआदि.

३५५. महामज्झन्हिकसमयेति महति मज्झन्हिककाले, गगनमज्झे सूरियगतवेलाय. दिवापधानिका पधानानुयुञ्जका. वत्तं दस्सेत्वाति पच्छाभत्तं दिवाविहारूपगमनतो पुब्बे कातब्बवत्तं दस्सेत्वा पटिपज्जित्वा. भगवन्तं दस्सेन्तोति भगवति गारवबहुमानं विभावेन्तो उभो हत्थे कमलमकुलाकारे कत्वा उक्खिप्प भगवन्तं दस्सेन्तो.

तं सन्धायाति तं अपरिच्छिन्नगणनं सन्धाय एवं ‘‘महतिया लिच्छविपरिसाया’’ति वुत्तं. किं सीसेन भूमिं पहरन्तेनेव वन्दना कता होति? केराटिकाति सठा. मोचेन्ताति भिक्खादानतो मोचेन्ता. अवक्खित्तमत्तिकापिण्डो वियाति हेट्ठाखित्तमत्तिकापिण्डो विय. यत्थ कत्थचीति अत्तनो अनुरूपं वचनं असल्लपेन्तो यत्थ कत्थचि.

३५६. दिस्सति ‘‘इदं इमस्स फल’’न्ति अपदिस्सति एतेनाति देसो, कारणं, तदेव तस्स पवत्तिट्ठानताय ओकासोति आह ‘‘कञ्चिदेव देसन्ति कञ्चि ओकासं किञ्चि कारण’’न्ति. ओकासो ठानन्ति च कारणं वुच्चति ‘‘अट्ठानमेतं अनवकासो’’तिआदीसु (दी. नि. ३.१६१; म. नि. ३.१२८-१३१; अ. नि. १.२६८-२९५; विभ. ८०९). यदाकङ्खसीति न वदन्ति अनवसेसधम्मविसयत्ता पटिञ्ञाय. तुम्हन्ति तुम्हाकं. यक्ख…पे… परिब्बाजकानन्ति एत्थ ‘‘पुच्छावुसो, यदाकङ्खसी’’तिआदीनि (सं. नि. १.२४६; सु. नि. आळवकसुत्त) पुच्छावचनानि यथाक्कमं योजेतब्बानि.

ञत्वा सयं लोकमिमं परञ्चाति इदं महासत्तो निरयं सग्गञ्च तेसं पच्चक्खतो दस्सेत्वा आह.

तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथाति यथा पकारेन सुकुसलो सब्बञ्ञू जानाति कथेति, तथा अहं कथेस्सामि. तस्स पन कारणं अकारणञ्च अविजानन्तो राजानं करोतु वा मा वा, अहं पन ते अक्खिस्सामीति आह ‘‘राजा च खो…पे… न वा’’ति.

कथितनियामेनेव कथेन्तोति तेपरिवट्टकथाय दुक्खलक्खणम्पेस कथेस्सति, इध पन अञ्ञथा सावकेन अस्सजिना कथितं, अञ्ञथा समणेन गोतमेनाति वचनोकासपरिहरणत्थं दुक्खलक्खणं अनामसित्वा थेरेन कथितनियामेनेव अनिच्चानत्तलक्खणमेव कथेन्तेन भगवता – ‘‘रूपं अनत्ता याव विञ्ञाणं अनत्ता’’ति वुत्ते सच्चको तं असम्पटिच्छन्तो उपमाय अत्थञापने उपमापमाणं यथा ‘‘गो विय गवयो’’ति अत्तानं उपमेय्यं कत्वा उपमापमाणेन पतिट्ठापेतुकामो आह ‘‘उपमा मं, भो गोतम, पटिभाती’’ति, उपमं ते करिस्सामि, उपमायपिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्तीति अधिप्पायो. भगवा उपमासतेन, अञ्ञेन वापि पमाणेन तव अत्ता पतिट्ठापेतुं न लब्भा अत्तनो विय पमाणस्सपि अनुपलब्भनतोति आह ‘‘पटिभातु तं अग्गिवेस्सना’’ति. यथा हि अत्ता नाम कोचि परमत्थतो न उपलब्भति एकंसेन अनुपलद्धितो, एवस्स ञापकपुग्गलं पमाणम्पि न उपलब्भति. तेनाह ‘‘आहर तं उपमं विस्सत्थो’’ति, न तेन तव अत्तवादो पतिट्ठं लभतीति अधिप्पायो.

यं दिट्ठं कायिकं वा पुञ्ञापुञ्ञं पुरिसपुग्गले उपलब्भति, तेन विञ्ञायति रूपत्तायं पुरिसपुग्गलो, तथा यं दिट्ठं सुखदुक्खपटिसंवेदनं पुरिसपुग्गले उपलब्भति, यं दिट्ठं नीलादिसञ्जाननं, यं दिट्ठं रज्जनदुस्सनादि, यं दिट्ठं आरम्मणपटिविजाननं पुरिसपुग्गले उपलब्भति, तेन विञ्ञायति विञ्ञाणत्तायं पुरिसपुग्गलोति. एवं रूपादिलक्खणो अत्ता तत्थ तत्थ काये कल्याणपापकानं कम्मानं विपाकं सुखदुक्खं पटिसंवेदेति, एवञ्चेतं सम्पटिच्छितब्बं, अञ्ञथा कम्मफलसम्बन्धो न युज्जेय्याति इममत्थं दस्सेन्तो ‘‘इमिना किं दीपेती’’तिआदिमाह. तत्थ तेति सत्ता. पतिट्ठायाति निस्साय. ‘‘रूपत्तायं पुरिसपुग्गलो’’तिआदिना रूपादिधम्मे ‘‘अत्ता’’ति वत्वा पुन ‘‘रूपे पतिट्ठाया’’तिआदिं वदन्तो अयं निगण्ठो अत्तनो वादं भिन्दति पतिट्ठानस्स, पतिट्ठायकस्स च अभेददीपनतो. रूपादयो वेदनादिसभावा अत्ता तन्निस्सयेन पुञ्ञादिकिरियासमुपलद्धितो इध यं निस्साय पुञ्ञादिकिरिया समुपलब्भति, ते रूपादयो सत्तसञ्ञिता अत्तसभावा दिट्ठा यथा तं देवतादीसु, ये पन सत्तसञ्ञिता ततो अञ्ञे असत्तसभावा दिट्ठा यथा तं कट्ठकलिङ्गरादीसूति एवं साधेतब्बं अत्थं सहेतुं कत्वा दस्सेन्तो निगण्ठो निदस्सनं आनेसीति आह ‘‘अतिविय सकारणं कत्वा उपमं आहरी’’ति. तस्स पन ‘‘बलकरणीया’’ति वुत्तपुरिसप्पयोगा विय बीजगामभूतगामापि सजीवा एवाति लद्धीति ते सदिसूदाहरणभावेन वुत्ताति दट्ठब्बं. सचे पन ये जीवस्स आधारणभावेन सहितेन पवत्तेतब्बभावेन सल्लक्खेतब्बा, ते सजीवाति इच्छिता, न केवलेन पवत्तेतब्बभावेन. एवं सति ‘‘बलकरणीया कम्मन्ता’’ति वदन्तेन विसदिसूदाहरणभावेन उपनीतन्ति दट्ठब्बं.

समत्थो नाम नत्थि अत्तवादभञ्जनस्स अनत्ततापतिट्ठापनस्स च सुगतावेणिकत्ता. यं पनेतरहि सासनिका यथासत्ति तदुभयं करोन्ति, तं बुद्धेहि दिन्ननये ठत्वा तेसं देसनानुसारतो. निवत्तेत्वाति नीहरित्वा, विसुं कत्वाति अत्थो. सकलं वेसालिन्ति सब्बवेसालिवासिनं जनं निस्सयूपचारेन निस्सितं वदति यथा ‘‘गामो आगतो’’ति. संवट्टित्वाति सम्पिण्डित्वा, एकज्झं गहेत्वाति अत्थो.

३५७. पतिट्ठपेत्वाति यथा तं वादं न अवजानाति, एवं पटिञ्ञं कारेत्वाति अत्थो. घाति-सद्दो हिंसनत्थो, ततो च सद्दविदू अरहत्थं ताय-सद्दं उप्पादेत्वा घातेतायन्ति रूपसिद्धिं इच्छन्तीति आह ‘‘घातारह’’न्ति. जापेतायन्तिआदीसुपि एसेव नयो. वत्तितुञ्च मरहतीति म-कारो पदसन्धिकरो. विसेसेत्वा दीपेतीति ‘‘वत्तति’’इच्चेव अवत्वा ‘‘वत्तितुञ्च मरहती’’ति दुतियेन पदेन भगवता वुत्तं विसेसेत्वा दीपेति.

पासादिकं अभिरूपन्ति अभिमतरूपसम्पन्नं सब्बावयवं. ततो एव सुसज्जितं सब्बकालं सुट्ठु सज्जिताकारमेव. एवंविधन्ति यादिसं सन्धाय वुत्तं, तं दस्सेति ‘‘दुब्बण्ण’’न्तिआदिना. इमस्मिं ठानेति ‘‘वत्तति ते तस्मिं रूपे वसो’’ति एतस्मिं कारणग्गहणे. कारणञ्हेतं भगवता गहितं ‘‘वत्तति…पे… मा अहोसी’’ति. तेनेतं दस्सेति रूपं अनत्ता अवसवत्तनतो, यञ्हि वसे न वत्तति, तं अनत्तकमेव दिट्ठं यथा तं सम्पत्ति. वादन्ति दोसं निग्गहं आरोपेस्सति. सत्तधा मुद्धा फलतीति सहधम्मिकसाकच्छाहि तथागते, पुच्छन्ते अब्याकरणेन विहेसाय कयिरमानत्ता ततिये वारे धम्मतावसेन विहेसकस्स सत्तधा मुद्धा फलति यथा तं सब्बञ्ञुपटिञ्ञाय भगवतो सम्मुखभावूपगमने. वजिरपाणि पन कस्मा ठितो होतीति? भगवा विय अनुकम्पमानो महन्तं भयानकं रूपं मापेत्वा तासेत्वा इमं दिट्ठिं विस्सज्जापेमीति तस्स पुरतो आकासे वजिरं आहरन्तो तिट्ठति, न मुद्धं फालेतुकामो. न हि भगवतो पुरतो कस्सचि अनत्थो नाम होति. यस्मा पन भगवा एकंसतो सहधम्मिकमेव पञ्हं पुच्छति, तस्मा अट्ठकथायं ‘‘पुच्छिते’’इच्चेव वुत्तं.

आदित्तन्ति दिप्पमानं. अक्खिनासादीनीति आदि-सद्देन एळकसीससदिसकेसमस्सुआदीनं सङ्गण्हाति. ‘‘दिट्ठिविस्सज्जापनत्थ’’न्ति वत्वा नयिदं यदिच्छावसेन आगमनं, अथ खो आदितो महाब्रह्मानं पुरतो कत्वा अत्तना कतपटिञ्ञावसेनाति दस्सेन्तो ‘‘अपिचा’’तिआदिमाह. न्ति वजिरपाणिं. तं सच्चकस्स पटिञ्ञाय परिवत्तनकारणं. अञ्ञेपि नु खोतिआदि सच्चकस्स वीमंसकभावदस्सनं. अवीमंसकेन हि तं दिस्वा महायक्खोति वदेय्य, तेनस्स असारुप्पं सिया, अयं पन अञ्ञेसं अभीतभावं उपधारेत्वा ‘‘अद्धामे यक्खं न पस्सन्ति, तस्मा मय्हमेव भयं उप्पन्न’’न्ति तीरेत्वा युत्तप्पत्तवसेन पटिपज्जि.

३५८. उपधारेत्वाति ब्याकातब्बमत्थं सल्लक्खेत्वा. एसेव नयोति सङ्खारविञ्ञाणेसुपि सञ्ञाय विय नयोति अत्थो. वुत्तविपरियायेनाति ‘‘अकुसला दुक्खा वेदना मा अहोसि, अकुसला दोमनस्ससम्पयुत्ता सञ्ञा मा अहोसी’’तिआदिना नयेन अत्थो वेदितब्बो. सप्पदट्ठविसन्ति सब्बसत्तानं सप्पदट्ठट्ठाने सरीरपदेसे पतितं विसं. अल्लीनोति संसिलिट्ठो. उपगतोति न अपगतो. अज्झोसितोति गिलित्वा परिनिट्ठपेत्वा ठितो. परितो जानेय्याति समन्ततो सब्बसो किञ्चिपि असेसेत्वा जानेय्य. परिक्खेपेत्वाति आयतिं अनुप्पत्तिधम्मतापादनवसेन सब्बसो खेपेत्वा. तथाभूतो चस्स खयवयं उपनेति नामाति आह ‘‘खयं वयं अनुप्पादं उपनेत्वा’’ति.

३५९. अत्तनो वादस्स असारभावतो, यथापरिकप्पितस्स वा सारस्स अभावतो अन्तोसारविरहितो रित्तो. विप्पकारन्ति दिट्ठिया सीलाचारस्स च वसेन विरूपतं सापराधतं सावज्जतं तेसं उपरि आरोपेत्वा. सिन्नपत्तोति तनुकपत्तो. विफारितन्ति विफाळितं.

असारकरुक्खपरिचितोति पलासादिअसाररुक्खकोट्टने कतपरिचयो. थद्धभावन्ति विपक्कभावं, तिक्खभावन्ति अत्थो. नत्थीति सदा नत्थीति न वत्तब्बं. परिसतीति चतुपरिसमज्झे. तथा हि ‘‘गण्ठिकं पटिमुञ्चित्वा पटिच्छन्नसरीरा’’ति वुत्तं. यन्तारुळ्हस्स वियाति ब्याकरणत्थं वायमयन्तं आरुळ्हस्स विय.

३६०. दिट्ठिविसूकानीति दिट्ठिकिञ्चकानि. दिट्ठिसञ्चरितानीति दिट्ठिताळनानि. दिट्ठिविप्फन्दितानीति दिट्ठिइञ्जितानि. तेसं अधिप्पायं ञत्वाति तेसं लिच्छविकुमारानं इञ्जितेनेव अज्झासयं जानित्वा. तेनाह ‘‘इमे’’तिआदि.

३६१. यस्मिं अधिगते पुग्गलो सत्थुसासने विसारदो होति परेहि असंहारियो, तं ञाणं विसारदस्स भावोति कत्वा वेसारज्जन्ति आह ‘‘वेसारज्जप्पत्तोति ञाणप्पत्तो’’ति. ततो एवमस्स न परो पच्चेतब्बो एतस्स अत्थीति अपरप्पच्चयो. न परो पत्तियो सद्दहातब्बो एतस्स अत्थीति अपरप्पत्तियो. कामं सच्चको सेक्खभूमि असेक्खभूमीति इदं सासनवोहारं न जानाति. पस्सतीति पन दस्सनकिरियाय विप्पकतभावस्स वुत्तत्ता ‘‘न एत्तावता भिक्खुकिच्चं परियोसित’’न्ति अञ्ञासि, तस्मा पुन ‘‘कित्तावता पना’’ति पुच्छं आरभि. तेन वुत्तं ‘‘पस्सतीति वुत्तत्ता’’तिआदि.

यथाभूतं पस्सतीति दस्सनं, विसिट्ठट्ठेन अनुत्तरियं, दस्सनमेव अनुत्तरियन्ति दस्सनानुत्तरियं, दस्सनेसु वा अनुत्तरियं दस्सनानुत्तरियं. लोकियपञ्ञाति चेत्थ विपस्सनापञ्ञा वेदितब्बा. सा हि सब्बलोकियपञ्ञाहि विसिट्ठट्ठेन ‘‘अनुत्तरा’’ति वुत्ता. लोकियपटिपदानुत्तरियेसुपि एसेव नयो. इदानि निप्परियायतोव तिविधम्पि अनुत्तरियं दस्सेतुं ‘‘सुद्धलोकुत्तरमेवा’’तिआदि वुत्तं. सतिपि सब्बेसम्पि लोकुत्तरधम्मानं अनुत्तरभावे उक्कट्ठनिद्देसेन अग्गमग्गपञ्ञा ततो उत्तरितरस्स अभावतो दस्सनानुत्तरियं. तेनाह ‘‘अरहत्तमग्गसम्मादिट्ठी’’ति. सेसानि मग्गङ्गानीति सेसानि अरहत्तमग्गङ्गानि. तानि हि मत्थकप्पत्तानि निब्बानगामिनी पटिपदाति. अग्गफलविमुत्तीति अग्गमग्गस्स फलविमुत्ति अरहत्तफलं. खीणासवस्साति सब्बसो खीयमानासवस्स. निब्बानदस्सनन्ति अग्गमग्गसम्मादिट्ठिया सच्छिकिरियाभिसमयमाह. तत्थ मग्गङ्गानीति अट्ठ मग्गङ्गानि. चतुसच्चन्तोगधत्ता सब्बस्स ञेय्यधम्मस्स ‘‘चत्तारि सच्चानि बुद्धो’’ति वुत्तं. सच्चानुगतसम्मोहविद्धंसनेनेव हि भगवतो सब्बसो ञेय्यावरणप्पहानं. निब्बिसेवनोति निरुद्धकिलेसविसेवनो.

३६२. धंसीति अनुद्धंसनसीला. अनुपहतन्ति अविक्खित्तं. सकलन्ति अनूनं. कायङ्गन्ति कायमेव अङ्गन्ति वदन्ति, कायसङ्खातं अङ्गं सीसादिअवयवन्ति अत्थो. तथा ‘‘होतु, साधू’’ति एवमिदं वाचाय अवयवो वाचङ्गन्ति.

३६३. आहरन्तीति अभिहरन्ति. पुञ्ञन्ति पुञ्ञफलसङ्खातो आनुभावो. पुञ्ञफलम्पि हि उत्तरपदलोपेन ‘‘पुञ्ञ’’न्ति वुच्चति – ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु (दी. नि. ३.८०). तेनाह ‘‘आयतिं विपाकक्खन्धा’’ति. पुञ्ञमहीति महति पुञ्ञफलविभूति सेतच्छत्तमकुटचामरादि. तेन वुत्तं ‘‘विपाकक्खन्धानंयेव परिवारो’’ति. लिच्छवीहि पेसितेन खादनीयभोजनीयेन समणो गोतमो ससावकसङ्घो मया परिविसितो, तस्मा लिच्छवीनमेव तं पुञ्ञं होतीति. तेनाह ‘‘तं दायकानं सुखाय होतू’’ति. यस्मा पन भगवतो भिक्खुसङ्घस्स च सच्चकेन दानं दिन्नं, न लिच्छवीहि, तस्मा भगवा सच्चकस्स सतिं परिवत्तेन्तो ‘‘यं खो’’तिआदिमाह. तेन वुत्तं ‘‘इति भगवा’’तिआदि. निगण्ठस्स मतेन विनायेवाति सच्चकस्स चित्तेन विना एव तस्स दक्खिणं खेत्तगतं कत्वा दस्सेति. तेनाह ‘‘अत्तनो दिन्नं दक्खिणं…पे… निय्यातेसी’’ति.

चूळसच्चकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

६. महासच्चकसुत्तवण्णना

३६४. एकं समयं भगवा वेसालियं विहरतीति इमिना तदा भगवतो वेसालियं निवासपरिच्छिन्नो पुब्बण्हादिभेदो सब्बो समयो साधारणतो गहितो, तथा तेन खो पन समयेनाति च इमिना. पुब्बण्हसमयन्ति पन इमिना तब्बिसेसो, यो भिक्खाचारत्थाय पच्चवेक्खणकालो. अट्ठकथायं पन ‘‘तीहि पदेहि एकोव समयो वुत्तो’’ति वुत्तं विसेसस्स सामञ्ञन्तोगधत्ता. मुखधोवनस्स पुब्बकालकिरियाभावसामञ्ञतो वुत्तं ‘‘मुखं धोवित्वा’’ति. मुखं धोवित्वा एव हि वासधुरो चे, वेलं सल्लक्खेत्वा यथाचिण्णं भावनानुयोगं, गन्थधुरो चे, गन्थपरिचये कतिपये निसज्जवारे अनुयुञ्जित्वा पत्तचीवरं आदाय वितक्कमाळं उपगच्छति.

कारणं युत्तं, अनुच्छविकन्ति अत्थो. पुब्बे यथाचिन्तितं पञ्हं अपुच्छित्वा अञ्ञं पुच्छन्तो मग्गं ठपेत्वा उम्मग्गतो परिवत्तेन्तो विय होतीति आह ‘‘पस्सेन ताव परिहरन्तो’’ति.

३६५. ऊरुक्खम्भोपि नाम भविस्सतीति एत्थ नाम-सद्दो विम्हयत्थोति कत्वा वुत्तं ‘‘विम्हयत्थवसेना’’तिआदि. ‘‘अन्धो नाम पब्बतं अभिरुहिस्सती’’तिआदीसु विय विम्हयवाचीसद्दयोगेन हि ‘‘भविस्सती’’ति अनागतवचनं. कायन्वयन्ति कायानुगतं. ‘‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’’तिआदिना (दी. नि. २.३७९; म. नि. १.११२; म. नि. ३.१५४) कायस्स असुभानिच्चादिताय अनुपस्सना कायभावनाति आह ‘‘कायभावनाति पन विपस्सना वुच्चती’’ति. अनागतरूपन्ति अभीते अत्थे अनागतसद्दारोपनं अनागतप्पयोगो न समेति. अत्थोपीति ‘‘ऊरुक्खम्भोपि नाम भविस्सती’’ति वुत्तअत्थोपि न समेति. अयन्ति अत्तकिलमथानुयोगो. तेसन्ति निगण्ठानं.

३६६. अत्तनो अधिप्पेतकायभावनं वित्थारेन्तो वित्थारतो दस्सेन्तो ये तं अनुयुत्ता, ते नामगोत्ततो विभावेन्तो ‘‘नन्दो वच्छो’’तिआदिमाह. किलिट्ठतपानन्ति कायस्स किलेसनतपानं पुग्गलानं. जातमेदन्ति मेदभावापत्तिवसेन उप्पन्नमेदं. पुरिमं पहायाति कालपरिच्छेदेन अनाहारअप्पाहारतादिवसेन कायस्स अपचिननं खेदनं परिच्चजित्वा. कायभावना पन न पञ्ञायतीति नियमं परमत्थतो कायभावनापि तव ञाणेन न ञायति, सेसतोपि न दिस्सति.

३६७. इमस्मिं पन ठानेति ‘‘कायभावनम्पि खो त्वं, अग्गिवेस्सन, न अञ्ञासि, कुतो पन त्वं चित्तभावनं जानिस्ससी’’ति इमस्मिं ठाने. तथा ‘‘यो त्वं एवं ओळारिकं दुब्बलं कायभावनं न जानासि, सो त्वं कुतो सन्तसुखुमं चित्तभावनं जानिस्ससी’’ति एतस्मिं अत्थवण्णनाठाने. अबुद्धवचनं नामेतं पदन्ति कायभावनासञ्ञितविपस्सनातो चित्तभावना सन्ता, विपस्सना पन पादकज्झानतो ओळारिका चेव दुब्बला चाति अयञ्च एतस्स पदस्स अत्थो. ‘‘अबुद्धवचनं नामेतं वचनं सिया’’ति वत्वा थेरो पक्कमितुं आरभति. अथ नं महासीवत्थेरो ‘‘विपस्सना नामेसा न आदितो सुब्रूहिता बलवती तिक्खा विसदा होति, तस्मा तरुणवसेनायमत्थो वेदितब्बो’’ति दस्सेन्तो ‘‘दिस्सति, भिक्खवे’’ति सुत्तपदं (सं. नि. २.६२) आहरि. तत्थ आदानन्ति पटिसन्धि. निक्खेपनन्ति चुति. ओळारिकन्ति अरूपधम्मेहि दुट्ठुल्लभावत्ता ओळारिकं. कायन्ति चतुसन्ततिरूपसमूहभूतं कायं. ओळारिकन्ति भावनपुंसकनिद्देसो, ओळारिकाकारेनाति अत्थो. तेनेव वुत्तं ‘‘आदानम्पि निक्खेपनम्पी’’ति.

३६८. सुखसारागेन समन्नागतोति सुखवेदनाय बलवतररागेन समङ्गीभूतो. पट्ठाने पटिसिद्धा अवचनेनेव. तस्माति सुखे ठिते एव दुक्खस्सानुप्पज्जनतो. एवं वुत्तन्ति ‘‘सुखाय वेदनाय निरोधा उप्पज्जति दुक्खा वेदना’’ति एवं वुत्तं, न अनन्तराव उप्पज्जनतो. खेपेत्वाति कुसलानि खेपेत्वा. गण्हित्वा अत्तनो एव ओकासं गहेत्वा. उभतोपक्खं हुत्वाति ‘‘कदाचि सुखवेदना, कदाचि दुक्खवेदना’’ति पक्खद्वयवसेनपि वेदना चित्तस्स परियादाय होति यथाक्कमं अभावितकायस्स अभावितचित्तस्स.

३६९. विपस्सना च सुखस्स पच्चनीकाति सुक्खविपस्सकस्सआदिकम्मिकस्स महाभूतपरिग्गहादिकाले बहि चित्तचारं निसेधेत्वा कम्मट्ठाने एव सतिं संहरन्तस्स अलद्धस्सादं कायसुखं न विन्दति, सम्बाधे वजे सन्निरुद्धो गोगणो विय विहञ्ञति विप्फन्दति, अच्चासन्नहेतुकञ्च सरीरे दुक्खं उप्पज्जतेव. तेन वुत्तं ‘‘दुक्खस्स आसन्ना’’ति. तेनाह ‘‘विपस्सनं पट्ठपेत्वा’’तिआदि. अद्धाने गच्छन्ते गच्छन्तेति महाभूतपरिग्गहादिवसेन काले गच्छन्ते. तत्थ तत्थाति तस्मिं तस्मिं सरीरपदेसे. दुक्खं दूरापगतं होति समापत्तिबलेन विक्खम्भितत्ता अप्पनाभावतो. अनप्पकं विपुलं. सुखन्ति झानसुखं. ओक्कमतीति झानसमुट्ठानपणीतरूपवसेन रूपकायं अनुपविसति, नामकायोक्कमने वत्तब्बमेव नत्थि. कायपस्सद्धिकम्मिकस्सपि सम्मसनभावना पट्ठपेत्वा निसिन्नस्स कस्सचि आदितोव कायकिलमथचित्तुपघातापि सम्भवन्ति, समाधिस्स पन अपच्चनीकत्ता सिनिद्धभावतो च न सुक्खविपस्सना विय सुखस्स विपच्चनीको, अनुक्कमेन च दुक्खं विक्खम्भेतीति आह ‘‘यथा समाधी’’ति. यथा समाधि, विपस्सनाय पनेतं नत्थीति आह ‘‘न च तथा विपस्सना’’ति. तेन वुत्तन्ति यस्मा विपस्सना सुखस्स पच्चनीका, सा च कायभावना, तेन वुत्तं ‘‘उप्पन्नापि सुखा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता कायस्सा’’ति. तथा यस्मा समाधि दुक्खस्स पच्चनीको, सो च चित्तभावना, तेन वुत्तं ‘‘उप्पन्नापि दुक्खा वेदना चित्तं न परियादाय तिट्ठति, भावितत्ता चित्तस्सा’’ति योजना.

३७०. गुणे घट्टेत्वाति अपदेसेन विना समीपमेव नेत्वा. तं वत मम चित्तं उप्पन्ना सुखा वेदना परियादाय ठस्सतीति नेतं ठानं विज्जतीति योजना.

३७१. किं न भविस्सति, सुखापि दुक्खापि वेदना यथापच्चयं उप्पज्जतेवाति अत्थो. तमत्थन्ति सुखदुक्खवेदनानं उप्पत्तिया अत्तनो चित्तस्स अनभिभवनीयतासङ्खातं अत्थं. तत्थ ताव पासरासिसुत्ते बोधिपल्लङ्के निसज्जा ‘‘तत्थेव निसीदि’’न्ति वुत्ता. इध महासच्चकसुत्ते दुक्करकारिकाय दुक्करचरणे निसज्जा ‘‘तत्थेव निसीदि’’न्ति वुत्ता.

३७४. छन्दकरणवसेनाति तण्हायनवसेनाति अत्थो. सिनेहकरणवसेनाति सिनेहनवसेन. मुच्छाकरणवसेनाति मोहनवसेन पमादापादनेन. विपासाकरणवसेनाति पातुकम्यतावसेन. अनुदहनवसेनाति रागग्गिना अनुदहनवसेन. लोकुत्तरमग्गवेवचनमेव वट्टनिस्सरणस्स अधिप्पेतत्ता.

अल्लग्गहणेन किलेसानं असमुच्छिन्नभावं दस्सेति, सस्नेहग्गहणेन अविक्खम्भितभावं, उदके पक्खित्तभावग्गहणेन समुदाचारावत्थं, उदुम्बरकट्ठग्गहणेन अत्तभावस्स असारकत्तं. इमिनाव नयेनाति ‘‘अल्लं उदुम्बरकट्ठ’’न्तिआदिना वुत्तनयेन. सपुत्तभरियपब्बज्जायाति पुत्तभरियेहि सद्धिं कतपरिब्बाजकपब्बज्जावसेन वेदितब्बा. कुटीचकबहूदकहंस-परमहंसादिभेदा ब्राह्मणपब्बज्जा.

३७६. कुतोपि इमस्स आपोसिनेहो नत्थीति कोळापं. तेनाह ‘‘छिन्नसिनेहं निराप’’न्ति. कोळन्ति वा सुक्खकलिङ्गरं वुच्चति, कोळं कोळभावं आपन्नन्ति कोळापं. पटिपन्नस्स उपक्कममहत्तनिस्सितता पकतिया किलेसेहि अनभिभूतताय. अतिन्तता पटिपक्खभावनाय. तथा हि सुक्खकोळापभावो, आरका उदका थले निक्खित्तभावो च निदस्सितो. ओपक्कमिकाहीति किलेसअतिनिग्गण्हनुपक्कमप्पभवाहि. वेदनाहीति पटिपत्तिवेदनाहि. दुक्खा पटिपदा हि इधाधिप्पेता.

३७७. किं पन न समत्थो, यतो एवं परेहि चिन्तितुम्पि असक्कुणेय्यं दुक्करचरियं छब्बस्सानि अकासीति अधिप्पायो. कत्वापि अकत्वापि समत्थोव कारणस्स निप्फन्नत्ता. ‘‘यथापि सब्बेसम्पि खो बोधिसत्तानं चरिमभवे अन्तमसो सत्ताहमत्तम्पि धम्मतावसेन दुक्करचरिया होतियेव, एवं भगवा समत्थो दुक्करचरियं कातुं, एवञ्च नं अकासि, न पन ताय बुद्धो जातो, अथ खो मज्झिमाय एव पटिपत्तिया’’ति तस्सा ब्यतिरेकमुखेन सदेवकस्स लोकस्स बोधाय अमग्गभावदीपनत्थं, इमस्स पन भगवतो कम्मविपाकवसेन छब्बस्सानि दुक्करचरिया अहोसि. वुत्तञ्हेतं –

‘‘अवचाहं जोतिपालो, कस्सपं सुगतं तदा;

कुतो नु बोधि मुण्डस्स, बोधि परमदुल्लभा.

तेन कम्मविपाकेन, अचरिं दुक्करं बहुं;

छब्बस्सानुरुवेलायं, ततो बोधिमपापुणिं.

नाहं एतेन मग्गेन, पापुणिं बोधिमुत्तमं;

कुमग्गेन गवेसिस्सं, पुब्बकम्मेन वारितो’’ति.

दुक्करचरियाय बोधाय अमग्गभावदस्सनत्थं दुक्करचरियं अकासीति केचि. अथ वा लोकनाथस्स अत्तनो परक्कमसम्पत्तिदस्सनत्थाय दुक्करचरिया. पणीताधिमुत्तिया हि परमुक्कंसगतभावतो अभिनीहारानुरूपं सम्बोधियं तिब्बछन्दताय सिखाप्पत्तिया तदत्थं ईदिसम्पि नाम दुक्करचरियं अकासीति लोके अत्तनो वीरियानुभावं विभावेतुं – ‘‘सो च मे पच्छा पीतिसोमनस्सावहो भविस्सती’’ति लोकनाथो दुक्करचरियं अकासि. तेनाह ‘‘सदेवकस्स लोकस्सा’’तिआदि. तत्थ वीरियनिम्मथनगुणोति वीरियस्स संवड्ढनसम्पादनगुणो. यथावुत्तमत्थं उपमाय विभावेतुं ‘‘पासादे’’तिआदि वुत्तं. सङ्गामे द्वे तयो सम्पहारेति द्विक्खत्तुं तिक्खत्तुं वा परसेनाय पहारपयोगे. पधानवीरियन्ति सम्मप्पधानेहि आसेवनवीरियं, सब्बं वा पुब्बभागवीरियं.

अभिदन्तन्ति अभिभवनदन्तं, उपरिदन्तन्ति अत्थो. तेनाह ‘‘उपरिदन्त’’न्ति. सो हि इतरं मुसलं विय उदुक्खलं विसेसतो कस्सचि खादनकाले अभिभुय्य वत्तति. कुसलचित्तेनाति बलवसम्मासङ्कप्पयुत्तेन कुसलचित्तेन. अकुसलचित्तन्ति कामवितक्कादिसहितं अकुसलचित्तं. अकुसलचित्तस्स पवत्तितुं अप्पदानं निग्गहो. तंतंपटिक्खेपवसेन विनोदनं अभिनिप्पीळनं. वीरियतापेन विक्खम्भनं अभिसन्तापनं. सदरथोति सपरिळाहो. पधानेनाति पदहनेन, कायस्स किलमथुप्पादकेन वीरियेनाति अत्थो. विद्धस्साति तुदस्स. सतोति समानस्स.

३७८. सीसवेठनन्ति सीसं रज्जुया बन्धित्वा दण्डकेन परिवत्तकवेठनं. अरहन्तो नाम एवरूपा होन्तीति इमिना यथायं, एवं विसञ्ञीभूतापि हुत्वा विहरन्तीति दस्सेति. तेनाह ‘‘मतकसदिसा’’ति, वेदनाप्पत्ता विय होन्तीति अत्थो. सुपिनप्पटिग्गहणतो पट्ठायाति पटिसन्धिग्गहणे सेतवारणसुपिनं पस्सित्वा ब्राह्मणेहि ब्याकतकालतो पट्ठाय.

३७९. धम्मसरीरस्स अरोगभावेन साधूति मरिसनियोति मारिसो, पियायनवचनमेतं. तेनाह ‘‘सम्पियायमाना’’तिआदि. अजज्जितन्ति एवं अभुञ्जितं भकारस्स जकारादेसं कत्वा. तेनाह ‘‘अभोजन’’न्ति. एवं मा करित्थाति ‘‘लोमकूपेहि अज्झोहारेस्साम अनुप्पवेसेस्सामा’’ति यथा तुम्हेहि वुत्तं, एवं मा करित्थ. कस्मा? यापेस्सामहन्ति अहञ्च यावदत्थं आहारमत्तं भुञ्जन्तो यथा यापेस्सामि, एवं आहारं पटिसेविस्सामि.

३८०-८१. एताव परमन्ति एत्तकं परमं, न इतो परं ओपक्कमिकदुक्खवेदनावेदियनं अत्थीति अत्थो. रञ्ञो गहेतब्बनङ्गलतो अञ्ञानि सन्धाय ‘‘एकेन ऊन’’न्ति वुत्तं. तं सुवण्णपरिक्खतं, इतरानि रजतपरिक्खतानि. तेनाह ‘‘अमच्चा एकेनूनअट्ठसतरजतनङ्गलानी’’ति. आळारुदकसमागमे लद्धज्झानानि वट्टपादकानि, आनापानसमाधि पन कायगतासतिपरियापन्नत्ता सब्बेसञ्च बोधिसत्तानं विपस्सनापादकत्ता ‘‘बोधाय मग्गो’’ति वुत्तो. बुज्झनत्थायाति चतुन्नं अरियसच्चानं, सब्बस्सेव वा ञेय्यधम्मस्स अभिसम्बुज्झनाय. सतिया अनुस्सरणकविञ्ञाणं सतानुसारिविञ्ञाणं. कस्सा पन सतियाति तं दस्सेतुं ‘‘नयिद’’न्तिआदि वुत्तं.

३८२. पच्चुपट्ठिताति तंतंवत्तकरणवसेन पतिउपट्ठिता उपट्ठायका. तेनाह ‘‘पण्णसाला’’तिआदि. पच्चयबाहुल्लिकोति पच्चयानं बाहुल्लाय पटिपन्नो. आवत्तोति पुब्बे पच्चयगेधप्पहानाय पटिपन्नो, इदानि ततो पटिनिवत्तो. तेनाह ‘‘रसगिद्धो…पे… आवत्तो’’ति. धम्मनियामेनाति धम्मताय. तमेव धम्मतं दस्सेतुं ‘‘बोधिसत्तस्सा’’तिआदिमाह. बाराणसिमेव तत्थापि च सब्बबुद्धानं अविजहितधम्मचक्कपवत्तनट्ठानमेव अगमंसु. पञ्चवग्गिया किर विसाखमासस्स अद्धमासियं गता. तेनाह ‘‘तेसु गतेसु अड्ढमासं कायविवेकं लभित्वा’’ति.

३८७. ‘‘अद्धाभोतो गोतमस्स सावकाचित्तभावनानुयोगमनुयुत्ता विहरन्ति, नो कायभावन’’न्ति इमं सन्धायाह ‘‘एकं पञ्हं पुच्छि’’न्ति. इमं धम्मदेसनन्ति ‘‘अभिजानामि खो पनाह’’न्तिआदिकं धम्मदेसनं. असल्लीनो तण्हादिट्ठिकिलेसानं समुच्छिन्नत्ता तेहि सब्बसो न लित्तो. अनुपलित्तोति तस्सेव वेवचनं तण्हानन्दिया अभावेन. गोचरज्झत्तमेवाति गोचरज्झत्तसञ्ञिते फलसमापत्तिया आरम्मणे, निब्बानेति अत्थो. यं सन्धाय पाळियं ‘‘पुरिमस्मिं समाधिनिमित्ते’’ति वुत्तं सन्निसीदापेमीति फलसमापत्तिसमाधिना अच्चन्तसमादानवसेन चित्तं सम्मदेव निसीदापेमि. पुब्बाभोगेनाति समापज्जनतो पुब्बे पवत्तआभोगेन. परिच्छिन्दित्वाति समापज्जनक्खणं परिच्छिन्दित्वा. तेनाह ‘‘साधुकार…पे… अविच्छिन्नेयेवा’’ति. एवमस्स परिच्छिन्नकालसमापज्जनं यथापरिच्छिन्नकालं वुट्ठानञ्च बुद्धानं न भारियं वसीभावस्स तथासुप्पगुणभावतोति दस्सेन्तो आह ‘‘बुद्धानं ही’’तिआदि. धम्मसम्पटिग्गाहकानं अस्सासवारे वा. तदा हि देसियमानं धम्मं उपधारेतुं न सक्कोन्ति, तस्मा तस्मिं खणे देसितदेसना निरत्थका सिया. न हि बुद्धानं निरत्थका किरिया अत्थि.

ओकप्पनीयमेतन्ति ‘‘तस्सा एव कथाया’’तिआदिना वुत्तं अतिविय अच्छरियगतं अट्ठुप्पत्तिं सुत्वा ईदिसी पटिपत्ति सम्मासम्बुद्धस्सेव होतीति उपवादवसेन वदति, न सभावेन. तेनाह ‘‘सत्थरि पसादमत्तम्पि न उप्पन्न’’न्ति. कायदरथोति पच्चयविसेसवसेन रूपकायस्स परिस्समाकारो. उपादिन्नकेति इन्द्रियबद्धे. अनुपादिन्नकेति अनिन्द्रियबद्धे. विकसन्ति सूरियरस्मिसम्फस्सेन. तदभावेन मकुलानि होन्ति. केसञ्चि तिन्तिनिकादिरुक्खानं. पतिलीयन्ति निस्सयरूपधम्मअविप्फारिकताय. अरूपधम्मताय पञ्चविञ्ञाणानञ्चेव किरियामयविञ्ञाणानञ्च अप्पवत्तिसञ्ञिता अविप्फारिकता होति, यत्थ निद्दासमञ्ञा. तेनाह ‘‘दरथवसेन भवङ्गसोतञ्च इध निद्दाति अधिप्पेत’’न्ति. तत्थ दरथवसेनाति दरथवसेनेव, न थिनमिद्धवसेनाति अवधारणं अवधारणफलञ्च निद्धारेतब्बं. तं सन्धायाति कायस्स दरथसङ्खातसरीरगिलानहेतुकं निद्दं सन्धाय. सरीरगिलानञ्च भगवतो नत्थीति न सक्का वत्तुं ‘‘पिट्ठि मे आगिलायती’’ति (दी. नि. ३.३००; म. नि. २.२२; चूळव. ३४५) वचनतो. सम्मोहविहारस्मिन्ति पच्चत्ते एतं भुम्मवचनन्ति आह ‘‘सम्मोहविहारोति वदन्ती’’ति, सम्मोहविहारस्मिं वा परियापन्नं एतं वदन्ति, यदिदं दिवा निद्दोक्कमनन्ति योजना.

३८९. उपनीतेहीति दोसमग्गं निन्दापथं उपनीतेहि. अभिनन्दित्वाति सम्पियायित्वा. तेनाह ‘‘चित्तेन सम्पटिच्छन्तो’’ति. अनुमोदित्वाति ‘‘साधु साधू’’ति देसनाय थोमनवसेन अनुमोदित्वा. तेनाह ‘‘वाचायपि पसंसन्तो’’ति. सम्पत्ते कालेति पब्बज्जायोग्गे काले अनुप्पत्ते.

गणं विनोदेत्वाति गणं अपनेत्वा गणपलिबोधं छिन्दित्वा. पपञ्चन्ति अवसेसकिलेसं. ‘‘पुञ्ञवा राजपूजितो’’ति वुत्तमत्थं विवरितुं ‘‘तस्मिञ्हि काले’’तिआदि वुत्तं. छन्दवासहरणेन उपोसथकम्मं करोन्तो.

सकलं रत्तिं बुद्धगुणानंयेव कथितत्ता थेरस्स ञाणं देसनाविभवञ्च विभावेन्तो आह ‘‘एत्तकाव, भन्ते, बुद्धगुणा’’ति. इमाय, भन्ते, तुम्हाकं धम्मकथाय अनवसेसतो बुद्धगुणा कथिता विय जायन्ति, एवं सन्तेपि अनन्तापरिमेय्याव ते, किं इतो परेपि विज्जन्तेवाति थेरं तत्थ सीहनादं नदापेतुकामो आह ‘‘उदाहु अञ्ञेपि अत्थी’’तिआदि. रज्जस्स पदेसिकत्ता, यथावुत्तसुभासितस्स च अनग्घत्ता वुत्तं ‘‘अयं मे दुग्गतपण्णाकारो’’ति. तियोजनसतिकन्ति इदं परिक्खेपवसेन वुत्तं, तञ्च खो मनुस्सानं परिभोगवसेनाति दट्ठब्बं.

महासच्चकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

७. चूळतण्हासङ्खयसुत्तवण्णना

३९०. तत्राति तस्मिं पुब्बाराममिगारमातुपासादानं अत्थविभावने अयं इदानि वुच्चमाना अनुपुब्बी कथा. मणीनन्ति एत्थ पदुमरागमणीनं अधिप्पेतत्ता आह ‘‘अञ्ञेहि चा’’ति. तेन इन्दनीलादिमणीनं सङ्गहो दट्ठब्बो. नीलपीतलोहितोदातमञ्जिट्ठपभस्सरकबरवण्णवसेन सत्तवण्णेहि.

तण्हा सब्बसो खीयन्ति एत्थाति तण्हासङ्खयो (अ. नि. टी. ३.७.६१), तस्मिं. तण्हासङ्खयेति च विसये इदं भुम्मन्ति आह ‘‘तं आरम्मणं कत्वा’’ति. विमुत्तचित्ततायाति सब्बसंकिलेसेहि विमुत्तचित्तताय. अपरभागपटिपदा नाम अरियसच्चाभिसमयो, सा सासनचारिगोचरा पच्चत्तं वेदितब्बतोति आह ‘‘पुब्बभागप्पटिपदं संखित्तेन देसेथाति पुच्छती’’ति. अकुप्पधम्मताय खयवयसङ्खातं अन्तं अतीताति अच्चन्ता, सो एव अपरिहानसभावत्ता अच्चन्ता निट्ठा एतस्साति अच्चन्तनिट्ठो. तेनाह ‘‘एकन्तनिट्ठो सततनिट्ठोति अत्थो’’ति. न हि पटिविद्धस्स लोकुत्तरधम्मस्स दस्सनं कुप्पनं नाम अत्थि. अच्चन्तमेव चतूहि योगेहि खेमो एतस्स अत्थीति अच्चन्तयोगक्खेमी. मग्गब्रह्मचरियस्स वुसितत्ता, तस्स च अपरिहानसभावत्ता अच्चन्तं ब्रह्मचारीति अच्चन्तब्रह्मचारी. तेनाह ‘‘निच्चब्रह्मचारीति अत्थो’’ति. परियोसानन्ति ब्रह्मचरियस्स परियोसानं.

वेगायतीति तुरितायति. सल्लक्खेसीति चिन्तेसि, अत्तना यथा सुताय सत्थु देसनाय अनुस्सरणवसेन उपधारेसि. अनुग्गण्हित्वावाति अत्थविनिच्छयवसेन अनुग्गहेत्वा एव. छसु द्वारेसु नियुत्ताति छद्वारिका, तेहि.

पञ्चक्खन्धाति पञ्चुपादानक्खन्धा. सक्कायसब्बञ्हि सन्धाय इध ‘‘सब्बे धम्मा’’ति वुत्तं विपस्सनाविसयस्स अधिप्पेतत्ता, तस्मा आयतनधातुयोपि तग्गतिका एव दट्ठब्बा. तेनाह भगवा ‘‘नालं अभिनिवेसाया’’ति. न युत्ता अभिनिवेसाय ‘‘एतं मम, एसो मे अत्ता’’ति अज्झोसानाय. ‘‘अलमेव निब्बिन्दितुं अलं विरज्जितु’’न्तिआदीसु (दी. नि. २.२७२; सं. नि. २.१२४-१२५, १२८, १३४, १४३) विय अलं-सद्दो युत्तत्थोपि होतीति आह ‘‘न युत्ता’’ति. सम्पज्जन्तीति भवन्ति. यदिपि ‘‘ततिया, चतुत्थी’’ति इदं विसुद्धिद्वयं अभिञ्ञापञ्ञा, तस्सा पन सप्पच्चयनामरूपदस्सनभावतो, सति च पच्चयपरिग्गहे सप्पच्चयत्ता (नामरूपस्स अनिच्चता, अनिच्चं दुक्खं, दुक्खञ्च अनत्ताति अत्थतो) लक्खणत्तयं सुपाकटमेव होतीति आह ‘‘अनिच्चं दुक्खं अनत्ताति ञातपरिञ्ञाय अभिजानाती’’ति. तथेव तीरणपरिञ्ञायाति इमिना अनिच्चादिभावेन नालं अभिनिवेसायाति नामरूपस्स उपसंहरति, न अभिञ्ञापञ्ञानं सम्भारधम्मानं. पुरिमाय हि अत्थतो आपन्नलक्खणत्तयं गण्हाति सलक्खणसल्लक्खणपरत्ता तस्सा, दुतियाय सरूपतो तस्सा लक्खणत्तयारोपनवसेन सम्मसनभावतो. एकचित्तक्खणिकताय अभिनिपातमत्तताय च अप्पमत्तकम्पि. रूपपरिग्गहस्स ओळारिकभावतो अरूपपरिग्गहं दस्सेति. दस्सेन्तो च वेदनाय आसन्नभावतो, विसेसतो सुखसारागिताय, भवस्सादगधितमानसताय च सक्कस्स वेदनावसेन निब्बत्तेत्वा दस्सेति.

उप्पादवयट्ठेनाति उदयब्बयसभावेन उप्पज्जित्वा निरुज्झनेन. अनिच्चाति अद्धु वा. अनिच्चलक्खणं अनिच्चता उदयवयता. तस्माति यस्मा पञ्चन्नं खन्धानं खयतो वयतो दस्सनञाणं अनिच्चानुपस्सना, तंसमङ्गी च पुग्गलो अनिच्चानुपस्सी, तस्मा. खयविरागोति खयसङ्खातो विरागो सङ्खारानं पलुज्जना. यं आगम्म सब्बसो सङ्खारेहि विरज्जना होति, तं निब्बानं अच्चन्तविरागो. निरोधानुपस्सिम्हिपीति निरोधानुपस्सिपदेपि. ‘‘एसेव नयो’’ति अभिदिसित्वा तं एकदेसेन विवरन्तो ‘‘निरोधोपि हि…पे… दुविधोयेवा’’ति आह. सब्बासवसंवरे वुत्तवोस्सग्गोव इध ‘‘पटिनिस्सग्गो’’ति वुत्तोति दस्सेन्तो ‘‘पटिनिस्सग्गो वुच्चति वोस्सग्गो’’तिआदिमाह. परिच्चागवोस्सग्गो विपस्सना. पक्खन्दनवसेन अप्पनतो पक्खन्दनवोस्सग्गो मग्गो अञ्ञस्स तदभावतो. सोति मग्गो. आरम्मणतोति किच्चसाधनवसेन आरम्मणकरणतो. एवञ्हि मग्गतो अञ्ञेसं निब्बानारम्मणानं पक्खन्दनवोस्सग्गाभावो सिद्धो होति. परिच्चजनेन पक्खन्दनेन चाति द्वीहिपि वा कारणेहि. सब्बेसं खन्धानं वोस्सज्जनं तप्पटिबद्धसंकिलेसप्पहानेन दट्ठब्बं. चित्तं पक्खन्दतीति मग्गसम्पयुत्तं चित्तं सन्धायाह. उभयम्पेतं वोस्सज्जनं. तदुभयसमङ्गीति विपस्सनासमङ्गी मग्गसमङ्गी च. ‘‘अनिच्चानुपस्सनाय निच्चसञ्ञं पजहती’’तिआदिवचनतो (पटि. म. १.५२) यथा विपस्सनाय किलेसानं परिच्चागपटिनिस्सग्गो लब्भति, एवं आयतिं तेहि किलेसेहि उप्पादेतब्बखन्धानम्पि परिच्चागपटिनिस्सग्गो वत्तब्बो, पक्खन्दनपटिनिस्सग्गो पन मग्गे लब्भमानाय एकन्तकारणभूताय वुट्ठानगामिनिविपस्सनाय वसेन वेदितब्बो, मग्गे पन तदुभयम्पि ञायागतमेव निप्परियायतोव लब्भमानत्ता. तेनाह ‘‘तदुभयसमङ्गी पुग्गलो’’तिआदि.

पुच्छन्तस्स अज्झासयवसेन ‘‘न किञ्चि लोके उपादियती’’ति एत्थ कामुपादानवसेन उपादियनं पटिक्खिपीयतीति आह ‘‘तण्हावसेन न उपादियती’’ति. तण्हावसेन वा असति उपादियने दिट्ठिवसेन उपादियनं अनवकासमेवाति ‘‘तण्हावसेन’’इच्चेव वुत्तं. न परामसतीति नादियति, दिट्ठिपरामासवसेन वा ‘‘निच्च’’न्तिआदिना न परामसति. संखित्तेनेव खिप्पं कथेसीति तस्स अज्झासयवसेन पपञ्चं अकत्वा कथेसि.

३९१. अभिसमागन्त्वाति अभिमुखञाणेन ञेय्यं समागन्त्वा याथावतो विदित्वा. तेनाह ‘‘जानित्वा’’ति. यथापरिसविञ्ञापकत्ताति यथापरिसं धम्मसम्पटिग्गाहिकाय महतिया, अप्पकाय वा परिसाय अनुरूपमेव विञ्ञापनतो. परियन्तं न निच्छरतीति न पवत्तति. मा निरत्थका अगमासीति इदं धम्मतावसेन वुत्तं, न सत्थु अज्झासयवसेन. एकञ्हेतं सत्थु वचीघोसस्स अट्ठसु अङ्गेसु, यदिदं परिसपरियन्तता. छिद्दविवरोकासोति छिद्दभूतो, विवरभूतो वा ओकासोपि नत्थि, भगवतो सद्दासवनकारणं वुत्तमेव. तस्माति यथावुत्तकारणतो.

पञ्च अङ्गानि एतस्साति पञ्चङ्गं, पञ्चङ्गं एव पञ्चङ्गिकं. महतीआदि वीणाविसेसोपि आततमेवाति ‘‘चम्मपरियोनद्धेसू’’ति विसेसितं. एकतलं कुम्भथूणदद्दरादि. चम्मपरियोनद्धं हुत्वा तन्तिबद्धं आततविततं. तेनाह ‘‘तन्तिबद्धपणवादी’’ति. गोमुखीआदीनम्पि एत्थेव सङ्गहो दट्ठब्बो. वंसादीति आदि-सद्देन सङ्खसिङ्गादीनं सङ्गहो. सम्मादीति सम्मताळकंसताळसिलासलाकताळादि. तत्थ सम्मताळं नाम दण्डमयताळं. कंसताळं लोहमयं. सिलाय अयोपत्तेन च वादनताळं सिलासलाकताळं. समप्पितोति सम्मा अप्पितो उपेतो. तेनाह ‘‘उपगतो’’ति. उपट्ठानवसेन पञ्चहि तूरियसतेहि उपेतो. एवंभूतो च यस्मा तेहि उपट्ठितो समन्नागतो नाम होति, तस्मा वुत्तं ‘‘समङ्गीभूतोति तस्सेव वेवचन’’न्ति. परिचारेतीति परितो चारेति. कानि पन चारेति, कथं वा चारेतीति आह ‘‘सम्पत्तिं…पे… चारेती’’ति. तत्थ ततो ततोति तस्मिं तस्मिं वादिते तत्थ तत्थ च वादकजने. अपनेत्वाति वादकजने निसेधेत्वा. तेनाह ‘‘निस्सद्दानि कारापेत्वा’’ति. देवचारिकं गच्छतियेव देवतानं मनुस्सानञ्च अनुकम्पाय. स्वायमत्थो विमानवत्थूहि (वि. व. १) दीपेतब्बो.

३९२. अप्पेव सकेन करणीयेनाति मारिस, मोग्गल्लान, मयं सकेन करणीयेन अप्पेव बहुकिच्चापि न होम. अपिच देवानंयेवाति अपिच खो पन देवानंयेव तावतिंसानं करणीयेन विसेसतो बहुकिच्चाति अत्थयोजना. भुम्मट्ठकदेवतानम्पि केचि अट्टा सक्केन विनिच्छितब्बा होन्तीति आह ‘‘पथवितो पट्ठाया’’ति. नियमेन्तोति अवधारेन्तो. तं पन करणीयं सरूपतो दस्सेतुं ‘‘देवानं ही’’तिआदि वुत्तं. तासन्ति देवधीतुदेवपुत्तपादपरिचारिकानं. मण्डनपसाधनकारिकाति मण्डनपसाधनसंविधायिका. अट्टकरणं नत्थि संसयस्सेव अभावतो.

न्ति सवनुग्गहणादिवसेन सुपरिचितम्पि यं अत्थजातं. न दिस्सति, पञ्ञाचक्खुनो सब्बसो न पटिभातीति अत्थो. केचीति सारसमासाचरिया. सोमनस्ससंवेगन्ति सोमनस्ससमुट्ठानं संवेगं, न चित्तसन्तासं.

समुपब्यूळ्होति युज्झनवसेन सहपतितो समोगाळ्हो. एवंभूतो च यस्मा समूहवसेन सम्पिण्डितो होति, तस्मा वुत्तं ‘‘सन्निपतितो रासिभूतो’’ति. अनन्तरे अत्तभावेति इदं दुतियं सक्कत्तभावं ततो अनन्तरातीतेन सक्कत्तभावेन सक्कत्तभावसामञ्ञतो एकमिव कत्वा गहणवसेन वुत्तं, अञ्ञथा ‘‘ततिये अत्तभावे’’ति वत्तब्बं सिया. मघत्तभावो हि इतो ततियोति. अथ वा यस्मिं अत्तभावे सो देवासुरसङ्गामो अहोसि, तस्स अनन्तरत्ता मघत्तभावस्स वुत्तं ‘‘अनन्तरे अत्तभावे’’ति. सत्तानं हितेसिताय मातापितुउपट्ठानादिना चरियाहि बोधिसत्तचरिया वियस्स चरिया अहोसि. सत्त वतपदानीति सत्त वतकोट्ठासे.

महापानन्ति महन्तं सुरापानं. गण्डपानन्ति गण्डसुरापानं, अधिमत्तपानन्ति अत्थो. परिहरमानाति परिवारेन्ता. वेदिकापादाति सिनेरुस्स परियन्ते वेदिकापरिक्खेपा. पञ्चसु ठानेसूति पञ्चसु परिभण्डट्ठानेसु नागसेनादीहि आरक्खं ठपेसि.

३९३. रामणेय्यकन्ति रमणीयभावं. मसारगल्लत्थम्भेति कबरमणिमये थम्भे. सुवण्णादिमये घटकेति ‘‘रजतत्थम्भेसु सुवण्णमये, सुवण्णत्थम्भेसु रजतमये’’तिआदिना सुवण्णादिमये घटके वाळरूपकानि च. पबाळ्हं मत्तोति पमत्तो. तेनाह ‘‘अतिविय मत्तो’’ति. नाटकपरिवारेनाति अच्छरापरिवारेन.

अच्छरियब्भुतन्ति पदद्वयेनपि विम्हयनाकारोव वुत्तो, तस्मा सञ्जातं अच्छरियब्भुतं विम्हयनाकारो एतेसन्ति सञ्जातअच्छरियअब्भुता, तथा पवत्तचित्तुप्पादा. अच्छरियब्भुतहेतुका सञ्जाता तुट्ठि एतेसन्ति सञ्जाततुट्ठिनो. संविग्गन्ति सञ्जातसंवेगं. स्वायं संवेगो यस्मा पुरिमावत्थाय चित्तस्स चलनं होति, तस्मा वुत्तं ‘‘चलित’’न्ति.

३९४. तमं विनोदितन्ति पाटिहारियदस्सनेन ‘‘अहो थेरस्स इद्धानुभावो’’ति सम्मापटिपत्तियं सञ्जातबहुमानो, ईदिसं नाम सासनं लभित्वापि मयं निरत्थकेन भोगमदेन सम्मत्ता भवामाति योनिसो मनसिकारुप्पादनेन सम्मोहतमं विनोदितं विधमितं. एतेति महाथेरो सक्को चाति ते द्वेपि समानब्रह्मचरियताय सब्रह्मचारिनो.

३९५. पञ्ञातानन्ति पाकटानं चातुमहाराज-सुयाम-सन्तुसित-परनिम्मितवसवत्तिमहाब्रह्मानं अञ्ञतरो, न येसं केसञ्चीति अधिप्पायो. आरद्धधम्मवसेनेव परियोसापितत्ता यथानुसन्धिनाव निट्ठपेसि.

चूळतण्हासङ्खयसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

८. महातण्हासङ्खयसुत्तवण्णना

३९६. लद्धिमत्तन्ति मिच्छागाहमत्तं, न दिट्ठाभिनिवेसो. सस्सतदिट्ठीति निच्चाभिनिवेसो. सोति अरिट्ठो भिक्खु. कथेत्वा समोधानेन्तन्ति योजना. समोधानेन्तन्ति च निगमेन्तन्ति अत्थो. तत्थ तत्थेवाति तेसु तेसु एव भवेसु निरुज्झन्ति, न भवन्तरं सङ्कमन्ति. विञ्ञाणं पन अभिन्नसभावं अनञ्ञन्ति अधिप्पायो. इधलोकतोति इमस्मा अत्तभावा. परलोकन्ति परभवसञ्ञितं अत्तभावं. सन्धावतीति निच्चताय केनचि असम्बद्धं विय गच्छति. तेन इधलोकतो परलोकगमनमाह. संसरतीति इमिना परलोकतो इधागमनं. सन्धावतीति वा भवन्तरसङ्कमनमाह. संसरतीति तत्थ तत्थ अपरापरसञ्चरणं.

‘‘पच्चये सति भवती’’तिआदिना विञ्ञाणस्स अन्वयतो ब्यतिरेकतो च पटिच्चसमुप्पन्नभावं दस्सेन्तो सस्सतभावं पटिक्खिपति. बुद्धेन अकथितं कथेसीति इमिना ‘‘यं अभासितं अलपितं तथागतेन, तं भासितं लपितं तथागतेनाति दीपेती’’ति (चूळव. ३५२, ३५३) इमस्मिं भेदकरवत्थुस्मिं सन्दिस्सतीति दस्सेति. जिनचक्के पहारं देतीति ‘‘तदेविदं विञ्ञाणं…पे… अनञ्ञ’’न्ति निच्चतं पटिजानन्तो – ‘‘सब्बे सङ्खारा अनिच्चा (ध. प. २७७), रूपं, भिक्खवे, अनिच्च’’न्ति (सं. नि. ३.९३-९४) च आदिनयप्पवत्ते सत्थु धम्मचक्के खीलं उप्पादेन्तो पहारं देति. सब्बञ्ञुतञ्ञाणेन अनिच्चन्ति दिट्ठं पवेदितञ्च विञ्ञाणं निच्चन्ति पटिजानन्तो वेसारज्जञाणं पटिबाहति. सोतुकामं जनन्ति अरियधम्माधिगमस्स एकन्तउपायभूतं विपस्सनामग्गं सोतुकामं जनं निच्चग्गाहपग्गण्हनेन विसंवादेति. ततो एव अरियपथे अरियधम्मवीथियं तस्सा पटिक्खिपनेन तिरियं निपतित्वा.

३९८. विञ्ञाणसीसेन अत्तना गहितं अत्तानं विभावेन्तो ‘‘य्वायं, भन्ते’’तिआदिमाह. तत्थ वदो वेदेय्योतिआदयो सस्सतदिट्ठिया एव अभिनिवेसाकारा. वदतीति वदो, वचीकम्मस्स कारकोति अत्थो. इमिना हि कारकभावुपायिकसत्तानं हितसुखावबोधनसमत्थतं अत्तनो दस्सेति. वेदियोव वेदेय्यो, जानाति अनुभवति चाति अत्थो. ईदिसानञ्हि पदानं बहुला कत्तुसाधनतं सद्दविदू मञ्ञन्ति. वेदयतीति तं तं अनुभवितब्बं अनुभवति. तहिं तहिन्ति तेसु तेसु भवयोनिगतिठितिसत्तावाससत्तनिकायेसु.

३९९. तं वादं पग्गय्ह ठितत्ता सातिस्स छिन्नपच्चयता अविरुळ्हधम्मता च वेदितब्बा. हेट्ठाति अलगद्दसुत्तसंवण्णनं (म. नि. अट्ठ. २.२३६-२३७) सन्धायाह. परतो हेट्ठाति वुत्तट्ठानेपि एसेव नयो. पाटियेक्को अनुसन्धीति तीहिपि अनुसन्धीहि अवोमिस्सो विसुंयेवेको अनुसन्धि. ननु चायम्पि सातिस्स अज्झासयवसेन पवत्तितत्ता अज्झासयानुसन्धियेवाति? न, निय्यानमुखेन अप्पवत्तत्ता. निय्यानञ्हि पुरक्खत्वा पुच्छादिवसेन पवत्ता इतरा देसनापुच्छानुसन्धिआदयो. इध तदभावतो वुत्तं ‘‘पाटियेक्को अनुसन्धी’’ति. परिसाय लद्धिं सोधेन्तोति यादिसी सातिस्स लद्धि, तदभावदस्सनवसेन परिसाय लद्धिं सोधेन्तो, परिसाय लद्धिसोधनेनेव साति गणतो निस्सारितो नाम जातो.

४००. यं यदेवाति इदं यदिपि अविसेसतो पच्चयधम्मग्गहणं, ‘‘विञ्ञाणन्त्वेव सङ्ख्यं गच्छती’’ति पन वुत्तत्ता तंतंविञ्ञाणस्स समञ्ञानिमित्तपच्चयजातं गहितन्ति दट्ठब्बं. तेन वुत्तं पाळियं – ‘‘चक्खुविञ्ञाणन्त्वेव सङ्ख्यं गच्छती’’तिआदि. अथ वा तंतंद्वारनियतं इतरम्पि सब्बं तस्स तस्स विञ्ञाणस्स पच्चयजातं इध ‘‘यं यदेवा’’ति गहितं, तत्थ पन यं असाधारणं, तेन समञ्ञाति ‘‘चक्खुविञ्ञाणन्त्वेवा’’तिआदि वुत्तं. द्वारसङ्कन्तिया अभावन्ति विञ्ञाणस्स द्वारन्तरसङ्कमनस्स अभावं. स्वायं ओळारिकनयेन मन्दबुद्धीनं सुखावबोधनत्थं नयदस्सनवसेन वुत्तो. न हि कदाचि पच्चुप्पन्नं विञ्ञाणं विगच्छन्तं अनन्तरविञ्ञाणं सङ्कमति अनन्तरादिपच्चयालाभे तस्स अनुप्पज्जनतो.

एवमेवाति यथा अग्गि उपादानं पटिच्च जलन्तो अनुपादानो तत्थेव निब्बायति, न कत्थचि सङ्कमति, एवमेव. ‘‘पच्चयवेकल्लेन तत्थेव निरुज्झती’’ति कस्मा वुत्तं, न हेत्थ अनुप्पादनिरोधो इच्छितो तादिसस्स निरोधस्स इध अनधिप्पेतत्ता, अथ खो खणनिरोधो, सो च साभाविकत्ता न पच्चयवेकल्लहेतुको? सच्चमेतं, तंतंद्वारिकस्स पन विञ्ञाणस्स द्वारन्तरं असङ्कमित्वा तत्थ तत्थेव निरुज्झनं इधाधिप्पेतं. येसञ्च पच्चयानं वसेन द्वारन्तरिकविञ्ञाणेन भवितब्बं, तेसं तदभावतो पच्चयवेकल्लग्गहणं, तस्मा पच्चयवेकल्लेन न सोतादीनि सङ्कमित्वा सोतविञ्ञाणन्तिआदि सङ्ख्यं गच्छतीति योजना. एतेन यं विञ्ञाणं चक्खुरूपादिपच्चयसामग्गिया वसेन चक्खुविञ्ञाणसङ्ख्यं गच्छति, तत्थ तत्थेव निरुज्झति तावकालिकभावतो, तस्स पन सोतसद्दादिपच्चयाभावतो कुतो सोतविञ्ञाणादिसमञ्ञा, एवमप्पवत्तितो तस्स कुतो सङ्कमोति दस्सितं होति. विञ्ञाणप्पवत्तेति विञ्ञाणप्पवत्तियं. द्वारसङ्कन्तिमत्तन्ति द्वारन्तरसङ्कमनमत्तम्पि न वदामि तत्थ तत्थेव भिज्जनतो पच्चयस्स उप्पादवन्ततो सति च उप्पादे अवस्संभावी निरोधोति हुत्वा अभावट्ठेन अनिच्चता दीपिता होतीति.

४०१. ‘‘पटिच्चसमुप्पन्नं विञ्ञाणं वुत्तं मया, अञ्ञत्र पच्चया नत्थि विञ्ञाणस्स सम्भवो’’ति पाळिया अन्वयतो च ब्यतिरेकतो च विञ्ञाणस्स सङ्खतताव दस्सिताति आह ‘‘सप्पच्चयभावं दस्सेत्वा’’ति. हेतुपच्चयेहि जातं निब्बत्तं ‘‘भूत’’न्ति इधाधिप्पेतं, तं अत्थतो पञ्चक्खन्धा तब्बिनिमुत्तस्स सप्पच्चयस्स अभावतो, यञ्च खन्धपञ्चकं अत्तनो तेसञ्च भिक्खूनं, तं ‘‘भूतमिद’’न्ति भगवा अवोचाति आह ‘‘इदं खन्धपञ्चक’’न्ति. अत्तनो फलं आहरतीति आहारो, पच्चयो. सम्भवति एतस्माति सम्भवो, आहारो सम्भवो एतस्साति आहारसम्भवं. तेनाह ‘‘पच्चयसम्भव’’न्ति. तस्स पच्चयस्स निरोधाति येन अविज्जादिना पच्चयेन खन्धपञ्चकं सम्भवति, तस्स पच्चयस्स अनुप्पादनिरोधा. खणनिरोधो पन कारणनिरपेक्खो.

नोस्सूति संसयजोतनो निपातोति आह ‘‘भूतं नु खो इदं, न नु खो भूत’’न्ति. भूतमिदं नोस्सूति च इमिना खन्धपञ्चकमेव नु खो इदं, उदाहु अत्तत्तनियन्ति एवंजातिको संसयनाकारो गहितो. तदाहारसम्भवं नोस्सूति पन इमिना सहेतुकं नु खो इदं भूतं, उदाहु अहेतुकन्ति यथा अहेतुकभावापन्नो संसयनाकारो गहितो, एवं विसमहेतुकभावापन्नोपि संसयनाकारो गहितोति दट्ठब्बं. विसमहेतुनोपि परमत्थतो भूतस्स अहेतुकभावतो. विसमहेतुवादोपि परेहि परिकप्पितमत्तताय सभावनियतियदिच्छादिवादेहि समानयोगक्खमोति. निरोधधम्मं नोस्सूति इमिना यथा अनिच्चं नु खो इदं भूतं, उदाहु निच्चन्ति अनिच्चतं पटिच्च संसयनाकारो गहितो, एवं दुक्खं नु खो, उदाहु न दुक्खं, अनत्ता नु खो, उदाहु न अनत्तातिपि संसयनाकारो गहितोयेवाति दट्ठब्बं अनिच्चस्स दुक्खभावादिअवस्संभावतो, निच्चे च तदुभयाभावतो. याथावसरसलक्खणतोति अविपरीतसरसतो सलक्खणतो च, किच्चतो चेव सभावतो चाति अत्थो. विपस्सनाय अधिट्ठानभूतापि पञ्ञा विपस्सना एवाति वुत्तं ‘‘विपस्सनापञ्ञाया’’ति. सरसतोति च सभावतो. सलक्खणतोति सामञ्ञलक्खणतो. तेनाह ‘‘विपस्सनापञ्ञाय सम्मा पस्सन्तस्सा’’ति. वुत्तनयेनेवाति ‘‘याथावसरसलक्खणतो’’ति वुत्तनयेनेव. ये येति तस्सं परिसायं ये ये भिक्खू. सल्लक्खेसुन्ति सम्मदेव उपधारेसुं.

तेहीति तेहि भिक्खूहि. तत्थाति तिस्सं विपस्सनापञ्ञायं. नित्तण्हभावन्ति तण्हाभावं ‘‘एतं मम’’न्ति तण्हाग्गाहस्स पहीनतं. एतेनपि भगवा ‘‘अहं, भिक्खवे, धम्मेसुपि तण्हापहानमेव वण्णेमि, साति पन मोघपुरिसो अत्तभावेपि तण्हासंवद्धनिं विपरीतदिट्ठिं पग्गय्ह तिट्ठती’’ति सातिं निग्गण्हाति. सभावदस्सनेनाति धम्मानं अविपरीतसभावदस्सनेन. पच्चयदस्सनेनाति कारणदस्सनेन अनवसेसतो हेतुनो पच्चयस्स च दस्सनेन. अल्लीयेथाति तण्हादिट्ठिवसेन निस्सयेथ. तेनाह ‘‘तण्हादिट्ठीही’’ति. केलायेथाति परिहरणकेळिया परिहरेय्याथ. तेनाह ‘‘कीळमाना विहरेय्याथा’’ति. धनं विय इच्छन्ताति धनं विय द्रब्यं विय इच्छं तण्हं जनेन्ता. तेनाह ‘‘गेधं आपज्जेय्याथा’’ति. ममत्तं उप्पादेय्याथाति ‘‘मममिद’’न्ति तण्हादिट्ठिवसेन अभिनिवेसं जनेय्याथ. निकन्तिवसेनपि गहणत्थाय नो देसितो, तस्स वा सण्हसुखुमस्स विपस्सनाधम्मस्स गहणं नाम निकन्तिया एव सिया, न ओळारिकतण्हायाति वुत्तं ‘‘निकन्तिवसेना’’ति.

४०२. पटिच्च एतस्मा फलं एतीति पच्चयो, सब्बो कारणविसेसोति आह ‘‘खन्धानं पच्चयं दस्सेन्तो’’ति. याव अविज्जा हि सब्बो नेसं कारणविसेसो इध दस्सितो. पुन आदितो पट्ठाय याव परियोसाना, अन्ततो पट्ठाय याव आदीति अनुलोमतो पटिलोमतो च वट्टविवट्टदस्सनवसेन नानानयेहि पटिच्चसमुप्पादो दस्सितो, निच्चग्गाहस्स निमित्तभूतो किलेसोपि इध नत्थीति दीपेति. तम्पि वुत्तत्थमेवाति तम्पि ‘‘इमे च, भिक्खवे, चत्तारो आहारा’’तिआदि याव ‘‘तण्हापभवा’’ति पाळिपदं, ताव वुत्तत्थमेव सम्मादिट्ठिसुत्तवण्णनायं (म. नि. अट्ठ. १.८९). सेसं पटिच्चसमुप्पादकथाभावतो विसुद्धिमग्गे (विसुद्धि. २.५७०) वित्थारितावाति इमिनाव सङ्गहितं.

४०४. इमस्मिं सति इदं होतीतिआदीसु यं वत्तब्बं, तं परमत्थदीपनियं उदानट्ठकथायं (उदा. अट्ठ. १) वुत्तनयेनेव वेदितब्बं.

४०७. पटिधावनाति पटिसरणं, पुब्बे अत्तनो आगतं अतीतं अद्धानं उद्दिस्स तण्हादिट्ठिवसेन पटिगमनन्ति अत्थो. ननु विचिकिच्छावसेन पाळियं पटिधावना आगताति? सच्चं आगता, सा पन तण्हादिट्ठिहेतुकाति ‘‘तण्हादिट्ठिवसेना’’ति वुत्तं. तत्थाति तस्मिं यथाधिगते ञाणदस्सने.

निच्चलभावन्ति सुप्पतिट्ठितभावं, तित्थियवादवातेहि अकम्पियभावञ्च. गरूति गरुगुणयुत्तो. भारिको पासाणच्छत्तसदिसो. अकामा अनुवत्तितब्बोति सद्धामत्तकेनेव अनुवत्तनमाह, न अवेच्चप्पसादेन. किच्चन्ति सत्थुकिच्चं. ब्राह्मणानन्ति जातिमन्तब्राह्मणानं. वतसमादानानीति मगवतादिवतसमादानानि. दिट्ठिकुतूहलानीति तंतंदिट्ठिग्गाहवसेन ‘‘इदं सच्चं, इदं सच्च’’न्तिआदिना गहेतब्बकुतूहलानि. एवं निस्सट्ठानीति यथा मया तुम्हाकं ओवादो दिन्नो, एवं निस्सट्ठानि वतादीनि तं अतिक्कमित्वा किं गण्हेय्याथ. सयं ञाणेन ञातन्ति परनेय्यतं मुञ्चित्वा अत्तनो एव ञाणेन याथावतो ञातं. एवंभूतञ्च सयं पच्चक्खतो दिट्ठं नाम होतीति आह ‘‘सयं पञ्ञाचक्खुना दिट्ठ’’न्ति. सयं विभावितन्ति तेहि भिक्खूहि तस्स अत्थस्स पच्चत्तं विभूतभावं आपादितं. उपनीताति उपक्कमेन धम्मदेसनानुसारेन नीता. मयाति कत्तरि करणवचनं. धम्मेनाति कारणेन. एतं वचनन्ति एतं ‘‘सन्दिट्ठिको’’तिआदिवचनं.

४०८. तं सम्मोहट्ठानं अस्स लोकस्स. समोधानेनाति समागमेन. गब्भति अत्तभावभावेन वत्ततीति गब्भो, कललादिअवत्थो धम्मपबन्धो, तन्निस्सितत्ता पन सत्तसन्तानो ‘‘गब्भो’’ति वुत्तो यथा ‘‘मञ्चा उक्कुट्ठिं करोन्ती’’ति. तन्निस्सयभावतो मातुकुच्छि ‘‘गब्भो’’ति वेदितब्बो, गब्भो वियाति वा. यथा हि निवासट्ठानताय सत्तानं ओवरको ‘‘गब्भो’’ति वुच्चति, एवं गब्भसेय्यकानं याव अभिजाति निवासट्ठानताय मातुकुच्छि ‘‘गब्भो’’ति वुत्तोति.

यमेकरत्तिन्ति यस्सं एकरत्तियं. भुम्मत्थे हि इदं उपयोगवचनं, अच्चन्तसंयोगे वा. पठमन्ति सब्बपठमं पटिसन्धिक्खणे. गब्भेति मातुकुच्छियं. माणवोति सत्तो. येभुय्येन सत्ता रत्तियं पटिसन्धिं गण्हन्तीति रत्तिग्गहणं. अब्भुट्ठितोवाति उट्ठितअब्भो विय, अभिमुखभावेन वा उट्ठितो एव मरणस्साति अधिप्पायो. सो यातीति सो माणवो याति पठमक्खणतो पट्ठाय गच्छतेव. स गच्छं न निवत्ततीति सो एवं गच्छन्तो खणमत्तम्पि न निवत्तति, अञ्ञदत्थु मरणमेव उपगच्छतीति गाथाय अत्थो.

उतुसमयं सन्धाय वुत्तं, न लोकसमञ्ञातरजस्स लग्गनदिवसमत्तं. इदानि वुत्तमेवत्थं पाकटतरं कातुं ‘‘मातुगामस्स किर यस्मि’’न्तिआदि वुत्तं. तत्थाति तस्मिं गब्भासये. सण्ठहित्वाति निब्बत्तित्वा. भिज्जित्वाति अग्गहितगब्भा एव भिन्ना हुत्वा. अयञ्हि तस्सा सभावो. वत्थु सुद्धं होतीति पग्घरितलोहितत्ता अनामयत्ता च गब्भासयो सुद्धो होति. सुद्धवत्थुत्ता ततो परं कतिपयदिवसानि खेत्तमेव होति गब्भसण्ठहनस्स परित्तस्स लोहितलेसस्स विज्जमानत्ता. सम्भवस्स पन कथं सब्भावोति आह ‘‘तस्मिं समये’’तिआदि. इत्थिसन्तानेपि सुक्कधातु लब्भतेव. तेनाह ‘‘अङ्गपरामसनेनपि दारको निब्बत्ततियेवा’’ति. यथा पारिकाय नाभिपरामसनेन सामस्स बोधिसत्तस्स, दिट्ठमङ्गलिकाय नाभिपरामसनेन मण्डब्यस्स निब्बत्ति. गन्धब्बोति गन्धनतो उप्पज्जनगतिया निमित्तुपट्ठापनेन सूचनतो गन्धोति लद्धनामेन भवगामिकम्मुना अब्बति पवत्ततीति गन्धब्बो, तत्थ उप्पज्जनकसत्तो. तेनाह ‘‘तत्रूपगसत्तो’’ति. कम्मयन्तयन्तितोति तत्रूपपत्तिआवहेन कम्मसङ्खातेन पेल्लनकयन्तेन तथत्ताय पेल्लितो उपनीतो. महन्तेन जीवितसंसयेनाति विजायनपरिक्किलेसेन ‘‘जीविस्सामि खो, न नु खो जीविस्सामि अहं वा, पुत्तो वा मे’’ति एवं पवत्तेन जीवितसंसयेन विपुलेन गरुतरेन संसयेन. तं ठानन्ति थनप्पदेसमाह. कीळन्ति तेनाति कीळनं, कीळनमेव कीळनकं.

४०९. सारज्जतीति सारत्तचित्तो होति. ब्यापज्जतीति ब्यापन्नचित्तो होति. काये केसादिद्वत्तिंसासुचिसमुदाये तंसभावारम्मणा सति कायसति. अनुपट्ठपेत्वाति अनुप्पादेत्वा, यथासभावतो कायं अनुपधारेत्वाति अत्थो. परित्तचेतसोति किलेसेहि परितो खण्डितचित्तो. तेनाह ‘‘अकुसलचित्तो’’ति. एते अकुसलधम्मा. निरुज्झन्तीति निरोधं पत्ता होन्ति. तण्हावसेन अभिनन्दतीति सप्पीतिकतण्हावसेन अभिमुखं हुत्वा नन्दति. अभिवदतीति तण्हावसेन तं तं आरम्मणं अभिनिविस्स वदति. अज्झोसायाति अनञ्ञसाधारणं विय आरम्मणं तण्हावसेन अनुपविसित्वा. तेनाह ‘‘गिलित्वा परिनिट्ठपेत्वा’’ति. दुक्खं कथं अभिनन्दतीति एत्थ दुक्खहेतुकं अभिनन्दन्तो दुक्खं अभिनन्दति नामाति दट्ठब्बं. अट्ठकथायं पन यावता यस्स दुक्खे दिट्ठितण्हा अभिनन्दना अप्पहीना, तावतायं दुक्खं अभिनन्दति नामाति दस्सेतुं ‘‘अहं दुक्खितो मम दुक्खन्ति गण्हन्तो अभिनन्दति नामा’’ति वुत्तं. तेन गाहद्वयहेतुका तत्थ अभिनन्दनाति दस्सेति. पुन एकवारन्ति पुनपि एकवारं. फलहेतुसन्धिहेतुफलसन्धिवसेन द्विसन्धी. ‘‘गब्भस्सावक्कन्ति होती’’तिआदिना अत्थतो सरूपतो च एतरहि फलसङ्खेपस्स. सरूपेनेव च इतरद्वयस्स देसितत्ता आह ‘‘तिसङ्खेप’’न्ति.

४१०-४१४. समथयानिकस्स भिक्खुनो वेदनामुखेन सङ्खेपेनेव याव अरहत्ता कम्मट्ठानं इध कथितन्ति आह ‘‘संखित्तेन तण्हासङ्खयविमुत्तिं धारेथा’’ति. ‘‘इमं तण्हासङ्खयविमुत्ति’’न्ति च भगवा यथादेसितं देसनं अवोचाति वुत्तं ‘‘इमं…पे… विमुत्तिदेसन’’न्ति. यदि एवं कथं देसना विमुत्तीति आह ‘‘देसना हि…पे… विमुत्तीति वुत्ता’’ति. यस्सा तण्हाय वसेन साति भिक्खु सस्सतग्गाहमहासङ्घाटपटिमुक्को, सा सब्बबुद्धानं देसना हत्थावलम्बमानेपि दुरुग्घाटिया जाताति आह ‘‘महातण्हाजालतण्हासङ्घाटपटिमुक्क’’न्ति. महातण्हाजालेति महन्ते तण्हाजटे. तण्हासङ्घाटेति तण्हाय सङ्घाटे. तथाभूतो च तस्स अब्भन्तरे कतो नाम होतीति आह ‘‘अनुपविट्ठो अन्तोगधो’’ति. सेसं सुविञ्ञेय्यमेव.

महातण्हासङ्खयसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

९. महाअस्सपुरसुत्तवण्णना

४१५. जानपदिनोति जनपदवन्तो, जनपदस्स वा इस्सरा राजकुमारा गोत्तवसेन अङ्गा नाम. तेसं निवासो यदि एको जनपदो, कथं बहुवचनन्ति आह ‘‘रुळ्हीसद्देना’’ति. अक्खरचिन्तका हि ईदिसेसु ठानेसु युत्ते विय सलिङ्गवचनानि (पाणिनि १.२.५१) इच्छन्ति. अयमेत्थ रुळ्ही यथा ‘‘कुरूसु विहरति, मल्लेसु विहरती’’ति च. तब्बिसेसने पन जनपदसद्दे जातिसद्दे एकवचनमेव. तेनाह ‘‘अङ्गेसु जनपदे’’ति. अस्सा वुच्चन्ति पासाणानि, तानि सुन्दरानि तत्थ सन्तीति ‘‘अस्सपुर’’न्ति सो निगमो वुत्तोति केची. अपरे पन आजानीयो अस्सो रञ्ञो तत्थ गहणं उपगतोति ‘‘अस्सपुर’’न्ति वुत्तोति वदन्ति. किं तेहि, नाममेतं तस्स निगमस्स. यस्मा पन तत्थ भगवतो निबद्धवसनट्ठानं किञ्चि नाहोसि, तस्मा ‘‘तं गोचरगामं कत्वा विहरति’’च्चेव वुत्तं. तथा हि पाळियं ‘‘अस्सपुरं नाम अङ्गानं निगमो’’ति गोचरगामकित्तनमेव कतं.

एवरूपेन सीलेनातिआदीसु सीलग्गहणेन वारित्तसीलमाह. तेन सम्मावाचाकम्मन्ताजीवे दस्सेति. आचारग्गहणेन चारित्तसीलं. तेन परिसुद्धं कायवचीसमाचारं. पटिपत्तिग्गहणेन समथविपस्सनामग्गफलसङ्गहं सम्मापटिपत्तिं. लज्जिनोति इमिना यथावुत्तसीलाचारमूलकारणं. पेसलाति इमिना पारिसुद्धिं. उळारगुणाति इमिना पटिपत्तिया पारिपूरिं. भिक्खुसङ्घस्सेव वण्णं कथेन्तीति इदं तेसं उपासकानं येभुय्येन भिक्खूनं गुणकित्तनपसुतताय वुत्तं. ते पन सद्धम्मेपि सम्मासम्बुद्धेपि अभिप्पसन्ना एव. तेनाह ‘‘बुद्धमामका धम्ममामका’’ति. वत्थुत्तये हि एकस्मिं अभिप्पसन्ना इतरद्वये अभिप्पसन्ना एव तदविनाभावतो. पिण्डपातापचायनेति लक्खणवचनमेतं यथा ‘‘काकेहि सप्पि रक्खितब्ब’’न्ति, तस्मा पच्चयपटिपूजनेति वुत्तं होति. पच्चयदायकानञ्हि कारस्स अत्तनो सम्मापटिपत्तिया महप्फलभावस्स करणं इध ‘‘पिण्डपातापचायन’’न्ति अधिप्पेतं.

समणकरणाति समणभावकरा, समणभावस्स कारकाति अत्थो. ते पन एकन्ततो अत्तनो सन्ताने उप्पादिता वड्ढिता च होन्तीति आह ‘‘समादाय परिपूरिता’’ति. समणग्गहणञ्चेत्थ समणवसेन, न सामञ्ञमत्तेनाति आह ‘‘समितपापसमण’’न्ति. ब्राह्मणकरणाति एत्थापि वुत्तनयेनेवत्थो वेदितब्बो. ब्यञ्जनतो एव चायं भेदो, यदिदं समणब्राह्मणाति, न अत्थतो. समणेन कत्तब्बधम्माति समणधम्मे ठितेन सम्पादेतब्बधम्मा. यो हि हेट्ठिमसिक्खासङ्खातसमणभावे सुप्पतिट्ठितो, तेन ये उपरिसिक्खासङ्खातसमणभावा सम्पादेतब्बा, तेसं वसेनेव वुत्तसमणेन कत्तब्बधम्मा वुत्ताति. तथा हि तेसं समणभावावहतं सन्धायाह ‘‘तेपि च समणकरणा होन्तियेवा’’ति. इध पनाति महाअस्सपुरे. हिरोत्तप्पादिवसेन देसना वित्थारिताति हिरोत्तप्प-परिसुद्धकायवचीमनोसमाचाराजीवइन्द्रियसंवर-भोजनेमत्तञ्ञुत- जागरियानुयोगसतिसम्पजञ्ञ-झानविज्जावसेन समणकरणधम्मदेसना वित्थारतो देसिता, न तिकनिपाते विय सङ्खेपतो. फलग्गहणेनेव विपाकफलं गहितं, तं पन उक्कट्ठनिद्देसेन चतुब्बिधं सामञ्ञफलं दट्ठब्बं. आनिसंसग्गहणेन पियमनापतादिउद्रयो. तस्सेव अत्थोति तस्सेव अवञ्चापदस्सेव अत्थनिद्देसो. ‘‘यस्सा ही’’तिआदिना ब्यतिरेकवसेन अत्थं वदति. एत्तकेन ठानेनाति एत्तकेन पाळिपदेसेन. हिरोत्तप्पादीनं उपरि पाळियं वुच्चमानानं समणकरणधम्मानं. वण्णं कथेसीति गुणं आनिसंसं अभासि. सतिपट्ठाने वुत्तनयेनाति ‘‘अपिच वण्णभणनमेत’’न्तिआदिना सतिपट्ठानवण्णनायं (दी. नि. अट्ठ. २.३७३; म. नि. अट्ठ. १.१०६) वुत्तनयेन.

४१६. यं हिरीयतीति येन धम्मेन हेतुभूतेन वा जिगुच्छति. करणे हेतं पच्चत्तवचनं. न्ति वा लिङ्गविपल्लासेन वुत्तो, धम्मोति अत्थो. हिरीयितब्बेनाति उपयोगत्थे करणवचनं, हिरीयितब्बयुत्तकं कायदुच्चरितादिन्ति अत्थो. ओत्तप्पितब्बेनाति एत्थापि एसेव नयो. अज्झत्तं नियकज्झत्तं जातिआदि समुट्ठानं एतिस्साति अज्झत्तसमुट्ठाना हिरी, बहिद्धा अत्ततो बहिभूतो परसत्तो समुट्ठानं एतिस्साति बहिद्धासमुट्ठानं ओत्तप्पं. अत्ताधिपतितो आगता अत्ताधिपतेय्या, अत्तानं अधिपतिं कत्वा पवत्ता. लज्जासभावसण्ठिताति पापजिगुच्छनसभावट्ठायिनी. सप्पतिस्सवलक्खणत्ता गरुना किस्मिञ्चि वुत्ते गारववसेन पतिस्सवनं पतिस्सवो, सह पतिस्सवेनाति सप्पतिस्सवं, पतिस्सवभूतं तंसभावञ्च यं किञ्चि गारवं. जातिआदिमहत्ततापच्चवेक्खणेन उप्पज्जमाना च हिरी तत्थ गारववसेन पवत्ततीति सप्पतिस्सवलक्खणाति वुच्चति. भयसभावसण्ठितन्ति पापतो भायनसभावट्ठायी, वज्जभीरुकभयदस्साविलक्खणत्ता वज्जं भायति तं भयतो पस्सतीति वज्जभीरुकभयदस्सावी, एवंसभावं ओत्तप्पं. अज्झत्तसमुट्ठानादिता च हिरोत्तप्पानं तत्थ तत्थ पाकटभावेनेव वुच्चति, न परेसं कदाचि अञ्ञमञ्ञविप्पयोगा. न हि लज्जनं निब्भयं, पापभयं वा अलज्जनं होतीति. अयमेत्थ सङ्खेपो, वित्थारो पन अट्ठसालिनियं (ध. स. अट्ठ. १.बलरासिवण्णना) वुत्तनयेनेव वेदितब्बो. लोकमरियादस्स पालनतो लोकपालधम्मा नाम. सुक्काति ओदाता पभस्सरभावकारका, सुक्काभिजातिहेतुताय वा सुक्का. सम्भेदन्ति आचारमरियादासङ्करं. देवभावावहा धम्माति देवधम्मा.

सुक्कधम्मसमाहिताति यथावुत्तसुक्कधम्मसमङ्गिनो. सन्तोति वूपसन्तदोसा. सप्पुरिसाति सन्तजना. सपरहितसाधका हि साधवो.

अवयवविनिमुत्तस्स समुदायस्स अभावतो, अवयवेन च समुदायस्स अपदिसितब्बतो ओवादूपसम्पदावहओवादेकदेसो ओवादूपसम्पदाति. इधाति इमस्मिं अस्सपुरे. एते हिरोत्तप्पधम्मा. समणधम्मा नामाति दस्सिता मूलभूतसमणभावकरा धम्माति कत्वा. तथा हि तेसं आदितो गहणं.

यस्स अधिगमेन निप्परियायतो समणा नाम होन्ति, सो अरियमग्गो ‘‘समणस्स कम्मं पटिपदा’’ति कत्वा सामञ्ञं, तस्स पन फलभावतो, आरम्मणकरणवसेन अरणीयतो फलनिब्बानानि सामञ्ञत्थो. रागं खेपेतीति रागक्खयो, अरियमग्गो. रागो खीयति एत्थाति रागक्खयो, निब्बानं. फलं पन कारणूपचारेन रागक्खयो दट्ठब्बो. दोसक्खयो मोहक्खयोति एत्थापि एसेव नयो. सामञ्ञभूतो अत्थो सामञ्ञत्थो, मग्गो, सामञ्ञस्स अत्थोति सामञ्ञत्थो, फलन्ति आह ‘‘मग्गम्पि फलम्पि एकतो कत्वा सामञ्ञत्थो कथितो’’ति. तयिदं उक्कट्ठनिद्देसेन वुत्तं. सीलादिपुब्बभागपटिपदापि हि इध ‘‘सामञ्ञत्थो’’ति गहिता. तेनेवाह ‘‘सति उत्तरिकरणीये’’ति. पटिवेदयामीति पुनप्पुनं ञापेमि.

४१७. कम्मपथवसेनेवाति अकुसलकम्मपथभावेनेव, ततो तादिसम्पि अकुसलकम्मं भिक्खुस्स कातुं न युत्तन्ति दुट्ठुल्लभावेनेव ततो ओरमतीति अधिप्पायो. सिक्खापदबद्धेनाति सिक्खापदपञ्ञापनेन. पानीयघटे वा पत्ते वा काकानं हत्थं वा दण्डं वा लेड्डुं वाति सब्बमिदं निदस्सनमत्तं दट्ठब्बं. यत्थ कत्थचि हि ठितानं अञ्ञेसम्पि पाणीनं उट्ठापनादि सब्बं अनिट्ठकरणं इध अपरिसुद्धकायसमाचारभावेनेव सङ्गहितन्ति. उत्तानोति उद्धमुद्धं तनोतीति उत्तानो. एवंभूतो च केनचि अनुप्पादभूमियं सञ्जातसालकल्याणीखन्धो विय उपरूपरि उग्गतुग्गतो पाकटो च होतीति आह ‘‘उग्गतो पाकटो’’ति. अनावटोति अनिवुतो. तेनाह ‘‘असञ्छन्नो’’ति, नच्छादेतब्बोति अत्थो. एकसदिसो विसुद्धभावेन. अन्तरन्तरे छिद्दरहितो पुब्बेनापरं सम्मापटिपत्तिया सन्धानेन. संवुतो कायिकस्स संवरस्स अनुपक्किलेसतो. तेनाह ‘‘किलेसानं द्वारं पिदहनेना’’ति.

४१८. एत्थ यथा लहुकतरं काकुट्ठापनादिकायकम्मं कायसमाचारस्स अपरिसुद्धभावावहं सल्लेखविकोपनतो, मिच्छावितक्कनमत्तञ्च मनोसमाचारस्स, एवं यं किञ्चि अनिय्यानकथाकथनमत्तं वचीसमाचारस्स अपरिसुद्धभावावहं सल्लेखविकोपनतो, न हसाधिप्पायेन मुसाकथनन्ति दट्ठब्बं. हसाधिप्पायेन हि मुसाकथनं सिक्खापदबद्धेनेव पटिक्खित्तन्ति.

४२०. आजीवोपि एकच्चो कम्मपथवसेन वारितो लब्भति. सो पन अतिओळारिको कायवचीसमाचारवारेसु वुत्तनयो एवाति न गहितोति दट्ठब्बं. ये पन ‘‘तादिसो भिक्खूनं अयोग्यतो न गहितो’’ति वदन्ति, तं मिच्छा तथा सति कायवचीसमाचारवारेपि तस्स अग्गहेतब्बभावापत्तितो. ‘‘खादथ पिवथा’’ति पुच्छा अत्तनो खादितुकामतादीपनेन, परियायकथाभावतो पनेसा सल्लेखविकोपना जाता.

४२२. अनेसनं पहाय धम्मेन समेन पच्चये परियेसन्तो परियेसनमत्तञ्ञू नाम. दायकस्स देय्यधम्मस्स अत्तनो च पमाणञ्ञुतापटिग्गण्हन्तो पटिग्गहणमत्तञ्ञू नाम. योनिसो पच्चवेक्खित्वा परिभुञ्जन्तो परिभोगमत्तञ्ञू नाम.

४२३. एकस्मिं कोट्ठासेति मज्झिमयामसञ्ञिते एकस्मिं कोट्ठासे. ‘‘वामेन पस्सेन सेन्ती’’ति एवं वुत्ता. दक्खिणपस्सेन सयानो नाम नत्थि दक्खिणहत्थस्स सरीरग्गहणादिपयोगक्खमतो. पुरिसवसेन चेतं वुत्तं.

तेजुस्सदत्ताति इमिना सीहस्स अभीरुकभावं दस्सेति. भीरुका हि सेसमिगा अत्तनो आसयं पविसित्वा सन्तासपुब्बकं यथा तथा सयन्ति, सीहो पन अभीरुकभावतो सतोकारी भिक्खु विय सतिं उपट्ठपेत्वाव सयति. तेनाह ‘‘द्वे पुरिमपादे’’तिआदि. सेति अब्यावटभावेन पवत्तति एत्थाति सेय्या, चतुत्थज्झानमेव सेय्या. किं पन तं चतुत्थज्झानन्ति? आनापानचतुत्थज्झानं. तत्थ हि ठत्वा विपस्सनं वड्ढेत्वा भगवा अनुक्कमेन अग्गमग्गं अधिगतो तथागतो जातोति केचि, तयिदं पदट्ठानं नाम न सेय्या. अपरे पन ‘‘चतुत्थज्झानसमनन्तरा भगवा परिनिब्बायी’’ति वुत्तपदं गहेत्वा ‘‘लोकियचतुत्थज्झानसमापत्ति तथागतसेय्या’’ति वदन्ति, तथा सति परिनिब्बानकालिका तथागतसेय्याति आपज्जति, न च भगवा चतुत्थज्झानं समापज्जनबहुलो विहासि, अग्गफलझानं पनेत्थ ‘‘चतुत्थज्झान’’न्ति अधिप्पेतं. तत्थ यथा सत्तानं निद्दुपगमनलक्खणा सेय्या भवङ्गचित्तवारवसेन होति, तञ्च तेसं पठमजातिसमन्वयं येभुय्यवुत्तिकं, एवं भगवतो अरियजातिसमन्वयं येभुय्यवुत्तिकं अग्गफलभूतं चतुत्थज्झानं ‘‘तथागतसेय्या’’ति वेदितब्बं. सीहसेय्याति सेट्ठसेय्याति आह ‘‘उत्तमसेय्या’’ति.

४२६. विगतन्तानीति इणमूलानि. तेसन्ति इणमूलानं. परियन्तोति अवसेसो.

पवत्तिनिवारणेन चतुइरियापथं छिन्दन्तो. आबाधतीति पीळेति. दुक्खितोति सञ्जातदुक्खो. अप्पं बलं बलमत्ता. अप्पत्थो हि अयं मत्ता-सद्दो ‘‘मत्तासुखपरिच्चागा’’तिआदीसु (ध. प. २९०) विय, बलवत्थो पन मत्ता-सद्दो अनत्थन्तरो. सेसन्ति ‘‘तस्स हि बन्धना मुत्तोम्हीति आवज्जयतो तदुभयं होती’’तिआदिना वत्तब्बं सन्धायाह. सब्बपदेसूति वुत्तावसिट्ठेसु सब्बपदेसु. येनकामं यथारुचि गच्छतीति येनकामंगमोति अनुनासिकलोपं अकत्वा निद्देसो. भुजो अत्तनो यथासुखविनियोगो इस्सो इच्छितब्बो एत्थाति भुजिस्सो, सामिको. सो पन अपरसन्तकताय ‘‘अत्तनो सन्तको’’ति वुत्तो. दुल्लभआपताय कं तारेन्ति एत्थाति कन्तारोति आह ‘‘निरुदकं दीघमग्ग’’न्ति.

विनासेतीति खादनदुब्बिनियोजनादीहि यथा इणमूलं किञ्चि न होति, तथा करोति. यम्हि रागवत्थुम्हि. सो पुग्गलो. तेन रागवत्थुना, पुरिसो चे इत्थिया, इत्थी चे पुरिसेन. इणं विय कामच्छन्दो दट्ठब्बो पीळासमानतो.

न विन्दतीति न जानाति. उपद्दवेथाति सुखविहारस्स उपद्दवं करोथ, विबाधेथाति अत्थो. रोगो विय ब्यापादो दट्ठब्बो सुखभञ्जनसमानतो.

नानाविधहेतूपायालङ्कतताय खन्धायतनधातुपटिच्चसमुप्पादादिधम्मनीतिविचित्तताय च विचित्तनये. धम्मस्सवनेति धम्मकथायं. कथा हि सोतब्बट्ठेन ‘‘सवन’’न्ति वुत्ता. एवमेत्थ सीलं विभत्तं, एवं झानाभिञ्ञा, एवं विपस्सनामग्गफलानीति नेव तस्स धम्मस्सवनस्स आदिमज्झपरियोसानं जानाति. उट्ठितेति निट्ठिते. अहो कारणन्ति तत्थ तत्थ पटिञ्ञानुरूपेन निक्खित्तसाधनवसेन गहितकारणं. अहो उपमाति तस्सेव कारणस्स पतिट्ठापनवसेन अन्वयतो ब्यतिरेकतो च पतिट्ठं उदाहरणादि. बन्धनागारं विय थिनमिद्धं दट्ठब्बं दुक्खतो निय्यानस्स विबन्धनतो.

यस्मा कुक्कुच्चनीवरणं उद्धच्चरहितं नत्थि, यस्मा वा उद्धच्चकुक्कुच्चं समानकिच्चाहारपटिपक्खं, तस्मा कुक्कुच्चस्स विसयं दस्सेन्तो ‘‘विनये अपकतञ्ञुना’’तिआदिमाह. यथा हि उद्धच्चं सत्तस्स अवूपसमकरं, तथा कुक्कुच्चम्पि. यथापि उद्धच्चस्स ञातिवितक्कादि आहारो, तथा कुक्कुच्चस्सपि. यथा च उद्धच्चस्स समथो पटिपक्खो, तथा कुक्कुच्चस्सपीति. दासब्यं विय उद्धच्चकुक्कुच्चं दट्ठब्बं असेरिभावापादनतो.

सोळसवत्थुका विचिकिच्छा अट्ठवत्थुकं विचिकिच्छं अनुपविट्ठाति आह ‘‘अट्ठसु ठानेसु विचिकिच्छा’’ति. विचिकिच्छन्तोति संसयन्तो. अधिमुच्चित्वाति पत्तियायेत्वा. गण्हितुन्ति सद्धेय्यवत्थुं परिग्गहेतुं. अभिमुखं सप्पनं आसप्पनं, परितो सप्पनं परिसप्पनं. पदद्वयेनपि चित्तस्स अनिच्छनाकारमेव वदति. खेमन्तगामिमग्गं न परियोगाहति एतेनाति अपरियोगाहनं, उस्सङ्कितपरिसङ्कितभावेन छम्भितं होति चित्तं यस्स धम्मस्स वसेन, सो धम्मो छम्भितत्तन्ति विचिकिच्छनाकारमाह. तेनाह ‘‘चित्तस्स उप्पादयमाना’’ति. कन्तारद्धानमग्गो वियाति सासङ्ककन्तारद्धानमग्गो विय दट्ठब्बा अप्पटिपत्तिहेतुभावतो.

नत्थि एत्थ इणन्ति अणणो, तस्स भावो आणण्यं, कस्सचि इणस्स अधारणं. समिद्धकम्मन्तोति निप्फन्नजीविकप्पयोगो. परिबुन्धति उपरोधेतीति र-कारस्स ल-कारं कत्वा पलिबोधो, असेरिविहारो, तस्स मूलं कारणन्ति पलिबोधमूलं. छ धम्मे भावेत्वाति असुभनिमित्तग्गाहादिके छ धम्मे उप्पादेत्वा वड्ढेत्वा. छ धम्मे भावेत्वाति च मेत्तानिमित्तग्गाहादयो च तत्थ तत्थ छ धम्माति वुत्ताति वेदितब्बो. पजहतीति विक्खम्भनवसेन पजहति. तेनाह ‘‘आचारपण्णत्तिआदीनि सिक्खापियमानो’’तिआदि. परवत्थुम्हीति विसभागवत्थुस्मिं, परविसये वा. परविसया हेते भिक्खुनो, यदिदं पञ्च कामगुणा. आणण्यमिव कामच्छन्दप्पहानं आह पियवत्थुअभावावहतो.

आचारविपत्तिपटिबाहकानि सिक्खापदानि आचारपण्णत्तिआदीनि. आरोग्यमिव ब्यापादप्पहानं आह कायचित्तानं फासुभावावहतो.

बन्धना मोक्खमिव थिनमिद्धप्पहानं आह चित्तस्स निग्गहितभावावहतो.

भुजिस्सं विय उद्धच्चकुक्कुच्चप्पहानं आह चित्तस्स सेरिभावावहतो.

तिणं वियाति तिणमिव कत्वा. अगणेत्वाति अचिन्तेत्वा. खेमन्तभूमिं विय विचिकिच्छापहानं आह अनुस्सङ्कितापरिसङ्कितभावेन सम्मापटिपत्तिहेतुभावतो.

४२७. किरीयति (अ. नि. टी. ३.५.२८-२९) गब्भासये खिपीयतीति करो, सम्भवो, करतो जातोति करजो, मातापेत्तिकसम्भवोति अत्थो. मातुया हि सरीरसण्ठापनवसेन करतो जातोति करजोति अपरे. उभयथापि करजकायन्ति चतुसन्ततिरूपमाह. तेमेतीति तिन्तं करोति. को पनेत्थ तिन्तभावोति आह ‘‘स्नेहेती’’ति, पीतिस्नेहेन पीणनं करोतीति अत्थो. तेनाह ‘‘सब्बत्थ पवत्तपीतिसुखं करोती’’ति. पीतिसमुट्ठानपणीतरूपेहि सकलस्स करजकायस्स परिफुटताय चेत्थ तंसमुट्ठापकपीतिसुखानं सब्बत्थ पवत्ति जोतिता. परिसन्देतीतिआदीसुपि एसेव नयो. तत्थापि हि ‘‘समन्ततो सन्देति तेमेति स्नेहेति, सब्बत्थ पवत्तपीतिसुखं करोती’’तिआदिना यथारहं अत्थो वेदितब्बो. परिपूरेतीति वायुना भस्तं विय इमं करजकायं पीतिसुखेन पूरेति. समन्ततो फुसतीति इमं करजकायं पीतिसुखेन फुसति. सब्बावतोति अ-कारस्स आ-कारो कतो, सब्बावयववतोति अत्थोति आह ‘‘सब्बकोट्ठासवतो’’ति, मंसादिसब्बाभागवतोति अत्थो. अफुटं नाम न होति पीतिसुखसमुट्ठानेहि रूपेहि सब्बत्थकमेव ब्यापितत्ता. कातुञ्चेव योजेतुञ्च छेको सन्नेतुं पटिबलोति योजना. न्हानीयचुण्णानं परिमद्दनवसेन पिण्डं करोन्तेन हत्थेन भाजनं निप्पीळेतब्बं होतीति आह ‘‘सन्नेन्तस्स भिज्जती’’ति. अनुगताति अनुपविट्ठा. परिगताति परितो समन्ततो तिन्ता. तिन्तभावेनेव समं अन्तरं बाहिरञ्च एतिस्साति सन्तरबाहिरा. सब्बत्थकमेवाति सब्बत्थेव. न च पग्घरिणी पमाणयुत्तस्सेव उदकस्स सित्तत्ता. एत्थ च न्हानीयपिण्डं विय करजकायो, तं तेमेत्वा सम्पिण्डितपमाणयुत्तउदकं विय पठमज्झानसुखं दट्ठब्बं.

४२८. हेट्ठा उब्भिज्जित्वा उग्गच्छनउदकोति रहदस्स अधोथूलधारावसेन उब्भिज्ज उट्ठहनउदको. अन्तोयेव उब्भिज्जनउदकोति रहदस्स अब्भन्तरेयेव थूलधारा अहुत्वा उट्ठितउदकसिरामुखेहि उब्भिज्जनको. आगमनमग्गोति नदीतळाककन्दरसरआदितो आगमनमग्गो.

४२९. उप्पलगच्छानि एत्थ सन्तीति उप्पलिनी (अ. नि. टी. ३.५.२८-२९), वारि. अयमेत्थ विनिच्छयो, तथा हि लोके रत्तक्खिको ‘‘पुण्डरीकक्खो’’ति वुच्चति. केचि पन ‘‘रत्तं पदुमं, सेतं पुण्डरीक’’न्ति वदन्ति. उप्पलादीनि विय करजकायो, उदकं विय ततियज्झानसुखन्ति अयम्पि अत्थो ‘‘पुरिमनयेना’’ति अतिदेसेनेव विभावितोति दट्ठब्बं.

४३०. निरुपक्किलेसट्ठेनाति रजोजल्लादिना अनुपक्किलिट्ठताय अमलीनभावेन. अमलीनम्पि किञ्चि वत्थु पभस्सरसभावं होतीति वुत्तं ‘‘पभस्सरट्ठेना’’ति. उतुफरणन्ति उण्हउतुफरणं. सब्बत्थकमेव झानसुखेन फुट्ठो करजकायो यथा उतुना फुट्ठवत्थसदिसोति आह ‘‘वत्थं विय करजकायो’’ति. तस्माति ‘‘वत्थं विया’’तिआदिना वुत्तमेवत्थं हेतुभावेन पच्चामसति, करजकायस्स वत्थसदिसत्ता चतुत्थज्झानसुखस्स च उतुफरणसदिसत्ताति अत्थो. सन्तसभावत्ता ञाणुत्तरत्ता चेत्थ उपेक्खापि सुखे सङ्गहिताति चतुत्थज्झानेपि सुखग्गहणं कतं. ‘‘परिसुद्धेन परियोदातेन फरित्वा निसिन्नो होती’’ति वचनतो चतुत्थज्झानचित्तस्स वत्थसदिसता वुत्ता. चतुत्थज्झानसमुट्ठानरूपेहि भिक्खुनो कायस्स फुटभावं सन्धाय ‘‘तंसमुट्ठानरूपं उतुफरणं विया’’ति वुत्तं. पुरिसस्स कायो विय भिक्खुनो करजकायोति अयं पनत्थो पाकटोति न गहितो, गहितो एव वा ‘‘यथा हि कत्थचि…पे… कायो फुटो होती’’ति वुत्तत्ता.

४३१. पुब्बेनिवासञाणउपमायन्ति पुब्बेनिवासञाणस्स दस्सितउपमायं. तंदिवसंकतकिरियागहणं पाकतिकसत्तस्सपि येभुय्येन पाकटा होतीति दस्सनत्थं. तंदिवसगतगामत्तयग्गहणेनेव महाभिनीहारेहि अञ्ञेसम्पि पुब्बेनिवासञाणलाभीनं तीसु भवेसु कता किरिया येभुय्येन पाकटा होतीति दीपितन्ति दट्ठब्बं.

४३२. सम्मुखद्वाराति अञ्ञमञ्ञस्स अभिमुखद्वारा. अपरापरं सञ्चरन्तेति तंतंकिच्चवसेन इतो चितो च सञ्चरन्ते. इतो पन गेहा…पे… पविसनवसेनपीति इदं चुतूपपातञाणस्स विसयदस्सनवसेन वुत्तं. द्विन्नं गेहानं अन्तरे ठत्वाति द्विन्नं गेहद्वारानं सम्मुखट्ठानभूते अन्तरवीथियं वेमज्झे ठत्वा. तेसु हि एकस्स चे पाचीनमुखद्वारं इतरस्स पच्छिममुखं, तस्स सम्मुखं उभिन्नं अन्तरवीथियं ठितस्स दक्खिणामुखस्स, उत्तरामुखस्स वा चक्खुमतो पुरिसस्स तत्थ पविसनकनिक्खमनकपुरिसा यथा सुखेनेव पाकटा होन्ति, एवं दिब्बचक्खुञाणसमङ्गिनो चवनकउपपज्जनकपुरिसा. यथा पन तस्स पुरिसस्स अञ्ञेनेव खणेन पविसन्तस्स दस्सनं, अञ्ञेन निक्खमन्तस्स दस्सनं, एवं इमस्सपि अञ्ञेनेव खणेन चवमानस्स दस्सनं, अञ्ञेन उपपज्जमानस्स दस्सनन्ति दट्ठब्बं. ञाणस्स पाकटाति आनेत्वा सम्बन्धो. तस्साति ञाणस्स.

४३३. पब्बतसिखरं येभुय्येन संखित्तं सङ्कुचितं होतीति इध पब्बतमत्थकं ‘‘पब्बतसङ्खेपो’’ति वुत्तं, पब्बतपरियापन्नो वा पदेसो पब्बतसङ्खेपो. अनाविलोति अकालुस्सो. सा चस्स अनाविलता कद्दमाभावेन होतीति आह ‘‘निक्कद्दमो’’ति. ठितासुपि निसिन्नासुपि गावीसु. विज्जमानासूति लब्भमानासु. इतरा ठितापि निसिन्नापि चरन्तीति वुच्चन्ति सहचरणञायेन. तिट्ठन्तमेव, न कदाचिपि चरन्तं. द्वयन्ति सिप्पिसम्मुकं मच्छगुम्बन्ति इमं उभयं तिट्ठन्तन्ति वुत्तं, चरन्तम्पीति अधिप्पायो. किं वा इमाय सहचरियाय, यथालाभग्गहणं पनेत्थ दट्ठब्बं. सक्खरकथलस्स हि वसेन ‘‘तिट्ठन्त’’न्ति, सिप्पिसम्बुकस्स मच्छगुम्बस्स च वसेन ‘‘तिट्ठन्तम्पि, चरन्तम्पी’’ति योजना कातब्बा.

४३४. भिक्खूति भिन्नकिलेसोति भिक्खु. सो हि परमत्थतो समणोतिनामको. तत्थ अरियमग्गेन सब्बसो पापानं समितावीति समणो. तेनाह ‘‘समितपापत्ता’’ति. सेट्ठट्ठेन ब्रह्मा वुच्चति सम्मासम्बुद्धो, ततो आगतोति ब्रह्मा, अरियमग्गो, तं असम्मोहपटिवेधवसेन अञ्ञासीति ब्राह्मणो. तंसमङ्गिताय हिस्स पापानं बाहितभावो. तेनाह ‘‘बाहितपापत्ता ब्राह्मणो’’ति. अट्ठङ्गिकेन अरियमग्गजलेन न्हातवा निद्धोतकिलेसोति न्हातको. गतत्ताति पहानाभिसमयवसेन पटिविद्धत्ता. तेनाह ‘‘विदितत्ता’’ति. निस्सुतत्ताति समुच्छेदप्पहानवसेन सन्तानतो सब्बसो निहतत्ता. तेनाह ‘‘अपहतत्ता’’ति, मरियादवसेन किलेसानं हिंसितत्ता अरियमग्गेहि ओधिसो सब्बसो किलेसानं समुच्छिन्नत्ताति अत्थो. तेनाह ‘‘हतत्ता’’ति. आरकत्ताति सुप्पहीनताय विप्पकट्ठभावतो. तेनाह ‘‘दूरीभूतत्ता’’ति. उभयम्पि उभयत्थ योजेतब्बं – किलेसानं आरकत्ता हतत्ता दूरीभूतत्ता च अरियो, तथा अरहन्ति. यं पनेत्थ अत्थतो न विभत्तं, तं उत्तानत्थत्ता सुविञ्ञेय्यमेव.

महाअस्सपुरसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

१०. चूळअस्सपुरसुत्तवण्णना

४३५. पुरिमसदिसमेवाति ‘‘अस्सपुरवासीनं भिक्खुसङ्घे गारवबहुमानं निपच्चकारञ्च दिस्वा भिक्खू पिण्डपातापचायने नियोजेन्तो इदं सुत्तं अभासी’’ति पुरिमसुत्ते महाअस्सपुरे (म. नि. अट्ठ. २.४१५) वुत्तसदिसमेव. समणानं अनुच्छविकाति समणानं समणभावस्स अनुच्छविका पतिरूपा. समणानं अनुलोमप्पटिपदाति समणानं सामञ्ञसङ्खातस्स अरियमग्गस्स अनुकूलप्पटिपदा.

४३६. एते धम्माति एते पाळियं आगता अभिज्झाब्यापादादयो पापधम्मा. उप्पज्जमानाति उप्पज्जमाना एव, पगेव सन्ताने भाविता. मलिनेति मलवन्ते किलिट्ठे. मलग्गहितेति गहितमले सञ्जातमले. समणमलाति समणानं समणभावस्स मला. दुस्सन्तीति विपज्जन्ति विनस्सन्ति. समणदोसाति समणानं समणभावदूसना. कसटेति असारे. निरोजेति नित्तेजे. अयतो सुखतो अपेताति अपाया, निरयादयो, तं फलं अरहन्ति, तं पयोजनं वा एतेसन्ति आपायिका. ठानानि अभिज्झादयो. तेनाह ‘‘अपाये’’तिआदि. कारणभावेन दुग्गतिपरियापन्नाय वेदनाय हितानीति दुग्गतिवेदनियानि. तेन वुत्तं ‘‘दुग्गतियं विपाकवेदनाय पच्चयान’’न्ति. तिखिणं अयन्ति वेकन्तकसदिसं सारअयं. अयेनाति अयोघंसकेन. कोञ्चसकुणानं किर कुच्छियं निवुत्थं यं किञ्चि खरं तिखिणञ्च होति. तथा हि तेसं वच्चं अट्ठिम्पि पासाणम्पि विलीयापेति. तेन वुत्तं ‘‘कोञ्चसकुणे खादापेन्ती’’ति. तं किर अयचुण्णं अग्गिनापि किच्छेन दय्हति, भेसज्जबलेन पन सुखेन दय्हेय्य. तेन वुत्तं ‘‘सुसिक्खिता च नं अयकारा बहुहत्थकम्ममूलं लभित्वा करोन्ती’’तिआदि. अतितिखिणं होति, अञ्ञतरं अयोबन्धनं फेग्गुदण्डं विय सुखेनेव छिन्दन्ति. ससबिळारचम्मेहि सङ्घटितट्ठेन सङ्घाटीति वुच्चति आवुधपरिच्छदोति आह ‘‘सङ्घाटियाति कोसिया’’ति. परियोनद्धन्ति परितो ओनद्धं छादितं. समन्ततो वेठितन्ति सब्बसो पिहितं.

४३७. रजोति आगन्तुकरजो. जल्लन्ति सरीरे उट्ठानकलोणादिमलं. रजोजल्लञ्च वतसमादानवसेन अनपनीतं एतस्स अत्थीति रजोजल्लिको, तस्स. तेनाह ‘‘रजोजल्लधारिनो’’ति. उदकं ओरोहन्तस्सातिआदीनमत्थो महासीहनादसुत्तवण्णनायं वुत्तोयेव. सब्बमेतन्तिआदीसु सब्बसोपि वतसमादानवसेनाति अधिप्पायो. यस्मा सब्बमेतं बाहिरसमयवसेनेव कथितं, तस्मा सङ्घाटिकस्साति पिलोतिकखण्डेहि सङ्घटितत्ता ‘‘सङ्घाटी’’ति लद्धनामवत्थधारिनोति अत्थो. तथा हि पाळियं ‘‘सङ्घाटिकस्स’’इच्चेव वुत्तं, न ‘‘भिक्खुनो’’ति. तेनाह ‘‘इमस्मिं ही’’तिआदि. कस्मा पनेत्थ भगवता सङ्घाटिकत्तादीनियेव वतसमादानानि पटिक्खित्तानीति? नयदस्सनमेतं अञ्ञेसम्पि पञ्चातपमूगवतादीनं तप्पटिक्खेपेनेव पसिद्धितो. अपरे पन भणन्ति – ‘‘नाहं, भिक्खवे, सङ्घाटिकस्स सङ्घाटिधारणमत्तेन सामञ्ञं वदामी’’ति वुत्ते तत्थ निसिन्नो कोचि तित्थन्तरलद्धिको अचेलकत्तं नु खो कथन्ति चिन्तेसि, अपरे रजोजल्लकत्तं नु खो कथन्ति, एवं तं तं चिन्तेन्तानं अज्झासयवसेन भगवा इमानेव वतसमादानानि इध पटिक्खिपीति. सङ्घाटिकन्ति निवासनपारुपनवसेन सङ्घाटिवन्तं. तेनाह ‘‘सङ्घाटिकं वत्थ’’न्तिआदि. अत्तनो रुचिया मित्तादयो सङ्घाटिकं करेय्युं, पच्छा विञ्ञुतं पत्तकाले सङ्घाटिकत्ते समादपेय्युं.

४३८. अत्तानं विसुज्झन्तं पस्सति अभिज्झादीनं समुदाचाराभावतो. मग्गेन असमुच्छिन्नत्ता विसुद्धोति पन न वत्तब्बो. पामोज्जन्ति तरुणपीतिमाह. तस्स हि अत्तनो सम्मापटिपत्तिया किलेसानं विक्खम्भितत्ता चित्तस्स विसुद्धतं पस्सन्तस्स पामोज्जं जायति, तं तुट्ठाकारं. तेनाह ‘‘तुट्ठाकारो’’ति. पीतीति पस्सद्धिआवहा बलवपीति. नामकायो पस्सम्भतीति इमिना उभयम्पि पस्सद्धिं वदति. वेदियतीति अनुभवति विन्दति. इदानि तेन नीवरणेहि चित्तस्स विसोधनत्तं लद्धन्ति आह ‘‘अप्पनाप्पत्तं विय होती’’ति. अञ्ञत्थ उट्ठिता अञ्ञं ठानं उपगताति एत्तकेन उपमाभावेन उच्चनीचतासामञ्ञेन हेट्ठा असद्धम्मानं पटिपक्खवसेन देसनाय परियोसापितत्ता वुत्तं ‘‘यथानुसन्धिना’’ति. महासीहनादसुत्ते मग्गो पोक्खरणिया उपमितो ‘‘सेय्यथापि, सारिपुत्त, पोक्खरणी’’तिआदिं (म. नि. १.१५४) आरभित्वा उपमासंसन्दने ‘‘तथायं पुग्गलो पटिपन्नो, तथा च इरियति, तञ्च मग्गं समारुळ्हो, यथा आसवानं खया’’ति (म. नि. १.१५४) वुत्तत्ता. यथा हि पुरत्थिमादिदिसाहि आगता पुरिसा तं पोक्खरणिं आगम्म विसुद्धरूपकाया विगतपरिळाहा च होन्ति, एवं खत्तियादिकुलतो आगता तथागतप्पवेदितं धम्मविनयं सासनं आगम्म विसुद्धनामकाया विगतकिलेसपरिळाहा च होन्ति. तस्मा सब्बकिलेसानं समितत्ता परमत्थसमणो होतीति. सेसं सुविञ्ञेय्यमेव.

चूळअस्सपुरसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

निट्ठिता च महायमकवग्गवण्णना.

५. चूळयमकवग्गो

१. सालेय्यकसुत्तवण्णना

४३९. महाजनकाये सन्निपतितेति केचि ‘‘पहंसनविधिं दस्सेत्वा राजकुमारं हासेस्सामा’’ति, केचि ‘‘तं कीळनं पस्सिस्सामा’’ति एवं महाजनसमूहे सन्निपतिते. देवनटन्ति दिब्बगन्धब्बं. कुसलं कुसलन्ति वचनं उपादायाति ‘‘कच्चि कुसलं? आम कुसल’’न्ति वचनपटिवचनवसेन पवत्तकुसलवादिताय ते मनुस्सा आदितो कुसलाति समञ्ञं लभिंसु. तेसं कुसलानं इस्सराति राजकुमारा कोसला. कोसले जाता. तेसं निवासोति सब्बं पुब्बे वुत्तनयमेव. तेनाह ‘‘सो पदेसो कोसलाति वुच्चती’’ति.

चारिकं चरमानोति सामञ्ञवचनम्पि ‘‘महता…पे… तदवसरी’’ति वचनतो विसेसं निविट्ठमेवाति आह ‘‘अतुरितचारिकं चरमानो’’ति. महताति गुणमहत्तेनपि सङ्ख्यामहत्तेनपि महता. तस्मिञ्हि भिक्खुसमूहे केचि अधिसीलसिक्खावसेन सीलसम्पन्ना, तथा केचि सीलसमाधिसम्पन्ना, केचि सीलसमाधिपञ्ञासम्पन्नाति गुणमहत्तेनपि सो भिक्खुसमूहो महाति. तं अनामसित्वा सङ्ख्यामहत्तमेव दस्सेन्तो ‘‘सतं वा’’तिआदिमाह. अञ्ञगामपटिबद्धजीविकावसेन समोसरन्ति एत्थाति समोसरणं, गामो निवासगामो. न्ति सालं ब्राह्मणगामं. विहारोति भगवतो विहरणट्ठानं. एत्थाति एतस्मिं सालेय्यकसुत्ते. अनियमितोति असुकस्मिं आरामे पब्बते रुक्खमूले वाति न नियमितो, सरूपग्गहणवसेन न नियमित्वा वुत्तो. तस्माति अनियमितत्ता. अत्थापत्तिसिद्धमत्थं परिकप्पनवसेन दस्सेन्तो ‘‘वनसण्डो भविस्सती’’ति आह, अद्धा भवेय्याति अत्थो.

उपलभिंसूति (सारत्थ. टी. १.१.वेरञ्जकण्डवण्णना; दी. नि. टी. १.२५५; अ. नि. टी. २.३.६४) सवनवसेन उपलभिंसूति इममत्थं दस्सेन्तो ‘‘सोतद्वार…पे… जानिंसू’’ति आह. अवधारणफलत्ता सब्बम्पि वाक्यं अन्तोगधावधारणन्ति आह ‘‘पदपूरणमत्ते वा निपातो’’ति. अवधारणत्थेति पन इमिना इट्ठत्थावधारणत्थं खो-सद्दग्गहणन्ति दस्सेति. ‘‘अस्सोसु’’न्ति पदं खो-सद्दे गहिते तेन फुल्लितमण्डितविभूसितं विय होन्तं पूरितं नाम होति, तेन च पुरिमपच्छिमपदानि संसिलिट्ठानि होन्ति, न तस्मिं अग्गहितेति आह ‘‘पदपूरणेन ब्यञ्जनसिलिट्ठतामत्तमेवा’’ति. मत्त-सद्दो विसेसनिवत्तिअत्थो. तेनस्स अनत्थन्तरदीपनतं दस्सेति, एव-सद्देन पन ब्यञ्जनसिलिट्ठताय एकन्तिकतं. सालायं जाता संवड्ढका सालेय्यका यथा ‘‘कत्तेय्यका उब्भेय्यका’’ति.

समितपापत्ताति अच्चन्तं अनवसेसतो सवासनं समितपापत्ता. एवञ्हि बाहिरकवीतरागसेक्खासेक्खपापसमनतो भगवतो पापसमनं विसेसितं होति. अनेकत्थत्ता निपातानं इध अनुस्सवत्थो अधिप्पेतोति आह ‘‘खलूति अनुस्सवनत्थे निपातो’’ति. आलपनमत्तन्ति पियालापवचनं. पियसमुदाहारा हेते ‘‘भो’’ति वा ‘‘आवुसो’’ति वा ‘‘देवानंपिया’’ति वा. गोत्तवसेनाति एत्थ तं तायतीति गोत्तं. गोतमोति हि पवत्तमानं अभिधानं बुद्धिञ्च एकंसिकविसयताय तायति रक्खतीति गोतमगोत्तं. यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, एवं अभिधानं अभिधेय्यभूतेन, तस्मा सो तानि तायति रक्खतीति वुच्चति. सो पन अत्थतो अञ्ञकुलपरम्परासाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्नसाधारणं सामञ्ञरूपन्ति दट्ठब्बं. उच्चाकुलपरिदीपनं उदितोदितविपुलखत्तियकुलविभावनतो. सब्बखत्तियानञ्हि आदिभूतमहासम्मतमहाराजतो पट्ठाय असम्भिन्नं उळारतमं सक्यराजकुलं. केनचि पारिजुञ्ञेनाति ञातिपारिजुञ्ञभोगपारिजुञ्ञादिना केनचिपि पारिजुञ्ञेन परिहानिया अनभिभूतो अनज्झोत्थटो. तथा हि कदाचिपि तस्स कुलस्स तादिसपारिजुञ्ञाभावो, अभिनिक्खमनकाले च ततो समिद्धतमभावो लोके पाकटो पञ्ञातोति. सक्यकुला पब्बजितोति इदं वचनं भगवतो सद्धापब्बजितभावदीपनं वुत्तं महन्तं ञातिपरिवट्टं महन्तञ्च भोगक्खन्धं पहाय पब्बजितभावदीपनतो. एत्थ च समणोति इमिना परिक्खकजनेहि भगवतो बहुमतभावो दस्सितो समितपापतादीपनतो, गोतमोति इमिना लोकियजनेहि उळारतमकुलीनतादीपनतो.

अब्भुग्गतोति एत्थ अभि-सद्दो इत्थम्भूताख्याने, तंयोगतो पन ‘‘भवन्तं गोतम’’न्ति उपयोगवचनं सामिअत्थेपि समानं इत्थम्भूतयोगदीपनतो ‘‘इत्थम्भूताख्यानत्थे’’ति वुत्तं. तेनाह ‘‘तस्स खो पन भोतो गोतमस्साति अत्थो’’ति. कल्याणोति भद्दको. सा चस्स कल्याणता उळारविसयतायाति आह ‘‘कल्याणगुणसमन्नागतो’’ति. तंविसयता हेत्थ समन्नागमो. सेट्ठोति एत्थापि एसेव नयो यथा ‘‘भगवाति वचनं सेट्ठ’’न्ति (पारा. अट्ठ. १.वेरञ्जकण्डवण्णना; विसुद्धि. १.१४२; उदा. अट्ठ. १; इतिवु. अट्ठ. निदानवण्णना; महानि. अट्ठ. ५०). ‘‘भगवा अरह’’न्तिआदिना गुणानं संकित्तनतो संसद्दनतो च कित्तिसद्दो वण्णोति आह ‘‘कित्तियेवा’’ति. कित्तिपरियायोपि हि सद्द-सद्दो यथा तं ‘‘उळारसद्दा इसयो गुणवन्तो तपस्सिनो’’ति. थुतिघोसोति अभित्थवुदाहारो. अज्झोत्थरित्वाति पटिपक्खाभावेन अनञ्ञसाधारणताय च अभिभवित्वा.

सो भगवाति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो देवानं अतिदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि भगवाति लद्धनामो, सो भगवा. ‘‘भगवा’’ति हि इदं सत्थु नामकित्तनं. तथा हि वुत्तं ‘‘भगवाति नेतं नामं मातरा कत’’न्तिआदि (महानि. १४९, १९८, २१०; चूळनि. अजितमाणवपुच्छानिद्देस २). परतो पन ‘‘भगवा’’ति गुणकित्तनमेव. एवं ‘‘अरह’’न्तिआदीहि पदेहि ये सदेवके लोके अतिविय पञ्ञाता बुद्धगुणा, ते नानप्पकारतो विभाविताति दस्सेतुं पच्चेकं इतिपि-सद्दो योजेतब्बोति आह ‘‘इतिपि अरहं, इतिपि समासम्बुद्धो…पे… इतिपि भगवा’’ति. ‘‘इतिपेतं भूतं, इतिपेतं तच्छ’’न्तिआदीसु (दी. नि. १.६) विय हि इध इति-सद्दो आसन्नपच्चक्खकारणत्थो, पि-सद्दो सम्पिण्डनत्थो तेन तेसं गुणानं बहुभावदीपनतो. तानि गुणसल्लक्खणकारणानि सद्धासम्पन्नानं विञ्ञुजातिकानं पच्चक्खानि एवाति दस्सेन्तो ‘‘इमिना च इमिना च कारणेनाति वुत्तं होती’’तिआदि. ततो विसुद्धिमग्गतो. तेसन्ति ‘‘अरह’’न्तिआदीनं. वित्थारो अत्थनिद्देसो गहेतब्बो. ततो एव तंसंवण्णनायं (विसुद्धि. महाटी. १.१३०) वुत्तो ‘‘आरकाति अरहं सुविदूरभावतो, आरकाति अरहं आसन्नभावतो, रहितब्बस्स अभावतो, सयञ्च अरहितब्बतो, नत्थि एतस्स रहोगमनं गतीसु पच्चाजाति, पासंसभावतो वा अरह’’न्तिआदिना ‘‘अरह’’न्तिआदीनं पदानं अत्थो वित्थारतो वेदितब्बो.

भवन्ति चेत्थ (विसुद्धि. महाटी. १.१३०; सारत्थ. टी. १.वेरञ्जकण्डवण्णना) –

‘‘सम्मा नप्पटिपज्जन्ति, ये निहीनासया नरा;

आरका तेहि भगवा, दूरे तेनारहं मतो.

ये सम्मा पटिपज्जन्ति, सुप्पणीताधिमुत्तिका;

भगवा तेहि आसन्नो, तेनापि अरहं जिनो.

पापधम्मा रहा नाम, साधूहि रहितब्बतो;

तेसं सुट्ठु पहीनत्ता, भगवा अरहं मतो.

ये सच्छिकतसद्धम्मा, अरिया सुद्धगोचरा;

न तेहि रहितो होति, नाथो तेनारहं मतो.

रहो वा गमनं यस्स, संसारे नत्थि सब्बसो;

पहीनजातिमरणो, अरहं सुगतो मतो.

गुणेहि सदिसो नत्थि, यस्मा लोके सदेवके;

तस्मा पासंसियत्तापि, अरहं द्विपदुत्तमो.

आरका मन्दबुद्धीनं, आसन्ना च विजानतं;

रहानं सुप्पहीनत्ता, विदूनमरहेय्यतो;

भवेसु च रहाभावा, पासंसा अरहं जिनो’’ति.

सुन्दरन्ति भद्दकं. तञ्च पस्सन्तस्स हितसुखावहभावेन वेदितब्बन्ति आह ‘‘अत्थावहं सुखावह’’न्ति. तत्थ अत्थावहन्ति दिट्ठधम्मिकसम्परायिकपरमत्थसञ्हितहितावहं. सुखावहन्ति तप्परियापन्नतिविधसुखावहं. तथारूपानन्ति तादिसानं. यादिसेहि पन गुणेहि भगवा समन्नागतो, तेहि चतुप्पमाणिकस्स लोकस्स सब्बथापि अच्चन्ताय पसादनीयोति दस्सेतुं ‘‘अनेकेहिपी’’तिआदि वुत्तं. तत्थ यथाभूत…पे… अरहतन्ति इमिना धम्मप्पमाणानं लूखप्पमाणानं सत्तानं भगवतो पसादावहतमाह, इतरेन इतरेसं. दस्सनमत्तम्पि साधु होतीति एत्थ कोसियसकुणस्स वत्थु कथेतब्बं. एकं पदम्पि सोतुं लभिस्साम, साधुतरंयेव भविस्सतीति एत्थ मण्डूकदेवपुत्तवत्थु कथेतब्बं.

इमिना नयेन अगारिकपुच्छा आगताति इदं येभुय्यवसेन वुत्तं. येभुय्येन हि अगारिका एवं पुच्छन्ति. अनगारिकपुच्छायपि एसेव नयो. यथा न सक्कोन्ति…पे… विस्सज्जेन्तोति इमिना सत्थु तेसं ब्राह्मणगहपतिकानं निग्गण्हनविधिं दस्सेति. तेसञ्हि संखित्तरुचिताय सङ्खेपदेसना, ताय अत्थं अजानन्ता वित्थारदेसनं आयाचन्ति, सा च नेसं संखित्तरुचिता पण्डितमानिताय, सो च मानो यथादेसितस्स अत्थस्स अजानन्ते अप्पतिट्ठो होति, इति भगवा तेसं माननिग्गहविधिं चिन्तेत्वा सङ्खेपेनेव पञ्हं विस्सज्जेसि, न सब्बसो देसनाय असल्लक्खणत्थं. तेनाह ‘‘पण्डितमानिका ही’’तिआदि. यस्मा मं तुम्हे याचथ, संखित्तेन वुत्तमत्थं न जानित्थाति अधिप्पायो.

४४०. ‘‘एकविधेन ञाणवत्थु’’न्तिआदीसु (विभ. ७५१) विय कोट्ठासत्थो विध-सद्दो, सो च विभत्तिवचनविपल्लासं कत्वा पच्चत्ते करणवचनवसेन ‘‘तिविध’’न्ति वुत्तो. अत्थो पन करणपुथुवचनवसेन दट्ठब्बोति आह ‘‘तिविधन्ति तीहि कोट्ठासेही’’ति. पकारत्थो वा विध-सद्दो, पकारत्थत्तायेव लब्भमानं अधम्मचरियाविसमचरियाभावसामञ्ञं, कायद्वारिकभावसामञ्ञं वा उपादाय एकत्तं नेत्वा ‘‘तिविध’’न्ति वुत्तं. पकारभेदे पन अपेक्खिते ‘‘तिविधा’’इच्चेव वुत्तं होति. कायेनाति एत्थ कायोति चोपनकायो अधिप्पेतो, सो च अधम्मचरियाय द्वारभूतो तेन विना तस्सा अप्पवत्तनतो. कायेनाति च हेतुम्हि करणवचनं. किञ्चापि हि अधम्मचरियासङ्खातचेतनासमुट्ठाना सा विञ्ञत्ति, न च सा पट्ठाने आगतेसु चतुवीसतिया पच्चयेसु एकेनपि पच्चयेन चेतनाय पच्चयो होति, तस्सा पन तथापवत्तमानाय कायकम्मसञ्ञिताय चेतनाय पवत्ति होतीति तेन द्वारेन लक्खितब्बभावतो तस्सा कारणं विय च सब्बोहारमत्तं होति. कायद्वारेनाति वा कायेन द्वारभूतेन कायद्वारभूतेनाति तं इत्थम्भूतलक्खणे करणवचनं. अधम्मं चरति एतायाति अधम्मचरिया, तथापवत्ता चेतना. अधम्मोति पन तंसमुट्ठानो पयोगो दट्ठब्बो. धम्मतो अनपेताति धम्मा, न धम्माति अधम्मा, अधम्मा च सा चरिया चाति अधम्मचरिया. पच्चनीकसमनट्ठेन समं, समानं सदिसं युत्तन्ति वा समं, सुचरितं. समतो विगतं, विरुद्धं वा तस्साति विसमं, दुच्चरितं. सा एव विसमा चरियाति विसमचरिया. सब्बेसु कण्हसुक्कपदेसूति ‘‘चतुब्बिधं वाचाय अधम्मचरियाविसमचरिया होती’’तिआदिना उद्देसनिद्देसवसेन आगतेसु सब्बेसु कण्हपदेसु – ‘‘तिविधं खो गहपतयो कायेन धम्मचरियासमचरिया होती’’तिआदिना उद्देसनिद्देसवसेन आगतेसु सब्बेसु सुक्कपदेसु च.

रोदेति कुरूरकम्मन्तताय परपटिबद्धे सत्ते अस्सूनि मोचेतीति रुद्दो, सो एव लुद्दो र-कारस्स ल-कारं कत्वा. कक्खळोति लुद्दो. दारुणोति फरुसो. साहसिकोति साहस्सकारी. सचेपि न लिप्पन्ति. तथाविधो परेसं घातनसीलो लोहितपाणीत्वेव वुच्चति यथा दानसीलो परेसं दानत्थं अधोतहत्थोपि ‘‘पयतपाणी’’त्वेव वुच्चति. पहरणं पहारदानमत्तं हतं, पवुद्धं पहरणं परस्स मारणं पहतन्ति दस्सेन्तो ‘‘हते’’तिआदिमाह. तत्थ निविट्ठोति अभिनिविट्ठो पसुतो.

यस्स वसेन ‘‘परस्सा’’ति सामिनिद्देसो, तं सापतेय्यं. यञ्हि सामञ्ञतो गहितं, तं तेनेव सामिनिद्देसेन पकासितन्ति आह ‘‘परस्स सन्तक’’न्ति. परस्सपरवित्तूपकरणन्ति वा एकमेवेतं समासपदं, यं किञ्चि परसन्तकं विसेसतो परस्स वित्तूपकरणं वाति अत्थो. तेहि परेहीति येसं सन्तकं, तेहि. यस्स वसेन पुरिसो ‘‘थेनो’’ति वुच्चति, तं थेय्यन्ति आह ‘‘अवहरणचित्तस्सेतं अधिवचन’’न्ति. थेय्यसङ्खातेन, न विस्सासतावकालिकादिवसेनाति अत्थो.

मते वाति वा-सद्दो अवुत्तविकप्पत्थो. तेन पब्बजितादिभावं सङ्गण्हाति. एतेनुपायेनाति यं मातरि मताय, नट्ठाय वा पिता रक्खति, सा पितुरक्खिता. यं उभोसु असन्तेसु भाता रक्खति, सा भातुरक्खिताति एवमादिं सन्धायाह. सभागकुलानीति आवाहकिरियाय सभागानि कुलानि. दस्सुकविधिं वा उद्दिस्स ठपितदण्डाराजादीहि. सम्मादिट्ठिसुत्ते (म. नि. अट्ठ. १.८९) ‘‘असद्धम्माधिप्पायेन कायद्वारप्पवत्ता अगमनीयट्ठानवीतिक्कमचेतना’’ति एवं वुत्तमिच्छाचारलक्खणवसेन.

हत्थपादादिहेतूति हत्थपादादिभेदनहेतु. धनहेतूति धनस्स लाभहेतु जानिहेतु च. लाभोति घासच्छादनानि लब्भतीति लाभो. किञ्चिक्खन्ति किञ्चिमत्तकं आमिसजातं. तेनाह ‘‘यं वा’’तिआदि. जानन्तोयेवाति मुसाभावं तस्स वत्थुनो अत्थि, तं जानन्तो एव.

अण्डकाति वुच्चति रुक्खे अण्डसदिसा गण्ठियो. यथा थद्धा विसमा दुब्बिनीता च होन्ति, एवमेवं खुंसनवम्भनवसेन पवत्तवाचापि हि ‘‘अण्डका’’ति वुत्ता. तेनाह ‘‘यथा सदोसे रुक्खे’’तिआदि. कक्कसाति फरुसा एव, सो पनस्सा कक्कसभावो ब्यापादनिमित्तताय ततो पूतिकाति. तेनाह ‘‘यथा नामा’’तिआदि. कटुकाति अनिट्ठा. अमनापाति न मनवड्ढनी, ततो एव दोसजननी, चित्तसन्दोसुप्पत्तिकारिका. मम्मेसूति घट्टनेन दुक्खुप्पत्तितो मम्मसदिसेसु जातिआदीसु. लग्गनकारीति एवं वदन्तस्स एवं वदामीति अत्थाधिप्पायेन लग्गनकारी, न ब्यञ्जनवसेन. कोधस्स आसन्ना तस्स कारणभावतो. सदोसवाचायाति अत्तनो समुट्ठापकदोसस्स वसेन सदोसवाचाय वेवचनानि.

अकालेनाति अयुत्तकालेन. अकारणनिस्सितन्ति निप्फलं. फलञ्हि कारणनिस्सितं नाम तदविनाभावतो. अकारणनिस्सितं निप्फलं, सम्फन्ति अत्थो. असभाववत्ताति अयाथाववादी. असंवरविनयपटिसंयुत्तस्साति संवरविनयरहितस्स, अत्तनो सुणन्तस्स च न संवरविनयावहस्स वत्ता. हदयमञ्जूसायं निधेतुन्ति अहितसंहितत्ता चित्तं अनुप्पविसेत्वा निधेतुं. अयुत्तकालेति धम्मं कथेन्तेन यो अत्थो यस्मिं काले वत्तब्बो, ततो पुब्बे पच्छा तस्स अकालो, तस्मिं अयुत्तकाले वत्ता होति. अनपदेसन्ति भगवता असुकसुत्ते एवं वुत्तन्ति सुत्तापदेसविरहितं. अपरिच्छेदन्ति परिच्छेदरहितं. यथा पन वाचा परिच्छेदरहिता होति, तं दस्सेतुं ‘‘सुत्तं वा’’तिआदि वुत्तं. उपलब्भन्ति अनुयोगं. बाहिरकथंयेवाति यं सुत्तं, जातकं वा निक्खित्तं, तस्स सरीरभूतं कथं अनामसित्वा ततो बहिभूतंयेव कथं. सम्पज्जित्वाति विरुळ्हं आपज्जित्वा. पवेणिजातकावाति अनुजातपारोहमूलानियेव तिट्ठन्ति. आहरित्वाति निक्खित्तसुत्ततो अञ्ञम्पि अनुयोगउपमावत्थुवसेन तदनुपयोगिनं आहरित्वा. जानापेतुन्ति एतदत्थमिदं वुत्तन्ति जानापेतुं यो सक्कोति. तस्स कथेतुन्ति तस्स तथारूपस्स धम्मकथिकस्स बहुम्पि कथेतुं वट्टति. न अत्थनिस्सितन्ति अत्तनो परेसञ्च न हितावहं.

अभिज्झायनं येभुय्येन परसन्तकस्स दस्सनवसेन होतीति ‘‘अभिज्झाय ओलोकेता होती’’ति वुत्तं. अभिज्झायन्तो वा अभिज्झायितं वत्थुं यत्थ कत्थचि ठितम्पि पच्चक्खतो पस्सन्तो विय अभिज्झायतीति वुत्तं ‘‘अभिज्झाय ओलोकेता होती’’ति. कम्मपथभेदो न होति, केवलं लोभमत्तोव होति परिणामनवसेन अप्पवत्तत्ता. यथा पन कम्मपथभेदो होति, तं दस्सेतुं ‘‘यदा पना’’तिआदि वुत्तं. परिणामेतीति अत्तनो सन्तकभावेन परिग्गय्ह नामेति.

विपन्नचित्तोति ब्यापादेन विपत्तिं आपादितचित्तो. तेनाह ‘‘पूतिभूतचित्तो’’ति. ब्यापादो हि विसं विय लोहितस्स चित्तं पूतिभावं जनेति. दोसेन दुट्ठचित्तसङ्कप्पोति विसेन विय सप्पिआदिकोपेन दूसितचित्तसङ्कप्पो. घातीयन्तूति हनीयन्तु. वधं पापुणन्तूति मरणं पापुणन्तु. मा वा अहेसुन्ति सब्बेन सब्बं न होन्तु. तेनाह ‘‘किञ्चिपि मा अहेसु’’न्ति, अनवसेसविनासं पापुणन्तूति अत्थो. हञ्ञन्तूति आदिचिन्तनेनेवाति एकन्ततो विनासचिन्ताय एव.

मिच्छादिट्ठिकोति अयोनिसो उप्पन्नदिट्ठिको. सो च एकन्ततो कुसलपटिपक्खदिट्ठिकोति आह ‘‘अकुसलदस्सनो’’ति. विपल्लत्थदस्सनोति धम्मताय विपरियासग्गाही. नत्थि दिन्नन्ति देय्यधम्मसीसेन दानं वुत्तन्ति आह ‘‘दिन्नस्स फलाभावं सन्धाय वदती’’ति. दिन्नं पन अन्नादिवत्थुं कथं पटिक्खिपति. एस नयो ‘‘यिट्ठं हुत’’न्ति एत्थापि. महायागोति सब्बसाधारणं महादानं. पहेणकसक्कारोति पाहुनकानं कत्तब्बसक्कारो. फलन्ति आनिसंसफलञ्च निस्सन्दफलञ्च. विपाकोति सदिसं फलं. परलोके ठितस्स अयं लोको नत्थीति परलोके ठितस्स कम्मुना लद्धब्बो अयं लोको न होति. इधलोके ठितस्सपि परलोको नत्थीति इधलोके ठितस्स कम्मुना लद्धब्बो परलोको न होति. तत्थ कारणमाह ‘‘सब्बे तत्थ तत्थेव उच्छिज्जन्ती’’ति. इमे सत्ता यत्थ यत्थ भवयोनिगतिआदीसु ठिता तत्थ तत्थेव उच्छिज्जन्ति निरुदयविनासवसेन विनस्सन्ति. फलाभाववसेनाति मातापितूसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलस्स अभाववसेन ‘‘नत्थि माता, नत्थि पिता’’ति वदति, न मातापितूनं, नापि तेसु सम्मापटिपत्तिमिच्छापटिपत्तीनं अभाववसेन तेसं लोकपच्चक्खत्ता. बुब्बुळकस्स विय इमेसं सत्तानं उप्पादो नाम केवलोव, न चवित्वा आगमनपुब्बकोति दस्सनत्थं ‘‘नत्थि सत्ता ओपपातिका’’ति वुत्तन्ति आह ‘‘चवित्वा उपपज्जनकसत्ता नाम नत्थीति वदती’’ति. समणेन नाम याथावतो जानन्तेन कस्सचि किञ्चि अकथेत्वा सञ्ञतेन भवितब्बं, अञ्ञथा अहोपुरिसिका नाम सिया, किं परो परस्स करिस्सति, तथा अत्तनो सम्पादनस्स कस्सचि अवसरो एव नत्थि तत्थ तत्थेव उच्छिज्जनतोति आह ‘‘ये इमञ्च…पे… पवेदेन्ती’’ति. एत्तावताति ‘‘नत्थि दिन्न’’न्तिआदिना ब्यपदेसेन. दसवत्थुकाति पटिक्खिपितब्बानि दस वत्थूनि एतिस्साति दसवत्थुका.

४४१. अनभिज्झादयो हेट्ठा अत्थतो पकासितत्ता उत्तानत्थायेव.

४४२. सह ब्ययति गच्छतीति सहब्यो, सहवत्तनको, तस्स भावो सहब्यता, सहपवत्तीति आह ‘‘सहभावं उपगच्छेय्य’’न्ति. ब्रह्मानं कायो समूहोति ब्रह्मकायो, तप्परियापन्नताय तत्थ गताति ब्रह्मकायिका. कामं चेताय सब्बस्सपि ब्रह्मनिकायस्स समञ्ञाय भवितब्बं, ‘‘आभान’’न्तिआदिना पन दुतियज्झानभूमिकादीनं उपरि गहितत्ता गोबलीबद्दञायेन तदवसेसानं अयं समञ्ञाति आह ‘‘ब्रह्मकायिकानं देवानन्ति पठमज्झानभूमिदेवान’’न्ति. आभा नाम विसुं देवा नत्थि, परित्ताभादीनंयेव पन आभावन्ततासामञ्ञेन एकज्झं गहेत्वा पवत्तं एतं अधिवचनं, यदिदं ‘‘आभा’’ति यथा ‘‘ब्रह्मपारिसज्जब्रह्मपुरोहितमहाब्रह्मानं ब्रह्मकायिका’’ति. परित्ताभानन्तिआदि पनाति आदि-सद्देन अप्पमाणाभानं देवानं आभस्सरानं देवानन्ति इमं पाळिं सङ्गण्हाति. एकतो अग्गहेत्वाति आभाति वा, एकत्तकायनानत्तसञ्ञाति वा एकतो अग्गहेत्वा. तेसंयेवाति आभाति वुत्तदेवानंयेव. भेदतो गहणन्ति कारणस्स हीनादिभेदभिन्नतादस्सनवसेन परित्ताभादिग्गहणं. इति भगवा आसवक्खयं दस्सेत्वाति एवं भगवा धम्मचरियं, समचरियं, वट्टनिस्सितं सुगतिगामिपटिपदं, विवट्टनिस्सितं आसवक्खयगामिपटिपदं कत्वा तिभवभञ्जनतो आसवक्खयं दस्सेत्वा अरहत्तनिकूटेन देसनं निट्ठपेसि.

इध ठत्वाति इमस्मिं धम्मचरियासमचरियाय निद्देसे ठत्वा. देवलोका समानेतब्बाति छब्बीसतिपि देवलोका समोधानेतब्बा. वीसति ब्रह्मलोकाति तंतंभवपरियापन्ननिकायवसेन वीसति ब्रह्मलोका, वीसति ब्रह्मनिकायाति अत्थो. दसकुसलकम्मपथेहीति यथारहं दसकुसलकम्मपथेहि कम्मूपनिस्सयपच्चयभूतेहि केवलं उपनिस्सयभूतेहि च निब्बत्ति दस्सिता.

तिण्णं सुचरितानन्ति तिण्णं कामावचरसुचरितानं. कामावचरग्गहणञ्चेत्थ मनोसुचरितापेक्खाय. विपाकेनेवाति इमिना विपाकुप्पादेनेव निब्बत्ति होति, न उपनिस्सयतामत्तेनाति दस्सेति. ‘‘उपनिस्सयवसेना’’ति वुत्तमत्थं विवरितुं ‘‘दस कुसलकम्मपथा ही’’तिआदि वुत्तं. दुतियादीनि भावेत्वातिआदीसुपि ‘‘सीले पतिट्ठाया’’ति पदं आनेत्वा सम्बन्धितब्बं. कस्मा पनेत्थ ‘‘उपनिस्सयवसेना’’ति वुत्तं, ननु पटिसम्भिदामग्गे (पटि. म. १.४१) – ‘‘पठमेन झानेन नीवरणानं पहानं सीलं, वेरमणि सीलं, चेतना सीलं, संवरो सीलं, अवीतिक्कमो सील’’न्तिआदिना सब्बेसुपि झानेसु सीलं उद्धटन्ति तस्स वसेन उपरिदेवलोकानम्पि विपाकेन निब्बत्ति वत्तब्बाति? न, तस्स परिञ्ञाय देसनत्ता, परिञ्ञाय देसनता चस्स ‘‘यत्थ च पहान’’न्तिआदिना विसुद्धिमग्गसंवण्णनायञ्च (विसुद्धि. महाटी. २.८३७, ८३९) पकासिता एव. तथा हि इधापि ‘‘दस कुसलकम्मपथा हि सील’’न्तिआदिना सीलस्स रूपारूपभवानं उपनिस्सयता विभाविता, न निब्बत्तकताय. कस्मा पनेत्थ भावनालक्खणाय धम्मचरियाय भवविसेसे विभजियमाने असञ्ञभवो न गहितोति आह ‘‘असञ्ञभवो पन…पे… न निद्दिट्ठो’’ति. बाहिरका हि अयथाभूतदस्सिताय असञ्ञभवं भवविप्पमोक्खं मञ्ञमाना तदुपगज्झानं भावेत्वा असञ्ञेसु निब्बत्तन्ति. अयमेत्थ सङ्खेपो, यं पनेत्थ वत्तब्बं, तं ब्रह्मजालट्ठकथायं तंसंवण्णनायञ्च (दी. नि. अट्ठ. १.६८-७३; दी. नि. टी. १.६८-७३) वुत्तनयेनेव वेदितब्बं.

सालेय्यकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

२. वेरञ्जकसुत्तवण्णना

४४४. वेरञ्जवासिनोति वेरञ्जगामवासिनो. केचि पन ‘‘विविधरट्ठवासिनो वेरञ्जका’’ति एतमत्थं वदन्ति, तेसं मतेन ‘‘वेरज्जका’’ति पाळिया भवितब्बन्ति. अनियमितकिच्चेनाति ‘‘इमिना नामा’’ति एवं न नियमितेन किच्चेन. अयं विसेसोति अयं पुग्गलाधिट्ठानधम्माधिट्ठानकतो इमेसु द्वीसु सुत्तेसु देसनाय विसेसो, अत्थो पन देसनानयो च मज्झे भिन्नसुवण्णं विय अविसिट्ठोति दस्सेति. कस्मा पन भगवा कत्थचि पुग्गलाधिट्ठानदेसनं देसेति, कत्थचि धम्माधिट्ठानन्ति? देसनाविलासतो वेनेय्यज्झासयतो च. देसनाविलासप्पत्ता हि बुद्धा भगवन्तो, ते यथारुचि कत्थचि पुग्गलाधिट्ठानं कत्वा, कत्थचि धम्माधिट्ठानं कत्वा धम्मं देसेन्ति. ये पन वेनेय्या सासनक्कमं अनोतिण्णा, तेसं पुग्गलाधिट्ठानदेसनं देसेन्ति. ये ओतिण्णा, तेसं धम्माधिट्ठानं. सम्मुतिसच्चविसया पुग्गलाधिट्ठाना, इतरा परमत्थसच्चविसया. पुरिमा करुणानुकूला, इतरा पञ्ञानुकूला. सद्धानुसारिगोत्तानं वा पुरिमा. ते हि पुग्गलप्पमाणा, पच्छिमा धम्मानुसारीनं. सद्धाचरितताय वा लोकाधिपतीनं वसेन पुग्गलाधिट्ठाना, पञ्ञाचरितताय धम्माधिपतीनं वसेन धम्माधिट्ठाना. पुरिमा च नेय्यत्था, पच्छिमा नीतत्था. इति भगवा तं तं विसेसं अवेक्खित्वा तत्थ तत्थ दुविधं देसनं देसेतीति वेदितब्बं.

वेरञ्जकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

३. महावेदल्लसुत्तवण्णना

४४९. गरुभावो गारवं, पासाणच्छत्तं विय गरुकरणीयता. सह गारवेनाति सगारवो, गरुना किस्मिञ्चि वुत्ते गारववसेन पतिस्सवनं पतिस्सवो, सह पतिस्सवेन सप्पतिस्सवो, पतिस्सवभूतं तंसभागञ्च यं किञ्चि गरुकरणं. सगारवे सप्पतिस्सवचनं सगारवसप्पतिस्सवचनं. गरुकरणं वा गारवो, सगारवस्स सप्पतिस्सवचनं सगारवसप्पतिस्सवचनं. एतेन सभावेनेव सगारवस्स तथापवत्तं वचनन्ति दस्सेति. अञ्ञत्थ दु-सद्दो गरहत्थोपि होति ‘‘दुक्खं दुप्पुत्तो’’तिआदीसु विय, इध पन सो न सम्भवति कुच्छिताय पञ्ञाय अभावतोति आह ‘‘पञ्ञाय दुट्ठं नाम नत्थी’’ति. ‘‘दुस्सीलो’’तिआदीसु विय अभावत्थो दु-सद्दोति वुत्तं ‘‘अप्पञ्ञो निप्पञ्ञोति अत्थो’’ति. कित्तकेनाति केन परिमाणेन. तं पन परिमाणं यस्मा परिमेय्यस्स अत्थस्स परिच्छिन्दनं होति, नु-सद्दो च पुच्छाय जोतको, तस्मा ‘‘कित्तावता नु खोति कारणपरिच्छेदपुच्छा’’ति वत्वा ‘‘कित्तकेन नु खो एवं वुच्चतीति अत्थो’’ति आह. ‘‘कारणपरिच्छेदपुच्छा’’ति इमिना ‘‘कित्तावता’’ति सामञ्ञतो पुच्छाभावो दस्सितो, न विसेसतो, तस्स पुच्छाविसेसभावञापनत्थं महानिद्देसे आगता सब्बाव पुच्छा अत्थुद्धारनयेन दस्सेति ‘‘पुच्छा च नामा’’तिआदिना. अदिट्ठं जोतीयति एतायाति अदिट्ठजोतना, पुच्छा. दिट्ठसंसन्दना साकच्छावसेन विनिच्छयकरणं. विमति छिज्जति एतायाति विमतिच्छेदना. अनुमतिया पुच्छा अनुमतिपुच्छा. ‘‘तं किं मञ्ञथ, भिक्खवे’’तिआदिपुच्छाय हि ‘‘किं तुम्हाकं अनुमती’’ति अनुमति पुच्छिता होति. कथेतुं कम्यताय पुच्छा कथेतुकम्यतापुच्छा.

लक्खणन्ति ञातुं इच्छितो यो कोचि सभावो. अञ्ञातन्ति येन केनचि ञाणेन अञ्ञातभावं आह. अदिट्ठन्ति दस्सनभूतेन पच्चक्खं विय अदिट्ठतं. अतुलितन्ति ‘‘एत्तकं इद’’न्ति तुलनभूतेन अतुलिततं. अतीरितन्ति तीरणभूतेन अकतञाणकिरियासमापनतं. अविभूतन्ति ञाणस्स अपाकटभावं. अविभावितन्ति ञाणेन अपाकटीकतभावं. इध दिट्ठसंसन्दनापुच्छा अधिप्पेता, न अदिट्ठजोतना विमतिच्छेदना चाति.

कथमयं अत्थो विञ्ञायतीति आह ‘‘थेरो ही’’तिआदि. सयं विनिच्छिनन्तोति सयमेव तेसं पञ्हानं अत्थं विसेसेन निच्छिनन्तो. इदं सुत्तन्ति इदं पञ्चवीसतिपञ्हपटिमण्डितसुत्तं, न यं किञ्चि अनवसेसेनेव मत्थकं पापेसीति. ‘‘सयमेव पञ्हं समुट्ठापेत्वा सयं विनिच्छिनन्तो’’ति एत्थ चतुक्कोटिकं भवतीति दस्सेन्तो ‘‘एकच्चो ही’’तिआदिमाह. पञ्हं समुट्ठापेतुंयेव सक्कोतीति पुच्छनविधिंयेव जानाति. न निच्छेतुन्ति निच्छेतुं न सक्कोति, विस्सज्जनविधिं न जानातीति अत्थो. विसेसट्ठानन्ति अञ्ञेहि असदिसट्ठानं. थेरेन सदिसोति थेरेन सदिसो सावको नत्थि.

संसन्दित्वाति संयोजेत्वा समानं कत्वा, यथा तत्थ सब्बञ्ञुतञ्ञाणं पवत्तं, तथा तं अविलोमेत्वाति अत्थो. लीळायन्तोति लीळं करोन्तो. धम्मकथिकताय अग्गभावप्पत्तिया तत्थ अप्पटिहतञाणताय बुद्धलीळाय विय चतुन्नं परिसानं गमनं गण्हन्तो धम्मकथं कथेति.

इतो वा एत्तो वा अनुक्कमित्वाति उग्गहितकथामग्गतो यत्थ कत्थचि ईसकम्पि अनुक्कमित्वा उग्गहितनियामेनेवाति अत्थो. तेनाह ‘‘यट्ठिकोटि’’न्तिआदि. एकपदिकन्ति एकपदनिक्खेपमत्तं. दण्डकसेतुन्ति एकदण्डकमयं सेतुं. हेट्ठा च उपरि च सुत्तपदानं आहरणेन तेपिटकं बुद्धवचनं हेट्ठुपरियं करोन्तो. जातस्सरसदिसञ्च गाथं, सुत्तपदं वा निक्खिपित्वा तत्थ नानाउपमाकारणानि आहरन्तो तानि च तेहि सुत्तपदेहि बोधेन्तो समुट्ठापेन्तो ‘‘जातस्सरे पञ्चवण्णानि कुसुमानि फुल्लापेन्तो विय सिनेरुमत्थके वट्टिसहस्सं जालेन्तो विया’’ति वुत्तो.

एकपदुद्धारेति एकस्मिं पदुद्धारणक्खणे. पदवसेन सट्ठि पदसतसहस्सानि गाथावसेन पन्नरस गाथासहस्सानि. आकड्ढित्वा गण्हन्तो वियाति पच्चेकं पुप्फानि अनोचिनित्वा वल्लिमेव आकड्ढित्वा एकज्झं पुप्फानि कत्वा गण्हन्तो विय. तेनाह ‘‘एकप्पहारेनेवा’’ति. गतिमन्तानन्ति अतिसयाय ञाणगतिया युत्तानं. धितिमन्तानन्ति धारणबलेन युत्तानं.

अनन्तनयुस्सदन्ति पच्चयुप्पन्नभासितत्थनिब्बानविपाककिरियादिवसेन अनन्तपभेदे विसये पवत्तिया अनन्तनयेहि उस्सन्नं उपचितं. चतुरोघनित्थरणत्थिकानं तित्थे ठपितनावा वियाति योजना. सहस्सयुत्तआजञ्ञरथोति वेजयन्तरथं सन्धाय वदति.

यस्मा पुच्छायं ब्यापनिच्छानयेन ‘‘दुप्पञ्ञो दुप्पञ्ञो’’ति आमेडितवसेन वुत्तं, तस्मा धम्मसेनापति पुच्छितमत्थं विस्सज्जेन्तो पुच्छासभागेन ‘‘नप्पजानाति नप्पजानाती’’ति आमेडितवसेनेवाह. तत्थ इति-सद्दो कारणत्थोति दस्सेन्तो ‘‘यस्मा नप्पजानाति, तस्मा दुप्पञ्ञोति वुच्चती’’ति आह. इदं दुक्खन्ति इदं उपादानक्खन्धपञ्चकं दुक्खं अरियसच्चं. तञ्च खो रुप्पनं वेदियनं सञ्जाननं अभिसङ्खरणं विजाननन्ति सङ्खेपतो एत्तकं. इतो उद्धं किञ्चि धम्मजातं दुक्खं अरियसच्चं नाम नत्थीति याथावसरसलक्खणतो पवत्तिक्कमतो चेव पीळनसङ्खतसन्तापविपरिणामलक्खणतो च यथाभूतं अरियमग्गपञ्ञाय नप्पजानाति. अवसेसपच्चयसमागमे उदयति उप्पज्जति, स्वायं समुदयो संसारपवत्तिभावेनाति आह ‘‘पवत्तिदुक्खपभाविका’’ति, दुक्खसच्चस्स उप्पादिकाति अत्थो. याथावसरसलक्खणतोति यथाभूतं अनुपच्छेदकरणरसतो चेव सम्पिण्डननिदानसंयोगपलिबोधलक्खणतो च.

इदं नाम ठानं पत्वाति इदं नाम अप्पवत्तिकारणं आगम्म. निरुज्झतीति अनुप्पादनिरोधवसेन निरुज्झति, तेनाह ‘‘उभिन्नं अप्पवत्ती’’ति. याथावसरसलक्खणतोति यथाभूतं अच्चुतिरसतो चेव निस्सरणविवेकासङ्खतामतलक्खणतो च. अयं पटिपदाति अयं सम्मादिट्ठिआदिका समोधानलक्खणा पटिपज्जति एतायाति पटिपदा. दुक्खनिरोधं गच्छतीति दुक्खनिरोधं निब्बानं सच्छिकिरियाभिसमयवसेन गच्छति आरब्भ पवत्तति. याथावसरसलक्खणतोति यथाभूतं किलेसप्पहानकरणसरसतो चेव निय्यानहेतुदस्सनाधिपतेय्यलक्खणतो च नप्पजानाति. अनन्तरवारेति दुतियवारे. इमिनाव नयेनाति ‘‘इदं दुक्खं, एत्तकं दुक्ख’’न्तिआदिना पठमवारे वुत्तनयेन. तत्थ हि दुप्पञ्ञनिद्देसत्ता पजाननपटिक्खेपवसेन देसना आगता, इध पञ्ञवन्तनिद्देसत्ता पजाननवसेनाति अयमेव विसेसो. एत्थाति दुतियवारे.

सवनतोति कम्मट्ठानस्स सवनतो उग्गण्हाति. गन्थसवनमुखेन हि तदत्थस्स उग्गहणं. ठपेत्वा तण्हन्तिआदि तस्स उग्गहणाकारनिदस्सनं. अभिनिविसतीति विपस्सनाभिनिवेसवसेन अभिनिविसति विपस्सनाकम्मट्ठानं पट्ठपेति. नो विवट्टेति विवट्टे अभिनिवेसो न होति अविसयत्ता. अयन्ति चतुसच्चकम्मट्ठानिको.

पञ्चक्खन्धाति पञ्चुपादानक्खन्धा. खन्धवसेन विपस्सनाभिनिवेसस्स चक्खादिवसेन वेदनादिवसेन च सतिपि अनेकविधत्ते सुकरं सुविञ्ञेय्यन्ति चतुधातुमुखेन तं दस्सेतुं ‘‘धातुकम्मट्ठानवसेन ओतरित्वा’’ति आह. रूपन्ति ववत्थपेतीति रुप्पनट्ठेन रूपन्ति असङ्करतो परिच्छिन्दति. तदारम्मणाति तं रूपं आरम्मणं कत्वा पवत्तनका. नामन्ति वेदनादिचतुक्कं नमनट्ठेन नामन्ति ववत्थापेति. यमकतालक्खन्धं भिन्दन्तो विय यमकं भिन्दित्वा ‘‘अरूपं, रूपञ्चा’’ति द्वेव इमे धम्मा, न एत्थ कोचि अत्ता वा अत्तनियं वाति नामरूपं ववत्थपेति परिच्छिन्दति परिग्गण्हाति. एत्तावता दिट्ठिविसुद्धि दस्सिता. तं पनेतं नामरूपं न अहेतुकं. यस्मा सब्बं सब्बत्थ सब्बदा च नत्थि, तस्मा सहेतुकं. कीदिसेन हेतुना? न इस्सरादिविसमहेतुना. यं पनेत्थ वत्तब्बं, तं विसुद्धिमग्गसंवण्णनायं (विसुद्धि. महाटी. २.४४७) वुत्तनयेन गहेतब्बं. सहेतुकत्ता एव सपच्चयं. अविज्जादयोति अविज्जातण्हुपादानकम्माहारादयो. एवन्ति ‘‘तं पनेत’’न्तिआदिना वुत्तप्पकारेन अविज्जादिके पच्चये चेव रूपवेदनादिके पच्चयुप्पन्नधम्मे च ववत्थपेत्वा परिच्छिन्दित्वा परिग्गहेत्वा. वुत्तञ्हेतं ‘‘अविज्जासमुदया रूपसमुदयो, तण्हासमुदया रूपसमुदयो’’ति (पटि. म. १.५०). एत्तावता कङ्खावितरणविसुद्धिं दस्सेति.

हुत्वाति हेतुपच्चयसमवाये उप्पज्जित्वा. अभावट्ठेनाति तदनन्तरमेव विनस्सनट्ठेन. अनिच्चाति अनिच्चा अद्धुवा. अनिच्चलक्खणं आरोपेतीति तेसु पञ्चसु खन्धेसु अनिच्चतासङ्खातं सामञ्ञलक्खणं निरोपेति. ततोति अनिच्चलक्खणारोपनतो परं, ततो वा अनिच्चभावतो. उदयब्बयप्पटिपीळनाकारेनाति उप्पादनिरोधेहि पति पति अभिक्खणं पीळनाकारेन हेतुना दुक्खा अनिट्ठा, दुक्खमा वा. अवसवत्तनाकारेनाति कस्सचि वसेन अवसवत्तनाकारेन. अनत्ताति न सयं अत्ता, नापि नेसं कोचि अत्ता अत्थीति अनत्ताति. तिलक्खणं आरोपेत्वाति एवं अनिच्चस्स दुक्खभावतो, दुक्खस्स च अनत्तभावतो खन्धपञ्चके तिविधम्पि सामञ्ञलक्खणं आरोपेत्वा. सम्मसन्तोति उदयब्बयञाणुप्पत्तिया उप्पन्ने विपस्सनुपक्किलेसे पहाय मग्गामग्गं ववत्थपेत्वा उदयब्बयञाणादिविपस्सनापटिपाटिया सङ्खारे सम्मसन्तो गोत्रभुञाणानन्तरं लोकुत्तरमग्गं पापुणाति.

एकपटिवेधेनाति एकेनेव ञाणेन पटिविज्झनेन. पटिवेधो पटिघाताभावेन विसये निस्सङ्गचारसङ्खातं निब्बिज्झनं. अभिसमयो अविरज्झित्वा अधिगमनसङ्खातो अवबोधो. ‘‘इदं दुक्खं, एत्तं दुक्खं, न इतो भिय्यो’’ति परिच्छिन्दित्वा याथावतो जाननमेव वुत्तनयेन पटिवेधोति परिञ्ञापटिवेधो, इदञ्च यथा ञाणे पवत्ते पच्छा दुक्खस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्तिं गहेत्वा वुत्तं, न पन मग्गञाणस्स ‘‘इदं दुक्ख’’न्तिआदिना पवत्तनतो. तेनाह ‘‘तस्मिञ्चस्स खणे’’तिआदि. पहीनस्स पुन अपहातब्बताय पकट्ठं हानं चजनं समुच्छिन्दनं पहानं, पहानमेव वुत्तनयेन पटिवेधोति पहानपटिवेधो. अयम्पि येन किलेसेन अप्पहीयमानेन मग्गभावनाय न भवितब्बं, असति च मग्गभावनाय यो उप्पज्जेय्य, तस्स पदघातं करोन्तस्स अनुप्पत्तिधम्मतं आपादेन्तस्स ञाणस्स तथापवत्तिया पटिघाताभावेन निस्सङ्गचारं उपादाय एवं वुत्तो. सच्छिकिरिया पच्चक्खकरणं अनुस्सवाकारपरिवितक्कादिके मुञ्चित्वाव सरूपतो आरम्मणकरणं ‘‘इदं त’’न्ति याथावसभावतो गहणं, सा एव वुत्तनयेन पटिवेधोति सच्छिकिरियापटिवेधो. अयम्पि यस्स आवरणस्स असमुच्छिन्दनतो ञाणं निरोधं आलम्बितुं न सक्कोति, तस्स समुच्छिन्दनतो तं सरूपतो विभावितमेव पवत्ततीति एवं वुत्तो.

भावना उप्पादना वड्ढना च. तत्थ पठममग्गे उप्पादनट्ठेन भावना, दुतियादीसु वड्ढनट्ठेन, उभयत्थापि वा उभयं वेदितब्बं. पठममग्गोपि हि यथारहं वुट्ठानगामिनियं पवत्तं परिजाननादिं वड्ढेन्तो पवत्तोति तत्थापि वड्ढनट्ठेन भावनाति सक्का विञ्ञातुं. दुतियादीसुपि अप्पहीनकिलेसप्पहानतो पुग्गलन्तरसाधनतो च उप्पादनट्ठेन भावना, सा एव वुत्तनयेन पटिवेधोति भावनापटिवेधो. अयम्पि यथा ञाणे पवत्ते पच्छा मग्गधम्मानं सरूपपरिच्छेदे सम्मोहो न होति, तथा पवत्तिं गहेत्वा वुत्तो. तिट्ठन्तु ताव यथाधिगता मग्गधम्मा, यथापवत्तेसु फलेसुपि अयं यथाधिगतसच्चधम्मेसु विय विगतसम्मोहोव होति सेक्खोपि समानो. तेन वुत्तं – ‘‘दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो’’ति (महाव. २७). यथा चस्स धम्मा तासं जोतिता यथाधिगतसच्चधम्मावलम्बिनियो मग्गवीथितो परतो मग्गफलपहीनावसिट्ठकिलेसनिब्बानानं पच्चवेक्खणा पवत्तन्ति. दुक्खसच्चधम्मा हि सक्कायदिट्ठिआदयो. अयञ्च अत्थवण्णना परिञ्ञाभिसमयेनातिआदीसुपि विभावेतब्बा. किच्चतोति असम्मोहतो. निरोधं आरम्मणतोति एत्थ ‘‘आरम्मणतोपी’’ति पि-सद्दो लुत्तनिद्दिट्ठो दट्ठब्बो निरोधेपि असम्मोहपटिवेधस्स लब्भनतो. एतस्साति चतुसच्चकम्मट्ठानिकस्स पुग्गलस्स.

पञ्ञवाति निद्दिट्ठो निप्परियायतो पञ्ञवन्तताय इध अधिप्पेतत्ता. पाळितोति धम्मतो. अत्थतोति अट्ठकथातो. अनुसन्धितोति तस्मिं तस्मिं सुत्ते तंतंअनुसन्धितो. पुब्बापरतोति पुब्बेनापरस्स संसन्दनतो. सङ्गीतिक्कमेन चेत्थ पुब्बापरता वेदितब्बा. तंतंदेसनायमेव वा पुब्बभागेन अपरभागस्स संसन्दनतो. विञ्ञाणचरितोति विजाननचरितो वीमंसनचरितो तेपिटके बुद्धवचने विचारणाचारवेपुल्लतो. पञ्ञवाति न वत्तब्बो मग्गेनागताय पञ्ञाय अभावतो. अज्ज अज्जेव अरहत्तन्ति इत्तरं अतिखिप्पमेवाति अधिप्पायो. पञ्ञवापक्खं भजति सेक्खपरियायसब्भावतो. सुत्ते पन पटिवेधोव कथितो सच्चाभिसमयवसेन आगतत्ता.

एसाति अनन्तरे वुत्तो अरियपुग्गलो. कम्मकारकचित्तन्ति भावनाकम्मस्स पवत्तनकचित्तं. सुखवेदनम्पि विजानातीति को वेदियति, कस्स वेदना, किंकारणा वेदना, सोपि कस्सचि अभावग्गहणमुखेन सुखं वेदनं सभावतो समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो च यथाभूतं परिच्छिन्दन्तो परिग्गण्हन्तो सुखं वेदनं विजानाति नाम. सेसपदद्वयेपि एसेव नयो. यस्मा ‘‘सतिपट्ठाने’’ति इमिना सतिपट्ठानकथं उपलक्खेति. ताय हि तदत्थो वेदितब्बो, तस्मा तंसंवण्णनायम्पि (दी. नि. टी. २.३८०) वुत्तनयेन तस्सत्थो वेदितब्बो. कामञ्चेतं विञ्ञाणं वेदनातो अञ्ञम्पि आरम्मणं विजानाति, अनन्तरवारे पन रूपमुखेन विपस्सनाभिनिवेसस्स दस्सितत्ता इध अरूपमुखेन दस्सेतुं ‘‘सुखन्तिपि विजानाती’’तिआदिना निद्दिट्ठं, पुच्छन्तस्स वा अज्झासयवसेन.

संसट्ठाति सम्पयुत्ता. तेनाह ‘‘एकुप्पादादिलक्खणेन संयोगट्ठेना’’ति. विसंसट्ठाति विप्पयुत्ता. भिन्दित्वाति अञ्ञभूमिकस्स अञ्ञभूमिदस्सनेनेव विनासेत्वा, संभिन्दित्वा वा. संसट्ठभावं पुच्छतीति तंचित्तुप्पादपरियापन्नानं पञ्चविञ्ञाणानं संसट्ठभावं पुच्छति. यदि एवं कथं पुच्छाय अवसरो विसंसट्ठभावासङ्काय एव अभावतो? न, चित्तुप्पादन्तरगतानं मग्गपञ्ञामग्गविञ्ञाणानं विपस्सनापञ्ञाविपस्सनाविञ्ञाणानञ्च वोमिस्सकसंसट्ठभावस्स लब्भमानत्ता. विनिवट्टेत्वाति अञ्ञमञ्ञतो विवेचेत्वा. नानाकरणं दस्सेतुं न सक्काति इदं केवलं संसट्ठभावमेव सन्धाय वुत्तं, न सभावभेदं, सभावभेदतो पन नानाकरणं नेसं पाकटमेव. तेनाह ‘‘आरम्मणतो वा वत्थुतो वा उप्पादतो वा निरोधतो वा’’ति. इदानि तमेव सभावभेदं विसयभेदेन सुट्ठु पाकटं कत्वा दस्सेतुं ‘‘तेसं तेसं पना’’तिआदि वुत्तं. विसयोति पवत्तिट्ठानं इस्सरियभूमि, येन चित्तपञ्ञानं तत्थ तत्थ पुब्बङ्गमता वुच्चति.

कामञ्च विपस्सनापि पञ्ञावसेनेव किच्चकारी, मग्गोपि विञ्ञाणसहितोव, न केवलो, यथा पन लोकियधम्मेसु चित्तं पधानं तत्थस्स धोरय्हभावेन पवत्तिसब्भावतो. तथा हि तं ‘‘छद्वाराधिपति राजा’’ति (ध. प. अट्ठ. २.१८१) वुच्चति, एवं लोकुत्तरधम्मेसु पञ्ञा पधाना पटिपक्खविधमनस्स विसेसतो तदधीनत्ता. तथा हि मग्गधम्मे सम्मादिट्ठि एव पठमं गहिता. अयञ्च नेसं विसयवसेन पवत्तिभेदो, तथा च पञ्ञापनविधि न केवलं थेरेहेव दस्सितो, अपिच खो भगवतापि दस्सितोति विभावेन्तो ‘‘सम्मासम्बुद्धोपी’’तिआदिमाह. यत्थ पञ्ञा न लब्भति, तत्थ चित्तवसेन पुच्छने वत्तब्बमेव नत्थि यथा ‘‘किंचित्तो त्वं भिक्खू’’तिआदीसु (पारा. १३२-१३५). यत्थ पन पञ्ञा लब्भति, तत्थापि चित्तवसेन जोतना होति यथा – ‘‘अज्झत्तमेव चित्तं सण्ठपेति सन्निसादेति एकोदिं करोति समादहति (सं. नि. ४.३३२), यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती’’तिआदीसु (ध. स. १). अट्ठकथायं पन लोकियधम्मेसु चित्तवसेन, लोकुत्तरधम्मेसु पञ्ञावसेन चोदनं ब्यतिरेकमुखेन दस्सेतुं ‘‘कतमा ते भिक्खु पञ्ञा अधिगता’’तिआदि वुत्तं. येभुय्यवसेन चेतं वुत्तन्ति दट्ठब्बं. तथा हि कत्थचि लोकियधम्मा पञ्ञासीसेनपि निद्दिसीयन्ति – ‘‘पठमस्स झानस्स लाभिनो कामसहगता सञ्ञामनसिकारा समुदाचरन्ति हानभागिनी पञ्ञा’’तिआदीसु (पटि. म. १.१). सञ्ञासीसेनपि – ‘‘उद्धुमातकसञ्ञाति वा सेसरूपारूपसञ्ञाति वा इमे धम्मा एकत्था, उदाहु नानत्था’’तिआदीसु (पारा. अट्ठ. ४५.पदभाजनीयवण्णना). तथा लोकुत्तरधम्मापि कत्थचि चित्तसीसेन निद्दिसीयन्ति – ‘‘यस्मिं समये लोकुत्तरं चित्तं भावेती’’ति (ध. स. २७७), तथा फस्सादिसीसेनपि – ‘‘यस्मिं समये लोकुत्तरं फस्सं भावेति, वेदनं सञ्ञं चेतनं भावेती’’तिआदीसु (ध. स. २७७).

चतूसु सोतापत्तियङ्गेसूति सप्पुरिससेवना, सद्धम्मस्सवनं, योनिसोमनसिकारो, धम्मानुधम्मपटिपत्तीति इमेसु चतूसु सोतापत्तिमग्गस्स कारणेसु. कामं चेतेसु सतिआदयोपि धम्मा इच्छितब्बाव तेहि विना तेसं असम्भवतो, तथापि चेत्थ सद्धा विसेसतो किच्चकारीति वेदितब्बा. सद्दो एव हि सप्पुरिसे पयिरुपासति, सद्धम्मं सुणाति, योनिसो च मनसि करोति, अरियमग्गस्स च अनुधम्मं पटिपज्जति, तस्मा वुत्तं ‘‘एत्थ सद्धिन्द्रियं दट्ठब्ब’’न्ति. इमिना नयेन सेसिन्द्रियेसुपि अत्थो दट्ठब्बो. चतूसु सम्मप्पधानेसूति चतुब्बिधसम्मप्पधानभावनाय. चतूसु सतिपट्ठानेसूतिआदीसुपि एसेव नयो. एत्थ च सोतापत्तियङ्गेसु सद्धा विय सम्मप्पधानभावनाय वीरियं विय च सतिपट्ठानभावनाय – ‘‘सतिमा विनेय्य लोके अभिज्झादोमनस्स’’न्ति (दी. नि. २.३७३; म. नि. १.१०६; सं. नि. ५.३८४, ४०७) वचनतो पुब्बभागे किच्चतो सति अधिका इच्छितब्बा. एवं समाधिकम्मिकस्स समाधि, ‘‘अरियसच्चभावना पञ्ञाभावना’’ति कत्वा तत्थ पञ्ञा पुब्बभागे अधिका इच्छितब्बाति पाकटोयमत्थो, अधिगमक्खणे पन समाधिपञ्ञानं विय सब्बेसम्पि इन्द्रियानं सद्धादीनं समरसताव इच्छितब्बा. तथा हि ‘‘एत्थ सद्धिन्द्रिय’’न्तिआदिना तत्थ तत्थ एत्थग्गहणं कतं. एवन्ति यं ठानं, तं इन्द्रियसमत्तादिं पच्चामसति. सविसयस्मिंयेवाति अत्तनो अत्तनो विसये एव. लोकियलोकुत्तरा धम्मा कथिताति लोकियधम्मा लोकुत्तरधम्मा च तेन तेन पवत्तिविसेसेन कथिता. इदं वुत्तं होति – सद्धापञ्चमेसु इन्द्रियेसु सह पवत्तमानेसु तत्थ तत्थ विसये सद्धादीनं किच्चाधिकताय तस्स तस्सेव दट्ठब्बता वुत्ता, न सब्बेसं. एवं अञ्ञेपि लोकियलोकुत्तरा धम्मा यथासकं विसये पवत्तिविसेसवसेन बोधिताति.

इदानि सद्धादीनं इन्द्रियानं तत्थ तत्थ अतिरेककिच्चतं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्रिदं उपमासंसन्दनं राजपञ्चमा सहाया विय विमुत्तिपरिपाचकानि पञ्चिन्द्रियानि. नेसं कीळनत्थं एकज्झं वीथिओतरणं विय इन्द्रियानं एकज्झं विपस्सनावीथिओतरणं. सहायेसु पठमादीनं यथासकगेहेव विचारणा विय सद्धादीनं सोतापत्तिअङ्गादीनि पत्वा पुब्बङ्गमता. सहायेसु इतरेसं तत्थ तत्थ तुण्हीभावो विय सेसिन्द्रियानं तत्थ तत्थ तदन्वयता. तस्स पुब्बङ्गमभूतस्स इन्द्रियस्स किच्चानुगतता. न हि तदा तेसं ससम्भारपथवीआदीसु आपादीनं विय किच्चं पाकटं होति, सद्धादीनंयेव पन किच्चं विभूतं हुत्वा तिट्ठति पुरेतरं तथापच्चयेहि चित्तसन्तानस्स अभिसङ्खतत्ता. एत्थ च विपस्सनाकम्मिकस्स भावना विसेसतो पञ्ञुत्तराति दस्सनत्थं राजानं निदस्सनं कत्वा पञ्ञिन्द्रियं वुत्तं. इतीतिआदि यथाधिगतस्स अत्थस्स निगमनं.

मग्गविञ्ञाणम्पीति अरियमग्गसहगतं अपचयगामिविञ्ञाणम्पि. तथेव तं विजानातीति सच्चधम्मं ‘‘इदं दुक्ख’’न्तिआदिना नयेनेव विजानाति एकचित्तुप्पादपरियापन्नत्ता मग्गानुकूलत्ता च. यं विजानातीति एत्थ विजाननपजाननानि विपस्सनाचित्तुप्पादपरियापन्नानि अधिप्पेतानि, न ‘‘यं पजानाती’’ति एत्थ विय मग्गचित्तुप्पादपरियापन्नाति आह ‘‘यं सङ्खारगत’’न्तिआदि. तथेवाति ‘‘अनिच्च’’न्तिआदिना नयेन. एकचित्तुप्पादपरियापन्नत्ता विपस्सनाभावतो च समानपच्चयेहि सह पवत्तिकता एकुप्पादता, ततो एव एकज्झं सहेव निरुज्झनं एकनिरोधता, एकंयेव वत्थुं निस्साय पवत्ति एकवत्थुकता, एकंयेव आरम्मणं आरब्भ पवत्ति एकारम्मणता. हेतुम्हि चेतं करणवचनं. तेन एकुप्पादादिताय संसट्ठभावं साधेति. अनवसेसपरियादानञ्चेतं, इतो तीहिपि सम्पयुत्तलक्खणं होतियेव.

मग्गपञ्ञं सन्धाय वुत्तं, सा हि एकन्ततो भावेतब्बा, न परिञ्ञेय्या, पञ्ञाय पन भावेतब्बताय तंसम्पयुत्तधम्मापि तग्गतिकाव होन्तीति आह ‘‘तंसम्पयुत्तं पना’’तिआदि. किञ्चापि विपस्सनापञ्ञाय भावनावसेन पवत्तनतो तंसम्पयुत्तविञ्ञाणम्पि तथेव पवत्तति, तस्स पन परिञ्ञेय्यभावानतिवत्तनतो परिञ्ञेय्यता वुत्ता. तेनेवाह – ‘‘यम्पि तं धम्मट्ठितिञाणं, तम्पि खयधम्मं वयधम्मं विरागधम्मं निरोधधम्म’’न्ति.

४५०. एवं सन्तेपीति वेदनाति एवं सामञ्ञग्गहणे सतिपि. तेभूमिकसम्मसनचारवेदनावाति भूमित्तयपरियापन्ना, ततो एव सम्मसनञाणस्स गोचरभूता वेदना एव अधिप्पेता सब्रह्मचारीनं उपकारावहभावेन देसनाय आरद्धत्ता. तथा हि वुत्तं ‘‘चतुरोघनित्थरणत्थिकान’’न्तिआदि. एस नयो पञ्ञायपि. इध सुखादिसद्दा तदारम्मणविसयाति इममत्थं सुत्तेन साधेतुं ‘‘रूपञ्च ही’’तिआदि वुत्तं. एकन्तदुक्खन्ति एकन्तेनेव अनिट्ठं, ततो एव दुक्खमताय दुक्खं. आरम्मणकरणवसेन दुक्खवेदनाय अनुपतितं, ओतिण्णञ्चाति दुक्खानुपतितं, दुक्खावक्कन्तं. सुखेन अनवक्कन्तं अभविस्साति योजना. नयिदन्ति एत्थ इदन्ति निपातमत्तं. सारज्जेय्युन्ति सारागं उप्पादेय्युं. सुखन्ति सभावतो च इट्ठं. सारागा संयुज्जन्तीति बहलरागहेतु यथारहं दसहिपि संयोजनेहि संयुज्जन्ति. संयोगा संकिलिस्सन्तीति तथा संयुत्तताय तण्हासंकिलेसादिवसेन संकिलिस्सन्ति, विबाधीयन्ति उपतापीयन्ति चाति अत्थो. आरम्मणन्ति इट्ठं, अनिट्ठं, मज्झत्तञ्च आरम्मणं यथाक्कमं सुखं, दुक्खं, अदुक्खमसुखन्ति कथितं. एवं अविसेसेन पञ्चपि खन्धे सुखादिआरम्मणभावेन दस्सेत्वा इदानि वेदना एव सुखादिआरम्मणभावेन दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. पाकतिकपचुरजनवसेनायं कथिताति कत्वा ‘‘पुरिमं सुखं वेदनं आरम्मणं कत्वा’’ति वुत्तं. विसेसलाभी पन अनागतम्पि सुखं वेदनं आरम्मणं करोतेव. वुत्तमेतं सतिपट्ठानवण्णनायं (दी. नि. अट्ठ. २.३८०; म. नि. अट्ठ. १.७९). वेदनाय हि आरम्मणं वेदियन्तिया तंसमङ्गीपुग्गलो वेदेतीति वोहारमत्तं होति.

सब्बसञ्ञायाति सब्बायपि चतुभूमिकसञ्ञाय. सब्बत्थकसञ्ञायाति सब्बस्मिं चित्तुप्पादे पवत्तनकसञ्ञाय. वत्थे वाति वा-सद्देन वण्णधातुं सङ्गण्हाति. पापेन्तोति भावनं उपचारं वा अप्पनं वा उपनेन्तो. उप्पज्जनकसञ्ञापीति ‘‘नीलं रूपं, रूपारम्मणं नील’’न्ति उप्पज्जनकसञ्ञापि.

असब्बसङ्गाहिकत्ताति सब्बेसं वेदनासञ्ञाविञ्ञाणानं असङ्गहितत्ता. तक्कगतन्ति सुत्तकन्तनकतक्कम्हि, सुत्तवत्तनकतक्कम्हि वा वेठनवसेन ठितं. परिवट्टकादिगतन्ति सुत्तवेठनपरिवट्टकादिगतं. विस्सट्ठत्ताव न गहिता, यदग्गेन पञ्ञा विञ्ञाणेन सद्धिं सम्पयोगं लभापिता, तदग्गेन वेदनासञ्ञाहिपि सम्पयोगं लभापिता एवाति. तदेव सञ्जानाति संसट्ठभावतो.

सञ्जानाति विजानातीति एत्थ ‘‘पजानाती’’ति पदं आनेत्वा वत्तब्बं पजाननवसेनपि विसेसस्स वक्खमानत्ता. जानातीति अयं सद्दो च लद्दतोयेवेत्थ अविसेसो, अत्थतो पन विसेसतो इच्छितब्बो. अनेकत्थत्ता हि धातूनं तेन आख्यातपदेन नामपदेन च वुत्तमत्थं उपसग्गपदं जोतकभावेन विसेसेति, न वाचकभावेन. तेनाह ‘‘तस्सपि जाननत्थे विसेसो वेदितब्बो’’ति. एतेन सञ्ञाविञ्ञाणपञ्ञापदानि अन्तोगधजाननत्थे यथासकं विसिट्ठविसये च निट्ठानीति दस्सेति. तेनेवाह ‘‘सञ्ञा ही’’तिआदि. सञ्जाननमत्तमेवाति एत्थ मत्त-सद्देन विसेसनिवत्तिअत्थेन विजाननपजाननाकारे निवत्तेति, एव-सद्देन कदाचिपि इमिस्सा ते विसेसा नत्थेवाति अवधारेति. तेनेवाह ‘‘अनिच्चं दुक्ख’’न्तिआदि. तत्थ विञ्ञाणकिच्चम्पि कातुं असक्कोन्ती सञ्ञा कुतो पञ्ञाकिच्चं करेय्याति ‘‘लक्खणपटिवेधं पापेतुं न सक्कोति’’च्चेव वुत्तं, न वुत्तं ‘‘मग्गपातुभाव’’न्ति.

आरम्मणे पवत्तमानं विञ्ञाणं न सञ्ञा विय नीलपीतादिमत्तसञ्जाननवसेन पवत्तति, अथ खो तत्थ अञ्ञम्पि तादिसं विसेसं जानन्तमेव पवत्ततीति आह ‘‘विञ्ञाण’’न्तिआदि. कथं पन विञ्ञाणं लक्खणपटिवेधं पापेतीति? पञ्ञाय दस्सितमग्गेन. लक्खणारम्मणिकविपस्सनाय हि अनेकवारं लक्खणानि पटिविज्झित्वा पवत्तमानाय पगुणभावतो परिचयवसेन ञाणविप्पयुत्तचित्तेनपि विपस्सना सम्भवति, यथा तं पगुणस्स गन्थस्स अज्झयने तत्थ तत्थ गतापि वारा न उपधारीयन्ति. ‘‘लक्खणपटिवेध’’न्ति च लक्खणानं आरम्मणकरणमत्तं सन्धाय वुत्तं, न पटिविज्झनं. उस्सक्कित्वाति उदयब्बयञाणादिञाणपटिपाटिया आरभित्वा. मग्गपातुभावं पापेतुं न सक्कोति असम्बोधसभावत्ता. आरम्मणम्पि सञ्जानाति अवबुज्झनवसेनेव, न सञ्जाननमत्तेन. तथा लक्खणपटिवेधम्पि पापेति, न विजाननमत्तेन, अत्तनो पन अञ्ञासाधारणेन आनुभावेन उस्सक्कित्वा मग्गपातुभावम्पि पापेति.

इदानि यथावुत्तमत्थं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. तत्थ अजातबुद्धीति असञ्जातब्यवहारबुद्धि. उपभोगपरिभोगन्ति उपभोगपरिभोगारहं, उपभोगपरिभोगवत्थूनं पटिलाभयोग्गन्ति अत्थो. कूटोति कहापणपतिरूपको तम्बकंसादिमयो. छेकोति महासारो. करतोति अड्ढसारो. सण्होति मुदुजातिको समसारो. इति-सद्दो आदिअत्थो. तेन पादसारपरोपादसारअड्ढसारादीनं सङ्गहो. जानन्तो च पन नं रूपं दिस्वापि…पे… असुकाचरियेन कतोतिपि जानाति तथा हेरञ्ञिकगन्थस्स सुग्गहितत्ता. एवमेवन्तिआदि उपमासंसन्दनं. सञ्ञाविभागं अकत्वा पिण्डवसेनेव आरम्मणस्स गहणतो दारकस्स कहापणदस्सनसदिसा वुत्ता. तथा हि सा यथाउपट्ठितविसयपदट्ठाना वुच्चति. विञ्ञाणं आरम्मणे एकच्चविसेसग्गहणसमत्थभावतो गामिकपुरिसकहापणदस्सनसदिसं वुत्तं. पञ्ञा पन आरम्मणे अनवसेसावबोधतो हेरञ्ञिककहापणदस्सनसदिसा वुत्ता. नेसन्ति सञ्ञाविञ्ञाणपञ्ञानं. विसेसोति सभावविसेसो. दुप्पटिविज्झो पकतिपञ्ञाय. इमिनाव नेसं अच्चन्तसुखुमतं दस्सेति.

एकारम्मणे पवत्तमानानन्ति एकस्मिंयेव आरम्मणे पवत्तमानानं. तेन अभिन्नविसयाभिन्नकालतादस्सनेन अविनिब्भोगवुत्तितं विभावेन्तो दुप्पटिविज्झतंयेव उल्लिङ्गेति. ववत्थानन्ति असङ्करतो ठपनं. अयं फस्सो…पे… इदं चित्तन्ति निदस्सनमत्तमेतं. इति-सद्दो वा आदिअत्थो. तेन सेसधम्मानम्पि सङ्गहो दट्ठब्बो. इदन्ति अरूपीनं धम्मानं ववत्थानकरणं. ततोति यं वुत्तं तिलतेलादिउद्धरणं, ततो. यदि दुक्करतरं, कथं तन्ति आह ‘‘भगवा पना’’तिआदि.

४५१. निस्सटेनाति निक्खन्तेन अतंसम्बन्धेन. परिच्चत्तेनाति परिच्चत्तसदिसेन पच्चयभावानुपगमनेन पच्चयुप्पन्नसम्बन्धाभावतो. निस्सक्कवचनं अपादानदीपनतो. करणवचनं कत्तुअत्थदीपनतो. कामावचरमनोविञ्ञाणं न नियमतो ‘‘इदं नाम पञ्चद्वारिकासम्बन्धा’’ति सक्का वत्तुं, रूपावचरविञ्ञाणं पन न तथाति, तस्सेव पञ्चहि इन्द्रियेहि निस्सटता वुत्ताति आह ‘‘रूपावचरचतुत्थज्झानचित्तेना’’ति. चतुत्थज्झानग्गहणं तस्सेव अरूपावचरस्स पदट्ठानभावतो. परिसुद्धेनाति विसेसतो असंकिलेसिकत्ताव. तञ्हि विगतूपक्किलेसताय विसेसतो परिसुद्धं. तेनाह ‘‘निरुपक्किलेसेना’’ति. जानितब्बं नेय्यं, सपरसन्तानेसु इदं अतिसयं जानितब्बतो बुज्झितब्बं बोधेतब्बं वाति अत्थो. नेय्यन्ति वा अत्तनो सन्ताने नेतब्बं पवत्तेतब्बन्ति अत्थो. तेनाह ‘‘निब्बत्तेतुं सक्का होति. एत्थ ठितस्स हि सा इज्झती’’ति. पाटियेक्कन्ति विसुं विसुं, अनुपदधम्मवसेनाति अत्थो. अभिनिवेसाभावतोति विपस्सनाभिनिवेसस्स असम्भवतो. कलापतो नयतोति कलापसम्मसनसङ्खाततो नयविपस्सनतो. भिक्खुनोति सावकस्स. सावकस्सेव हि तत्र अनुपदधम्मविपस्सना न सम्भवति, न सत्थु. तेनाह ‘‘तस्मा’’तिआदि. विस्सज्जेसीति तप्पटिबद्धछन्दरागप्पहानेन पजहति.

हत्थगतत्ताति हत्थगतसदिसत्ता, आसन्नत्ताति अत्थो. यदा हि लोकनाथो बोधिमूले अपराजितपल्लङ्के निसिन्नो – ‘‘किच्छं वतायं लोको आपन्नो’’तिआदिना (दी. नि. २.५७; सं. नि. २.४, १०) पटिच्चसमुप्पादमुखेन विपस्सनाभिनिवेसं कत्वा अधिगन्तब्बसब्बञ्ञुतञ्ञाणानुरूपं छत्तिंसकोटिसहस्समुखेन महावजिरञाणं नाम महाबोधिसत्तसम्मसनं पवत्तेन्तो अनेकाकारसमापत्तिधम्मसम्मसने अनुपदमेव नेवसञ्ञानासञ्ञायतनधम्मेपि अपरापरं सम्मसि. तेनाह ‘‘भगवा पना’’तिआदि. परोपञ्ञासाति द्वेपञ्ञासं. कामञ्चेत्थ केचि धम्मा वेदनादयो फस्सपञ्चमकादीसु वुत्तापि झानकोट्ठासादीसुपि सङ्गहिता, तंतंपच्चयभावविसिट्ठेन पन अत्थविसेसेन धम्मन्तरानि विय होन्तीति एवं वुत्तं. तथा हि लोकुत्तरचित्तुप्पादेसु नविन्द्रियता वुच्चति. अङ्गुद्धारेनाति तत्थ लब्भमानझानङ्गबोज्झङ्गमग्गङ्गानं उद्धरणेन. अङ्ग-सद्दो वा कोट्ठासपरियायो, तस्मा अङ्गुद्धारेनाति फस्सपञ्चमकादिकोट्ठासानं समुद्धरणेन. यावता सञ्ञासमापत्तियोति यत्तका सञ्ञासहगता झानसमापत्तियो, ताहि वुट्ठाय अधिगन्धब्बत्ता तावतिका वेनेय्यानं अञ्ञापटिवेधो अरहत्तसमधिगमो.

दस्सनपरिणायकट्ठेनाति अन्धस्स यट्ठिकोटिं गहेत्वा मग्गदेसको विय धम्मानं यथासभावदस्सनसङ्खातेन परिणायकभावेन. यथा वा सो तस्स चक्खुभूतो, एवं सत्तानं पञ्ञा. तेनाह ‘‘चक्खुभूताय पञ्ञाया’’ति. समाधिसम्पयुत्ता पञ्ञा समाधिपञ्ञा. समाधि चेत्थ आरुप्पसमाधीति वदन्ति, सम्मसनपयोगो पन कोचि झानसमाधीति युत्तं. विपस्सनाभूता पञ्ञा विपस्सनापञ्ञा. समाधिपञ्ञाय अन्तोसमापत्तियं किच्चतो पजानाति, ‘‘समाहितो यथाभूतं पजानाती’’ति पन वचनतो (सं. नि. ३.५; ४.९९-१००; ३.५.१०७१-१०७२; नेत्ति. ४०; मि. प. २.१.१४) असम्मोहतो पजानाति. तत्थ किच्चतोति गोचरज्झत्ते आरम्मणकरणकिच्चतो. असम्मोहतोति सम्पयुत्तधम्मेसु सम्मोहविधमनतो यथा पीतिपटिसंवेदनादीसु. किमत्थियाति किंपयोजनाति आह ‘‘को एतिस्सा अत्थो’’ति. अभिञ्ञेय्ये धम्मेति याथावसरसलक्खणावबोधवसेन अभिमुखं ञेय्ये जानितब्बे खन्धायतनादिधम्मे. अभिजानातीति सलक्खणतो सामञ्ञलक्खणतो च अभिमुखं अविरज्झनवसेन जानाति. एतेन ञातपरिञ्ञाब्यापारमाह. परिञ्ञेय्येति अनिच्चातिपि दुक्खातिपि अनत्तातिपि परिच्छिज्ज जानितब्बे. परिजानातीति ‘‘यं किञ्चि रूपं…पे… अनिच्चं खयट्ठेना’’तिआदिना (पटि. म. १.४८) परिच्छिन्दित्वा जानाति. इमिना तीरणपरिञ्ञाब्यापारमाह. पहातब्बे धम्मेति निच्चसञ्ञादिके याव अरहत्तमग्गवज्झा सब्बे पापधम्मे. पजहति पकट्ठतो जहति, विक्खम्भेति चेव समुच्छिन्दति चाति अत्थो. इमिना पहानपरिञ्ञाब्यापारमाह. सा पनेसा पञ्ञा लोकियापि तिप्पकारा लोकुत्तरापि, तासं विसेसं सयमेवाह. किच्चतोति अभिजाननवसेन आरम्मणकिच्चतो. असम्मोहतोति यथाबलं अभिञ्ञेय्यादीसु सम्मोहविधमनतो. निब्बानमारम्मणं कत्वा पवत्तनतो अभिञ्ञेय्यादीसु विगतसम्मोहतो एवाति आह ‘‘लोकुत्तरा असम्मोहतो’’ति.

४५२. कम्मस्सकता सम्मादिट्ठि च वट्टनिस्सितत्ता इध नाधिप्पेता, विवट्टकथा हेसाति वुत्तं ‘‘विपस्सनासम्मादिट्ठिया च मग्गसम्मादिट्ठिया चा’’ति. परतो घोसोति परतो सत्थुतो, सावकतो वा लब्भमानो धम्मघोसो. तेनाह ‘‘सप्पायधम्मस्सवन’’न्ति. तञ्हि सम्मादिट्ठिया पच्चयो भवितुं सक्कोति, न यो कोचि परतोघोसो. उपायमनसिकारोति येन नामरूपपरिग्गहादि सिज्झति, तादिसो पथमनसिकारो. अयञ्च सम्मादिट्ठिया पच्चयोति नियमपक्खिको, न सब्बसंगाहकोति दस्सेन्तो ‘‘पच्चेकबुद्धानं पना’’तिआदिमाह. योनिसोमनसिकारस्मिंयेवाति अवधारणेन परतोघोसमेव निवत्तेति, न पदट्ठानविसेसं पटियोगीनिवत्तनत्थत्ता एव-सद्दस्स.

लद्धुपकाराति (अ. नि. टी. ३.५.२५) यथारहं निस्सयादिवसेन लद्धपच्चया. विपस्सनासम्मादिट्ठिया अनुग्गहितभावेन गहितत्ता मग्गसम्मादिट्ठीसु च अरहत्तमग्गसम्मादिट्ठि, अनन्तरस्स हि विधि, पटिसेधो वा. अग्गफलसमाधिम्हि तप्परिक्खारधम्मेसुयेव च केवलो चेतोपरियायो निरुळ्होति सम्मादिट्ठीति अरहत्तमग्गसम्मादिट्ठि. फलक्खणेति अनन्तरे कालन्तरे चाति दुविधे फलक्खणे. पटिप्पस्सद्धिवसेन सब्बसंकिलेसेहि चेतो विमुच्चति एतायाति चेतोविमुत्ति, अग्गफलपञ्ञं ठपेत्वा अवसेसा फलधम्मा. तेनाह ‘‘चेतोविमुत्ति फलं अस्साति. चेतोविमुत्तिसङ्खातं फलं आनिसंसो’’ति, सब्बसंकिलेसेहि चेतसो विमुच्चनसङ्खातं पटिप्पस्सम्भनसञ्ञितं पहानं फलं आनिसंसो चाति योजना. इध च चेतोविमुत्ति-सद्देन पहानमत्तं गहितं, पुब्बे पहायकधम्मा, अञ्ञथा फलधम्मा एव आनिसंसोति गय्हमाने पुनवचनं निरत्थकं सिया.

पञ्ञाविमुत्तिफलानिसंसाति एत्थापि एवमेव अत्थो वेदितब्बो. सम्मावाचाकम्मन्ताजीवा सीलसभावत्ता विसेसतो समाधिस्स उपकारा, तथा सम्मासङ्कप्पो झानसभावत्ता. तथा हि सो ‘‘अप्पना’’ति निद्दिट्ठो. सम्मासतिसम्मावायामा पन समाधिपक्खिया एवाति आह ‘‘अवसेसा धम्मा चेतोविमुत्तीति वेदितब्बा’’ति. चतुपारिसुद्धिसीलन्ति अरियमग्गाधिगमस्स पदट्ठानभूतं चतुपारिसुद्धिसीलं. सुतादीसुपि एसेव नयो. अत्तनो चित्तप्पवत्तिआरोचनवसेन सह कथनं संकथा, संकथाव साकच्छा. इध पन कम्मट्ठानपटिबद्धाति आह ‘‘कम्मट्ठाने…पे… कथा’’ति. तत्थ कम्मट्ठानस्स एकवारं वीथिया अप्पटिपज्जनं खलनं, अनेकवारं पक्खलनं, तदुभयस्स विच्छेदनीकथा खलनपक्खलनछेदनकथा. पूरेन्तस्साति विवट्टनिस्सितं कत्वा पालेन्तस्स ब्रूहेन्तस्स च. सुणन्तस्साति ‘‘यथाउग्गहितकम्मट्ठानं फातिं गमिस्सती’’ति एवं सुणन्तस्स. तेनेव हि ‘‘सप्पायधम्मस्सवन’’न्ति वुत्तं. कम्मं करोन्तस्साति भावनानुयोगकम्मं करोन्तस्स.

पञ्चसुपि ठानेसु अन्त-सद्दो हेतुअत्थजोतनो दट्ठब्बो. एवञ्हि ‘‘यथा ही’’तिआदिना वुच्चमाना अम्बुपमा च युज्जेय्य. उदककोट्ठकन्ति आलवालं. थिरं कत्वा बन्धतीति असिथिलं दळ्हं नातिमहन्तं नातिखुद्दकं कत्वा योजेति. थिरं करोतीति उदकसिञ्चनकाले ततो ततो विस्सरित्वा उदकस्स अनिक्खमनत्थं आलवालं थिरतरं करोति. सुक्खदण्डकोति तस्सेव अम्बगच्छकस्स सुक्खो साखासीसको. किपिल्लिकपुटोति तम्बकिपिल्लिककुटजं. खणित्तिन्ति कुदालं. कोट्ठकबन्धनं विय सीलं सम्मादिट्ठिया वड्ढनुपायस्स मूलभावतो. उदकसिञ्चनं विय धम्मस्सवनं भावनाय परिब्रूहनतो. मरियादाय थिरभावकरणं विय समथो यथावुत्तभावनाधिट्ठानाय सीलमरियादाय दळ्हभावापादनतो. समाहितस्स हि सीलं थिरतरं होति. समीपे वल्लिआदीनं हरणं विय कम्मट्ठाने खलनपक्खलनच्छेदनं इज्झितब्बभावनाय विबन्धापनयनतो. मूलखणनं विय सत्तन्नं अनुपस्सनानं भावना तस्सा विबन्धस्स मूलकानं तण्हामानदिट्ठीनं पलिखणनतो. एत्थ च यस्मा सुपरिसुद्धसीलस्स कम्मट्ठानं अनुयुञ्जन्तस्स सप्पायधम्मस्सवनं इच्छितब्बं, ततो यथासुते अत्थे साकच्छासमापज्जनं, ततो कम्मट्ठानविसोधनेन समथनिप्फत्ति, ततो समाहितस्स आरद्धविपस्सकस्स विपस्सनापारिपूरि. परिपुण्णविपस्सनो मग्गसम्मादिट्ठिं परिब्रूहेतीति एवमेतेसं अङ्गानं परम्पराय सम्मुखा च अनुग्गण्हनतो अयमानुपुब्बी कथिताति वेदितब्बं.

४५३. इध किं पुच्छतीति इध एवं अरहत्तफलं पापिताय देसनाय ‘‘कति पनावुसो, भवा’’ति भवं पुच्छन्तो कीदिसं अनुसन्धिं उपादाय पुच्छतीति अत्थो. तेनेव हि ‘‘मूलमेव गतो अनुसन्धी’’ति वत्वा अधिप्पायं पकासेन्तो ‘‘दुप्पञ्ञो’’तिआदिमाह. दुप्पञ्ञोति हि इध अप्पटिविद्धसच्चो अधिप्पेतो, न जळो एव. कामभवोतिआदीसु कम्मोपपत्तिभेदतो दुविधोपि भवो अधिप्पेतोति दस्सेन्तो ‘‘कामभवूपगं कम्म’’न्तिआदिमाह. तत्थ यं वत्तब्बं, तं विसुद्धिमग्गे तंसंवण्णनायं (विसुद्धि. २.६४७; विसुद्धि. महाटी. २.६४६-६४७) वुत्तनयेन वेदितब्बं. पुनब्भवस्साति पुनप्पुनं अपरापरं भवनतो जायनतो पुनब्भवोति लद्धनामस्स वट्टपबन्धस्स. तेनाह ‘‘इध वट्टं पुच्छिस्सामी’’ति. अभिनिब्बत्तीति भवयोनिगतिआदिवसेन निब्बत्ति. तहिं तहिं तस्मिं तस्मिं भवादिके. अभिनन्दनाति तण्हाअभिनन्दनहेतु. गमनागमनं होतीतिआदिना भवादीसु सत्तानं अपरापरं चुतिपटिसन्धियो दस्सेति. खयनिरोधेनाति अच्चन्तखयसङ्खातेन अनुप्पादनिरोधेन. उभयमेतं न वत्तब्बं पहानाभिसमयभावनाभिसमयानं अच्चासन्नकालत्ता. वत्तब्बं तं हेतुफलधम्मूपचारवसेन. यथा हि पदीपुज्जलनहेतुको अन्धकारविगमो, एवं विज्जुप्पादहेतुको अविज्जानिरोधो, हेतुफलधम्मा च समानकालापि पुब्बापरकाला विय वोहरीयन्ति यथा – ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति (म. नि. १.२०४, ४००; म. नि. ३.४२०, ४२५, ४२६; सं. नि. २.४३-४५; २.४.६०; कथा. ४६५, ४६७) पच्चयपच्चयुप्पन्नकिरिया. गमनं उपच्छिज्जति इध कामभवे परिनिब्बानेन. आगमनं उपच्छिज्जति तत्थ रूपारूपेसु परिनिब्बानेन. गमनागमनं उपच्छिज्जति सब्बसो अपरापरुप्पत्तिया अभावतो.

४५४. विवट्टकथाय परतो जोतितं पठमं झानं विवट्टं पत्वा ठितस्स उक्कट्ठनिद्देसेन उभतोभागविमुत्तस्स निरोधसाधकं विभावितुं युत्तन्ति आह ‘‘कतमं पनावुसोति इध किं पुच्छती’’तिआदि. तथा हि अनन्तरं निरोधसमापज्जनकेन भिक्खुना जानितब्बानि पठमस्स झानस्स सम्पयोगपहानङ्गानि पुच्छितानि. अङ्गववत्थानन्ति झानङ्गववत्थानं. कोट्ठासपरिच्छेदोति तत्थ लब्भमानफस्सपञ्चमकादिधम्मकोट्ठासपरिच्छेदो जानितब्बो. इमस्मिं झाने एत्तका धम्मा संविज्जन्ति, एत्तका निरोधिताति जानितब्बं. उपकारानुपकारानि अङ्गानीति निरोधसमापत्तिया उपकारानि च अनुपकारानि च अङ्गानि. निरोधसमापत्तिया हि सोळसहि ञाणचरियाहि नवहि समाधिचरियाहि च पत्तब्बत्ता तंतंञाणस्स समाधिचरियाहि समतिक्कमितब्बा धम्मा अनुपकारकङ्गानि, समतिक्कमका उपकारकङ्गानि. तेसञ्हि वसेन यथानुपुब्बं उपसन्तुपसन्तओळारिकभावाय भवग्गसमापत्तिया सङ्खारावसेससुखुमतं पत्ता चित्तचेतसिका यथापरिच्छिन्नं कालं निरुज्झन्ति, अप्पवत्तिं गच्छन्ति. तस्साति निरोधस्स. अनन्तरपच्चयन्ति अनन्तरपच्चयसदिसं. न हि निरोधस्स कोचि धम्मो अनन्तरपच्चयो नाम अत्थि. यञ्हि तदा चित्तचेतसिकानं तथा निरुज्झनं, तं यथावुत्तपुब्बाभिसङ्खारहेतुकाय नेवसञ्ञानासञ्ञायतनसमापत्तिया अहोसीति सा तस्स अनन्तरपच्चयो विय होतीति तं वुत्तं. छ समापत्तियोति सुत्तन्तनयेन वुत्तसुत्तन्तपिटकसंवण्णनाति कत्वा. ‘‘सत्त समापत्तियो’’ति पन वत्तब्बं, अञ्ञथा इदं ‘‘चतुरङ्गिक’’न्ति न वत्तब्बं सिया. नयं वा दस्सेत्वाति आदिअन्तदस्सनवसेन नयदस्सनं कत्वा.

४५५. एवं निरोधस्स पादकं विभावेत्वा इदानि अन्तोनिरोधे अनुपबन्धभावतो पञ्चन्नं पसादानं पच्चयपुच्छने पठमं ताव ते सरूपतो आवेणिकतो आवेणिकविसयतो पटिस्सरणतो च पुच्छनवसेन पाळि पवत्ताति दस्सेन्तो ‘‘विञ्ञाणनिस्सये पञ्च पसादे पुच्छन्तो’’ति आह. गोचरविसयन्ति एत्थ कामं तब्बहुलचारितापेक्खं गोचरग्गहणं, अनञ्ञत्थभावापेक्खं विसयग्गहणन्ति अत्थेव गोचरविसयभावानं विसेसो, विवरियमानं पन उभयम्पि आरम्मणसभावमेवाति आह ‘‘गोचरभूतं विसय’’न्ति. एकेकस्साति एको एकस्स, अञ्ञो अञ्ञस्साति अत्थो. अञ्ञत्थो हि अयं एक-सद्दो ‘‘इत्थेके अभिवदन्ती’’तिआदीसु (म. नि. ३.२७) विय. सचे हीतिआदि अभूतपरिकप्पनवचनमेतं. तत्थ समोधानेत्वाति एकज्झं कत्वा. विनापि मुखेनातिआदिना अत्थसल्लापिकनिदस्सनं नाम दस्सेति. यथा विञ्ञाणाधिट्ठितमेव चक्खु रूपं पस्सति, न केवलं, एवं चक्खुनिस्सयमेव विञ्ञाणं तं पस्सति, न इतरन्ति आह ‘‘चक्खुपसादे उपनेही’’ति. तेन तेसं तत्थ संहच्चकारितं दस्सेति. यदि वा नीलं यदि वा पीतकन्ति इदं नीलपीतादिसभावजाननमत्तं सन्धायाह. नीलं पीतकन्ति पजाननं चक्खुविञ्ञाणस्स नत्थेव अविकप्पकभावतो. एतेसं चक्खुविञ्ञाणादीनं. निस्सयसीसेन निस्सितपुच्छा हेसा, एवञ्हि विसयानुभवनचोदना समत्थिता होति. तेनाह ‘‘चक्खुविञ्ञाणं ही’’तिआदि. यथासकं विसयं रज्जनादिवसेन अनुभवितुं असमत्थानि चक्खुविञ्ञाणादीनि, तत्थ समत्थतायेव च नत्थि, न किञ्चि अत्थतो पटिसरन्तानि विय होन्तीति वुत्तं ‘‘किं एतानि पटिसरन्ती’’ति. जवनमनो पटिसरणन्ति पञ्चद्वारिकं इतरञ्च साधारणतो वत्वा पुन याय’स्स रज्जनादिपवत्तिया पटिसरणता, सा सविसेसा यत्थ लब्भति, तं दस्सेन्तो ‘‘मनोद्वारिकजवनमनो वा’’ति आह. एतस्मिं पन द्वारेति चक्खुद्वारे जवनं रज्जति वा दुस्सति वा मुय्हति वा, यतो तत्थ अञ्ञाणादिअसंवरो पवत्तति.

तत्राति तस्मिं जवनमनस्सेव पटिसरणभावे. दुब्बलभोजकाति हीनसामत्थिया राजभोग्गा. सेवकानं गणनाय योजितदिवसे लब्भमानकहापणो युत्तिकहापणो. अन्दुबन्धनेन बद्धस्स विस्सज्जनेन लब्भमानकहापणो बन्धकहापणो. किञ्चि पहरन्ते मा पहरन्तूति पटिक्खिपतो दातब्बदण्डो मापहारकहापणो. सो सब्बोपि परित्तकेसु गामिकमनुस्सेसु तथा लब्भमानो एत्तको होतीति आह ‘‘अट्ठकहापणो वा’’तिआदि. सतवत्थुकन्ति सतकरीसवत्थुकं. एस नयो सेसपदद्वयेपि. तत्थातिआदि उपमासंसन्धनं, तं सुविञ्ञेय्यमेव.

४५६. अन्तोनिरोधस्मिं पञ्च पसादेति निरोधसमापन्नस्स पवत्तमाने पञ्च पसादे. किरियमयपवत्तस्मिन्ति जवनादिकिरियानिब्बत्तकधम्मप्पवत्तियं. बलवपच्चया होन्तीति पच्छाजातविप्पयुत्तअत्थिअविगतपच्चयेहि पच्चया होन्ति, उपत्थम्भकभावेन बलवपच्चया होन्ति. जीवितिन्द्रियं पटिच्चाति इन्द्रियअत्थिअविगतपच्चयवसेन पच्चयभूतं जीवितिन्द्रियं पटिच्च पञ्चविधोपि पसादो तिट्ठति. जीवितिन्द्रियेन विना न तिट्ठति जीवितिन्द्रियरहितस्स कम्मसमुट्ठानरूपकलापस्स अभावतो. तस्माति यस्मा अनुपालनलक्खणेन जीवितेन अनुपालिता एव उस्मा पवत्तति, न तेन अननुपालिता, तस्मा उस्मा आयुं पटिच्च तिट्ठति. जालसिखं पटिच्च आभा पञ्ञायतीति जालसिखासङ्खातभूतसङ्घातं सहेव पवत्तमानं निस्साय ‘‘आभा’’ति लद्धनामा वण्णधातु ‘‘उज्जलति, अन्धकारं विधमति, रूपगतानि च विदंसेती’’तिआदीहि पकारेहि ञायति. तं आलोकं पटिच्चाति तं वुत्तप्पकारं आलोकं पच्चयं लभित्वा. जालसिखा पञ्ञायतीति ‘‘अप्पिका, महती, उजु, कुटिला’’तिआदिना पाकटा होति.

जालसिखा विय कम्मजतेजो निस्सयभावतो. आलोको विय जीवितिन्द्रियं तन्निस्सितभावतो. इदानि उपमोपमितब्बानं सम्बन्धं दस्सेतुं ‘‘जालसिखा ही’’तिआदि वुत्तं. आलोकं गहेत्वाव उप्पज्जतीति इमिना यथा जालसिखाय सहेव आलोको उप्पज्जति, एवं कम्मजुस्मना सहेव जीवितिन्द्रियं उप्पज्जतीति दस्सेति. जालसिखासन्निस्सयो तस्सा सतियेव होन्तो आलोको ताय उप्पादितो विय होतीति आह ‘‘अत्तना जनितआलोकेनेवा’’ति. उस्मा नामेत्थ कम्मसमुट्ठाना तेजोधातु तन्निस्सितञ्च जीवितिन्द्रियं तदनुपालकञ्चाति आह ‘‘कम्मजमहाभूतसम्भवेन जीवितिन्द्रियेन उस्माय अनुपालन’’न्ति. न केवलं खणट्ठितिया एव, अथ खो पबन्धानुपच्छेदस्सपि जीवितिन्द्रियं कारणन्ति आह ‘‘वस्ससतम्पि कम्मजतेजपवत्तं पालेती’’ति. उस्मा आयुनो पच्चयो होन्तो सेसभूतसहितो एव होतीति आह ‘‘महाभूतानी’’ति. तथा आयुपि सहजातरूपं पालेन्तमेव उस्माय पच्चयो होतीति वुत्तं ‘‘महाभूतानि पालेती’’ति.

४५७. आयु एव इन्द्रियपच्चयादिवसेन सहजातधम्मानं अनुपालनवसेन सङ्खरणतो आयुसङ्खारो. बहुवचननिद्देसो पन अनेकसतसहस्सभेदेसु रूपकलापेसु पवत्तिया अनेकभेदन्ति कत्वा. आरम्मणरसं अनुभवन्तीति वेदनिया यथा ‘‘निय्यानिका’’ति. तेनाह ‘‘वेदना धम्मावा’’ति. सुखादिभेदभिन्नत्ता बहुवचननिद्देसो. इमेसं आयुसङ्खारवेदनानं एकन्तनिरोधं समापन्नस्स मरणेन भवितब्बं वेदनाय निरुद्धत्ता. आयुसङ्खारानं तथा अनिरुद्धत्ता निरोधस्स समापज्जनमेव न सिया, कुतो वुट्ठानं. तेन वुत्तं पाळियं ‘‘ते च हावुसो’’तिआदि. वुट्ठानं पञ्ञायति सञ्ञावेदनादीनं उप्पत्तिया. इदानि तमत्थं वित्थारतो उपमाय विभावेतुं ‘‘यो ही’’तिआदि वुत्तं. उक्कण्ठित्वाति नानारम्मणापाततो निब्बिन्दित्वा. यथापरिच्छिन्नकालवसेनाति यथापरिच्छिन्ने काले सम्पत्ते. रूपजीवितिन्द्रियपच्चयाति इन्द्रियपच्चयभूता. जालापवत्तं विय अरूपधम्मा तेजुस्सदभावतो विसयोभासनतो च. उदकप्पहारो विय निरोधसमापत्तिया पुब्बाभिसङ्खारो. पिहितअङ्गारा विय रूपजीवितिन्द्रियं उस्मामत्तताय अनोभासनतो. यथापरिच्छिन्नकालागमनन्ति यथापरिच्छिन्नकालस्स उपगमनं. अनुरूपपत्तिवसेनेव रूपपवत्तिग्गहणं. इमं रूपकायं जहन्तीति इमस्मा रूपकाया कळेवरा विगच्छन्ति नप्पवत्तन्ति.

कायेन सङ्खरीयन्तीति कायसङ्खारा तप्पटिबद्धवुत्तिताय. वाचं सङ्खरोन्तीति वचीसङ्खारा. वितक्केत्वा विचारेत्वा हि वाचं भिन्दति कथेति. चित्तेन सङ्खरीयन्तीति चित्तसङ्खारा तप्पटिबद्धवुत्तितो. चित्तसङ्खारनिरोधचोदनाय रूपनिरोधो विय चित्तनिरोधो अचोदितो तेसं ततो अञ्ञत्ताति न चित्तसम्पयुत्तनिरोधो एकन्तिको वितक्कादिनिरोधे तदभावतो. यं पन वुत्तं ‘‘वाचा अनिरुद्धा होती’’ति, तम्पि न. वाचं सङ्खरोन्तीति हि वचीसङ्खारा, तेसु निरुद्धेसु कथं वाचाय अनिरोधो. चित्तं पन निरुद्धेसुपि चित्तसङ्खारेसु तेहि अनभिसङ्खतत्ता वितक्कादिनिरोधो विय पवत्ततियेवाति अयमेत्थ परस्स अधिप्पायो. आनन्तरियकम्मं कतं भवेय्य, चित्तस्स अनिरुद्धत्ता तं निस्साय च रूपधम्मानं अनपगतत्ता ते जीवन्ति एव नामाति. ब्यञ्जने अभिनिवेसं अकत्वाति ‘‘चित्तसङ्खारा निरुद्धा’’ति वचनतो तेव निरुद्धा, न चित्तन्ति एवं नेय्यत्थं सुत्तं ‘‘नीतत्थ’’न्ति अभिनिवेसं अकत्वा. आचरियानं नये ठत्वाति परम्परागतानं आचरियानं अधिप्पाये ठत्वाति अत्थो. उपपरिक्खितब्बोति सुत्तन्तरागमतो सुत्तन्तरपदस्स अविपरीतो अत्थो वीमंसितब्बो. यथा हि ‘‘असञ्ञभवो’’ति वचनतो ‘‘सञ्ञाव तत्थ नत्थि, इतरे पन चित्तचेतसिका सन्ती’’ति अयमेत्थ अत्थो न गय्हति. यथा च ‘‘नेवसञ्ञानासञ्ञायतन’’न्ति वचनतो ‘‘सञ्ञाव तत्थ तादिसी, न फस्सादयो’’ति अयमेत्थ अत्थो न गय्हति सञ्ञासीसेन देसनाति कत्वा, एवमिधापि ‘‘चित्तसङ्खारा निरुद्धा’’ति, ‘‘सञ्ञावेदयितनिरोधो’’ति च देसनासीसमेव. सब्बेपि पन चित्तचेतसिका तत्थ निरुज्झन्तेवाति अयमेत्थ अविपरीतो अत्थो वेदितब्बो, तथापुब्बाभिसङ्खारेन सब्बेसंयेव चित्तचेतसिकानं तत्थ निरुज्झनतो. एतेन यं पुब्बे ‘‘अञ्ञत्ता, तदभावतो’’ति च युत्तिवचनं, तदयुत्तं अधिप्पायानवबोधतोति दस्सितं होति. तेनाह ‘‘अत्थो हि पटिसरणं, न ब्यञ्जन’’न्ति.

उपहतानीति बाधितानि. मक्खितानीति धंसितानि. आरम्मणघट्टनाय इन्द्रियानं किलमथो चक्खुना भासुररूपसुखुमरजदस्सनेन विभावेतब्बो. तथा हि उण्हकाले पुरतो अग्गिम्हि जलन्ते खरस्सरे च पणवे आकोटिते अक्खीनि भेदानि विय न सहन्ति सोतानि ‘‘सिखरेन विय अभिहञ्ञन्ती’’ति वत्तारो होन्ति.

४५८. रूपावचरचतुत्थज्झानमेव रूपविरागभावनावसेन पवत्तं अरूपज्झानन्ति नेवसञ्ञानासञ्ञायतनं विस्सज्जेन्तो धम्मसेनापति ‘‘सुखस्स च पहाना’’तिआदिना विस्सज्जेसि. अपगमनेन विगमेन पच्चया अपगमनपच्चया सुखादिप्पहानानि. अधिगमपच्चया पन कसिणेसु रूपावचरचतुत्थज्झानं हेट्ठिमा तयो च आरुप्पा. न हि सक्का तानि अनधिगन्त्वा नेवसञ्ञानासञ्ञायतनमधिगन्तुं. निरोधतो वुट्ठानकफलसमापत्तिन्ति निरोधतो वुट्ठानभूतं अनिच्चानुपस्सनासमुदागतफलसमापत्तिं. सा हि ‘‘अनिमित्ता चेतोविमुत्ती’’ति वुच्चति. यथा समथनिस्सन्दो अभिञ्ञा, मेत्ताकरुणामुदिताब्रह्मविहारनिस्सन्दो उपेक्खाब्रह्मविहारो, कसिणनिस्सन्दो आरुप्पा, समथविपस्सनानिस्सन्दो निरोधसमापत्ति, एवं विपस्सनाय निस्सन्दफलभूतं सामञ्ञफलन्ति आह ‘‘विपस्सनानिस्सन्दाय फलसमापत्तिया’’ति. आरम्मणा नाम सारम्मणधम्मानं विसेसतो उप्पत्तिनिमित्तन्ति आह ‘‘सब्बनिमित्तानन्ति रूपादीनं सब्बारम्मणान’’न्ति. नत्थि एत्थ किञ्चि सङ्खारनिमित्तन्ति अनिमित्ता, असङ्खता धातूति आह ‘‘सब्बनिमित्तापगताय निब्बानधातुया’’ति. फलसमापत्तिसहजातं मनसिकारं सन्धायाह, न आवज्जनमनसिकारं. न हेत्थ तस्स सम्भवो अनुलोमानन्तरं उप्पज्जनतो.

इमस्मिं ठानेति इध वुत्तनिरोधस्स आदिमज्झपरियोसानानं गहितानं इमस्मिं परियोसानस्स गहितट्ठाने. द्वीहि बलेहीति समथविपस्सनाबलेहि. तयो च सङ्खारानन्ति कायसङ्खारादीनं तिण्णं सङ्खारानं. सोळसहि ञाणचरियाहीति अनिच्चानुपस्सना, दुक्खा, अनत्ता, निब्बिदा, विरागा, निरोधा, पटिनिस्सग्गा, विवट्टानुपस्सना, सोतापत्तिमग्गो…पे… अरहत्तफलसमापत्तीति इमाहि सोळसहि ञाणचरियाहि. नवहि समाधिचरियाहीति पठमज्झानसमाधिआदीहि नवहि समाधिचरियाहि. यो यथावुत्तासु चरियासु पुग्गलस्स वसीभावो, सा वसीभावतापञ्ञा. अस्सा सा कथिताति योजना. विनिच्छयकथाति विनिच्छयवसेन पवत्ता अट्ठकथा कथिता. तस्मा विसुद्धिमग्गे (विसुद्धि. २.८६८-८६९) तंसंवण्णनायञ्च (विसुद्धि. महाटी. २.८६८) वुत्तनयेन वेदितब्बा.

वलञ्जनसमापत्ति अरियविहारवसेन विहरणसमापत्ति. ठितियाति एत्थ पबन्धट्ठिति अधिप्पेता, न खणट्ठिति. कस्मा? समापज्जनत्ता. तेनाह ‘‘ठितियाति चिरट्ठितत्थ’’न्ति. अद्धानपरिच्छेदोति एत्तकं कालं समापत्तिया वीतिनामेस्सामीति पगेव कालपरिच्छेदो. रूपादिनिमित्तवसेनाति कम्मकम्मनिमित्तगतिनिमित्तेसु यथारहं लब्भमानरूपादिनिमित्तवसेन. तत्थ यस्मा कम्मनिमित्ते छब्बिधम्पि आरम्मणं लब्भति, तस्मा ‘‘सब्बनिमित्तान’’न्ति वुत्तं, न सब्बेसं आरम्मणानं एकज्झं, एकन्ततो वा मनसिकातब्बतो. लक्खणवचनञ्हेतं यथा ‘‘दातब्बमेतं भेसज्जं, यदि मे ब्याधिता सियु’’न्ति.

४५९. नीलम्पि सञ्जानातीतिआदिना नीलादिग्गहणमुखेन तंवण्णानं सत्तानं सञ्जाननं अवेरादिभावमनसिकरणं जोतितन्ति आह ‘‘एतस्मिञ्हि ठाने अप्पमाणा चेतोविमुत्ति कथिता’’ति. एत्थ आकिञ्चञ्ञं कथितन्ति सम्बन्धो. ‘‘एत्थ सुञ्ञता’’ति, ‘‘एत्थ अनिमित्ता’’ति एत्थापि एसेव नयो. न्ति ‘‘इध अञ्ञं अभिनवं नाम नत्थी’’तिआदिना वुत्तं अत्थवचनं. एताति अप्पमाणचेतोविमुत्तिआदयो. एकनामकाति एकेकनामका, ये नानाब्यञ्जनाति अधिप्पेता. एको धम्मोति अरहत्तफलसमापत्ति. चतुनामकोति अप्पमाणचेतोविमुत्तिआदिनामको. एतन्ति एतमत्थं. अप्पमाणाति अनोधिसो, ओधिसोपि वा ‘‘एत्तका’’ति अपरिमिता. असेसेत्वाति असुभसमापत्ति विय एकस्सेव अग्गहणतो.

किञ्चापि असुभनिमित्तारम्मणम्पि किञ्चनं होति, आरम्मणसङ्घट्टनस्स किञ्चनस्स असुभसमापत्तीनम्पि पटिभागनिमित्तसङ्खातं आरम्मणं सबिम्बं विय विग्गहं किञ्चनं हुत्वा उपट्ठाति, न तथा इमस्साति. ननु ब्रह्मविहारपठमारुप्पानम्पि पटिभागनिमित्तभूतं किञ्चि आरम्मणं नत्थीति? सच्चं नत्थि, अयं पन पठमारुप्पविञ्ञाणं विय न पटिभागनिमित्तभूतआरम्मणताय एवं वुत्ता. अत्तेनाति अत्तना. भवति एतेन अत्ताति अभिधानं बुद्धि चाति भावो, अत्ता. भाव-सद्दोपि अत्तपरियायोति आह ‘‘भावपोसपुग्गलादिसङ्खातेना’’ति. नेसं अप्पमाणसमाधिआदीनं चतुन्नं. ‘‘नानता पाकटावा’’ति वुत्तं नानत्तं भूमितो आरम्मणतो च दस्सेतुं ‘‘अत्थो पना’’तिआदि वुत्तं. परित्तादिभावेन अतीतादिभावेन अज्झत्तादिभावेन च न वत्तब्बं आरम्मणं एतिस्साति नवत्तब्बारम्मणा निब्बानारम्मणफलसमापत्तिभावतो.

एत्तकोति रागादीहि संकिलिट्ठताय एत्तकप्पमाणो, उत्तानो परित्तचेतसोति अत्थो. निब्बानम्पि अप्पमाणमेव पमाणकरणानं अभावेनाति आनेत्वा सम्बन्धो. अकुप्पाति अरहत्तफलचेतोविमुत्ति पटिपक्खेहि अकोपनीयताय. किञ्चतीति कत्तरि पठितो धातु मद्दनत्थोति आह ‘‘किञ्चति मद्दती’’ति. तस्स पयोगं दस्सेतुं ‘‘मनुस्सा किरा’’तिआदि वुत्तं.

समूहादिघनवसेन सकिच्चपरिच्छेदताय च सविग्गहा विय उपट्ठिता सङ्खारा निच्चादिग्गाहस्स वत्थुताय ‘‘निच्चनिमित्तं सुखादिनिमित्त’’न्ति च वुच्चति. विपस्सना पन तत्थ घनविनिब्भोगं करोन्ती निच्चादिग्गाहं विधमेन्ती ‘‘निमित्तं समुग्घातेती’’ति वुत्ता घननिमित्तस्स आरम्मणभूतस्स अभावा. न गहिताति एकत्थपदनिद्देसे पाळियं कस्मा न गहिता? साति सुञ्ञता चेतोविमुत्ति. सब्बत्थाति अप्पमाणाचेतोविमुत्तिआदिनिद्देसेसु. आरम्मणवसेनाति आरम्मणवसेनपि एकत्था, न केवलं सभावसरसतोव. इमिना परियायेनाति अप्पमाणतोतिआदिना आरम्मणतो लद्धपरियायेन. अञ्ञस्मिं पन ठानेति आकिञ्चञ्ञादिसद्दपवत्तिहेतुतो अञ्ञेन हेतुना अप्पमाणातिसद्दप्पवत्तियं एतस्स चेतोविमुत्तिया होन्ति. एस नयो सेसेसुपि. इमिना परियायेनाति इमिना ताय ताय समञ्ञाय वोहरितब्बतापरियायेन. सच्चानं दस्सनमुखेन वट्टवसेन उट्ठितदेसनं अरहत्तेन कूटं गण्हन्तो यथानुसन्धिनाव देसनं निट्ठपेसि. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.

महावेदल्लसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

४. चूळवेदल्लसुत्तवण्णना

४६०. अयं देसना यस्मा पुच्छाविस्सज्जनवसेन पवत्ता, तस्मा पुच्छकविस्सज्जके पुच्छानिमित्तञ्च समुदायतो विभावेतुं ‘‘को पनाय’’न्तिआदि वुत्तं. उपासकत्तन्ति अमग्गागतं उपासकत्तं. तेसन्ति एकादसनहुतानं. मग्गागतेन उपसमेन सन्तिन्द्रियो सन्तमानसो.

‘‘किं नु खो अज्ज भविस्सति अय्यपुत्तो’’ति वीथिं ओलोकयमाना. ओलम्बनत्थन्ति तस्स हत्थावलम्बनत्थं पुब्बाचिण्णवसेन अत्तनो हत्थं पसारेसि. बहिद्धाति अत्तना अञ्ञं विसभागवत्थुं सन्धाय वदति. परिभेदकेनाति पेसुञ्ञवादिना.

अधिगमप्पिच्छताय ‘‘न पकासेतब्बो’’ति चिन्तेसि. पुन तं अनुकम्पन्तो ‘‘सचे खो पनाह’’न्तिआदिं चिन्तेसि. एसो धम्मोति एसो लोकुत्तरधम्मो. विवट्टं उद्दिस्स उपचितं निब्बेधभागियं कुसलं उपनिस्सयो. ‘‘यदि मे उपनिस्सयो अत्थि, सक्का एतं पटिलद्धुं. सचेपि नत्थि, आयतिं उपनिस्सयो भविस्सती’’ति चिरकालपरिभाविताय घटे पदीपजाला विय अब्भन्तरे दिप्पमानाय हेतुसम्पत्तिया चोदियमाना आह ‘‘एवं सन्ते मय्हं पब्बज्जं अनुजानाथा’’ति.

लाभसक्कारो उप्पज्जि सुचिरकालं कतूपचितपुञ्ञताय. अभिनीहारसम्पन्नत्ताति सुजातत्थेरस्स पदुमुत्तरस्स भगवतो अग्गसावकस्स निपच्चकारं कत्वा – ‘‘तुम्हेहि दिट्ठधम्मस्स भागी अस्स’’न्ति निब्बेधभागियं दानं दत्वा कतपत्थनासङ्खातसम्पन्नाभिनीहारत्ता. नातिचिरं किलमित्थाति कम्मट्ठानं भावेन्ती विपस्सनाय परिपाकवसेन चिरं न किलमित्थ. वुत्तमेवत्थं विवरितुं ‘‘इतो पट्ठाया’’तिआदि वुत्तं. दुतियगमनेनाति पब्बाजनत्थं गमनतो दुतियगमनेन.

उपनेत्वाति पञ्हस्स अत्थभावेन उपनेत्वा. सक्कायन्ति सकायं. उपनिक्खित्तं किञ्चि वत्थुं सम्पटिच्छमाना, विय सम्पटिच्छन्ती विय. एको एव पासो एतिस्साति एकपासका, गण्ठि. सा हि सुमोचिया, अनेकपासा पन दुम्मोचिया, एकपासग्गहणं विस्सज्जनस्स सुकरभावदस्सनत्थं. पटिसम्भिदाविसये ठत्वाति एतेन थेरिया पभिन्नपटिसम्भिदतं दस्सेति. पच्चयभूताति आरम्मणादिवसेन पच्चयभूता.

थेरिया विसेसाधिगमस्स अत्तनो अविसयताय विसाखो ‘‘न सक्का’’तिआदिना चिन्तेसीति दट्ठब्बं. सच्चविनिब्भोगपञ्हब्याकरणेनाति सच्चपरियापन्नस्स धम्मस्स दस्सनतो अञ्ञानञ्ञत्थनिद्धारणभेदनासङ्खातस्स विनिब्भोगपञ्हस्स विस्सज्जनेन. द्वे सच्चानीति दुक्खसमुदयसच्चानि. पटिनिवत्तेत्वाति परिवत्तेत्वा. गण्ठिपञ्हन्ति दुब्बिनिब्बेधताय गण्ठिभूतं पञ्हं.

न तंयेव उपादानं ते पञ्चुपादानक्खन्धा एकदेसस्स समुदायताभावतो, समुदायस्स च एकदेसताभावतो. नापि अञ्ञत्र पञ्चहि उपादानक्खन्धेहि उपादानं तस्स तदेकदेसभावतो. न हि एकदेसो समुदायविनिमुत्तो होति. यदि हि तञ्ञेवातिआदिना उभयपक्खेपि दोसं दस्सेति. रूपादिसभावम्पीति रूपवेदनासञ्ञाविञ्ञाणसभावम्पि, फस्सचेतनादिसभावम्पि उपादानं सिया. अञ्ञत्र सियाति पञ्चहि उपादानक्खन्धेहि विसुंयेव उपादानं यदि सिया. परसमयेति निकायवादे. चित्तविप्पयुत्तो अनुसयोति निदस्सनमत्तमेतं निकायवादे चित्तसभावाभावविञ्ञाणादीनम्पि चित्तविप्पयुत्तभावपटिजाननतो. एवं ब्याकासीति ‘‘न खो, आवुसो’’तिआदिना खन्धगतछन्दरागभावेन ब्याकासि. अत्थधम्मनिच्छयसम्भवतो असम्बन्धेन. तेसु कत्थचिपि असम्मुय्हनतो अवित्थायन्तेन. पुच्छाविसये मोहन्धकारविगमनेन पदीपसहस्सं जालेन्तेन विय. सउपादानुपादानट्ठानं अनुत्तानताय पचुरजनस्स गूळ्हो. अग्गहितसङ्केतानं केसञ्चि पटिच्छादितसदिसत्ता पटिच्छन्नो. तिलक्खणब्भाहतधम्मविसयताय तिलक्खणाहतो. गम्भीरञाणगोचरताय गम्भीरो. लद्धपतिट्ठा अरियसच्चसम्पटिवेधनतो. एवं दिट्ठधम्मादिभावतो वेसारज्जप्पत्ता. सब्बसो निवुत्थब्रह्मचरियताय तिण्णं भवानम्पि अपरभागे निब्बाने निवुत्थवतीति भवमत्थके ठिता.

४६१. ‘‘रूपं अत्ततो समनुपस्सती’’ति पदुद्धारं कत्वा ‘‘इधेकच्चो’’तिआदिना (पटि. म. १.१३०) पटिसम्भिदापाठेन तदत्थं विवरति. तत्थ अत्ततो समनुपस्सतीति अत्ताति समनुपस्सति, अत्तभावेन समनुपस्सति. अहन्ति अत्तानं निद्दिसति. अहंबुद्धिनिबन्धनञ्हि अत्तानं अत्तवादी पञ्ञपेति, तस्मा यं रूपं सो अहन्ति यदेतं मम रूपं नाम, सो अहन्ति वुच्चमानो मम अत्ता तं मम रूपन्ति रूपञ्च अत्तञ्च अद्वयं अनञ्ञं समनुपस्सति. तथा पस्सतो च अत्ता विय रूपं, रूपं विय वा अत्ता अनिच्चोति आपन्नमेव. अच्चीति जालसिखा. सा चे वण्णो, चक्खुविञ्ञेय्याव सिया, न कायविञ्ञेय्या, वण्णोपि वा कायादिविञ्ञेय्यो अच्चिया अनञ्ञत्ताति उपमेय्यं विय उपमापि दिट्ठिगतिकस्स अयुत्ताव. दिट्ठिपस्सनायाति मिच्छादिट्ठिसङ्खाताय पस्सनाय पस्सति, न तण्हामानपञ्ञानुपस्सनाय. अरूपं वेदनादिं अत्ताति गहेत्वा छायाय रुक्खाधीनताय छायावन्तं रुक्खं विय, रूपस्स सन्तकभावेन अत्ताधीनताय रूपवन्तं अत्तानं समनुपस्सति. पुप्फाधीनताय पुप्फस्मिं गन्धं विय आधेय्यभावेन अत्ताधीनताय रूपस्स अत्तनि रूपं समनुपस्सति. यथा करण्डो मणिनो आधारो, एवं रूपम्पि अत्तनो आधारोति कत्वा अत्तानं रूपस्मिं समनुपस्सति. एसेव नयोति इमिना अत्तनो वेदनादीहि अनञ्ञत्तं तेसञ्चाधारणतं निस्सिततञ्च यथावुत्तं अतिदिसति.

अरूपं अत्ताति कथितं ‘‘वेदनावन्त’’न्तिआदीसु विय रूपेन वोमिस्सकताय अभावतो. रूपारूपमिस्सको अत्ता कथितो रूपेन सद्धिं सेसारूपधम्मानं अत्ताति गहितत्ता. उच्छेददिट्ठि कथिता रूपादीनं विनासदस्सनतो. तेनेवाह ‘‘रूपं अत्ताति यो वदेय्य, तं न उपपज्जति, अत्ता मे उप्पज्जति च वेति चाति इच्चस्स एवमागतं होती’’तिआदि. अवसेसेसूति पन्नरससु ठानेसु. सस्सतदिट्ठि कथिता रूपवन्तादिभावेन गहितस्स अनिद्धारितरूपत्ता.

दिट्ठिगतिको यं वत्थुं अत्ताति समनुपस्सति, येभुय्येन तं निच्चं सुखन्ति च समनुपस्सतेव. सावको पन तप्पटिक्खेपेन सब्बे धम्मा अनत्ताति सुदिट्ठत्ता रूपं अत्ताति न समनुपस्सति, तथाभूतो च अनिच्चं दुक्खं अनत्ताति समनुपस्सति, तथा वेदनादयोति दस्सेन्तो ‘‘न रूपं अत्ततो’’तिआदिमाह. एवं भवदिट्ठिपि अविज्जाभवतण्हा विय वट्टस्स समुदयोयेवाति दिट्ठिकथायं ‘‘एत्तकेन गमनं होती’’तिआदि. दिट्ठिप्पहानकथायञ्च ‘‘एत्तकेन गमनं न होती’’तिआदि वुत्तं.

४६२. हेट्ठा वुत्तमत्थमेव पुच्छितत्ता ‘‘थेरिया पटिपुच्छित्वा विस्सज्जेतब्बो’’ति वत्वा पटिपुच्छनविधिं दस्सेतुं ‘‘उपासका’’तिआदि वुत्तं. पटिपत्तिवसेनाति सक्कायनिरोधगामिनिपटिपदाभावेन. सङ्खतासङ्खतवसेन लोकियलोकुत्तरवसेन सङ्गहितासङ्गहितवसेनाति ‘‘वसेना’’ति पदं पच्चेकं योजेतब्बं. तत्थ कामं असङ्खतो नाम मग्गो नत्थि, किं सङ्खतो, उदाहु असङ्खतोति पन पुच्छावसेन तथा वुत्तं? ‘‘अरियो’’ति वचनेनेव मग्गस्स लोकुत्तरतो सिद्धा, सङ्गाहकखन्धपरियापन्नानं पन मग्गधम्मानम्पि सिया लोकियताति इध लोकियग्गहणं. किञ्चापि सङ्गहितपदमेव पाळियं आगतं, न असङ्गहितपदं, ये पन सङ्गाहकभावेन वुत्ता, ते सङ्गहिता न होन्तीति अट्ठकथायं असङ्गहितग्गहणं कतन्ति दट्ठब्बं. सङ्खतोतिआदीसु समेच्च सम्भुय्य पच्चयेहि कतोति सङ्खतो. तथाभूतो च तंसमङ्गिनो पुग्गलस्स पुब्बभागचेतनाति मय्हं मग्गो अट्ठङ्गिको होतु सत्तङ्गिको वाति चेतितभावेन चेतितो. सहजातचेतनायपि चेतितोव तस्सा सहकारीकारणभावतो, ततो एव पकप्पितो आयूहितो. पच्चयेहि निप्फादितत्ता कतो निब्बत्तितो च. समापज्जन्तेन अत्तनो सन्ताने सम्मदेव आपज्जन्तेन उप्पादेन्तेन. इति सत्तहिपि पदेहि पच्चयनिब्बत्तितंयेव अरियमग्गस्स दस्सेति.

असङ्गहितो खन्धानं पदेसो एतस्स अत्थीति मग्गो सप्पदेसो. नत्थि एतेसं पदेसाति खन्धा निप्पदेसा. पदिस्सति एतेन समुदायोति हि पदेसो, अवयवो. अयन्ति मग्गो. सप्पदेसत्ता एकदेसत्ता. निप्पदेसेहि समुदायभावतो निरवसेसपदेसेहि. यथा नगरं रज्जेकदेसभूतं तदन्तोगधत्ता रज्जेन सङ्गहितं, एवं अरियमग्गो खन्धत्तयेकदेसभूतो तदन्तोगधत्ता तीहि खन्धेहि सङ्गहितोति दस्सेति ‘‘नगरं विय रज्जेना’’ति इमिना. सजातितोति समानजातिताय, समानसभावत्ता एवाति अत्थो. एत्थ च सीलक्खन्धो ‘‘नव कोटिसहस्सानी’’तिआदिना (विसुद्धि. १.२०; अप. अट्ठ. २.५५.५५; पटि. म. अट्ठ. १.१.३७) वुत्तपभेदवसेन चेव सम्पत्तसमादानविरतिआदिवसेन च गय्हमानो निप्पदेसो, मग्गसीलं पन आजीवट्ठमकमेव समुच्छेदविरतिमत्तमेवाति सप्पदेसं. समाधिक्खन्धो परित्तमहग्गतादिवसेन चेव उपचारप्पनासमाधिवसेन च अनेकभेदताय निप्पदेसो, मग्गसमाधि पन लोकुत्तरोव, अप्पनासमाधि एवाति सप्पदेसो. तथा पञ्ञाक्खन्धो परित्तमहग्गतादिवसेन चेव सुतमयञाणादिवसेन च अनेकभेदताय निप्पदेसो, मग्गपञ्ञा पन लोकुत्तराव, भावनामया एवाति सप्पदेसा. अत्तनो धम्मतायाति सहकारीकारणं अनपेक्खित्वा अत्तनो सभावेन अत्तनो बलेन अप्पेतुं न सक्कोति वीरियेन अनुपत्थम्भितं, सतिया च अनुपट्ठितं. पग्गहकिच्चन्ति यथा कोसज्जपक्खे न पतिता चित्तट्ठिति, तथा पग्गण्हनकिच्चं. अपिलापनकिच्चन्ति यथा आरम्मणे न पिलवति, एवं अपिलापनकिच्चं.

एकतो जाताति सहजाता. पिट्ठिं दत्वा ओनतसहायो विय वायामो समाधिस्स आरम्मणे अप्पनाय विसेसपच्चयभावतो. अंसकूटं दत्वा ठितसहायो विय सति समाधिस्स आरम्मणे दळ्हपवत्तिया पच्चयभावतो. किरियतोति उपकारकिरियतो.

आकोटेत्वाति आरम्मणं आहनित्वा. तथा हि वितक्को ‘‘आहननरसो’’ति, योगावचरो च ‘‘कम्मट्ठानं तक्काहतं वितक्कपरियाहतं करोती’’ति वुच्चति. इधापीति सम्मादिट्ठिसङ्कप्पेसु. किरियतोति वुत्तप्पकारउपकारकिरियतो.

सुभसुखादिनिमित्तग्गाहविधमनं चतुकिच्चसाधनं. पच्चयत्तेनाति सहजातादिपच्चयभावेन. चतुकिच्चसाधनवसेनेवाति इदं मग्गवीरियस्सेव गहितभावदस्सनं. तञ्हि एकंयेव हुत्वा चतुकिच्चं यथावुत्तउपकारकसभावेन च परिवारट्ठेन परिक्खारो होति. मग्गसम्पयुत्तधम्मानन्ति इमिना मग्गधम्मानम्पि गहणं, न तंसम्पयुत्तफस्सादीनंयेव. एकचित्तक्खणिकाति मग्गचित्तुप्पादवसेन एकचित्तक्खणिका.

सत्तहि ञाणेहीति परमुक्कंसगतेहि सत्तहि जवनेहि सम्पयुत्तञाणेहि, सत्तहि वा अनुपस्सनाञाणेहि. आदितो सेवना आसेवना, ततो परं वड्ढना भावना, पुनप्पुनं करणं बहुलीकम्मन्ति अधिप्पायेनाह ‘‘अञ्ञेन चित्तेना’’तिआदि. अधिप्पायवसेन निद्धारेत्वा गहेतब्बत्थं सुत्तं नेय्यत्थं. यथारुतवसेन गहेतब्बत्थं नीतत्थं. एवं सन्तेति यदि इदं सुत्तं नीतत्थं, आसेवनादि च विसुं विसुं चित्तेहि होति, एवं सन्ते. आसेवनादि नाम चित्तस्स अनेकवारं उप्पत्तिया होति, न एकवारमेवाति आह ‘‘एकं चित्त’’न्तिआदि. तत्रायं सङ्खेपत्थो – आसेवनावसेन पवत्तमानं चित्तं सुचिरम्पि कालं आसेवनावसेनेव पवत्तेय्य, तथा भावनाबहुलीकम्मवसेन पवत्तमानानिपि, न चेत्थ एत्तकानेव चित्तानि आसेवनावसेन पवत्तन्ति, एत्तकानि भावनावसेन, बहुलीकम्मवसेनाति नियमो लब्भति. इति अनेकचित्तक्खणिकअरियमग्गं वदन्तस्स दुन्निवारियोवायं दोसो. यथा पन पुब्बभागेपि नानाचित्तेसु पवत्तपरिञ्ञादिकिच्चानं सम्मादिट्ठिआदीनं पटिवेधकाले यथारहं चतुकिच्चसाधनं, एकचित्तक्खणिका च पवत्ति, एवं विपस्सनाय पवत्ताभिसङ्खारवसेन आसेवनाभावनाबहुलीकम्मानि पटिवेधकाले एकचित्तक्खणिकानेव होन्तीति वदन्तानं आचरियानं न कोचि दोसो आसेवनादीहि कातब्बकिच्चस्स तदा एकचित्तक्खणेयेव सिज्झनतो. तेनाह ‘‘एकचित्तक्खणिकावा’’तिआदि. सचे सञ्जानातीति सचे सञ्ञत्तिं गच्छति. यागुं पिवाहीति उय्योजेतब्बो धम्मसाकच्छाय अभब्बभावतोति अधिप्पायो.

४६३. पुञ्ञाभिसङ्खारादीसूति आदि-सद्देन कायसञ्चेतनादि लक्खणे कायसङ्खारादिकेपि सङ्गण्हाति, न अपुञ्ञानेञ्जाभिसङ्खारे एव. कायपटिबद्धत्ता कायेन सङ्खरीयति, न कायसमुट्ठानत्ता. चित्तसमुट्ठाना हि ते धम्माति. निब्बत्तीयतीति च इदं काये सति सब्भावं, असति च अभावं सन्धाय वुत्तं. वाचन्ति वचीघोसं. सङ्खरोतीति जनेति. तेनाह ‘‘निब्बत्तेती’’ति. न हि तं वितक्कविचाररहितचित्तं वचीघोसं निब्बत्तेतुं सक्कोति. चित्तपटिबद्धत्ताति एतेन चित्तस्स निस्सयादिपच्चयभावो चित्तसङ्खारसङ्खरणन्ति दस्सेति. अञ्ञमञ्ञमिस्साति अत्थतो भिन्नापि कायसङ्खारादिवचनवचनीयभावेन अञ्ञमञ्ञमिस्सिता अभिन्ना विय, ततो एव आलुळिता संकिण्णा अविभूता अपाकटा दुद्दीपना दुविञ्ञापया. आदानग्गहणमुञ्चनचोपनानीति यस्स कस्सचि कायेन आदातब्बस्स आदानसङ्खातं गहणं, विस्सज्जनसङ्खातं मुञ्चनं, यथातथाचलनसङ्खातं चोपनन्ति इमानि पापेत्वा साधेत्वा उप्पन्ना. कायतो पवत्ता सङ्खारा, कायेन सङ्खरीयन्तीति च कायसङ्खारात्वेव वुच्चन्ति. हनुसंचोपनन्ति हनुसञ्चलनं. वचीभेदन्ति वाचानिच्छारणं. वाचं सङ्खरोन्तीति कत्वा इध वचीसङ्खारात्वेव वुच्चन्ति.

४६४. समापज्जिस्सन्ति पदं निरोधस्स आसन्नानागतभावविसयं आसन्नं वज्जेत्वा दूरस्स गहणे पयोजनाभावतो. निरोधपादकस्स नेवसञ्ञानासञ्ञायतनचित्तस्स च गहणतो पट्ठाय निरोधं समापज्जति नामाति अधिप्पायेन ‘‘पदद्वयेन नेवसञ्ञानासञ्ञायतनसमापत्तिकालो कथितो’’ति वुत्तं. तथा चित्तं भावितं होतीति एत्थ अद्धानपरिच्छेदचित्तग्गहणं इतरेसं नानन्तरियभावतो. न हि बलद्वयञाणसमाधिचरियानं वसीभावापादनचित्तेहि विना अद्धानपरिच्छेदचित्तं अचित्तकभावाय होति.

सेससङ्खारेहीति कायसङ्खारचित्तसङ्खारेहि. दुतियज्झानेयेव निरुज्झति अनुप्पत्तिनिरोधेन. इतरेसुपि एसेव नयो. वुट्ठहिस्सन्ति पदं वुट्ठहनस्स आसन्नानागतभावविसयं आसन्नं वज्जेत्वा दूरस्स गहणे पयोजनाभावतो. निरोधतो वुट्ठानस्स च चित्तुप्पादेन परिच्छिन्नत्ता ततो ओरमेवाति आह ‘‘पदद्वयेन अन्तोनिरोधकालो कथितो’’ति. तथा चित्तं भावितं होतीति यथा यथापरिच्छिन्नकालमेव अचित्तकभावो, ततो परं सचित्तकभावो होति, तथा निरोधस्स परिकम्मचित्तं उप्पादितं होति.

पटिसङ्खाति पटिसङ्खाय इदमेव कातब्बं जानित्वा अप्पवत्तिमत्तं. समापज्जन्तीति अचित्तकभावं सम्पदेव आपज्जन्ति. अथ कस्मा सत्ताहमेव समापज्जन्तीति? यथाकालपरिच्छेदकरणतो, तञ्च येभुय्येन आहारूपजीवीनं सत्तानं उपादिन्नकपवत्तस्स एकदिवसं भुत्ताहारस्स सत्ताहमेव यापनतो.

सब्बा फलसमापत्ति अस्सासपस्सासे न समुट्ठापेतीति इदं नत्थीति आह ‘‘समुट्ठापेती’’ति. या पन न समुट्ठापेति, तं दस्सेन्तो ‘‘इमस्स पन…पे… न समुट्ठापेती’’ति आह. तत्थ इमस्साति इध पाळियं वुत्तनिरोधसमापज्जनभिक्खुनो. तस्स पन फलसमापत्ति चतुत्थज्झानिकावाति नियमो नत्थीति आह ‘‘किं वा एतेना’’तिआदि. अब्बोहारिकाति सुखुमत्तभावप्पत्तिया ‘‘अत्थी’’ति वोहरितुं असक्कुणेय्याति केचि. निरोधस्स पन पादकभूताय चतुत्थज्झानादिसमाधिचरियाय वसेन अचतुत्थज्झानिकापि निरोधानन्तरफलसमापत्ति अस्सासपस्सासे न समुट्ठापेतीति अभावतो एव ते अब्बोहारिका वुत्ता. एवञ्च कत्वा सञ्जीवत्थेरवत्थुम्हि आनीतसमापत्तिफलनिदस्सनम्पि सुट्ठु उपपज्जति. तेनाह ‘‘भवङ्गसमयेनेवेतं कथित’’न्ति. किरियमयपवत्तवळञ्जनकालेति एत्थ किरियमयपवत्तं कायवचीविञ्ञत्तिविप्फारो, तस्स वळञ्जनकाले पवत्तनसमये. वाचं अभिसङ्खातुं न सक्कोन्ति अविञ्ञत्तिजनकत्ता तेसं वितक्कविचारानं.

सगुणेनाति सरसेन, सभावेनाति अत्थो. सुञ्ञता नाम फलसमापत्ति रागादीहि सुञ्ञत्ता. तथा रागनिमित्तादीनं अभावा अनिमित्ता, रागपणिधिआदीनं अभावा अप्पणिहिताति आह ‘‘अनिमित्तअप्पणिहितेसुपि एसेव नयो’’ति. अनिमित्तं अप्पणिहितञ्च निब्बानं आरम्मणं कत्वा उप्पन्नफलसमापत्तियं फस्सो अनिमित्तो फस्सो अप्पणिहितो फस्सो नामाति इममत्थं ‘‘एसेव नयो’’ति इमिना अतिदिसति.

अत्तसुञ्ञतादस्सनतो अनत्तानुपस्सना सुञ्ञता, निच्चनिमित्तुग्घाटनतो अनिच्चानुपस्सना अनिमित्ता, सुखप्पणिधिपटिक्खेपतो दुक्खानुपस्सना अप्पणिहिताति आह – ‘‘सुञ्ञता…पे… विपस्सनापि वुच्चती’’ति. अनिच्चतो वुट्ठातीति सङ्खारानं अनिच्चाकारग्गाहिनिया वुट्ठानगामिनिया परतो एकतोवुट्ठानउभतोवुट्ठानेहि निमित्तपवत्ततो वुट्ठाति. अनिच्चतो परिग्गहेत्वाति च इदं ‘‘न एकन्तिकं एवम्पि होती’’ति कत्वा वुत्तं. एस नयो सेसेसुपि. अप्पणिहितविपस्सनाय मग्गोतिआदिना, सुञ्ञतविपस्सनाय मग्गोतिआदिना च योजनं सन्धायाह ‘‘एसेव नयो’’ति. विकप्पो आपज्जेय्य आगमनस्स ववत्थानस्स अभावेन अववत्थानकरत्ता. एवञ्हि तयो फस्सा फुसन्तीति एवं सगुणतो आरम्मणतो च नामलाभे सुञ्ञतादिनामका तयो फस्सा फुसन्तीति अनियमवचनं. समेति युज्जति एकस्सेव फस्सस्स नामत्तययोगतो.

सब्बसङ्खतविवित्तताय निब्बानं विवेको नाम उपधिविवेकोति कत्वा. निन्नता तप्पटिपक्खविमुखस्स तदभिमुखता. पोणता ओनमनं, पब्भारता ततो विस्सट्ठभावो.

४६५. चक्खादितो रूपादीसु पवत्तरूपकायतो उप्पज्जनतो पञ्चद्वारिकं सुखं कायिकं नाम, मनोद्वारिकं चेतोफस्सजाताय चेतसिकं नाम. सभावनिद्देसो सुखयतीति कत्वा. मधुरभावदीपकन्ति इट्ठभावजोतनं. वेदयितभावदीपकन्ति वेदकभावविभावकं. वेदना एव हि परमत्थतो आरम्मणं वेदेति, आरम्मणं पन वेदितब्बन्ति. दुक्खन्ति सभावनिद्देसोतिएवमादिअत्थवचनं सन्धायाह ‘‘एसेव नयो’’ति. ठितिसुखाति ठितिया धरमानताय सुखा, न ठितिक्खणमत्तेन. तेनाह ‘‘अत्थिभावो सुख’’न्ति. विपरिणामदुक्खाति विपरिणमनेन विगमनेन दुक्खा, न निरोधक्खणेन. तेनाह ‘‘नत्थिभावो दुक्ख’’न्ति. अपरिञ्ञातवत्थुकानञ्हि सुखवेदनुपरमो दुक्खतो उपट्ठाति. स्वायमत्थो पियविप्पयोगेन दीपेतब्बो. ठितिदुक्खा विपरिणामसुखाति एत्थापि एसेव नयो. तेनाह ‘‘अत्थिभावो दुक्खं, नत्थिभावो सुख’’न्ति. दुक्खवेदनुपरमो हि सत्तानं सुखतो उपट्ठाति. एवञ्हि वदन्ति – ‘‘तस्स रोगस्स वूपसमेन अहो सुखं जात’’न्ति. जाननभावोति याथावसभावतो अवबुज्झनं. अदुक्खमसुखञ्हि वेदनं जानन्तस्स सुखं होति तस्स सुखुमभावतो, यथा तदञ्ञे धम्मे सलक्खणतो सामञ्ञलक्खणतो च सम्मदेव अवबोधो परमं सुखं. तेनेवाह –

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७४);

अजाननभावोति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो. दुक्खञ्हि सम्मोहविहारोति. अपरो नयो जाननभावोति जाननस्स ञाणस्स सब्भावो. ञाणसम्पयुत्ता हि ञाणोपनिस्सया च अदुक्खमसुखा वेदना सुखा इट्ठाकारा. यथाह ‘‘इट्ठा चेव इट्ठफला चा’’ति. अजाननभावो दुक्खन्ति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो.

कतमो अनुसयो अनुसेतीति कामरागानुसयादीसु सत्तसु अनुसयेसु कतमो अनुसयो अनुसयवसेन पवत्तति? अप्पहीनभावेन हि सन्ताने अनुसयन्तीति अनुसया, अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. एतेन कारणलाभे सति उप्पज्जनारहता नेसं दस्सिता. अप्पहीना हि किलेसा कारणलाभे सति उप्पज्जन्ति. तेनाह ‘‘अप्पहीनट्ठेन सयितो विय होती’’ति. ते च निप्परियायतो अनागता किलेसा दट्ठब्बा, अतीता पच्चुप्पन्ना च तंसभावत्ता तथा वुच्चन्ति. न हि धम्मानं कालभेदेन सभावभेदो अत्थि. यदि अप्पहीनट्ठो अनुसयट्ठो, ननु सब्बेपि किलेसा अप्पहीना अनुसया भवेय्युन्ति? न मयं अप्पहीनतामत्तेन अनुसयट्ठं वदाम, अथ खो पन अप्पहीनट्ठेन थामगता किलेसा अनुसया. इदं थामगमनञ्च रागादीनमेव आवेणिको सभावो दट्ठब्बो, यतो अभिधम्मे – ‘‘थामगतं अनुसयं पजहती’’ति वुत्तं. सोति रागानुसयो. अप्पहीनोति अप्पहीनभावमुखेन अनुसयनट्ठमाह. सो च अपरिञ्ञातक्खन्धवत्थुतो, परिञ्ञातेसु पतिट्ठं न लभति. तेनाह ‘‘न सब्बाय सुखाय वेदनाय सो अप्पहीनो’’ति. आरम्मणवसेन चायं अनुसयट्ठो अधिप्पेतो. तेनाह ‘‘न सब्बं सुखं वेदनं आरब्भ उप्पज्जतीति अत्थो’’ति.

वत्थुवसेनपि पन अनुसयट्ठो वेदितब्बो, यो ‘‘भूमिलद्ध’’न्ति वुच्चति. तेन हि अट्ठकथायं (विसुद्धि. २.८३४) वुत्तं –

‘‘भूमीति विपस्सनाय आरम्मणभूता तेभूमका पञ्चक्खन्धा. भूमिलद्धं नाम तेसु खन्धेसु उप्पत्तिरहं किलेसजातं. तेन हि सा भूमिलद्धा नाम होति, तस्मा भूमिलद्धन्ति वुच्चति, सा च खो न आरम्मणवसेन. आरम्मणवसेन हि सब्बेपि अतीतानागते परिञ्ञातेपि च खीणासवानं खन्धे आरब्भ किलेसा उप्पज्जन्ति महाकच्चानउप्पलवण्णादीनं खन्धे आरब्भ सोरेय्यसेट्ठिनन्दमाणवकादीनं विय. यदि च तं भूमिलद्धं नाम सिया, तस्स अप्पहेय्यतो न कोचि भवमूलं पजहेय्य, वत्थुवसेन पन भूमिलद्धं वेदितब्बं. यत्थ यत्थ हि विपस्सनाय अपरिञ्ञाता खन्धा उप्पज्जन्ति, तत्थ तत्थ उप्पादतो पभुति तेसु वट्टमूलं किलेसजातं अनुसेति. तं अप्पहीनट्ठेन भूमिलद्धन्ति वेदितब्ब’’न्तिआदि.

एस नयो सब्बत्थाति इमिना ‘‘न सब्बाय दुक्खाय वेदनाय सो अप्पहीनो, न सब्बं दुक्खं वेदनं आरब्भ उप्पज्जती’’तिआदिं अतिदिसति. तत्थ यं वत्तब्बं, तं वुत्तनयेनेव वेदितब्बं. ‘‘यो अनुसयो यत्थ अनुसेति, सो पहीयमानो तत्थ पहीनो नाम होती’’ति तत्थ तत्थ पहानपुच्छा, तं सन्धायाह ‘‘किं पहातब्बन्ति अयं पहानपुच्छा नामा’’ति.

एकेनेव ब्याकरणेनाति ‘‘इधावुसो, विसाख, भिक्खु विविच्चेव कामेही’’तिआदिना (म. नि. १.३७४) एकेनेव विस्सज्जनेन. द्वे पुच्छाति अनुसयपुच्छा पहानपुच्छाति द्वेपि पुच्छा विस्सज्जेसि. ‘‘रागं तेन पजहती’’ति इदमेकं विस्सज्जनं, ‘‘न तत्थ रागानुसयो अनुसेती’’ति इदमेकं विस्सज्जनं, पुच्छानुक्कमञ्चेत्थ अनादियित्वा पहानक्कमेन विस्सज्जना पवत्ता. ‘‘द्वे पुच्छा विस्सज्जेसी’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘इधा’’तिआदि वुत्तं. तत्थ तथाविक्खम्भितमेव कत्वाति इमिना यो रागं विक्खम्भेत्वा पुन उप्पज्जितुं अप्पदानतो तथाविक्खम्भितमेव कत्वा मग्गेन समुग्घातेति, तस्स वसेन ‘‘रागं तेन पजहति, न तत्थ रागानुसयो अनुसेती’’ति वत्तब्बन्ति दस्सेति. कामोघादीहि चतूहि ओघेहि संसारभवोघेनेव वा वेगसा वुय्हमानेसु सत्तेसु तं उत्तरित्वा पत्तब्बं, तस्स पन गाधभावतो पतिट्ठानभूतं. तेनाह भगवा – ‘‘तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’ति (सं. नि. ४.२३८; इतिवु. ६९; पु. प. १८७).

सुञ्ञतादिभेदेन अनेकभेदत्ता पाळियं ‘‘अनुत्तरेसू’’ति बहुवचननिद्देसोति ‘‘अनुत्तरा विमोक्खा’’ति वत्वा पुन तेसं सब्बेसम्पि अरहत्तभावसामञ्ञेन ‘‘अरहत्ते’’ति वुत्तं. विसये चेतं भुम्मं. पत्थनं पट्ठपेन्तस्साति ‘‘अहो वताहं अरहत्तं लभेय्य’’न्ति पत्थनं उपट्ठपेन्तस्स, पत्थेन्तस्साति अत्थो. पट्ठपेन्तस्साति चेत्थ हेतुम्हि अन्तसद्दो. कथं पन अरहत्तविसया पत्थना उप्पज्जतीति? न काचि अरहत्तं आरम्मणं कत्वा पत्थना उप्पज्जति अनधिगतत्ता अविसयभावतो. परिकप्पितरूपं पन तं उद्दिस्स पत्थना उप्पज्जति. ‘‘उप्पज्जति पिहापच्चया’’ति वुत्तं परम्परपच्चयतं सन्धाय, उजुकं पन पच्चयभावो नत्थीति वुत्तं ‘‘न पत्थनाय पट्ठपनमूलकं उप्पज्जती’’ति. इदं पन सेवितब्बं दोमनस्सं अकुसलप्पहानस्स कुसलाभिवुड्ढिया च निमित्तभावतो. तेनाह भगवा – ‘‘दोमनस्सम्पाहं, देवानमिन्द, दुविधेन वदामि सेवितब्बम्पि असेवितब्बम्पी’’ति (दी. नि. २.३५९-३६२). तीहि मासेहि सम्पज्जनका तेमासिका. सेसपदद्वयेपि एसेव नयो. इमस्मिं वारेति इमस्मिं पवारणवारे. विसुद्धिपवारणन्ति ‘‘परिसुद्धो अह’’न्ति एवं पवत्तं विसुद्धिपवारणं. अरहन्तानमेव हेस पवारणा.

न कदाचि पहातब्बस्स पहायकता अत्थीति दस्सेन्तो ‘‘न दोमनस्सेन वा’’तिआदिं वत्वा परियायेनेतं वुत्तं, तं विभावेन्तो ‘‘अयं पना’’तिआदिमाह. यं पनेत्थ वत्तब्बं, तं परतो वित्थारेन आगमिस्सति. पटिपदं गहेत्वा पत्थनं कत्वा पत्थनं ठपेत्वा. पटिसञ्चिक्खतीति ओवादवसेन अत्तानं समुत्तेजेन्तो कथेति. सीलेन हीनट्ठानन्ति अञ्ञेहि अरहत्ताय पटिपज्जन्तेहि सीलेन हीनट्ठानं किं तुय्हं अत्थीति अधिप्पायो. सुपरिसुद्धन्ति अखण्डादिभावतो सुधोतजातिमणि विय सुट्ठु परिसुद्धं. सुपग्गहितन्ति कदाचिपि सङ्कोचाभावतो वीरियं सुट्ठु पग्गहितं. पञ्ञाति विपस्सनापञ्ञा पटिपक्खेहि अनधिभूतताय अकुण्ठा तिक्खविसदा सङ्खारानं सम्मसने सूरा हुत्वा वहति पवत्तति. परियायेनाति तस्स दोमनस्सस्स अरहत्तुपनिस्सयतापरियायेन. आरम्मणवसेन अनुसयनं इधाधिप्पेतन्ति आह ‘‘न तं आरब्भ उप्पज्जती’’ति. अनुप्पज्जनमेत्थ पहानं नामाति वुत्तं ‘‘पहीनोव तत्थ पटिघानुसयोति अत्थो’’ति. ततियज्झानेन विक्खम्भेतब्बा अविज्जा, सा एव अरियमग्गेन समुच्छिन्दीयतीति ‘‘अविज्जानुसयं विक्खम्भेत्वा’’तिआदि वुत्तं, अनुसयसदिसताय वा. ‘‘रागानुसयं विक्खम्भेत्वा’’ति एत्थापि एसेव नयो. चतुत्थज्झाने नानुसेति नाम तत्थ कातब्बकिच्चाकरणतो.

४६६. तस्माति पच्चनीकत्ता सभावतो किच्चतो पच्चयतो चाति अधिप्पायो. विसभागपटिभागो कथितो ‘‘कण्हसुक्कसप्पटिभागा धम्मा’’तिआदीसु विय. अन्धकाराति अन्धकारसदिसा अप्पका सभावतो. अविभूता अपाकटा अनोळारिकभावतो. ततो एव दुद्दीपना दुविञ्ञापना. तादिसावाति उपेक्खासदिसाव. यथा उपेक्खा सुखदुक्खानि विय न ओळारिका, एवं अविज्जा रागदोसा विय न ओळारिका. अथ खो अन्धकारा अविभूता दुद्दीपना दुविञ्ञापनाति अत्थो. सभागपटिभागो कथितो ‘‘पणिधि पटिघोसो’’तिआदीसु विय. यत्तकेसु ठानेसूति दुक्खादीसु यत्तकेसु ठानेसु, यत्थ वा ञेय्यट्ठानेसु. विसभागपटिभागोति अन्धकारस्स विय आलोको विघातकपटिभागो. विज्जाति मग्गञाणं अधिप्पेतं, विमुत्तीति फलन्ति आह ‘‘उभोपेते धम्मा अनासवा’’ति. अनासवट्ठेनातिआदीसु पणीतट्ठेनातिपि वत्तब्बं. सोपि हि विमुत्तिनिब्बानानं साधारणो, विमुत्तिया असङ्खतट्ठेन निब्बानस्स विसभागतापि लब्भतेव. पञ्हं अतिक्कमित्वा गतोसि, अपुच्छितब्बं पुच्छन्तोति अधिप्पायो. पञ्हानं परिच्छेदपमाणं गहेतुं युत्तट्ठाने अट्ठत्वा ततो परं पुच्छन्तो नासक्खि पञ्हानं परियन्तं गहेतुं. अप्पटिभागधम्मस्साति निप्परियायतो सभागपटिभागेन अप्पटिभागधम्मस्स. अनागतादिपरियायेन निब्बानस्स सभागपटिभागो वुत्तो, विसभागे च अत्थेव सङ्खतधम्मा, तस्मा निप्परियायतो किञ्चि सभागपटिभागं सन्धाय पुच्छतीति कत्वा ‘‘अच्चयासी’’तिआदि वुत्तं. असङ्खतस्स हि अप्पतिट्ठस्स एकन्तनिच्चस्स सतो निब्बानस्स कुतो निप्परियायेन सभागस्स सम्भवो. तेनाह ‘‘निब्बानं नामेत’’न्तिआदि.

विरद्धोति एत्थ सभागपटिभागं पुच्छिस्सामीति निच्छयाभावतो पुच्छितमत्थं विरज्झित्वाव पुच्छि, न अजानित्वाति अत्थो. एतेन हेट्ठा सब्बपुच्छा दिट्ठसंसन्दननयेन जानित्वाव पवत्ताति दीपितं होति. थेरी पन तं तं पुच्छितमत्थं सभावतो विभावेन्ती सत्थु देसनाञाणं अनुगन्त्वाव विस्सज्जेसि. निब्बानोगधन्ति निब्बानं ओगाहित्वा ठितं निब्बानन्तोगधं. तेनाह ‘‘निब्बानब्भन्तरं निब्बानं अनुपविट्ठ’’न्ति. अस्साति ब्रह्मचरियस्स.

४६७. पण्डिच्चेन समन्नागताति एत्थ वुत्तपण्डिच्चं दस्सेतुं ‘‘धातुकुसला’’तिआदि वुत्तं. तेनेवाह – ‘‘कित्तावता नु खो, भन्ते, पण्डितो होति? यतो खो, आनन्द, भिक्खु धातुकुसलो च होति, आयतनकुसलो च पटिच्चसमुप्पादकुसलो च ठानाट्ठानकुसलो च. एत्तावता नु खो, आनन्द, भिक्खु पण्डितो होती’’ति (म. नि. ३.१२४). पञ्ञामहत्तं नाम थेरिया असेक्खप्पटिसम्भिदप्पत्ताय पटिसम्भिदायो पूरेत्वा ठितताति तं दस्सेतुं ‘‘महन्ते अत्थे’’तिआदि वुत्तं. राजयुत्तेहीति रञ्ञो कम्मे नियुत्तपुरिसेहि. आहच्चवचनेनाति सत्थारा करणादीनि आहनित्वा पवत्तितवचनेन. यदेत्थ अत्थतो न विभत्तं, तं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेव.

चूळवेदल्लसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

५. चूळधम्मसमादानसुत्तवण्णना

४६८. धम्मोति गहितगहणानीति धम्मो वा होतु इतरो वा, धम्मोति पग्गहितग्गाहप्पवत्ता चरियाव. आयूहनक्खणेति तस्स धम्मोति गहितस्स पवत्तनक्खणे. सुखन्ति अकिच्छं. तेनाह ‘‘सुकर’’न्ति. दुक्खविपाकन्ति अनिट्ठफलविपच्चनं.

४६९. यथा चक्खादीनं पञ्चन्नं इन्द्रियानं यथासकं विसयग्गहणं सभावसिद्धं, एवं मनसोपि. ते च विसया इट्ठाकारतो गहणे न कोचि दोसो, पुरिसत्तभावे न च ते दोसं पवत्तेन्तीति अयं तेसं समणब्राह्मणानं लद्धीति आह ‘‘वत्थुकामेसुपि किलेसकामेसुपि दोसो नत्थी’’ति, अस्सादेत्वा विसयपरिभोगे नत्थि आदीनवो, तप्पच्चया न कोचि अन्तरायोति अधिप्पायो. पातब्यतं आपज्जन्तीति परिभुञ्जनकतं उपगच्छन्ति. परिभोगत्थो हि अयं पा-सद्दो कत्तुसाधनो च तब्य-सद्दो, यथारुचि परिभुञ्जन्तीति अत्थो. किलेसकामोपि अस्सादियमानो वत्थुकामन्तोगधोयेव, किलेसकामवसेन पन नेसं अस्सादेतब्बताति आह ‘‘वत्थुकामेसु किलेसकामेन पातब्यत’’न्ति. किलेसकामेनाति करणत्थे करणवचनं. पातब्यतं परिभुञ्जितब्बतन्ति एत्थापि कत्तुवसेनेव अत्थो वेदितब्बो. मोळिं कत्वाति वेणिबन्धवसेन मोळिं कत्वा. तापसपरिब्बाजिकाहीति तापसपब्बज्जूपगताहि. परिञ्ञं पञ्ञपेन्तीति इदं ‘‘पहानमाहंसू’’ति पदस्सेव वेवचनन्ति ‘‘पहानं समतिक्कमं पञ्ञपेन्ती’’ति वुत्तं. तेन कामा नामेते अनिच्चा दुक्खा विपरिणामधम्माति याथावतो परिजाननं इध ‘‘पहान’’न्ति अधिप्पेतं, न विनाभावमत्तन्ति दस्सेति. मालुवासिपाटिकाति मालुवाविदलं मालुवाफले पोट्टलिका. सन्तासं आपज्जेय्याति साले अधिवत्थदेवताय पवत्तिं गहेत्वा वुत्तं. तदा हि तस्सा एवं होति. कोविळारपत्तसदिसेहीति महाकोविळारपत्तसण्ठानेहि. सण्ठानवसेन हेतं वुत्तं, मालुवापत्ता पन कोविळारपत्तेहि महन्ततरानि चेव घनतरानि च होन्ति. विपुलबहुघनगरुपत्तताय महन्तं भारं जनेत्वा. साति मालुवालता. ओघनन्ति हेट्ठतो ओलम्बनहेतुभूतं घनभावं.

अन्धवनसुभगवनग्गहणं तेसं अभिलक्खितभावतो. नाळिकेरादीसु तिणजातीसु. खादनुपलक्खणं उपचिकानं उट्ठहनग्गहणन्ति आह ‘‘उट्ठहेय्यु’’न्ति. केळिं करोन्ती वियाति विलम्बननदी विय केळिं करोन्ती. इदानि अहं तं अज्झोत्थरिन्ति पमोदमाना विय इतो चितो च विप्फन्दमाना विलम्बन्ती. सम्फस्सोपि सुखो मुदुतलुणकोमलभावतो. दस्सनम्पि सुखं घनबहलपत्तसंहतताय. सोमनस्सजाताति पुब्बे अनुस्सववसेन भवनविनासभया सन्तासं आपज्जि, इदानि तस्सा सम्पत्तिदस्सनेन पलोभिता सोमनस्सजाता अहोसि.

विटभिं करेय्याति आतानवितानवसेन जटेन्ती जालं करेय्य. तथाभूता च घनपत्तसञ्छन्नताय छत्तसदिसी होतीति आह ‘‘छत्ताकारेन तिट्ठेय्या’’ति. सकलं रुक्खन्ति उपरि सब्बसाखापसाखं सब्बरुक्खं. भस्समानाति पलिवेठनवसेनेव ओतरमाना. याव मूला ओतिण्णसाखाहीति मालुवा भारेन ओनमित्वा रुक्खस्स याव मूला ओतिण्णसाखाहि पुन अभिरुहमाना. सब्बसाखाति हेट्ठा मज्झे उपरि चाति सब्बापि साखायो पलिवेठेन्ती. संसिब्बित्वा जालसन्तानकनियामेन जटेत्वा. एवं अपरापरं संसिब्बनेन अज्झोत्थरन्ती. सब्बसाखा हेट्ठा कत्वा सयं उपरि ठत्वा महाभारभावेन वाते वा वायन्ते देवे वा वस्सन्ते पदालेय्य. साखट्ठकविमानन्ति साखापटिबद्धं विमानं. यस्मा इध सत्थारा ‘‘सेय्यथापि, भिक्खवे’’तिआदिना भूतपुब्बमेव वत्थु उपमाभावेन आहटं, तस्मा ‘‘इदं पन विमान’’न्तिआदि वुत्तं.

४७१. बहलरागसभावोति पच्चवेक्खणाहि नीहरितुं असक्कुणेय्यताय बलवा हुत्वा अभिभवनरागधातुको. रागजन्ति रागनिमित्तजातं. दिट्ठे दिट्ठे आरम्मणेति दिट्ठे दिट्ठे विसभागारम्मणे. निमित्तं गण्हातीति किलेसुप्पत्तिया कारणभूतं अनुब्यञ्जनसो निमित्तं गण्हाति, सिक्खागारवेन पन किलेसेहि निस्सितं मग्गं न पटिपज्जति, ततो एव आचरियुपज्झायेहि आणत्तं दण्डकम्मं करोतेव. तेनाह ‘‘न त्वेव वीतिक्कमं करोती’’ति. हत्थपरामासादीनीति – ‘‘एहि ताव तया वुत्तं मया वुत्तञ्च अमुत्र गन्त्वा वीमंसिस्सामा’’तिआदिना हत्थग्गहणादीनि करोन्तो, न करुणामेत्तानिदानवसेन. मोहजातिकोति बहलमोहसभावो.

४७२. कम्मनियामेनाति पुरिमजातिसिद्धेन लोभुस्सदतादिनियमितेन कम्मनियामेन. इदानि तं लोभुस्सदतादिं विभागेन दस्सेतुं ‘‘यस्स ही’’तिआदि आरद्धं. तत्थ कम्मायूहनक्खणेति कम्मकरणवेलाय. लोभो बलवाति तज्जाय सामग्गिया सामत्थियतो लोभो अधिको होति. अलोभो मन्दोति तप्पटिपक्खो अलोभो दुब्बलो होति. कथं पनेते लोभालोभा अञ्ञमञ्ञं उजुविपच्चनीकभूता एकक्खणे पवत्तन्ति? न खो पनेतं एवं दट्ठब्बं ‘‘एकक्खणे पवत्तन्ती’’ति, निकन्तिक्खणं पन आयूहनक्खणमेव कत्वा एवं वुत्तं. एस नयो सेसेसु. परियादातुन्ति अभिभवितुं न सक्कोति. यो हि ‘‘एवंसुन्दरं एवंविपुलं एवंमहग्घञ्च न सक्का परस्स दातु’’न्तिआदिना अमुत्तचागतादिवसेन पवत्ताय चेतनाय सम्पयुत्तो अलोभो सम्मदेव लोभं परियादातुं न सक्कोति. दोसमोहानं अनुप्पत्तियं तादिसपच्चयलाभेनेव अदोसामोहा बलवन्तो. तस्माति लोभादोसामोहानं बलवभावतो अलोभदोसमोहानञ्च दुब्बलभावतोति वुत्तमेव कारणं पच्चामसति. सोति तंसमङ्गी. तेन कम्मेनाति तेन लोभादिउपनिस्सयवता कुसलकम्मुना. सुखसीलोति सखिलो. तमेवत्थं अक्कोधनोति परियायेन वदति.

मन्दा अलोभादोसा लोभदोसे परियादातुं न सक्कोन्ति, अमोहो पन बलवा मोहं परियादातुं सक्कोतीति एवं यथारहं पठमवारे वुत्तनयेनेव अतिदेसत्थो वेदितब्बो. पुरिमनयेनेवाति पुब्बे वुत्तनयानुसारेन. दुट्ठोति कोधनो. दन्धोति मन्दमञ्ञो. सुखसीलकोति सुखसीलो.

एत्थ च लोभवसेन, दोसमोह-लोभदोस-लोभमोह-दोसमोह-लोभदोसमोहवसेनाति तयो एकका, तयो दुका, एको तिकोति लोभादिउस्सदवसेन अकुसलपक्खे एव सत्त वारा, तथा कुसलपक्खे अलोभादिउस्सदवसेनाति चुद्दस वारा लब्भन्ति. तत्थ अलोभदोसमोहा, अलोभादोसमोहा, अलोभदोसामोहा बलवन्तोति आगतेहि कुसलपक्खे ततियदुतियपठमवारेहि दोसुस्सदमोहुस्सददोसमोहुस्सदवारा गहिता एव होन्ति. तथा अकुसलपक्खे लोभादोसामोहा, लोभदोसामोहा, लोभादोसमोहा बलवन्तोति आगतेहि ततियदुतियपठमवारेहि अदोसुस्सदअमोहुस्सदअदोसामोहुस्सदवारा गहिता एवाति अकुसलकुसलपक्खेसु तयो तयो वारे अन्तोगधे कत्वा अट्ठेव वारा दस्सिता. ये पन उभयसम्मिस्सतावसेन लोभालोभुस्सदवारादयो अपरे एकूनपञ्ञास वारा कामं दस्सेतब्बा, तेसं असम्भवतो एव न दस्सिता. न हि ‘‘एकस्मिं सन्ताने अन्तरेन अवत्थन्तरं लोभो च बलवा अलोभो चा’’तिआदि युज्जति. पटिपक्खवसेन वापि एतेसं बलवदुब्बलभावो सहजातधम्मवसेन वा. तत्थ लोभस्स ताव पटिपक्खवसेन अनभिभूतताय बलवभावो, तथा दोसमोहानं अदोसामोहेहि. अलोभादीनं पन लोभादिअनभिभवनतो. सब्बेसञ्च समानजातियसमधिभुय्य पवत्तिवसेन सहजातधम्मतो बलवभावो. तेन वुत्तं अट्ठकथायं (म. नि. अट्ठ. २.४७२) – ‘‘लोभो बलवा, अलोभो मन्दो. अदोसामोहा बलवन्तो, दोसमोहा मन्दा’’तिआदि, सो च नेसं मन्दबलवभावो पुरिमूपनिस्सयतो तथा आसयस्स परिभावितताय वेदितब्बो. तेनेवाह ‘‘कम्मनियामेना’’ति. सेसं वुत्तनयत्ता सुविञ्ञेय्यमेवाति.

चूळधम्मसमादानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

६. महाधम्मसमादानसुत्तवण्णना

४७३. एवं इदानि वुच्चमानाकारो कामो कामनं इच्छा एतेसन्ति एवंकामा. एवं छन्दो छन्दनं रोचनं अज्झासयो एतेसन्ति एवंछन्दा. अभिमुखं, अभिनिविस्स वा पकारेहि एति उपगच्छतीति अधिप्पायो, लद्धि. सा हि लद्धब्बवत्थुं अभिमुखं ‘‘एवमेत’’न्ति अभिनिविसन्ती तेन तेन पकारेन उपगच्छति, हत्थगतं कत्वा तिट्ठति न विस्सज्जेति. एवं वुच्चमानाकारो अधिप्पायो एतेसन्ति एवंअधिप्पाया. भगवा मूलं कारणं एतेसं याथावतो अधिगमायाति भगवंमूलका. तेनाह ‘‘भगवन्तञ्हि निस्साय मयं इमे धम्मे आजानाम पटिविज्झामा’’ति. अम्हाकं धम्माति तेहि अत्तना अधिगन्तब्बताय वुत्तं. सेवितब्बानञ्हि याथावतो अधिगमञाणानि अधिगच्छनकसम्बन्धीनि, तानि च सम्मासम्बुद्धमूलकानि अनञ्ञविसयत्ता. तेनाह ‘‘पुब्बे कस्सपसम्बुद्धेना’’तिआदि. भगवा नेता तेसन्ति भगवंनेत्तिका. नेताति सेवितब्बधम्मे विनेय्यसन्तानं पापेता. विनेताति असेवितब्बधम्मे विनेय्यसन्तानतो अपनेता. तदङ्गविनयादिवसेन वा विनेता. अनुनेताति इमे धम्मा सेवितब्बा, इमे न सेवितब्बाति उभयसम्पापनापनयनत्थं पञ्ञपेता. तेनाह ‘‘यथासभावतो’’तिआदि.

पटिसरन्ति एत्थाति पटिसरणं, भगवा पटिसरणं एतेसन्ति भगवंपटिसरणा. पटिसरति सभावसम्पटिवेधवसेन पच्चेकमुपगच्छतीति वा पटिसरणं, भगवा पटिसरणं एतेसन्ति भगवंपटिसरणा. पटिवेधवसेनाति पटिविज्झितब्बतावसेन. असतिपि मुखे अत्थतो एवं वदन्तो विय होतीति आह ‘‘फस्सो आगच्छति, अहं भगवा किं नामो’’ति. पटिभातूति एत्थ पटि-सद्दापेक्खाय ‘‘भगवन्त’’न्ति उपयोगवचनं, अत्थो पन सामिवचनवसेनेव वेदितब्बोति दस्सेन्तो आह ‘‘भगवतो’’ति पटिभातूति च भगवतो भागो होतु. भगवतो हि एस भागो, यदिदं धम्मस्स देसना, अम्हाकं पन भागो सवनन्ति अधिप्पायो. केचि पन पटिभातूति पदिस्सतूति अत्थं वदन्ति, ञाणेन दिस्सतु, देसीयतूति वा अत्थो. उपट्ठातूति च ञाणस्स पच्चुपट्ठातु.

४७४. निस्सयितब्बेति अत्तनो सन्ताने उप्पादनवसेन अपस्सयितब्बे. ततियचतुत्थधम्मसमादानानि हि अपस्साय सत्तानं एतरहि आयतिञ्च सम्पत्तियो अभिवड्ढन्ति. भजितब्बेति तस्सेव वेवचनं. सेवितब्बेति वा सप्पुरिसुपस्सयसद्धम्मस्सवनयोनिसोमनसिकारे सन्धायाह. भजितब्बेति तप्पच्चये दानादिपुञ्ञधम्मे.

४७५. उप्पटिपाटिआकारेनाति पठमं संकिलेसधम्मे दस्सेत्वा पच्छा वोदानधम्मदस्सनं सत्थु देसनापटिपाटि, यथा – ‘‘वामं मुञ्च, दक्खिणं गण्हा’’ति (ध. स. अट्ठ. ४९८; विसुद्धि. महाटी. १.१४), तथा उप्पटिपाटिपकारेन, सा च खो पुरिमेसु द्वीसु धम्मसमादानेसु, पच्छिमेसु पन पटिपाटियाव मातिका पट्ठपिता. यथाधम्मरसेनेवाति पहातब्बपहायकधम्मानं यथासभावेनेव. सभावो हि याथावतो रसितब्बतो जानितब्बतो ‘‘रसो’’ति वुच्चति. पठमं पहातब्बधम्मे दस्सेत्वा तदनन्तरं ‘‘इमे धम्मा एतेहि पहीयन्ती’’ति पहायकधम्मदस्सनं देसनानुपुब्बी. गहणं आदियनं अत्तनो सन्ताने उप्पादनं.

४७८. वधदण्डादीहि भीतस्स उपसङ्कमने, मिच्छा चरित्वा तथा अपगमने च पुब्बापरचेतनानं वसेन मिच्छाचारो दुक्खवेदनो होति, तथा इस्सानिन्दादीहि उपद्दुतस्स अपरचेतनावसेन, एवं अभिज्झामिच्छादिट्ठीसुपि यथारहं वेदितब्बं. तिस्सन्नम्पि चेतनानन्ति पुब्बापरसन्निट्ठापकचेतनानं. अदिन्नादानं मुसावादो पिसुणवाचा सम्फप्पलापोति इमेसं चतुन्नं सन्निट्ठापकचेतनानं सुखसम्पयुत्ता वा उपेक्खासम्पयुत्ता वाति अयं नयो इध अधिकतत्ता न उद्धटो. दोमनस्समेव चेत्थ दुक्खन्ति इदं पुब्बभागापरभागचेतनापि चेत्थ आसन्ना दोमनस्ससहगता एव होन्तीति कत्वा वुत्तं. अनासन्ना पन सन्धाय ‘‘परियेट्ठिं वा आपज्जन्तस्सा’’तिआदि वुत्तं. तेनेव मिच्छाचाराभिज्झामिच्छादिट्ठीनं पुब्बभागापरभागचेतना आसन्ना सन्निट्ठापकचेतनागतिकावाति दस्सितं होतीति दट्ठब्बं. परियेट्ठिन्ति मिच्छाचारादीसु वीतिक्कमितब्बवत्थुमालागन्धादिपरियेसनं. पाणातिपातादीसु मारेतब्बवत्थुआवुधादिपरियेसनं आपज्जन्तस्स. अकिच्छेनपि तेसं परियेसनं सम्भवतीति ‘‘वट्टतियेवा’’ति सासङ्कं वदति.

४७९. सुखवेदना होन्तीति सुखवेदनापि होन्तीति अधिप्पायो. तासं चेतनानं असुखवेदनतापि लब्भतीति ‘‘सुखवेदनापि होन्तियेवा’’ति सासङ्कवचनं. सोमनस्समेव चेत्थ सुखन्ति इदं पुब्बभागापरभागचेतनापि सोमनस्ससहगता एव होन्तीति कत्वा वुत्तं. तञ्च खो मिच्छाचारवज्जानं छन्नं वसेन. मिच्छाचारस्स पन पुब्बापरभागस्स वसेन ‘‘कायिकं सुखम्पि वट्टतियेवाति सासङ्कवचनं.

४८०. दोसजपरिळाहवसेनस्स सिया कायिकम्पि दुक्खन्ति अधिप्पायेन ‘‘सो गण्हन्तोपि दुक्खितो’’ति वुत्तं. चेतोदुक्खमेव वा सन्धाय तस्स अपरापरुप्पत्तिदस्सनत्थं ‘‘दुक्खितो दोमनस्सितो’’ति वुत्तं.

४८१. दससुपि पदेसूति दससुपि कोट्ठासेसु, वाक्येसु वा. उपेक्खासम्पयुत्ततापि सम्भवतीति ‘‘सुखसम्पयुत्ता होन्तियेवा’’ति इध सासङ्कवचनं. पाणातिपाता पटिविरतस्स कायोपि सिया विगतदरथपरिळाहोति पाणातिपातावेरमणिआदिपच्चया कायिकपटिसंवेदनापि सम्भवतीति सहापि सुखेनाति एत्थ कायियसुखम्पि वट्टतियेव.

४८२. तित्तकालाबूति उपभुत्तस्स उम्मादादिपापनेन कुच्छिततित्तकरसो अलाबु. न रुच्चिस्सति अनिट्ठरसताय अनिट्ठफलताय च.

४८३. रसं देतीति रसं दस्सेति विभावेति.

४८४. पूतिमुत्तन्ति पूतिसभावमुत्तं. तरुणन्ति धारावसेन निपतन्तं हुत्वा उण्हं. तेनस्स उपरिमुत्ततमाह. मुत्तञ्हि पस्सावमग्गतो मुच्चमानं कायुस्मावसेन उण्हं होति.

४८५. यं भगन्दरसंसट्ठं लोहितं पक्खन्दतीति भगन्दरब्याधिसहिताय लोहितपक्खन्दताय वसेन यं लोहितं विस्सवति. पित्तसंसट्ठं लोहितं पक्खन्दतीति आनेत्वा सम्बन्धो.

४८६. उब्बिद्धेति दूरे. अब्भमहिकादिउपक्किलेसविगमेन हि आकासं उत्तुङ्गं विय दूरं विय च खायति. तेनाह ‘‘दूरीभूते’’ति. तमंयेव तमगतं ‘‘गूथगतं मुत्तगत’’न्ति (म. नि. २.११९; अ. नि. ९.११) यथा. भासते च तपते च विरोचते च इदं चतुत्थं धम्मसमादानं विभजन्तेन कुसलकम्मपथस्स विभजित्वा दस्सितत्ता.

सङ्गररुक्खो कन्दमादसपोव. सरभञ्ञवसेनाति अत्थं अविभजित्वा पदसो सरभञ्ञवसेन. ओसारेन्तस्साति उच्चारेन्तस्स. सद्देति ओसारणसद्दे. अधिगतविसेसं अनारोचेतुकामा देवता तत्थेव अन्तरधायि. तं दिवसन्ति सत्थारा देसितदिवसे. इति अत्तनो विसेसाधिगमनिमित्तताय अयं देवता इमं सुत्तं पियायति. सेसं उत्तानमेव.

महाधम्मसमादानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

७. वीमंसकसुत्तवण्णना

४८७. अत्थवीमंसकोति अत्तत्थपरत्थादिअत्थविजाननको. सङ्खारवीमंसकोति सङ्खतधम्मे सलक्खणतो सामञ्ञलक्खणतो वा आयतनादिविभागतो च वीमंसको. सत्थुवीमंसकोति ‘‘सत्था नाम गुणतो एदिसो एदिसो चा’’ति सत्थु उपपरिक्खको. वीमंसकोति विचारको. यं चेतसो सरागादिविभागतो परिच्छिन्दनं, तं चेतोपरियायो. तेनाह ‘‘चित्तपरिच्छेद’’न्ति. यस्मा चेतोपरियायञाणलाभी – ‘‘इदं चित्तं इतो परं पवत्तं इदमितो पर’’न्ति परस्स चित्तुप्पत्तिं पजानाति, तस्मा वुत्तं ‘‘चेतोपरियायन्ति चित्तवार’’न्ति. वारत्थेपि हि परियाय-सद्दो होति – ‘‘कस्स नु खो, आनन्द, परियायो अज्ज भिक्खुनियो ओवदितु’’न्तिआदीसु (म. नि. ३.३९८). चित्तचारन्तिपि पाठो, चित्तपवत्तिन्ति अत्थो. एवं विजाननत्थायाति इदानि वुच्चमानाकारेन वीमंसनत्थाय.

४८८. कल्याणमित्तूपनिस्सयन्ति कल्याणमित्तसङ्खातं ब्रह्मचरियवासस्स बलवसन्निस्सयं. उपड्ढं अत्तनो आनुभावेनाति इमिना पुग्गलेन सम्पादियमानस्स ब्रह्मचरियस्स उपड्ढभागमत्तं अत्तनो विमुत्तिपरिपाचकधम्मानुभावेन सिज्झति. उपड्ढं कल्याणमित्तानुभावेनाति इतरो पन उपड्ढभागो यं निस्साय ब्रह्मचरियं वुस्सति, तस्स कल्याणमित्तस्स उपदेसानुभावेन होति, सिज्झतीति अत्थो. लोकसिद्धो एव अयमत्थो. लोकिया हि –

‘‘पादो सिद्धो आचरिया, पादो हिस्सानुभावतो;

तंविज्जासेवका पादो, पादो कालेन पच्चती’’ति. –

वदन्ति. अत्तनो धम्मतायाति अत्तनो सभावेन, ञाणेनाति अत्थो. कल्याणमित्तताति कल्याणो भद्रो सुन्दरो मित्तो एतस्साति कल्याणमित्तो, तस्स भावो कल्याणमित्तता, कल्याणमित्तवन्तता. सीलादिगुणसम्पन्नेहि कल्याणपुग्गलेहेव अयनं पवत्ति कल्याणसहायता. तेसु एव चित्तेन चेव कायेन च निन्नपोणपब्भारभावेन पवत्ति कल्याणसम्पवङ्कता. माहेवन्ति एवं मा आह, ‘‘उपड्ढं ब्रह्मचरियस्सा’’ति मा कथेहीति अत्थो. तदमिनाति एत्थ न्ति निपातमत्तं द-कारो पदसन्धिकरो इ-कारस्स अ-कारं कत्वा निद्देसो. इमिनापीति इदानि वुच्चमानेनपीति अत्थो. परियायेनाति कारणेन. इदानि तं कारणं दस्सेतुं ‘‘ममं ही’’तिआदि वुत्तं.

यथा चेत्थ, अञ्ञेसुपि सुत्तेसु कल्याणमित्तुपनिस्सयमेव विसेसोति दस्सेन्तो ‘‘भिक्खूनं बाहिरङ्गसम्पत्तिं कथेन्तोपी’’तिआदिमाह. तत्थ विमुत्तिपरिपाचनियधम्मेति विमुत्तिया अरहत्तस्स परिपाचकधम्मे. पच्चयेति गिलानपच्चयभेसज्जे. महाजच्चोति महाकुलीनो.

कायिको समाचारोति अभिक्कमपटिक्कमादिको सतिसम्पजञ्ञपरिक्खतो पाकतिको च. वीमंसकस्स उपपरिक्खकस्स. चक्खुविञ्ञेय्यो नाम चक्खुद्वारानुसारेन विञ्ञातब्बत्ता. सोतविञ्ञेय्योति एत्थापि एसेव नयो. संकिलिट्ठाति रागादिसंकिलेसधम्मेहि विबाधिता, उपतापिता विदूसिता मलीना चाति अत्थो. ते पन तेहि समन्नागता होन्तीति आह ‘‘किलेससम्पयुत्ता’’ति. यदि न चक्खुसोतविञ्ञेय्या, पाळियं कथं तथा वुत्ताति आह ‘‘यथा पना’’तिआदि. कायवचीसमाचारापि संकिलिट्ठायेव नाम संकिलिट्ठचित्तसमुट्ठानतो. भवति हि तंहेतुकेपि तदुपचारो यथा ‘‘सेम्हो गुळो’’ति. ‘‘मा मे इदं असारुप्पं परो अञ्ञासी’’ति पन पटिच्छन्नताय न न उपलब्भन्ति. ‘‘न खो मयं, भन्ते, भगवतो किञ्चि गरहामा’’ति वत्वा गरहितब्बाभावं दस्सेन्तो ‘‘भगवा ही’’तिआदिमाह. अभावितमग्गस्स हि गरहितब्बता नाम सिया, न भावितमग्गस्स. एस उत्तरो माणवो ‘‘बुद्धम्पि गरहित्वा पक्कमिस्सामी’’ति कत्वा अनुबन्धि. एवं चिन्तेसि महाभिनिक्खमनदिवसे अत्तनो वचने अट्ठितत्ता. किञ्चि वज्जं अपस्सन्तो मारो एवमाह –

‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदं;

ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति. (सु. नि. ४४८);

काले कण्हा, काले सुक्काति यथासमादिन्नं सम्मापटिपत्तिं परिसुद्धं कत्वा पवत्तेतुं असक्कोन्तस्स कदाचि कण्हा अपरिसुद्धा कायसमाचारादयो, कदाचि सुक्का परिसुद्धाति एवं अन्तरन्तरा ब्यामिस्सवसेन वोमिस्सका. निक्किलेसाति निरुपक्किलेसा अनुपक्किलिट्ठा.

अनवज्जं वज्जरहितत्ता. दीघरत्तन्ति अच्चन्तसंयोगे उपयोगवचनं. समापन्नोति सम्मा आपन्नो समङ्गीभूतो. तेनाह ‘‘समन्नागतो’’ति. अत्तना कतस्स असारुप्पस्स पटिच्छादनत्थं आरञ्ञको विय हुत्वा. तस्स परिहारन्ति उळारेहि पूजासक्कारेहि मनुस्सेहि तस्स परिहरियमानतं. अतिदप्पितोति एवं मनुस्सानं सम्भावनाय अतिविय दत्तो गब्बितो.

न इत्तरसमापन्नोति जानाति. कस्मा? सीलं नाम दीघेन अद्धुना जानितब्बं, न इत्तरेन. इदानि अनेकजातिसमुदाचारवसेन तथागतो इमं कुसलं धम्मं दीघरत्तं समापन्नो, तञ्चस्स अतिविय अच्छरियन्ति दस्सेतुं ‘‘अनच्छरियं चेत’’न्तिआदि वुत्तं.

अरञ्ञगामकेति अरञ्ञपदेसे एकस्मिं खुद्दकगामे. तत्थ नेसं दिवसे दिवसे पिण्डाय चरणस्स अविच्छिन्नतं दस्सेतुं ‘‘पिण्डाय चरन्ती’’ति वुत्तं. पिवन्तीति एत्थापि एसेव नयो. दुल्लभलोणो होति समुद्दस्स दूरताय.

तदा किर विदेहरट्ठे सोळस गामसहस्सानि महन्तानेव. तेनाह – ‘‘हित्वा गामसहस्सानि, परिपुण्णानि सोळसा’’ति. इदानि कस्मा ‘‘सन्निधिं दानि कुब्बसी’’ति मं घट्टेथाति वत्थुकामो तं अनाविकत्वा ‘‘लोण…पे… न करोथा’’ति आह. गन्धारो तस्साधिप्पायं विभावेतुकामो ‘‘किं मया कतं वेदेहीसी’’ति आह.

इतरो अत्तनो अधिप्पायं विभावेन्तो ‘‘हित्वा’’ति गाथमाह. इतरो ‘‘धम्मं भणामी’’ति गाथन्ति एवं सब्बापि नेसं वचनपटिवचनगाथा. तत्थ पसाससीति घट्टेन्तो विय अनुसाससि. न पापमुपलिम्पति चित्तप्पकोपाभावतो. महत्थियन्ति महाअत्थसंहितं. नो चे अस्स सका बुद्धीतिआदि वेदेहइसिनो – ‘‘आचरियो मम हितेसिताय ठत्वा धम्मं एव भणती’’ति योनिसो उम्मुज्जनाकारदस्सनं. तेनाह ‘‘एवञ्च पन वत्वा’’तिआदि.

‘‘ञत्ता’’ति लोके ञायति विस्सुतोति ञातो, ञातस्स भावो ञत्तं. अज्झापन्नोति उपगतो. ञत्त-ग्गहणेन पत्थटयसता विभाविताति आह ‘‘यसञ्च परिवारसम्पत्ति’’न्ति. किन्ति किंपयोजनं, को एत्थ दोसोति अधिप्पायो.

तत्थ तत्थ विज्झन्तोति यसमदेन परिवारमदेन च मत्तो हुत्वा गामेपि विहारेपि जनविवित्तेपि सङ्घमज्झेपि अञ्ञे भिक्खू घट्टेन्तो ‘‘मय्हं नाम पादा इतरेसं पादफुसनट्ठानं फुसन्ती’’ति अफुसितुकामताय अग्गपादेन भूमिं फुसन्तो विय चरति. ओनमतीति निवातवुत्तिताय अवनमति अनुद्धतो अत्थद्धो होति. अकिञ्चनभावन्ति ‘‘पब्बजितेन नाम अकिञ्चनञाणेन समपरिग्गहेन भवितब्ब’’न्ति अकिञ्चनज्झासयं पटिअवेक्खित्वा. लाभेपि तादी, अलाभेपि तादीति यथा अलाभकाले लाभस्स लद्धकालेपि तथेवाति तादी एकसदिसो. यसे सतिपि महापरिवारकालेपि.

अभयो हुत्वा उपरतोति निब्भयो हुत्वा भयस्स अभावेनेव ओरमितब्बतो उपरतो भयहेतूनं पहीनत्ता. तञ्च खो न कतिपयकालं, अथ खो अच्चन्तमेव उपरतोति अच्चन्तूपरतो. अथ खो भायितब्बवत्थुं अवेक्खित्वा ततो भयेन उपरतो. किलेसा एव भायितब्बतो किलेसभयं. एस नयो सेसेसुपि. सत्त सेक्खाति सत्त सेक्खापि भयूपरता, पगेव पुथुज्जनोति अधिप्पायो.

थण्डिलपीठकन्ति थण्डिलमञ्चसदिसं पीठकन्ति अत्थो. निस्सायाति अपस्साय तं अपस्सायं कत्वा. द्विन्नं मज्झे थण्डिलपीठका द्वारे ठत्वा ओलोकेन्तस्स नेवासिकभिक्खुस्स न पञ्ञायि. असञ्ञतनीहारेनाति न सञ्ञताकारेन. ‘‘मं भायन्तो हेट्ठामञ्चं पविट्ठो भविस्सती’’ति हेट्ठामञ्चं ओलोकेत्वा. उक्कासि ‘‘बहि गच्छन्तो अक्कोसित्वा मा अपुञ्ञं पसवी’’ति. अधिवासेतुन्ति तादिसं इद्धानभावं दिस्वापि पटपटायन्तो अत्तनो कोधं अधिवासेतुं असक्कोन्तो.

खयेनेवाति रागस्स अच्चन्तक्खयेनेव वीतरागत्ता. न पटिसङ्खाय वारेत्वाति न पटिसङ्खानबलेन रागपरियुट्ठानं निवारेत्वा वीतरागत्ता. एवं वुत्तप्पकारेन. कायसमाचारादीनं संकिलिट्ठानं वीतिक्कमियानञ्च अभावं आचारस्स वोदानं चिरकालसमाचिण्णताय ञातस्स सहितभावेपि अनुपक्किलिट्ठताय अभयूपरतभावसमन्नेसनाय आकरीयति ञापेतुं इच्छितो अत्थो पकारतो ञापीयति एतेहीति आकारा, उपपत्तिसाधनकारणानि. तानि पन यस्मा अत्तनो यथानुमतस्स अत्थस्स ञापकभावेन ववत्थीयन्ति, तस्मा तानि तेसं मूलकारणभूतानि अनुमानञाणानि च दस्सेन्तो भगवा – ‘‘के पनायस्मतो आकारा के अन्वया’’ति अवोचाति इममत्थं विभावेन्तो ‘‘आकाराति कारणानि, अन्वयाति अनुबुद्धियो’’ति आह. यथा हि लोके दिट्ठेन धूमेन अदिट्ठं अग्गिं अन्वेति अनुमानतो जानाति, एवं वीमंसको भिक्खु – ‘‘भगवा एकेकविहारेसु सुप्पटिपन्नेसु दुप्पटिपन्नेसु च यथा एकसदिसतादस्सनेन अभयूपरततं अन्वेति अनुमानतो जानाति, सुप्पटिपन्नदुप्पटिपन्नपुग्गलेसु अनुस्सादनानपसादनप्पत्ताय सत्थु अविपरीतधम्मदेसनताय सम्मासम्बुद्धतं सङ्घसुप्पटिपत्तिञ्च अन्वेति अनुमानतो जानाति, एवं जानन्तो च अभयूपरतो तथागतो सब्बधि वीतरागत्ता, यो यत्थ वीतरागो, न सो तन्निमित्तं किञ्चि भयं पस्सति सेय्यथापि ब्रह्मा कामभवनिमित्तं, तथा सम्मासम्बुद्धो भगवा अविपरीतधम्मदेसनत्ता, स्वाखातो धम्मो एकन्तनिय्यानिकत्ता, सुप्पटिपन्नो सङ्घो अवेच्चप्पसन्नत्ता’’ति वत्थुत्तयं गुणतो याथावतो जानाति.

गणबन्धनेनाति ‘‘मम सद्धिविहारिका मम अन्तेवासिका’’ति एवं गणे अपेक्खासङ्खातेन बन्धनेन बद्धा पयुत्ता. ताय ताय पटिपत्तियाति ‘‘सुगता दुग्गता’’ति वुत्ताय सुप्पटिपत्तिया दुप्पटिपत्तिया च. उस्सादनाति गुणवसेन उक्कंसना. अपसादनाति हीळना. उभयत्थ गेहस्सितवसेनाति इमिना सम्मापटिपत्तिया परेसं उय्योजनत्थं – ‘‘पण्डितो, भिक्खवे, महाकच्चानो’’तिआदिना (म. नि. १.२०५; ३.२८५, ३२२) गुणतो उक्कंसनम्पि आयतिं संवराय यथापराधं गरहणम्पि न निवारेति.

४८९. वीमंसकस्सपि अधिप्पायो वीमंसनवसेन पवत्तो. मूलवीमंसको हेतुवादिताय. गण्ठिवीमंसकस्स अनुस्सुतिभावतो वुत्तं ‘‘परस्सेव कथाय निट्ठङ्गतो’’ति. तेनाह भगवा – ‘‘परस्स चेतोपरियायं अजानन्तेना’’ति. तथागतोव पटिपुच्छितब्बोति इमिना पुब्बे साधारणतो वुत्तं अनुमानं उक्कंसं पापेत्वा वदति. उक्कंसगतञ्हेतं अनुमानं, यदिदं सब्बञ्ञुवचनं अविसंवादं सामञ्ञतो अपुथुज्जनगोचरस्स अत्थस्स अनुमानतो. तिविधो हि अत्थो, कोचि पच्चक्खसिद्धो, यो रूपादिधम्मानं पच्चत्तवेदनियो अनिद्दिसितब्बाकारो. कोचि अनुमानसिद्धो, यो घटादीसु पसिद्धेन पच्चयायत्तभावेन साधियमानो सद्दादीनं अनिच्चतादिआकारो. कोचि ओकप्पनसिद्धो, यो पचुरजनस्स अच्चन्तमदिट्ठो सद्धाविसयो परलोकनिब्बानादि. तत्थ यस्स सत्थुनो वचनं पच्चक्खसिद्धे अनुमानसिद्धे च अत्थे न विसंवादेति अविपरीतप्पवत्तिया, तस्स वचनेन सद्धेय्यत्थसिद्धि, सद्धेय्यरूपा एव च येभुय्येन सत्थुगुणा अच्चन्तसम्भवतो.

एस मय्हं पथोति य्वायं आजीवट्ठमकसीलसङ्खातो मय्हं ओरमत्तको गुणो, एस अपरचित्तविदुनो वीमंसकस्स भिक्खुनो मम जाननपथो जाननमग्गो. एस गोचरोति एसो एत्तको एव तस्स मयि गोचरो, न इतो परं. तथा हि ब्रह्मजालेपि (दी. नि. १.७) भगवता आजीवट्ठमकसीलमेव निद्दिट्ठं. एतापाथोति एत्तकापाथो. यो सीले पतिट्ठितो ‘‘एतं ममा’’ति, ‘‘इमिनाहं सीलेन देवो वा भविस्सामि देवञ्ञतरो वा’’ति तण्हाय परामसन्तो, तस्स विसेसभागियताय, निब्बेधभागियताय वा अकारणेन तण्हं अनतिवत्तनतो सो तम्मयो नाम. तेनाह ‘‘न तम्मयो न सतण्हो’’तिआदि.

सुतस्स उपरूपरि विसेसावहभावेन उत्तरुत्तरञ्चेव तस्स च विसेसस्स अनुक्कमेन पणीततरभावतो पणीततरञ्च कत्वा देसेति. सविपक्खन्ति पहातब्बपहायकभावेन सप्पटिपक्खं. कण्हं पटिबाहित्वा सुक्कन्ति इदं धम्मजातं कण्हं नाम, इमस्स पहायकं इदं सुक्कं नामाति एवं कण्हं पटिबाहित्वा सुक्कं. सुक्कं पटिबाहित्वा कण्हन्ति एत्थापि एसेव नयो. इध पन ‘‘इमिना पहातब्ब’’न्ति वत्तब्बं. सउस्साहन्ति सब्यापारं. किरियमयचित्तानञ्हि अनुपच्छिन्नाविज्जातण्हामानादिके सन्ताने सब्यापारता सउस्साहता, सविपाकधम्मताति अत्थो. तस्मिं देसिते धम्मेति तस्मिं सत्थारा देसिते लोकियलोकुत्तरधम्मे. एकच्चं एकदेसभूतं मग्गफलनिब्बानसङ्खातं पटिवेधधम्मं अभिञ्ञाय अभिविसिट्ठाय मग्गपञ्ञाय जानित्वा. पटिवेधधम्मेन मग्गेन. देसनाधम्मेति देसनारुळ्हे पुब्बभागिये बोधिपक्खियधम्मे निट्ठं गच्छति – ‘‘अद्धा इमाय पटिपदाय जरामरणतो मुच्चिस्सामी’’ति. पुब्बे पोथुज्जनिकसद्धायपि पसन्नो, ततो भिय्योसोमत्ताय अविपरीतधम्मदेसनो सम्मासम्बुद्धो सो भगवाति सत्थरि पसीदति. निय्यानिकत्ताति वट्टदुक्खतो एव ततो निय्यानावहत्ता. वङ्कादीति आदि-सद्देन अञ्ञं असामीचिपरियायं सब्बं दोसं सङ्गण्हाति.

४९०. इमेहि सत्थुवीमंसनकारणेहीति ‘‘परिसुद्धकायसमाचारतादीहि चेव उत्तरुत्तरिपणीतपणीतअविपरीतधम्मदेसनाहि चा’’ति इमेहि यथावुत्तेहि सत्थुउपपरिक्खनकारणेहि. अक्खरसम्पिण्डनपदेहीति तेसंयेव कारणानं सम्बोधनेहि अक्खरसमुदायलक्खणेहि पदेहि. इध वुत्तेहि अक्खरेहीति इमस्मिं सुत्ते वुत्तेहि यथावुत्तस्स अत्थस्स अभिब्यञ्जनतो ब्यञ्जनसञ्ञितेहि अक्खरेहि. ओकप्पनाति सद्धेय्यवत्थुं ओक्कन्तित्वा पसीदनतो ओकप्पनलक्खणा. सद्धाय मूलं नामाति अवेच्चप्पसादभूताय सद्धाय मूलं नाम कारणन्ति सद्दहनस्स कारणं परिसुद्धकायसमाचारादिकं. थिरा पटिपक्खसमुच्छेदेन सुप्पतिट्ठितत्ता. हरितुं न सक्काति अपनेतुं असक्कुणेय्या. इतरेसु समणब्राह्मणदेवेसु वत्तब्बमेव नत्थीति आह ‘‘समितपापसमणेन वा’’तिआदि.

‘‘बुद्धानं केसञ्चि सावकानञ्च विबाधनत्थं मारो उपगच्छती’’ति सुतपुब्बत्ता ‘‘अयं मारो आगतो’’ति चिन्तेसि. आनुभावसम्पन्नेन अरियसावकेन पुच्छितत्ता मुसावादं कातुं नासक्खि. एतेति यथावुत्ते समितपापसमणादयो ठपेत्वा. सभावसमन्नेसनाति याथावसमन्नेसना अविपरीतवीमंसा. सभावेनेवाति सब्भावेनेव यथाभूतगुणतो एव. सुट्ठु सम्मदेव. समन्नेसितोति उपपरिक्खितो. सेसं सुविञ्ञेय्यमेवाति.

वीमंसकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

८. कोसम्बियसुत्तवण्णना

४९१. तस्माति यस्मा कोसम्बरुक्खवती, तस्मा नगरं कोसम्बीतिसङ्खमगमासि. कुसम्बस्स वा इसिनो निवासभूमि कोसम्बी, तस्साविदूरे भवत्ता नगरं कोसम्बी.

घोसितसेट्ठिना कारिते आरामेति एत्थ को घोसितसेट्ठि, कथञ्चानेन आरामो कारितोति अन्तोलीनाय चोदनाय विस्सज्जने समुदागमतो पट्ठाय घोसितसेट्ठिं दस्सेतुं ‘‘अद्दिलरट्ठं नाम अहोसी’’तिआदि आरद्धं. केदारपरिच्छिन्नन्ति तत्थ तत्थ केदारभूमिया परिच्छिन्नं. गच्छन्तोति केदारपाळिया गच्छन्तो. पहूतपायसन्ति पहूततरं पायसं, तं पन गरु सिनिद्धं अन्तरामग्गे अप्पाहारताय मन्दगहणिको समानो जीरापेतुं नासक्खि. तेनाह ‘‘जीरापेतुं असक्कोन्तो’’तिआदि. यसवति रूपवति कुलघरे निब्बत्ति. घोसितसेट्ठि नाम जातोति एवमेत्थ सङ्खेपेनेव घोसितसेट्ठिवत्थुं कथेति, वित्थारो पन धम्मपदवत्थुम्हि (ध. प. अट्ठ. १.सामावतीवत्थु) वुत्तनयेनेव वेदितब्बो.

उपसंकप्पनवसेनाति उपसङ्कप्पननियामेन. आहारपरिक्खीणकायस्साति आहारनिमित्तपरिक्खीणकायस्स, आहारक्खयेन परिक्खीणकायस्साति अत्थो. सुञ्ञागारेति जनविवित्ते फासुकट्ठाने.

कलहस्स पुब्बभागो भण्डनं नामाति कलहस्स हेतुभूता परिभासा तंसदिसी च अनिट्ठकिरिया भण्डनं नाम. हत्थपरामासादिवसेनाति कुज्झित्वा अञ्ञमञ्ञस्स हत्थे गहेत्वा परामसनअच्चन्तबन्धनादिवसेन. ‘‘अयं धम्मो’’तिआदिना विरुद्धवादभूतं आपन्नाति विवादापन्ना. तेनाह ‘‘विरुद्धभूत’’न्तिआदि. मुखसन्निस्सितताय वाचा इध ‘‘मुख’’न्ति अधिप्पेताति आह ‘‘मुखसत्तीहीति वाचासत्तीही’’ति. सञ्ञत्तिन्ति सञ्ञापनं ‘‘अयं धम्मो, अयं विनयो’’ति सञ्ञापेतब्बतं. निज्झत्तिन्ति याथावतो तस्स निज्झानं. अट्ठकथायं पन ‘‘सञ्ञत्तिवेवचनमेवेत’’न्ति वुत्तं.

सचे होति देसेस्सामीति सुब्बचताय सिक्खाकामताय च आपत्तिं पस्सि. नत्थि ते आपत्तीति अनापत्तिपक्खोपि एत्थ सम्भवतीति अधिप्पायेनाह. सा पनापत्ति एव. तेनाह – ‘‘तस्सा आपत्तिया अनापत्तिदिट्ठि अहोसी’’ति.

४९२. कलहभण्डनवसेनाति कलहभण्डनस्स निमित्तवसेन. यथानुसन्धिनाव गतन्ति कलहभण्डनानं सारणीयधम्मपटिपक्खत्ता तदुपसमावहा हेट्ठादेसनाय अनुरूपाव उपरिदेसनाति यथानुसन्धिनाव उपरिसुत्तदेसना पवत्ता. सरितब्बयुत्ताति अनुस्सरणारहा. सब्रह्मचारीनन्ति सहधम्मिकानं. पियं पियायितब्बं करोन्तीति पियकरणा. गरुं गरुट्ठानियं करोन्तीति गरुकरणा. सङ्गहणत्थायाति सङ्गहवत्थुविसेसभावतो सब्रह्मचारीनं सङ्गण्हनाय संवत्तन्तीति सम्बन्धो. अविवादनत्थायाति सङ्गहवत्थुभावतो एव न विवादनाय. सति च अविवादनहेतुभूतसङ्गाहणत्ते तेसं वसेन सब्रह्मचारीनं समग्गभावो भेदाभावो सिद्धोयेवाति आह ‘‘सामग्गिया’’तिआदि. मिज्जति सिनिय्हति एतायाति मेत्ता, मित्तभावो, मेत्ता एतस्स अत्थीति मेत्तं, कायकम्मं. तं पन यस्मा मेत्तासहगतचित्तसमुट्ठानं, तस्मा वुत्तं ‘‘मेत्तचित्तेन कत्तब्बं कायकम्म’’न्ति. इमानि मेत्तकायकम्मादीनि भिक्खूनं वसेन आगतानि पाठे भिक्खूहि पच्चुपट्ठपेतब्बतावचनतो. भिक्खुग्गहणेनेव चेत्थ सेससहधम्मिकानम्पि गहणं दट्ठब्बं. भिक्खुनो सब्बम्पि अनवज्जकायकम्मं आभिसमाचारिककम्मन्तोगधमेवाति आह – ‘‘मेत्तचित्तेन…पे… कायकम्मं नामा’’ति. वत्तवसेन पवत्तियमाना चेतियबोधीनं वन्दना मेत्तासदिसीति कत्वा तदत्थाय गमनं मेत्तं कायकम्मन्ति वुत्तं. आदि-सद्देन चेतियबोधिभिक्खूसु वुत्तावसेसअपचायनादिं मेत्तावसेन पवत्तं कायिकं किरियं सङ्गण्हाति.

तेपिटकम्पि बुद्धवचनं कथियमानन्ति अधिप्पायो. तीणि सुचरितानि कायवचीमनोसुचरितानि. चिन्तनन्ति इमिना एवं चिन्तनमत्तम्पि मेत्तं मनोकम्मं, पगेव विधिपटिपन्ना भावनाति दस्सेति.

सहायभावूपगमनं तेसं पुरतो. तेसु करोन्तेसुयेव हि सहायभावूपगमनं सम्मुखा कायकम्मं नाम होति. केवलं ‘‘देवो’’ति अवत्वा गुणेहि थिरभावजोतनं देवत्थेरोति वचनं पग्गय्ह वचनं. ममत्तबोधनं वचनं ममायनवचनं. एकन्ततिरोक्खकस्स मनोकम्मस्स सम्मुखता नाम विञ्ञत्तिसमुट्ठापनवसेनेव होति, तञ्च खो लोके कायकम्मन्ति पाकटं पञ्ञातं हत्थविकारादिं अनामसित्वा एव दस्सेन्तो ‘‘नयनानि उम्मीलेत्वा’’ति आह. तथा हि वचीभेदवसेन पवत्ति न गहिता.

लद्धपच्चया लब्भन्तीति लाभा, परिसुद्धागमना पच्चया. न सम्मा गय्हमानापि न धम्मलद्धा नाम न होन्तीति तप्पटिसेधनत्थं पाळियं ‘‘धम्मलद्धा’’ति वुत्तं. देय्यं दक्खिणेय्यञ्च अप्पटिविभत्तं कत्वा भुञ्जतीति अप्पटिविभत्तभोगी. तेनाह ‘‘द्वे पटिविभत्तानि नामा’’तिआदि. चित्तेन विभजनन्ति एतेन – ‘‘चित्तुप्पादमत्तेनपि विभजनं पटिविभत्तं नाम, पगेव पयोगतो’’ति दस्सेति.

पटिग्गण्हन्तोव…पे… पस्सतीति इमिना आगमनतो पट्ठाय साधारणबुद्धिं उपट्ठापेति. एवं हिस्स साधारणभोगिता सुकरा, सारणीयधम्मो चस्स सुपूरो होति. वत्तन्ति सारणीयधम्मपूरणवत्तं.

दातब्बन्ति अवस्सं दातब्बं. अत्तनो पलिबोधवसेन सपलिबोधस्सेव पूरेतुं असक्कुणेय्यत्ता ओदिस्सकदानम्पिस्स न सब्बत्थ वारितन्ति दस्सेतुं ‘‘तेन पना’’तिआदि वुत्तं. अदातुम्पीति पि-सद्देन दुस्सीलस्सपि अत्थिकस्स सति सम्भवे दातब्बन्ति दस्सेति. दानञ्हि नाम कस्सचि न निवारितं.

महागिरिगामो नाम नागदीपपस्से एको गामो. सारणीयधम्मो मे, भन्ते, पूरितो…पे… पत्तगतं न खीयतीति आह तेसं कुक्कुच्चविनोदनत्थं. तं सुत्वा तेपि थेरा ‘‘सारणीयधम्मपूरको अय’’न्ति अब्भञ्ञंसु. दहरकाले एव किरेस सारणीयधम्मपूरको अहोसि, तस्सा च पटिपत्तिया अवञ्झभावविभावनत्थं ‘‘एते मय्हं पापुणिस्सन्ती’’ति आह.

अहं सारणीयधम्मपूरिका, मम पत्तपरियापन्नेनपि सब्बापिमा भिक्खुनियो यापेस्सन्तीति आह ‘‘मा तुम्हे तेसं गतभावं चिन्तयित्था’’ति.

सत्तसु आपत्तिक्खन्धेसु आदिम्हि वा अन्ते वा, वेमज्झेति च इदं उद्देसागतपाळिवसेन वुत्तं. न हि अञ्ञो कोचि आपत्तिक्खन्धानं अनुक्कमो अत्थि. परियन्ते छिन्नसाटको वियाति वत्थन्ते, दसन्ते वा छिन्नवत्थं विय. खण्डन्ति खण्डवन्तं, खण्डितं वा. छिद्दन्ति एत्थापि एसेव नयो. विसभागवण्णेन उपड्ढं, ततियभागं वा सम्भिन्नवण्णं सबलं, विसभागवण्णेहेव पन बिन्दूहि अन्तरन्तरा विमिस्सं कम्मासं, अयं इमेसं विसेसो. तण्हादासब्यतो मोचनवचनेनेव तेसं सीलानं विवट्टुपनिस्सयतमाह. भुजिस्सभावकरणतोति इमिना भुजिस्सकरानि भुजिस्सानीति उत्तरपदलोपेनायं निद्देसोति दस्सेति. अविञ्ञूनं अप्पमाणताय ‘‘विञ्ञुप्पसत्थानी’’ति वुत्तं. तण्हादिट्ठीहि अपरामट्ठत्ताति – ‘‘इमिनाहं सीलेन देवो वा भविस्सामि देवञ्ञतरो वा’’ति तण्हापरामासेन – ‘‘इमिनाहं सीलेन देवो हुत्वा तत्थ निच्चो धुवो सस्सतो भविस्सामी’’ति दिट्ठिपरामासेन च अपरामट्ठत्ता. परामट्ठुन्ति चोदेतुं. सीलं नाम अविप्पटिसारादिपारम्परियेन यावदेव समाधिसम्पादनत्थन्ति आह ‘‘समाधिसंवत्तकानी’’ति. समानभावो सामञ्ञं, परिपुण्णचतुपारिसुद्धिभावेन मज्झे भिन्नसुवण्णस्स विय भेदाभावतो सीलेन सामञ्ञं सीलसामञ्ञं, तं गतो उपगतोति सीलसामञ्ञगतो. तेनाह ‘‘समानभावूपगतसीलो’’ति.

यायं दिट्ठीति या अयं दिट्ठि मय्हञ्चेव तुम्हाकञ्च पच्चक्खभूता. चतुसच्चदस्सनट्ठेन दिट्ठि, ‘‘सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता’’ति, ‘‘सम्मासम्बुद्धो भगवा, स्वाखातो भगवता धम्मो, सुप्पटिपन्नो सङ्घो’’ति च दिट्ठिया सामञ्ञं समानदिट्ठिभावं. अग्गं इतरेसं सारणीयधम्मानं पधानभावतो. एतस्मिं सति सुखसिद्धितो तेसं सङ्गाहिकं, ततो एव तेसं सङ्घाटनिकं गोपानसियो अपरिपतन्ते कत्वा सङ्गण्हाति धारेतीति सङ्गाहिकं. सङ्घाटन्ति अग्गभावेन सङ्घाटभावं. सङ्घाटनं एतेसं अत्थीति सङ्घाटनिकं, सङ्घाटनियन्ति वा पाठो, सङ्घाटने नियुत्तन्ति वा सङ्घाटनिकं, क-कारस्स य-कारं कत्वा सङ्घाटनियं. सामञ्ञतो एव गहितत्ता नपुंसकनिद्देसो.

४९३. पठममग्गसम्मादिट्ठिपि एवंसभावा, अञ्ञमग्गसम्मादिट्ठीसु वत्तब्बमेव नत्थीति आह ‘‘यायं सोतापत्तिमग्गदिट्ठी’’ति. एत्तावतापीति एत्तकेनपि रागादीसु एकेकेन परियुट्ठितचित्ततायपि परियुट्ठितचित्तोयेव नाम होति, पगेव द्वीहि, बहूहि वा परियुट्ठितचित्तताय. सब्बत्थाति सब्बेसु अट्ठसुपि वारेसु. सुट्ठु ठपितन्ति यथा मग्गभावना उपरि सच्चाभिसम्बोधो होति, एवं सम्मा ठपितं. तेनाह ‘‘सच्चानं बोधाया’’ति. तं ञाणन्ति ‘‘नत्थि खो मे तं परियुट्ठान’’न्तिआदिना पवत्तं पच्चवेक्खणञाणं. अरियानं होतीति अरियानमेव होति. तेसञ्हि एकदेसतोपि पहीनं वत्तब्बतं अरहति. तेनाह ‘‘न पुथुज्जनान’’न्ति. अरियन्ति वुत्तं ‘‘अरियेसु जात’’न्ति कत्वा. लोकुत्तरहेतुकताय लोकुत्तरन्ति वुत्तं. तेनेवाह ‘‘येसं पना’’तिआदि. तथा हिस्स पुथुज्जनेहि असाधारणता. तेनाह ‘‘पुथुज्जनानं पन अभावतो’’ति. सब्बवारेसूति सब्बेसु इतरेसु छसु वारेसु.

४९४. पच्चत्तन्ति पाटियेक्कं अत्तनि मम चित्तेयेव. तेनाह ‘‘अत्तनो चित्ते’’ति. ‘‘पच्चत्तं अत्तनो चित्ते निब्बुतिं किलेसवूपसमं लभामी’’ति इममत्थं ‘‘एसेव नयो’’ति इमिना अतिदिसति.

४९५. तथारूपाय दिट्ठियाति इदं ‘‘यथारूपाय दिट्ठिया समन्नागतो’’ति इमस्स अत्थस्स पच्चामसनन्ति आह ‘‘तथारूपाय दिट्ठियाति एवरूपाय सोतापत्तिमग्गदिट्ठिया’’ति.

४९६. सभावेनाति नियतपञ्चसिक्खापदतादिसभावेन. सङ्घकम्मवसेनाति मानत्तचरियादिसङ्घकम्मवसेन. दहरोति बालो. कुमारोति दारको. यस्मा दहरो ‘‘कुमारो’’ति च ‘‘युवा’’ति च वुच्चति, तस्मा मन्दोति वुत्तं. मन्दिन्द्रियताय हि मन्दो. तेनाह ‘‘चक्खुसोतादीनं मन्दताया’’ति. एवम्पि युवावत्थापि केचि मन्दिन्द्रिया होन्तीति तन्निवत्तनत्थं ‘‘उत्तानसेय्यको’’ति वुत्तं. यदि उत्तानसेय्यको, कथमस्स अङ्गारक्कमनन्ति? यथा तथा अङ्गारस्स फुसनं इध ‘‘अक्कमन’’न्ति अधिप्पेतन्ति आह ‘‘इतो चितो चा’’तिआदि. मनुस्सानन्ति महल्लकमनुस्सानं. न सीघं हत्थो झायति कथिनहत्थताय. खिप्पं पटिसंहरति मुदुतलुणसरीरताय. अधिवासेति किञ्चि पयोजनं अपेक्खित्वा.

४९७. उच्चावचानीति महन्तानि चेव खुद्दकानि च. तत्थेवाति सुधाकम्मादिम्हियेव. कसावपचनं सुधादिसङ्खरणत्थं, उदकानयनं धोवनादिअत्थं, हलिद्दिवण्णधातुलेपनत्थं कुच्छकरणं. बहलपत्थनोति दळ्हछन्दो. वच्छकन्ति निब्बत्तधेनुपगवच्छं. अपचिनातीति अपविन्दति, आलोकेतीति अत्थो. तेनाह ‘‘अपलोकेती’’ति. तन्निन्नो होतीति अधिसीलसिक्खादिनिन्नोव होति उच्चावचानम्पि किंकरणीयानं चारित्तसीलस्स पूरणवसेनेव करणतो, योनिसोमनसिकारवसेनेव च तेसं पटिपज्जनतो. थेरस्स सन्तिके अट्ठासि योनिसोमनसिकाराभावतो ‘‘तं तं समुल्लपिस्सामी’’ति.

४९८. बलं एव बलताति आह ‘‘बलेन समन्नागतो’’ति. अत्थिकभावं कत्वाति तेन धम्मेन सविसेसं अत्थिकभावं उप्पादेत्वा. सकलचित्तेनाति देसनायआदिम्हि मज्झे परियोसानेति सब्बत्थेव पवत्तताय सकलेन अनवसेसेन चित्तेन.

५००. सभावोति अरियसावकस्स पुथुज्जनेहि असाधारणताय आवेणिको सभावो. सुट्ठु समन्नेसितोति सम्मदेव उपपरिक्खितो. सोतापत्तिफलसच्छिकिरियायाति सोतापत्तिफलस्स सच्छिकरणेन, सच्छिकतभावेनाति अत्थो. तेनाह ‘‘सोतापत्तिफलसच्छिकतञाणेना’’ति. पठममग्गफलस्स पच्चवेक्खणञाणविसेसा हेते पवत्तिआकारभिन्ना. तेनेवाह ‘‘सत्तहि महापच्चवेक्खणञाणेही’’ति. अयं ताव आचरियानं समानकथाति ‘‘इदमस्स पठमं ञाण’’न्तिआदिना वुत्तानि पच्चवेक्खणञाणानि, न मग्गञाणानीति एवं पवत्ता परम्परागता पुब्बाचरियानं समाना साधारणा इमिस्सा पाळिया अट्ठकथा अत्थवण्णना. तत्थ कारणमाह ‘‘लोकुत्तरमग्गो हि बहुचित्तक्खणिको नाम नत्थी’’ति. यदि सो बहुचित्तक्खणिको सिया नानाभिसमयो, तथा सति संयोजनत्तयादीनं एकदेसप्पहानं पापुणातीति अरियमग्गस्स अनन्तरफलत्ता एकदेससोतापन्नतादिभावो आपज्जति, फलानं वा अनेकभावो, सब्बमेतं अयुत्तन्ति तस्मा एकचित्तक्खणिकोव अरियमग्गो.

यं पन सुत्तपदं निस्साय वितण्डवादी अरियमग्गस्स एकचित्तक्खणिकतं पटिक्खिपति, तं दस्सेन्तो ‘‘सत्त वस्सानीति हि वचनतो’’ति आह. किलेसा पन लहु…पे… छिज्जन्तीति वदन्तेन हि खिप्पं ताव किलेसप्पहानं, दन्धपवत्तिका मग्गभावनाति पटिञ्ञातं होति. तत्थ सचे मग्गस्स भावनाय आरद्धमत्ताय किलेसा पहीयन्ति, सेसा मग्गभावना निरत्थका सिया, अथ पच्छा किलेसप्पहानं, किलेसा पन लहु छिज्जन्तीति इदं मिच्छा, ‘‘सोतापत्तिफलसच्छिकिरियाया’’ति वक्खतीति. ततो सुत्तपटिजाननतो. मग्गं अभावेत्वाति अरियमग्गं परिपुण्णं कत्वा अभावेत्वा. अत्थरसं विदित्वाति सुत्तस्स अविपरीतो अत्थो एव अत्थरसो, तं याथावतो ञत्वा. एवं वितण्डवादिवादं भिन्दित्वा वुत्तमेवत्थं निगमेतुं ‘‘इमानि सत्त ञाणानी’’तिआदि वुत्तं. सेसं सुविञ्ञेय्यमेव.

कोसम्बियसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

९. ब्रह्मनिमन्तनिकसुत्तवण्णना

५०१. ‘‘सस्सतो अत्ता च लोको चा’’ति (दी. नि. १.३०) एवं पवत्ता दिट्ठि सस्सतदिट्ठि (सं. नि. टी. १.१.१७५). सह कायेनाति सह तेन ब्रह्मत्तभावेन. ब्रह्मट्ठानन्ति अत्तनो ब्रह्मवत्थुं. ‘‘अनिच्चं निच्च’’न्ति वदति अनिच्चताय अत्तनो अपञ्ञायमानत्ता. थिरन्ति दळ्हं, विनासाभावतो सारभूतन्ति अत्थो. उप्पादविपरिणामाभावतो सदा विज्जमानं. केवलन्ति परिपुण्णं. तेनाह ‘‘अखण्ड’’न्ति. केवलन्ति वा जातिआदीहि अमिस्सं, विरहितन्ति अधिप्पायो. उप्पादादीनं अभावतो एव अचवनधम्मं. कोचि जायनको वा…पे… उपपज्जनको वा नत्थि निच्चभावतो. ठानेन सद्धिं तन्निवासीनं निच्चभावञ्हि सो पटिजानाति. तिस्सो झानभूमियोति दुतियततियचतुत्थज्झानभूमियो. चतुत्थज्झानभूमिविसेसा हि असञ्ञसुद्धावासारुप्पभवा. पटिबाहतीति सन्तंयेव समानं अजानन्तोव नत्थीति पटिक्खिपति. अविज्जाय गतोति अविज्जाय सह गतो पवत्तो. सहयोगे हि इदं करणवचनं. तेनाह ‘‘समन्नागतो’’ति. अञ्ञाणीति अविद्वा. पञ्ञाचक्खुविरहतो अन्धो भूतो, अन्धभावं वा पत्तोति अन्धीभूतो.

५०२. तदा भगवतो सुभगवने विहरणस्स अविच्छिन्नतं सन्धाय वुत्तं ‘‘सुभगवने विहरतीति ञत्वा’’ति. तत्थ पन तदास्स भगवतो अदस्सनं सन्धायाह ‘‘कत्थ नु खो गतोति ओलोकेन्तो’’ति. ब्रह्मलोकं गच्छन्तं दिस्वाति इमिना कतिपयचित्तवारवसेन तदा भगवतो ब्रह्मलोकगमनं जातं, न एकचित्तक्खणेनाति दस्सेति. न चेत्थ कायगतिया चित्तपरिणामनं अधिप्पेतं – ‘‘सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्या’’तिआदिवचनतो (म. नि. १.५०१). यं पनेत्थ वत्तब्बं, तं हेट्ठा वुत्तमेव. विछन्दन्ति छन्दविगमं. अपसादितोति दिट्ठिया गाहस्स विपरिवत्तनेन सन्तज्जितो. ‘‘मेतमासदो’’ति वचनेन उपत्थम्भो हुत्वा.

अन्वाविसित्वाति आविसनवसेन तस्स अत्तभावं अधिभवित्वा. तथा अभिभवतो हि तस्स सरीरं पविट्ठो विय होतीति वुत्तं ‘‘सरीरं पविसित्वा’’ति. यञ्हि सत्तं देवयक्खनागादयो आविसन्ति, तस्स पाकतिककिरियमयं चित्तप्पवत्तिं निवारेत्वा अत्तनो इद्धानुभावेन यं इच्छितं हसितलपितादि, तं तेन कारापेन्ति, कारेन्ता च आविट्ठपुग्गलस्स चित्तवसेन कारेन्ति. ‘‘अत्तनोवा’’ति न वत्तब्बमेतं अचिन्तेय्यत्ता कम्मजस्स इद्धानुभावस्साति केचि. अपरे पन यथा तदा चक्खुविञ्ञाणादिपवत्ति आविट्ठपुग्गलस्सेव, एवं किरियमयचित्तपवत्तिपि तस्सेव, आवेसकानुभावेन पन सामञ्ञता परिवत्तति. तथा हि महानुभावं पुग्गलं ते आविसितुं न सक्कोन्ति, तिकिच्छावुट्ठापने पन छवसरीरं अनुपविसित्वा सतन्तं करोति विज्जानुभावेन. कोरखत्तियादीनं पन छवसरीरस्स उट्ठानं वचीनिच्छारणञ्च केवलं बुद्धानुभावेन. अचिन्तेय्या हि बुद्धानं बुद्धानुभावाति. अभिभवित्वा ठितोति सकललोकं अत्तनो आनुभावेन अभिभवित्वा ठितो. जेट्ठकोति पधानो, तादिसं वा आनुभावसम्पन्नत्ता उत्तमो. पस्सतीति दसो. विसेसवचनिच्छाय अभावतो अनवसेसविसयो दसो-सद्दोति आह ‘‘सब्बं पस्सती’’ति. सब्बजनन्ति लद्धनामं सब्बसत्तकायं. वसे वत्तेति, सेट्ठत्ता निम्मापकत्ता च अत्तनो वसे वत्तेति. लोकस्स ईसनसीलताय इस्सरो. सत्तानं कम्मस्स कारकभावेन कत्ता. थावरजङ्गमविभागं सकलं लोकं निम्मानेतीति निम्माता.

गुणविसेसेन लोके पासंसत्ता सेट्ठो. तादिसो च उक्कट्ठतमो होतीति आह ‘‘उत्तमो’’ति. सत्तानं निम्मानं तथा तथा सजनं विसजनं विय होतीति आह ‘‘त्वं खत्तियो’’तिआदि. झानादीसु अत्तनो चित्ते च चिण्णवसित्ता वसी. भूतानन्ति निब्बत्तानं. भवं अभिजातं अरहन्तीति भब्या, सम्भवेसिनो, तेसं भब्यानं. तेनाह ‘‘अण्डजजलाबुजा सत्ता’’तिआदि.

पथवीआदयो निच्चा धुवा सस्सता. ये तेसं ‘‘अनिच्चा’’तिआदिना गरहका जिगुच्छा सत्ता, ते अयथाभूतवादिताय मतकाले अपायनिट्ठा अहेसुं. ये पन पथवीआदीनं ‘‘निच्चा धुवा’’तिआदिना पसंसका, ते यथाभूतवादिताय ब्रह्मकायूपगा अहेसुन्ति मारो पापिमा अन्वयतो ब्यतिरेकतो च पथवीआदिमुखेन सङ्खारानं परिञ्ञापञ्ञापने आदीनवं विभावेति ततो विवेचेतुकामो. तेनाह ‘‘पथवीगरहका’’तिआदि. एत्थ च मारो पथवीआदिधातुमहाभूतग्गहणेन मनुस्सलोकं, भूतग्गहणेन चातुमहाराजिके, देवग्गहणेन अवसेसकामदेवलोकं, पजापतिग्गहणेन अत्तनो ठानं, ब्रह्मग्गहणेन ब्रह्मकायिके गण्हि. आभस्सरादयो पन अविसयताय एव अनेन अग्गहिताति दट्ठब्बं. तण्हादिट्ठिवसेनाति तण्हाभिनन्दनाय दिट्ठाभिनन्दनाय च वसेन. ‘‘एतं मम, एसो मे अत्ता’’ति अभिनन्दिनो अभिनन्दका, अभिनन्दनसीला वा. ब्रह्मुनो ओवादे ठितानं इद्धानुभावं दस्सेतीति तेसं तत्थ सन्निपतितब्रह्मानं इद्धानुभावं तस्स महाब्रह्मुनो ओवादे ठितत्ता निब्बत्तं कत्वा दस्सेति. यसेनाति आनुभावेन. सिरियाति सोभाय. मं ब्रह्मपरिसं उपनेसीति यादिसा ब्रह्मपरिसा इस्सरियादिसम्पत्तिया, तत्थ मं उय्योजेसि. महाजनस्स मारणतोति महाजनस्स विवट्टूपनिस्सयगुणविनासनेन आनुभावेन मारणतो. अयसन्ति यसपटिपक्खं अकित्तिकम्मानुभावञ्चाति अत्थो.

५०३. कसिणं आयुन्ति वस्ससतं सन्धाय वदति. उपनिस्साय सेतीति उपसयो, उपसयोव ओपसायिको यथा ‘‘वेनयिको’’ति (म. नि. १.२४६; अ. नि. ८.११; पारा. ८) आह ‘‘समीपसयो’’ति. सयग्गहणञ्चेत्थ निदस्सनमत्तन्ति दस्सेतुं ‘‘मं गच्छन्त’’न्तिआदि वुत्तं. अनेकत्थत्ता धातूनं वत्तनत्थो दट्ठब्बो. मम वत्थुस्मिं सयनकोति मय्हं ठाने विसये वत्तनको. बाहित्वाति नीचं कत्वा, अभिभवित्वा वा. जज्झरिकागुम्बतोति एत्थ जज्झरिका नाम पथविं पत्थरित्वा जाता एका गच्छजाति.

इमिनाति ‘‘सचे खो त्वं भिक्खू’’तिआदिवचनेन. एस ब्रह्मा. उपलापेतीति सङ्गण्हाति. अपसादेतीति निग्गण्हाति. सेसपदेहीति वत्थुसायिको यथाकामकरणीयो बाहितेय्योति इमेहि पदेहि. मय्हं आरक्खं गण्हिस्ससीति मम आरक्खको भविस्ससि. लकुण्डकतरन्ति नीचतरं निहीनवुत्तिसरीरं.

फुसितुम्पि समत्थं किञ्चि न पस्सति, पगेव ञाणविभवन्ति अधिप्पायो. निप्फत्तिन्ति निप्फज्जनं, फलन्ति अत्थो. तञ्हि कारणवसेन गन्तब्बतो अधिगन्तब्बतो गतीति वुच्चति. आनुभावन्ति पभावं. सो हि जोतनट्ठेन विरोचनट्ठेन जुतीति वुच्चति. महता आनुभावेन परेसं अभिभवनतो महेसोति अक्खायतीति महेसक्खो. तयिदं अभिभवनं कित्तिसम्पत्तिया परिवारसम्पत्तिया चाति आह ‘‘महायसो महापरिवारो’’ति.

परिहरन्तीति सिनेरुं दक्खिणतो कत्वा परिवत्तन्ति. दिसाति भुम्मत्थे एतं पच्चत्तवचनन्ति आह ‘‘दिसासु विरोचमाना’’ति. अत्तनो जुतिया दिब्बमानाय वा. तेहीति चन्दिमसूरियेहि. तत्तकेन पमाणेनाति यत्तके चन्दिमसूरियेहि ओभासियमानो लोकधातुसङ्खातो एको लोको, तत्तकेन पमाणेन. इदं चक्कवाळं बुद्धानं उप्पत्तिट्ठानभूतं सेट्ठं उत्तमं पधानं, तस्मा येभुय्येन एत्थुपपन्ना देवता अञ्ञेसु चक्कवाळेसु देवता अभिभुय्य वत्तन्ति. तथा हि ब्रह्मा सहम्पति दससहस्सब्रह्मपरिवारो भगवतो सन्तिकं उपगञ्छि. तेनाह ‘‘एत्थ चक्कवाळसहस्से तुय्हं वसो वत्तती’’ति. इदानि ‘‘एत्थ ते वत्तते वसो’’ति वुत्तं वसे वत्तनं सरूपतो दस्सेतुं ‘‘परोपरञ्च जानासी’’तिआदि वुत्तं. तत्थ पठमगाथायं वुत्तं एत्थ-सद्दं आनेत्वा अत्थो वेदितब्बोति दस्सेन्तो ‘‘एत्थ चक्कवाळसहस्से’’ति आह. उच्चनीचेति जातिकुलरूपभोगपरिवारादिवसेन उळारे च अनुळारे च. अयं इद्धो अयं पकतिमनुस्सोति इमिना ‘‘सरूपतो एवस्स सत्तानं परोपरजाननं, न समुदागमतो’’ति दस्सेति. यं पन वक्खति ‘‘सत्तानं आगतिं गतिन्ति, तं कामलोके सत्तानं आदाननिक्खेपजाननमत्तं सन्धाय वुत्तं, न कम्मविपाकजाननं. यदि हि समुदागमतो जानेय्य, अत्तनोपि जानेय्य, न चस्स तं अत्थीति, तथा आह ‘‘इत्थम्भावोति इदं चक्कवाळ’’न्तिआदि. रागयोगतो रागो एतस्स अत्थीति वा रागो, विरज्जनसीलो विरागी, तं रागविरागिनं. सहस्सिब्रह्मा नाम त्वं चूळनिया एव लोकधातुया जाननतो. तयाति निस्सक्के करणवचनं. चतुहत्थायाति अनेकहत्थेन साणिपाकारेन कातब्बपटप्पमाणं दीघतो चतुहत्थाय, वित्थारतो द्विहत्थाय पिलोतिकाय कातुं वायमन्तो विय गोप्फके उदके निमुज्जितुकामो विय च पमाणं अजानन्तो विहञ्ञतीति निग्गण्हाति.

५०४. तं कायन्ति तदेव निकायं. जानितब्बट्ठानं पत्वापीति अनञ्ञसाधारणा मय्हं सीलादयो गुणविसेसा ताव तिट्ठन्तु, ईदिसं लोकियं परित्तकं जानितब्बट्ठानम्पि पत्वा. अयं इमेसं अतिसयेन नीचोति नीचेय्यो, तस्स भावो नीचेय्यन्ति आह ‘‘तया नीचतरभावो पन मय्हं कुतो’’ति.

हेट्ठूपपत्तिकोति उपरूपरितो चवित्वा हेट्ठा लद्धूपपत्तिको. एवं सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘अनुप्पन्ने बुद्धुप्पादे’’ति आह. हेट्ठूपपत्तिकं कत्वाति हेट्ठूपपत्तिकं पत्थनं कत्वा. यथा केनचि बहूसु आनन्तरियेसु कतेसु यं तत्थ गरुतरं बलवं, तदेव पटिसन्धिं देति, इतरानि पन तस्स अनुबलप्पदायकानि होन्ति, न पटिसन्धिदायकानि, एवं चतूसु रूपज्झानेसु भावितेसु यं तत्थ गरुतरं छन्दपणिधिअधिमोक्खादिवसेन साभिसङ्खारञ्च, तदेव च पटिसन्धिं देति, इतरानि पन अलद्धोकासताय तस्स अनुबलप्पदायकानि होन्ति, न पटिसन्धिदायकानि, तन्निब्बत्तितज्झानेनेव आयतिं पुनब्भवाभिनिब्बत्ति होतीति आह ‘‘ततियज्झानं पणीतं भावेत्वा’’ति. तत्थाति सुभकिण्हब्रह्मलोके. पुन तत्थाति आभस्सरब्रह्मलोके. पठमकालेति तस्मिं भवे पठमस्मिं काले. उभयन्ति अतीतं अत्तनो निब्बत्तट्ठानं, तत्थ निब्बत्तिया हेतुभूतं अत्तनो कतकम्मन्ति उभयं. पमुस्सित्वा कालस्स चिरतरभावतो. वीतिनामेति पटिपज्जन्तीति च तदा तस्सा किरियाय पवत्तिक्खणं उपादाय पवत्तमानपयोगो.

अपायेसीति पायेसि. पिपासितेति तसिते. घम्मनीति घम्मकाले. सम्परेतेति घम्मपरिळाहेन पिपासाय अभिभूते. न्ति पानीयदानं. वतसीलवत्तन्ति समादानवसेन वतभूतं चारित्तसीलभावेन समाचिण्णत्ता सीलवत्तं. सुत्तप्पबुद्धोव अनुस्सरामीति सुपित्वा पबुद्धमत्तो विय सुपिनं तव पुब्बनिवुत्थं मम पुब्बेनिवासानुस्सतिञाणेन अनुस्सरामि, सब्बञ्ञुतञ्ञाणेन विय पच्चक्खतो पस्सामीति अत्थो.

करमरेति विलुम्पित्वा आनीते. कम्मसज्जन्ति युद्धसज्जं, आवुधादायिनिन्ति अत्थो.

एणीकूलस्मिन्ति एणीमिगबाहुल्लेन ‘‘एणीकूल’’न्ति सङ्खं गते गङ्गाय तीरप्पदेसे. गय्हक नीयमानन्ति गय्हवसेन करमरभावेन चोरेहि अत्तनो ठानं नीयमानं.

आवाहविवाहवसेन मित्तसन्थवं कत्वा. ‘‘एवं अम्हेसु कीळन्तेसु गङ्गेय्यको नागो कुपितो’’ति मयि सञ्ञम्पि न करोन्तीति. सुसुकारन्ति सुसूति पवत्तं भेरवनागनिस्सासं.

गहीतनावन्ति विहेठेतुकामताय गतिनिवारणवसेन गहितं निग्गहितं नावं. लुद्देनाति कुरूरेन. मनुस्सकप्पाति नावागतानं मनुस्सानं विहेठेतुकामताय.

बद्धचरोति पटिबद्धचरियो. तेनाह ‘‘अन्तेवासिको’’ति. तं निस्सायेवाति रञ्ञा उपट्ठियमानोपि राजानं पहाय तं कप्पं अन्तेवासिं निस्सायेव.

सम्बुद्धिमन्तं वतिनं अमञ्ञीति अयं सम्मदेव बुद्धिमा वतसम्पन्नोति अमञ्ञि सम्भावेसि च.

नानत्तभावेसूति नाना विसुं विसुं अत्तभावेसु.

अद्धाति एकंसेन. ममेतमायुन्ति मय्हं एतं यथावुत्तं तत्थ तत्थ भवे पवत्तं आयुं. न केवलं मम आयुमेव, अथ खो अञ्ञम्पि सब्बञ्ञेय्यं जानासि, न तुय्हं अविदितं नाम अत्थि. तथा हि बुद्धो सम्मासम्बुद्धो तुवं. नो चे कथमयमत्थो ञातो? तथा हि सम्मासम्बुद्धत्ता एव ते अयं जलितो जोतमानो आनुभावो ओभासयं सब्बम्पि ब्रह्मलोकं ओभासेन्तो दिब्बमानो तिट्ठतीति सत्थु असमसमतं पवेदेसि.

पथवत्तेनाति पथवीअत्तेन. तेनाह ‘‘पथवीसभावेना’’ति. एत्थ च यस्मा – ‘‘सब्बसङ्खारसमथोति’’आदिना (महाव. ७; दी. नि. २.६४, ६७; म. नि. १.२८१; सं. नि. १.१७२) साधारणतो, ‘‘यत्थ नेव पथवी’’ति असाधारणतो च पथविया असभावेन निब्बानस्स गहेतब्बता अत्थि, तं निवत्तेत्वा पथविया अनञ्ञसाधारणं सभावं गहेतुं ‘‘पथविया पथवत्तेना’’ति वुत्तं. नापहोसिन्ति न पापुणिं. इध पथविया पापुणनं नाम ‘‘एतं ममा’’तिआदिना गहणन्ति आह ‘‘तण्हादिट्ठिमानग्गाहेहि न गण्हि’’न्ति.

वादितायाति वादसीलताय. सब्बन्ति अक्खरं निद्दिसित्वाति ‘‘सब्बं खो अहं ब्रह्मे’’तिआदिना भगवता वुत्तं सब्ब-सद्दं – ‘‘सचे खो ते मारिस सब्बस्स सब्बत्तेन अननुभूत’’न्ति पच्चनुभासनवसेन निद्दिसित्वा. अक्खरे दोसं गण्हन्तोति भगवता सक्कायसब्बं सन्धाय सब्ब-सद्दे गहिते सब्बसब्बवसेन तदत्थपरिवत्तनेन सब्ब-सद्दवचनीयतासामञ्ञेन च दोसं गण्हन्तो. तेनाह ‘‘सत्था पना’’तिआदि. तत्थ यदि सब्बं अननुभूतं ‘‘नत्थि सब्ब’’न्ति लोके अनवसेसं पुच्छति. सचे सब्बस्स सब्बत्तेन अनवसेससभावेन अननुभूतं अप्पत्तं, तं गगनकुसुमं विय किञ्चि न सिया. अथस्स अननुभूतं अत्थीति अस्स सब्बत्तेन अननुभूतं यदि अत्थि, ‘‘सब्ब’’न्ति इदं वचनं मिच्छा, सब्बं नाम तं न होतीति अधिप्पायो. तेनाह ‘‘मा हेव ते रित्तकमेवा’’तिआदि.

अहं सब्बञ्च वक्खामि, अननुभूतञ्च वक्खामीति अहं ‘‘सब्ब’’न्ति च वक्खामि, ‘‘अननुभूत’’न्ति च वक्खामि, एत्थ को दोसोति अधिप्पायो. कारणं आहरन्तोति सब्बस्स सब्बत्तेन अननुभूतस्स अत्थिभावे कारणं निद्दिसन्तो. विजानितब्बन्ति मग्गफलपच्चवेक्खणञाणेहि विसेसतो सब्बसङ्खतविसिट्ठताय जानितब्बं. अनिदस्सनन्ति इदं निब्बानस्स सनिदस्सनदुके दुतियपदसहिततादस्सनन्ति अधिप्पायेन ‘‘चक्खुविञ्ञाणस्स आपाथं अनुपगमनतो अनिदस्सनं नामा’’ति वुत्तं. सब्बसङ्खतविधुरताय वा नत्थि एतस्स निदस्सनन्ति अनिदस्सनं. नत्थि एतस्स अन्तोति अनन्तं. तेन वुत्तं ‘‘तयिद’’न्तिआदि.

भूतानीति पच्चयसम्भूतानि. असम्भूतन्ति पच्चयेहि असम्भूतं, निब्बानन्ति अत्थो. अपभस्सरभावहेतूनं सब्बसो अभावा सब्बतो पभाति सब्बतोपभं. तेनाह ‘‘निब्बानतो ही’’तिआदि. तथा हि वुत्तं – ‘‘तमो तत्थ न विज्जती’’ति. (नेत्ति. १०४) पभूतमेवाति पकट्ठभावेन उक्कट्ठभावेन विज्जमानमेव. अरूपीभावेन अदेसिकत्ता सब्बतो पभवति विज्जतीति सब्बतोपभं. तेनाह ‘‘पुरत्थिमदिसादीसू’’तिआदि. पविसन्ति एत्थाति पविसं, तदेव स-कारस्स भ-कारं, वि-कारस्स च लोपं कत्वा वुत्तं ‘‘पभ’’न्ति. तेनाह ‘‘तित्थस्स नाम’’न्ति. वादं पतिट्ठपेसीति एवं मया सब्बञ्च वुत्तं, अननुभूतञ्च वुत्तं, तत्थ यं तया अधिप्पायं अजानन्तेन सहसा अप्पटिसङ्खाय दोसग्गहणं, तं मिच्छाति ब्रह्मानं निग्गण्हन्तो भगवा अत्तनो वादं पतिट्ठपेसि.

गहितगहितन्ति ‘‘इदं निच्च’’न्तिआदिना गहितगहितं गाहं. तत्थ तत्थ दोसदस्सनमुखेन निग्गण्हन्तेन सत्थारा विस्सज्जापितो किञ्चि गहेतब्बं अत्तनो पटिसरणं अदिस्वा पराजयं पटिच्छादेतुं लळितकं कातुकामो वादं पहाय इद्धिया पाटिहारियलीळं दस्सेतुकामो. यदि सक्कोसि मय्हं अन्तरधायितुं, न पन सक्खिस्ससीति अधिप्पायो. मूलपटिसन्धिं गन्तुकामोति अत्तनो पाकतिकेन अत्तभावेन ठातुकामो. सो हि पटिसन्धिकाले निब्बत्तसदिसताय मूलपटिसन्धीति वुत्तो. अञ्ञेसन्ति हेट्ठा अञ्ञकायिकानं ब्रह्मूनं. न अदासि अभिसङ्खतकायेनेवायं तिट्ठतु, न पाकतिकरूपेनाति चित्तं उप्पादेसि. तेन सो अभिसङ्खतकायं अपनेतुं अविसहन्तो अत्तभावपटिच्छादकं अन्धकारं निम्मिनितुं आरभि. सत्था तं तमं विद्धंसेति. तेन वुत्तं ‘‘मूलपटिसन्धिं वा’’तिआदि.

भवेवाहन्ति भवे एव अहं. अयञ्च एव-सद्दो अट्ठानपयुत्तोति दस्सेन्तो आह ‘‘अहं भवे भयं दिस्वायेवा’’ति, सब्बस्मिं भवे जातिआदिभयं ञाणचक्खुना याथावतो दिस्वा. सत्तभवन्ति सत्तसङ्खातं भवं. कम्मभवपच्चये हि उपपत्तिभवे सत्तसमञ्ञा. विभवन्ति विमुत्तिं. परियेसमानम्पि उपायस्स अनधिगतत्ता भवेयेव दिस्वा. भवञ्च विभवेसिनं विभवं निब्बुतिं एसमानानं सत्तानं भवं, भवेसु उप्पत्तिञ्च दिस्वाति एवं वा एत्थ अत्थो दट्ठब्बो. न अभिवदिन्ति ‘‘अहो वत सुख’’न्ति एवं अभिवदापनाकाराभावतो न अभिनिविसिं, लक्खणवचनमेतं. गाहत्थो एव वा अभिवाद-सद्दोति आह ‘‘नाभिवदि’’न्ति, ‘‘न गवेसि’’न्ति. भवग्गहणेनेत्थ दुक्खसच्चं, नन्दीगहणेन समुदयसच्चं, विभवग्गहणेन निरोधसच्चं, नन्दिञ्च न उपादियिन्ति इमिना मग्गसच्चं पकासितन्ति आह ‘‘इति चत्तारि सच्चानि पकासेन्तो’’ति. तदिदं चतुन्नं अरियसच्चानं गाथाय विभावनदस्सनं. सत्था पन तेसं ब्रह्मूनं अज्झासयानुरूपं सच्चानि वित्थारतो पकासेन्तो विपस्सनं पापेत्वा अरहत्तेन देसनाय कूटं गण्हि. ते च ब्रह्मानो केचि सोतापत्तिफले, केचि सकदागामिफले, केचि अनागामिफले, केचि अरहत्ते च पतिट्ठहिंसु. तेन वुत्तं ‘‘सच्चानि पकासेन्तो सत्था धम्मं देसेसी’’तिआदि. अच्छरियजाताति सञ्जातच्छरिया. समूलं भवन्ति तण्हाविज्जाहि समूलं भवं.

५०५. मम वसं अतिवत्तितानीति सब्बसो कामधातुसमतिक्कमनपटिपदाय मय्हं विसयं अतिक्कमितानि. कथं पनायं तेसं अरियभूमिसमोक्कमनं जानातीति? नयग्गाहतो – ‘‘समणो गोतमो धम्मं देसेन्तो संसारे आदीनवं, निब्बाने च आनिसंसं पकासेन्तो वेनेय्यजनं निब्बानं दिट्ठमेव करोति, तस्स देसना अवञ्झा अमोघा इन्देन विस्सट्ठवजिरसदिसा, तस्स च आणाय ठिता संसारे न दिस्सन्तेवा’’ति नयग्गाहेन अनुमानेन जानाति. सचे त्वं एवं अनुबुद्धोति यथा त्वं परेसं सच्चाभिसम्बोधं वदति, एवं त्वं अत्तनो अनुरूपतो सयम्भुञाणेन बुद्धो धम्मं पटिविज्झित्वा ठितो. तं धम्मं मा उपनयसीति तया पटिविद्धधम्मं मा सावकपटिवेधं पापेसि. इदन्ति इदं अनन्तरं वुत्तं ब्रह्मलोके पतिट्ठानंयेव सन्धाय मारो वदति, ते दस्सेन्तो ‘‘अनुप्पन्ने ही’’तिआदिमाह. अपायपतिट्ठानं पन आजीवकनिगण्ठादिपब्बज्जं उपगते तित्थकरे, ये केचि वा पब्बजित्वा मिच्छापटिपन्ने जने सन्धाय वदति. अनुप्पन्नेति असञ्जाते, अप्पत्तेति अत्थो. अनुल्लपनतायाति यथा मारो उपरि किञ्चि उत्तरं लपितुं न सक्कोति, एवं तथा उत्तरभासनेन. निमन्तनवचनेनाति विञ्ञापनवचनेन. ब्रह्मं सेट्ठं निमन्तनं, ब्रह्मुनो वा निमन्तनं एत्थ अत्थीति ब्रह्मनिमन्तनिकं, सुत्तं. यं पनेत्थ अत्थतो अविभत्तं, तं सुविञ्ञेय्यमेव.

ब्रह्मनिमन्तनिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

१०. मारतज्जनीयसुत्तवण्णना

५०६. कोट्ठमनुपविट्ठोति आसयो वच्चगुत्तट्ठानताय कोट्ठं, तस्स अब्भन्तरञ्हेत्थ कोट्ठं. अनुरूपो हुत्वा पविट्ठो अनुपविट्ठो. सुखुमञ्हि तदनुच्छविकं अत्तभावं मापेत्वा अयं तत्थ पविट्ठो. गरुगरो वियाति गरुकगरुको विय. उ-कारस्स हि ओ-कारं कत्वा अयं निद्देसो, अतिविय गरुको मञ्ञेति अत्थो. गरुगरु विय इच्चेव वा पाठो. मासभत्तं मासो उत्तरपदलोपेन, मासभत्तेन आचितं पूरितं मासाचितं मञ्ञे. तेनाह ‘‘मासभत्तं भुत्तस्स कुच्छि विया’’ति. उत्तरपदलोपेन विना अत्थं दस्सेतुं ‘‘मासपूरितपसिब्बको विया’’ति वुत्तं. तिन्तमासो वियाति तिन्तमासो पसिब्बको विय. किं नु खो एतं मम कुच्छियं पुब्बं भारिकत्तं, किं नु खो कथं नु खो जातन्ति अधिप्पायो? उपायेनाति पथेन ञायेन. ब्यतिरेकतो पनस्स अनुपायं दस्सेतुं ‘‘सचे पना’’तिआदि वुत्तं. अत्तानमेव वा सन्धाय ‘‘मा तथागतं विहेसेसी’’ति आह. यथा हि अरियसङ्घो ‘‘तथागतं देवमनुस्सपूजितं, सङ्घं नमस्साम सुवत्थि होतू’’तिआदीसु (खु. पा. ६.१८; सु. नि. २४१) तथागतोति वुच्चति, एवं तप्परियापन्ना अरियपुग्गला, यथा च पुरिमका दुतियअग्गसावका कप्पानं सतसहस्साधिकं एकं असङ्ख्येय्यं पारमियो पूरेत्वा आगता, अयम्पि महाथेरो तथा आगतोति तथागतोति. पतिअग्गळेव अट्ठासीति अग्गळस्स बहिभागे अट्ठासि.

५०७. रुक्खदेवता नाम चातुमहाराजिकेसु निहीनो कायो, तस्मा नेसं मनुस्सगन्धो परिचितत्ता नातिजेगुच्छोति आह ‘‘आकासट्ठदेवतान’’न्ति. आबाधं करोतीति दुक्खं जनेति. नागरिकोति सुकुमारो. परिचोक्खोति सब्बसो सुचिरूपो. ञातिकोटिन्ति ञातिभागं. अनादिमति हि संसारे ञातिभागरहितो नाम सत्तो कस्सचिपि नत्थीति अधिप्पायो. इदन्ति ‘‘सो मे त्वं भागिनेय्यो होसी’’ति इदं वचनं. पवेणिवसेनाति तदा मय्हं भागिनेय्यो हुत्वा इदानि मारट्ठाने ठितोति इमिस्सा पवेणिया वसेन वुत्तं. अञ्ञस्स वा वेसमं धुरो विधुरो. तेनाह ‘‘अञ्ञेहि सद्धिं असदिसो’’ति. अप्पदुक्खेनाति सुखेनेव. पन्थानं अवन्ति गच्छन्तीति पथाविनो. एत्तकेनाति एत्तावता चितकसन्निसयेन. उदकलेणन्ति उदकनिस्सन्दनलेणं. समापत्तितोति निरोधसमापत्तितो. समापत्तिफलन्ति निरोधसमापत्तिफलं.

५०८. दसहि अक्कोसवत्थूहीति दसहिपि अक्कोसवत्थूहि, ततो किञ्चि अहापेन्ता. परिभासथाति गरहथ. घट्टेथाति अनूनाहि कथाहि इमेसु ओविज्झथ. दुक्खापेथाति चित्ते दुक्खं जनेथ. एतेसन्ति तेसं भिक्खूनं तुम्हाकं अक्कोसनादीहि भिक्खूनं किलेसुप्पत्तिया. तेनेत्थ दूसी मारो ओतारं लभति नामाति अधिप्पायो. उपट्ठातब्बं इभं अरहन्तीति इब्भा, हत्थिभण्डका, हीनजीविकताय हेते इब्भा वियाति इब्भा, ते पन सदुतियकवसेन ‘‘गहपतिका’’ति वुत्ता. कण्हाति कण्हाभिजातिका. पादतो जातत्ता पादानं अपच्चा. आलसियजाताति कसिवणिज्जादिकम्मस्स अकरणेन सञ्जातालसिया. गूथनिद्धमनपनाळीति वच्चकूपतो गूथस्स निक्खमपदेसो.

मनुस्सानं अकुसलं न भवेय्य तेसं तादिसाय अभिसन्धिया अभावतो. आवेसकस्स आनुभावेन आविट्ठस्स चित्तसन्तति विपरिवत्ततीति वुत्तोवायमत्थो. विसभागवत्थुन्ति भिक्खूनं सन्तिके इत्थिरूपं, भिक्खुनीनं सन्तिके पुरिसरूपन्ति ईदिसं, अञ्ञं वा पब्बजितानं असारुप्पं विसभागवत्थुं. विप्पटिसारारम्मणन्ति पस्सन्तानं विप्पटिसारस्स पच्चयं. लेपयट्ठिन्ति लेपलित्तं वाकुरयट्ठिं.

५१०. सोमनस्सवसेनाति गेहस्सितसोमनस्सवसेन. अञ्ञथत्तन्ति उप्पिलावितत्तं. पुरिमनयेनेवाति ‘‘सचे मारो मनुस्सानं सरीरे अधिमुच्चित्वा’’तिआदिना पुब्बे वुत्तनयेन. यदि मारोव तथा करेय्य, मनुस्सानं कुसलं न भवेय्य, मारस्सेव भवेय्य, सरीरे पन अनधिमुच्चित्वा तादिसं पसादनीयं पसादवत्थुं दस्सेसि. तेनाह ‘‘यथा ही’’तिआदि.

५११. असुभसञ्ञापरिचितेनाति सकलं कायं असुभन्ति पवत्ताय सञ्ञाय सहगतज्झानं असुभसञ्ञा, तेन परिचितेन परिभावितेन. चेतसा चित्तेन. बहुलन्ति अभिण्हं. विहरतोति विहरन्तस्स, असुभसमापत्तिबहुलस्साति अत्थो. पतिलीयतीति सङ्कुचति तत्थ पटिकूलताय सण्ठितत्ता. पतिकुटतीति अपसक्कति. पतिवत्ततीति निवत्तति. ततो एव न सम्पसारियति. रसतण्हायाति मधुरादिरसविसयाय तण्हाय.

सब्बलोके अनभिरतिसञ्ञाति तीसुपि भवेसु अरुच्चनवसेन पवत्ता विपस्सनाभावना. निब्बिदानुपस्सना हेसा. लोकचित्रेसूति हत्थिअस्सरथपासादकूटागारादिभेदेसु चेव आरामरामणेय्यकादिभेदेसु च लोके चित्तविचित्तेसु. रागसन्तानि वूपसन्तरागानि. दोसमोहसन्तानीति एत्थापि एसेव नयो. इमेसं एवं कम्मट्ठानग्गहणं सब्बेसं सप्पायभावतो.

५१२. सक्खरं गहेत्वाति सक्खरासीसेन तत्तकं भिन्नपासाणमुट्ठिन्ति आह ‘‘अन्तोमुट्ठियं तिट्ठनपमाणं पासाण’’न्ति. मुट्ठिपरियापन्नन्ति अत्थो. अयञ्हि पासाणस्स हेट्ठिमकोटि. हत्थिनागोति महाहत्थी. महन्तपरियायो नाग-सद्दोति केचि. अहिनागादितो वा विसेसनत्थं हत्थिनागोति वुत्तं. सकलसरीरेनेव निवत्तित्वा अपलोकेसीति वुत्तमत्थं विवरितुं ‘‘यथा ही’’तिआदि वुत्तं. न वायन्ति एत्थ वा-सद्दो अवधारणत्थोति आह ‘‘नेव पमाणं अञ्ञासी’’ति. सहापलोकनायाति च वचनतोति इमिना वचनेन इमं वचनमत्तं गहेत्वाति अधिप्पायो. उळारेति उळारगुणे. भगवन्तञ्हि ठपेत्वा नत्थि तदा सदेवके लोके तादिसो गुणविसेसयुत्तोति.

विसुं विसुं पच्चत्तवेदनियो अयसूलेन सद्धिं भूतानि छ फस्सायतनानि एतस्साति छ फस्सायतनं, दुक्खं. तं एत्थ अत्थीति छ फस्सायतनिको, निरयो. तेनाह ‘‘छसु फस्सा…पे… पच्चयो’’ति. समाहनतीति समाहतो, अनेकसतभेदो सङ्कुसमाहतो एत्थ अत्थीति सङ्कुसमाहतो, निरयो. विसेसपच्चयताय वेदनाय ठितोति वेदनियो, कारणाकारकेन विना पच्चत्तं सयमेव वेदनियोति पच्चत्तवेदनियो. अयसूलेन सद्धिं अयसूलन्ति पादपदेसतो पट्ठाय निरन्तरं अभिहननवसेन आगतेन पण्णासाय जनेहि गहितेन अयसूलेन सह सीसपदेसतो पट्ठाय आगतं. अयसूलभावसामञ्ञेन चेतं एकवचनं, सतमत्तानि पतितानि सूलानि. इमिना ते ठानेन चिन्तेत्वाति निस्सितवोहारेन निस्सयं वदति. एवं वुत्तन्ति ‘‘तदा जानेय्यासि वस्ससहस्सं मे निरये पच्चमानस्सा’’ति एवं वुत्तं. वुट्ठानिमन्ति वुट्ठाने भवं, अन्तिमन्ति अत्थो. तेनाह ‘‘विपाकवुट्ठानवेदन’’न्ति, विपाकस्स परियोसानं वेदनन्ति अत्थो. दुक्खतरा होति पदीपस्स विज्झायनक्खणे महन्तभावो विय.

५१३. घट्टयित्वा पोथेत्वा. पाटियेक्कवेदनाजनकाति पच्चेकं महादुक्खसमुप्पादका. अयतो अपगतो निरयो, सो देवदूतसुत्तेन (म. नि. ३.२६१) दीपेतब्बो. अत्थवण्णना पनस्स परतो सयमेव आगमिस्सति. इमं पन अतीतवत्थुं आहरित्वा अत्तनो ञाणानुभावदीपनमुखेन मारं सन्तज्जेन्तो महाथेरो ‘‘यो एतमभिजानाती’’ति गाथमाह. तस्सत्थो – यो महाभिञ्ञो एतं कम्मं कम्मफलञ्च हत्थतले ठपितं आमलकं विय अभिमुखं कत्वा पच्चक्खतो जानाति. सब्बसो भिन्नकिलेसताय भिक्खु सम्मासम्बुद्धस्स अग्गसावको, तादिसं उळारगुणं आसज्ज घट्टयित्वा एकन्तकाळकेहि पापधम्मेहि समन्नागतत्ता कण्ह मार आयतिं महादुक्खं विन्दिस्ससि.

उदकं वत्थुं कत्वाति तत्थ निब्बत्तनकसत्तानं साधारणकम्मफलेन महासमुद्दउदकमेव अधिट्ठानं कत्वा. तथा हि तानि कप्पट्ठितिकानि होन्ति. तेनाह ‘‘कप्पट्ठायिनो’’ति. तेसन्ति विमानानं. एतं यथावुत्तविमानवत्थुं तासं अच्छरानं सम्पत्तिं, तस्स च कारणं अत्तपच्चक्खं कत्वा जानाति. पादङ्गुट्ठेन कम्पयीति पुब्बारामे विसाखाय महाउपासिकाय कारितं सहस्सगब्भपटिमण्डितमहापासादं अत्तनो पादङ्गुट्ठेन कम्पेसि. तेनाह ‘‘इदं पासादकम्पनसुत्तेन दीपेतब्ब’’न्ति. इदन्ति ‘‘यो वेजयन्त’’न्ति इमिस्सा गाथाय अत्थजातं चूळतण्हासङ्खयविमुत्तिसुत्तेनेव (म. नि. १.३९३) दीपेतब्बं.

तस्स ब्रह्मगणस्स तथाचिन्तनसमनन्तरमेव तस्मिं ब्रह्मलोके सुधम्मं ब्रह्मसभं गन्त्वा. तेपीति महामोग्गल्लानादयो. पच्चेकं दिसासूति महामोग्गल्लानत्थेरो पुरत्थिमदिसायं, महाकस्सपत्थेरो दक्खिणदिसायं, महाकप्पिनत्थेरो पच्छिमदिसायं, अनुरुद्धत्थेरो उत्तरदिसायन्ति एवं चत्तारो थेरा ब्रह्मपरिसमत्थके मज्झे निसिन्नस्स भगवतो समन्ततो चतुद्दिसा निसीदिंसु. गाथा वुत्ताति ‘‘यो ब्रह्मं परिपुच्छती’’ति गाथा वुत्ता. अञ्ञतरब्रह्मसुत्तेनाति – ‘‘तेन खो पन समयेन अञ्ञतरस्स ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्नं होती’’तिआदिना (सं. नि. १.१७६) महावग्गे आगतेन अञ्ञतरब्रह्मसुत्तेन.

झानविमोक्खेन फुसीति झानविमोक्खसन्निस्सयेन अभिञ्ञाञाणेन फस्सयि. वनन्ति जम्बुदीपं अफस्सयीति सम्बन्धो. जम्बुदीपो हि वनबहुलताय इध ‘‘वन’’न्ति वुत्तो. तेनाह ‘‘जम्बुसण्डस्स इस्सरो’’ति. पुब्बविदेहानं दीपन्ति पुब्बविदेहवासीनं दीपं, पुब्बविदेहदीपन्ति अत्थो. भूमिसया नरा नाम अपरगोयानका उत्तरकुरुका च. यस्मा ते गेहपरिग्गहाभावतो भूमियंयेव सयन्ति, न पासादादीसु. पटिलभीति उप्पादेसि. एतं आसं मा अकासीति एसा यथा पुब्बे दूसिमारस्स, एवं तुय्हं आसा दीघरत्तं अनत्थावहा, तस्मा एदिसं आसं मा अकासीति मारस्स ओवादं अदासि. सेसं सब्बत्थ सुविञ्ञेय्यमेव.

पपञ्चसूदनिया मज्झिमनिकायट्ठकथाय

मारतज्जनीयसुत्तवण्णनाय लीनत्थप्पकासना समत्ता.

निट्ठिता च चूळयमकवग्गवण्णना.

मूलपण्णासटीका समत्ता.

दुतियो भागो निट्ठितो.